________________
३२५
श्रीअनुयोगद्वारसूत्रम् [सू०५३४-५३५]
कोहे माणे माया लोभे रागे य मोहणिजे य । पगडी भावे जीवे जीवत्थिय सव्वदव्वा य ॥१२४।। सेतं भावसमोयारे । सेतं समोयारे । सेतं उवक्कमे । ॥ उपक्रम इति प्रथमं द्वारमतिक्रान्तम् ।।
(सू० ५३४) से किं तं निक्खेवे ? निक्खेवे तिविहे पण्णत्ते । तंजहा-ओहनिप्फण्णे य नामनिप्फण्णे य सुत्तालावगनिप्फण्णे य ।
(सू० ५३५) से किं तं ओहनिप्फण्णे ? ओहनिप्फण्णे चउव्विहे पण्णत्ते । तंजहाअज्झयणे अज्झीणे आए झवणा ।। महामतिनाऽप्युक्तम्- मूढनयं तु न संपइ नयप्पमाणेऽवयारो से (विशेषावश्यकभा० ९४९) त्ति । गुणप्रमाणमपि जीवाऽजीवगुणभेदतो द्विधा प्रोक्तम्, तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञान-दर्शन-चारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतार:, तत्रापि प्रत्यक्षा-ऽनुमानोपमाना-ऽऽगमभेदाच्चतुर्विधे प्रकृताध्ययनस्याऽऽप्तोपदेशरूपतया आगमेऽन्तर्भावः, तस्मिन्नपि लौकिक-लोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके आत्मागमाऽनन्तरागम-परम्परागमभेदतस्त्रिविधेऽप्यस्य समवतार: । सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्तपरिमाणसङ्ख्यायामस्यावतार: । वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्चयत: स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वे स्वसमयत्वात्, सम्यग्दृष्टिर्हि परसमयमपि विषयविभागेन योजयति न त्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीत: स्वसमय एव, अत एव परमार्थत: सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः । तदुक्तम्
परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेणं । तो सव्वऽज्झयणाई ससमयवत्तव्वनिययाइं ॥१।। (विशेषावश्यकभा० ९५३)
एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्त: समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् ।
अथ निक्षेपद्वारं निरूपयितुमाह- से किं तं निक्खेवे इत्यादि। निक्षेप: पूर्वोक्तशब्दार्थ: त्रिविध: प्रज्ञप्त:, तद्यथा- ओघनिष्पन्न इत्यादि। तत्रौघ: सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्न: ओघनिष्पन्न:, नाम श्रुतस्यैव सामायिकादिकं विशेषाभिधानं तेन निष्पन्नो नामनिष्पन्न:, सूत्रालापका:- करेमि भंते ! सामायियमित्यादिकास्तैर्निष्पन्न: सूत्रालापकनिष्पन्न: । एतदेव भेदत्रयं विवरीषुराह- से किं तं ओहनिप्फण्णे इत्यादि, ओघनिष्पन्नश्चतुर्विध: प्रज्ञप्त:, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org