________________
१७०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २५५) कतरे से णामे उदइए उवसमिए खयनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खइयं सम्मत्तं, एस णं से णामे उदइए उवसमिए खयनिप्पन्ने १ । कतरे से णामे उदइए उवसमिए खयोवसमियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खयोवसमियाई इंदियाई, एस णं से णामे उदइए उवसमिए खओवसमनिप्पन्ने २ । कयरे से णामे उदइए उवसमिए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया पारिणामिए जीवे, एस णं से णामे उदइए उवसमिए पारिणामियनिप्पन्ने ३ । कयरे से णामे उदइए खइए नान्तरवक्तव्यत्वादस्यार्थस्येति । अभ्राणि सामान्येन प्रतीतान्येव । अभ्रवृक्षास्तु तान्येव वृक्षाकारपरिणतानि । सन्ध्या काल-नीलाद्यभ्रपरिणतिरूपा प्रतीतैव । गन्धर्वनगराण्यपि सुरसा-प्रासादोपशोभितनगराकारतया तथाविधनभ:परिणतपुद्गलराशिरूपाणि प्रतीतान्येव । उल्कापाता अपि व्योमसम्मूर्च्छितज्वलनपतनरूपा: प्रसिद्धा एव । दिग्दाहास्तु अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपा: प्रतिपत्तव्या: । गर्जितविद्युन्निर्घाता: प्रतीता: । यूपकास्तु संझाच्छेयावरणो य जूयओ सुक्के दिण तिन्नी(आवश्यकनि० १३३५)ति गाथादलप्रतिपादितस्वरूपा आवश्यकादवसेया: । यक्षादीप्तकानि नभोदृश्यमानाग्निपिशाचा: । धूमिका रूक्षा प्रविरला धूमाभा प्रतिपत्तव्या । महिका तु स्निग्धा घना, स्निग्धत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेण लक्ष्यते। रजउद्घातो रजस्वला दिश: । चन्द्र-सूर्योपरागा राहुग्रहणानि, बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावाद् मन्तव्यमिति चूर्णिकारः । चन्द्र-सूर्यपरिवेषा: चन्द्रादित्ययो: परितो वलयाकारपुद्गलपरिणतिरूपा: सुप्रतीता एव । प्रतिचन्द्रः उत्पातादिसूचको द्वितीयश्चन्द्रः । एवं प्रतिसूर्योऽपि । इन्द्रधनु: प्रसिद्धमेव । उदकमत्स्यास्तु इन्द्रधनु:खण्डान्येव । कपिहसितानि अकस्मान्नभसि ज्वलद्भीमशब्दरूपाणि। अमोघा: सूर्यबिम्बादध: कदाचिदुपलभ्यमानशकटोर्द्धिसंस्थितश्यामादिरेखा: । वर्षाणि भरतादीनि । वर्षधरास्तु हिमवदादय: । पाताला: पातालकलशा: । शेषास्तु ग्रामादय: प्रसिद्धा एव । अत्राह- ननु वर्षधरादय: शाश्वतत्वात् न कदाचित् तद्भावं मुञ्चन्ति, तत् कथं सादिपारिणामिकभाववर्तित्वं तेषाम्, ? नैतदेवम्, तदाकारमात्रतयैव हि तेऽवतिष्ठमाना: शाश्वता उच्यन्ते, पुद्गलास्त्वसङ्ख्येयकालादूर्ध्वं न तेषु त एवावतिष्ठन्ते, किन्त्वपरापरे तद्भावेन परिणमन्ति तावत्कालादूर्ध्वं पुद्गलानामेकपरिणामेनावस्थिते: प्रागेव निषिद्धत्वादिति सादिपारिणामिकता न विरुध्यते । अनादिपारिणामिके तु धर्मास्तिकायादयः, तेषां तद्रूपतया अनादिकालात् परिणतेः । वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भावनीयानि । सेतमित्यादि निगमनद्वयम् ।
उक्त: पारिणामिकः, अथ सान्निपातिकं निर्दिशति- से किं तमित्यादि । सन्निपात: एषामेवौदयिकादिभावानां व्यादिमेलापकः, स एव तेन वा निर्वृत्त: सान्निपातिकः । तथा चाह- एएसिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org