________________
१७२ आ.श्रीमलधारिहमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं से णामे उवसमिए खइए पारिणामियनिप्पन्ने ? उवसंता कसाया खइयं सम्मत्तं पारिणामिए जीवे, एस णं से णामे उवसमिए खइए पारिणामियनिप्पन्ने ८ । कतरे से णामे उवसमिए खओवसमिए पारिणामियनिप्पन्ने ? उवसंता कसाया खओवसमियाइं इंदियाइं पारिणामिए जीवे, एस णं से णामे उवसमिए खओवसमिए पारिणामियनिप्पन्ने ९ । कतरे से णामे खइए खओवसमिए पारिणामियनिप्पन्ने ? खइयं सम्मत्तं खओवसमियाई इदियाइं पारिणामिए जीवे, एस णं से णामे खइए खयोवसमिए पारिणामियनिप्पन्ने १० । क्वचिज्जीवे संभवति । तथाहि- यस्यौदयिकी मनुष्यगतिरौपशमिका: कषाया भवन्ति तस्य क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वं कस्यचित् क्षायिकं सम्यक्त्वमित्येतदपि संभवति, तत् कथमस्य केवलस्य सम्भव: ? एवमेतद्व्याख्यानुसारेण शेषा अपि व्याख्येया:, केवलं क्षायिक-पारिणामिकभावद्वयनिष्पन्नं नवमभङ्गं विहायापरेऽसम्भविनो द्रष्टव्या: । नवमस्तु सिद्धस्य संभवति, तथाहिक्षायिके सम्यक्त्व-ज्ञाने पारिणामिकं तु जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः। तस्मादयमेक: सिद्धस्य संभवति, शेषास्तु नव द्विकयोगा: प्ररूपणामात्रमिति स्थितम्। अन्येषां हि संसारिजीवानामौदयिकी गति: क्षायोपशमिकानीन्द्रियाणि पारिणामिकं तु जीवत्वमित्येतद् भावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भव: ? इति भावः ।।
त्रिकयोगान्निर्दिदिक्षुराह- तत्थ णं जे ते दस तिगसंजोगा ते ण इमे इत्यादि । एतेऽप्यौदयिकोपमिशमिक-क्षायिक-क्षायोपशामक-पारिणामिकभावपञ्चक भूम्यादावालिख्य तत आधभावद्वयस्योपरितनभावत्रयेण सह चारणाया लब्धास्त्रय: इत्यादिक्रमेण दशापि भावनीया: । एतानेव स्वरूपतो विवरीषुराह - कयरे से णामे उदइए उवसमिए इत्यादि । व्याख्यापि पूर्वानुसारतोऽत्रापि कर्तव्या। नवरमत्रौदयिक-क्षायिक-पारिणामिकभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिन: संभवति । तथाहि - औदयिकी मनुष्यगतिः, क्षायिकाणि ज्ञान-दर्शन- चारित्राणि. पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य भवन्ति। औपशमिकस्त्विह नास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वात्. मोहनीयस्य च केलिन्यसम्भवात्, तथा १६क्षायोपशमिकोऽपि अत्रापास्य एव, क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवात, अतीन्द्रिया: केवलिन: ( ) इत्यादिवचनात, तस्मात् पारिशेष्याद्यथोक्तभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिन: सम्भवति । षष्ठस्त्वौदयिक-क्षायोपशमिक-पारिणामिकभावनिष्पन्नो नारकादिगतिचतुष्टयेऽपि संभवति । तथाहि- औदयिकी अन्यतरा गतिः, क्षायोपश
९६. क्षायोपशमिकोऽप्यत्रापास्य एवेति । क्षायोपशमिकभावस्य घातिकर्माश्रयत्वेनोक्तत्वात्, तस्य च केवलिन्यसम्भवादित्यपि हेतुरत्र ज्ञेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org