________________
३५४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं यस्याऽऽशास्वनिवारितं विचरति श्वेतांशुगौरं यश: ॥११।। यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ।।१२।। विस्फूर्जत्कलिकालदुस्तरतम:सन्तानलुप्तस्थिति: सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्ण: समुद्द्योतितो मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥१३।। तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ।।१४।। ॥ अनुयोगद्वारवृत्तिः समाप्ता । अत्र प्रत्यक्षरगणनया ग्रन्थानम् ५७०० । शिवमस्तु श्रीचतुर्विधसंघस्य । १३७. रवगतार्था' इति पाठोऽत्र समुचितो भाति । तदेवं समाप्तिमगाद् मलधारिश्रीहेमचन्द्रसूरिसन्दृब्धवृत्तिसमेतानुयोगद्वारसूत्रविषमपदटिप्पणी। जिनाज्ञाविपरीतं यदुक्तं मयाऽल्पबुद्धिना । तत्सद्भिर्गुणदोषज्ञैः शोध्यं मयि कृपालुभिः ।।१।। तपागच्छे श्रिया युक्तेऽभवन् श्री प्रेमसूरयः । निर्मलब्रह्मचर्यालङ कृताः कर्मविशारदाः ।।२।। पट्टे तेषां रराजे श्रीभुवनभानुसूरयः । न्यायविशारदाः पञ्चाचारलीनास्तपोधनाः ।।३।। अध्यात्मरसिकास्तेषां प्रभुभक्तौ कृतश्रमाः । शिष्या धर्मजिदाख्या मे पितृव्याः समतारताः ।।४।। तच्छिष्या लघुभ्रातारः प्रमोदभावनिर्झराः । जयशेखरसूरीशाः सूरिमन्त्रसुसाधकाः ।।५।। द्विकरसखनेत्रेऽब्दे तच्छिष्यसूरिणा कृता । अभयशेखरेणेयं टिप्पणी नन्दताच्चिरम् ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org