________________
श्री अनुयोगद्वारसूत्रम् [सू०२१७,२१८]
१५१
(१८) अविसेसिए अणुत्तरोववाइए, विसेसिए विजयए वेजयंतए जयंतए अपराजियए सव्वसिद्ध । एतेसिं पि सव्वेसिं अविसेसिय-विसेसिय-पज्जत्तय- अपज्जत्तयभेदा भाणियव्वा ।
(१९) अविसेसिए अजीवदव्वे, विसेसिए धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए अद्धासमए य । अविसेसिए पोग्गलत्थिकाए, विसेसिए परमाणुपोग्गले दुपएसिए जाव अनंतपएसिए । से तं दुना ।
(सू० २१७) से किं तं तिनामे ? तिनामे तिविहे पण्णत्ते । तंजहा- दव्वणामे १, गुणणामे पज्जवणामे य ३ ।
( सू० २१८) से किं तं दव्वणामे ? दव्वणामे छव्विहे पण्णत्ते । तंजहा- धम्मत्थिकाए १, अधम्मत्थिकाए २, आगासत्थिकाए ३, जीवत्थिकाए ४, पोग्गलत्थिकाए ५, अद्धासमए ६ अ । से तं दव्वणामे ।
२,
परिसर्पन्तीत्युर:परिसर्पाः सर्पादय एव, भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधा - नकुलादय एव । शेषं सुखोन्नेयम् । तदेवमुक्ता: सामान्य- विशेषनामभ्यां जीवद्रव्यस्य सम्भविनो भेदाः । साम्प्रतं प्रागुद्दिष्टमजीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह - अविसेसिए अजीवदव्वे इत्यादि गतार्थम् । तदेवं यदस्ति वस्तु तत् सर्वं सामान्यनाम्ना विशेषनाम्ना ८३वा अभिधीयेतैवमन्यत्रापि द्विनामत्वं भावनीयम् । तंदुनामेत्ति निगमनम् ।
से किं तं तिनामेत्यादि । यत एवेदं त्रिनाम तत एव त्रिविधं त्रिप्रकारम्, द्रव्यनामादिभेदात् । तत्र द्रवति गच्छति तस्तान् पर्यायान् प्राप्नोतीति द्रव्यम्, तस्य नाम । धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राग् व्याख्याता एव । गुण्यन्ते संख्यायन्ते इति गुणास्तेषां नाम गुणनाम, वण्णनामे इत्यादि, तत्र वर्ण्यते अलङ्क्रियते वस्त्वनेनेति वर्ण: कृष्णादिः पञ्चधा प्रतीत एव, कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते न पुनः सर्वथा एतद्विलक्षणा इति नेहोदाहृताः । गन्ध्यते आघ्रायत इति गन्धस्तस्य नाम गन्धनाम, स च द्विविध:- सुरभिर्दुरभिश्च तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः । अत्राप्युभयसंयोगजः पृथग् नोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात् । रस्यते आस्वाद्य इति रसस्तस्य नाम रसनाम, स च तिक्त-कटु- कषाया -ऽऽम्ल-मधुरभेदात् पञ्चविधः । तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः, तथा च भिषक्शास्त्रम् -
श्लेष्माणमरुचिं पित्तं तृषं कुष्ठं विषं ज्वरम् ।
हन्यात् तिक्तो रसो बुद्धेः कर्ता मात्रोपसेवितः ॥ | १ || (
८३. वाऽभिधीयेत इति । अत्र 'सामान्य- विशेषात्मकत्वात्सर्वेषां वस्तूनामिति हेतुः ।
Jain Education International
For Private & Personal Use Only
>
www.jainelibrary.org