________________
श्री अनुयोगद्वारसूत्रम् [सू०६०६ ]
प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः ।
न पुनः स्वमनीषिकया तथापि यत् किञ्चिदिह वितथम् ||१|| सूत्रमतिलच्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोष-गुणयोस्त्यागोपादानविधिकुशलैः ॥२॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? | सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ||३|| कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ||४|| श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥५॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति || ६ || युग्मम् । एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुङ्गत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः ।
सम्यग्-ज्ञान-विशुद्धसंयम-तपः-स्वाचारचर्यानिधिः शान्तः श्रीजयसिंहसूरिरभवन्निः सङ्गचूडामणिः ||७| रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ||८|| श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः ।
वय : संक्ति: कस्तद्गुणकीर्तने विबुध: ? || ९ ||
तथाहि
आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्यदुज्ज्वलवच: पीयूषपानोद्यतैर्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः || १० || कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभो - स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः ।
Jain Education International
For Private & Personal Use Only
३५३
www.jainelibrary.org