________________
श्रीअनुयोगद्वारसूत्रम् [सू०२५५] खओवसमनिप्पन्ने ? उदए त्ति मणूसे खड़यं सम्मत्तं खओवसमियाइं इंदियाई, एस णं से णामे उदइए खइए खओवसमनिप्पन्ने ४ । कतरे से णामे उदइए खइए पारिणामियनिप्पन्ने ? उदये त्ति मणूसे खइयं सम्मत्तं पारिणामिए जीवे, एस णं से नामे उदइए खइए पारिणामियनिप्पन्ने ५। कतरे से णामे उदइए खओवसमिए पारिणामियनिप्पन्ने ? उदये त्ति मणूसे खयोवसमियाई इंदियाई पारिणामिए जीवे, एस णं से णामे उदइए खओवसमिए पारिणामियनिप्पन्ने ६। कतरे से णामे उवसमिए खइए खओक्समनिप्पन्ने ? उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाइं, एस णं से णामे उवसमिए खइए खओवसमनिप्पन्ने ७ । कतरे चेवे त्यादि। एषामौदयिकादीनां पञ्चानां भावानां द्विक-त्रिक-चतुष्क-पञ्चकसंयोगैर्ये षड्विंशतिर्भङ्गा: भवन्ति, ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते । एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गा: सम्भवन्ति, शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुन: क्वचित् सम्भवन्ति, अत: प्ररूपणामात्रतयैव ते अवगन्तव्याः, एतत् सर्वं पुरस्ताद् व्यक्तीकरिष्यते, कियन्तः पुनस्ते द्व्यादिसंयोगा: प्रत्येकं भवन्ति ? इत्याह - तत्थ णं दस दुगसंजोगा इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगा:, दशैव च त्रिकसंयोगा: पञ्च चतु:संयोगा:, एकस्तु पञ्चकसंयोग: संपद्यत इति सर्वेऽपि षड्विंशतिः। ____ तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राह - तत्थ णं जे ते दस दुगसंयोगा ते णं इमे इत्यादि ।
नामाधिकारादित्थमाह- अस्ति तावत् सन्निपातिकभावान्तर्वति नाम, विभक्तिलोपादौदयिकौपशमिकलक्षणभावद्वयनिष्पन्नमित्येको भङ्गः, एवमन्येनाप्युपरितनभावत्रयेण सह संयोगादौदयि-केन चत्वारो द्विकयोगा लब्धाः, ततस्तत्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ द्वौ, ततस्तं विमुच्य क्षायोपशमिकस्य पारिणामिकमीलने लब्ध एक इति सर्वेऽपि दश।
एवं सामान्यतो द्विकसंयोगभङ्गकेषु दर्शितेषु विशेषतस्तत्स्वरूपमजानन् विनेयः पृच्छति - कतरे से णामे उदइए ? इत्यादि । अत्रोत्तरम् - उदए त्ति मणूसे इत्यादि, औदयिके भावे मनुष्यत्वं मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदम्, तिर्यगादिगतिजातिशरीरनामादिकर्मणामप्यत्र सम्भवात् । उपशान्तास्तु कषाया औपशमिके भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीयनोकषायमोहनीययोरप्यौपशमिकत्वसम्भवात् । एतन्निगमयति- एस णं से णामे उदइए उवसमनिप्फण्णे त्ति, णमिति वाक्यालङ्कारे, एतत्तन्नाम यदुद्दिष्टं प्रागौदयिकौपशमिकभावद्वयनिष्पन्नमिति प्रथमद्विकयोगभङ्गकव्याख्यानम् । अयं च द्विकयोगविवक्षामात्रत एव संपद्यते, न पुनरीदृशो भङ्ग:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org