________________
१७४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचिटिप्पणीसमेत (सू० २५८) तत्थ णं जे से एक्के पंचकसंजोगे से णं इमे-अत्थि नामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने १।
(सू० २५९) कतरे से नामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने ? उदए त्ति मणूसे उवसंता कसाया खइयं सम्मत्तं खओवसमियाइं इंदियाई पारिणामिए जीवे, एस णं से णामे उदइए उवसमिए खइए खओवसमिए पारिणामियनिप्पन्ने । सेतं सन्निवाइए। सेतं छण्णामे।
(सू० २६०) (१) से किं तं सत्तनामे ? सत्तनामे सत्त सरा पण्णत्ता । तंजहासजे १ ,रिसभे २, गंधारे ३, मज्झिमे ४, पंचमे सरे ५ ।
धेवए ६, चेव णेसाए ७, सरा सत्त वियाहिया ॥२५।। त्वनन्तरोक्ततृतीयभङ्गकवदेव कर्तव्या, नवरमौपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वं वाच्यम्, अस्ति च क्षायिकसम्यक्त्वं सर्वास्वपि गतिषु, नारकतिर्यग्देवगतिषु पूर्वप्रतिपन्नस्यैव मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्यमानकस्य च तस्यान्यत्र प्रतिपादितत्वादिति । तस्मादत्राप्येतौ द्वौ भङ्गको सम्भविनौ, शेषास्तु त्रय: संवृतिमात्रम्, तद्रूपेण वस्तुन्यसम्भवादिति ।
साम्प्रतं पञ्चकसंयोगमेकं प्ररूपयन्नाह - तत्थ णं जे से एक्के पंचकसंजोगे इत्यादि । अयं च सविवरण: सुगम एव, केवलं क्षायिक: सम्यग्दृष्टिः सन् य उपशमश्रेणी प्रतिपद्यते तस्यायं भङ्गक: संभवति, नान्यस्य, समुदितभावपञ्चकस्यास्य तत्रैव भावादिति परमार्थः । तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोग-चतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकसंयोगभङ्गक इत्येते षड्भङ्गका अत्र सम्भविन: प्रतिपादिताः, शेषास्तु विंशति: संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम् । एतेषु च षट्सु भङ्गकेषु मध्ये एकस्त्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतम्, अतो गतिचतुष्टयभेदात् ते किल द्वादश विवक्ष्यन्ते, ये तु शेषा द्विकयोगत्रिकयोग-पञ्चकयोगलक्षणास्त्रयो भङ्गा: सिद्ध-केवल्युपशान्तमोहानां यथाक्रमं निर्णीता:, ते यथोक्तैकैकस्थानसम्भवित्वात् त्रय एवेत्यनया विवक्षयाऽयं सान्निपातिको भाव: स्थानान्तरे पञ्चदशविध उक्तो द्रष्टव्यः । यदाह- अविरुद्धसन्निवाइयभेया एमेते पण्णरस ( ) ति । सेत्तं सण्णिवाइए त्ति निगमनम् । उक्त: सान्निपातिको भावः, तद्भणने चोक्ता: षडपि भावा:, ते च तद्वाचकैर्नामभिर्विना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्युक्तानि । एतैश्च षभिरपि धर्मास्तिकायादेः समस्तस्यापि वस्तुन: सङ्ग्रहात् षट्प्रकारं सत् सर्वस्यापि वस्तुनो नाम षड्नामेत्यनया दिशा सर्वमिद भावनीयम् । सेत्तं छनामे त्ति निगमनम् ।
उक्तं षड्नाम, अथ सप्तनाम निरूपयितुमाह- से किं तं सत्तनामे इत्यादि। स्वृ शब्दोपतापयो:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org