________________
१६९
श्रीअनुयोगद्वारसूत्रम् [सू०२५४]
(सू० २५४) तत्थ णं जे ते दस तिगसंजोगा ते णं इमे-अत्थि णामे उदइए उवसमिए खयनिप्पन्ने १, अत्थि णामे उदइए उवसमिए खओवसमनिप्पन्ने २, अत्थि णामे उदइए उवसमिए पारिणामियनिप्पन्ने ३, अत्थि णामे उदइए खइए खओवसमनिप्पन्ने ४, अत्थि णामे उदयिए खइए पारिणामियनिप्पन्ने ५, अत्थि णामे उदइए खयोवसमिए पारिणामियनिप्पन्ने ६, अत्थि णामे उवसमिए खइए खओवसमनिप्पन्ने ७, अत्थि णामे उवसमिए खइए पारिणामियनिप्पन्ने ८, अत्थि णामे उवसमिए खओवसमिए पारिणामियनिप्पन्ने ९, अत्थि णामे खइए खओवसमिए पारिणामियनिप्पन्ने १० । स्वावरणक्षयोपशमेनैव निष्पद्यते । एवं श्रुताज्ञानलब्धिरपि वाच्या। भङ्गः प्रकारो भेद इत्यर्थः, स चेह प्रक्रमादवधेरेव गृह्यते, विरूप: कुत्सितो भङ्गो विभङ्गः, स एवार्थपरिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानम्, मिथ्यादृष्टिदेवादेरवधिर्विभङ्गज्ञानमुच्यते इत्यर्थः । इह च विशब्देनैव कुत्सितार्थप्रतीतेन नञो निर्देश:, तस्य लब्धि: योग्यता, साऽपि स्वावरणक्षयोपशमेनैव प्रादुरस्ति। एवं मिथ्यात्वादिकर्मण: क्षयोपशमसाध्या: शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भवं भावनीया: । नवरं बाला अविरता:, पण्डिता: साधवः, बालपण्डितास्तु देशविरताः, तेषां यथास्वं वीर्यलब्धिर्वीर्यान्तरायकर्मक्षयोपशमाद्भावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि ९५भावेन्द्रियाणि गृह्यन्ते, तेषां च लब्धि: योग्यता मतिश्रुतज्ञानचक्षुरचक्षुर्दर्शनावरणक्षयोपशमजत्वात् क्षायोपशमिकीति भावनीयम्। आचारधरत्वादिपर्यायाणां च श्रुतज्ञानप्रभवत्वात्, तस्य च तदावरणकर्मक्षयोपशमसाध्यत्वादाचारधरादिशब्दा इह पठ्यन्ते इति प्रतिपत्तव्यमिति । सेत्तमित्यादि निगमनद्वयम् ।
अथ पारिणामिकं भावमाश्रित्याह - से किं तमित्यादि । सर्वथा अपरित्यक्तपूर्वावस्थस्य यद्रूपान्तरेण भवनं परिणमनं स परिणाम: । तदुक्तम् -
परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः ।।१।। ( ) इति ।
स एव तेन वा निर्वृत्त: पारिणामिकः । सोऽपि द्विविध: सादिरनादिश्च। तत्र सादिपारिणामिको जुण्णसुरेत्यादि जीर्णसुरादीनाम्, जीर्णत्वपरिणामस्य सादित्वात् सादिपारिणामिकता । इह चोभयावस्थयोरप्यनुगतस्य सुराद्रव्यस्य नव्यतानिवृत्तौ जीर्णतारूपेण भवनं परिणाम इत्येवं सुखप्रतिपत्त्यर्थं जीर्णाना सुरादीनां ग्रहणम्, अन्यथा नवेष्वपि तेषु सादिपारिणामिकता अस्त्येव, कारणद्रव्यस्यैव नूतनसुरादिरूपेण परिणते:, अन्यथा कार्यानुत्पत्तिप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते, स्था
___९५. भावेन्द्रियाणीति। निर्वृत्युपकरणरूपाणां द्रव्येन्द्रियाणां पर्याप्त्यादिनामकर्मोदयजन्यत्वात्तद्व्यवच्छेदार्थमत्र भावेन्द्रियाणीत्युक्तम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org