________________
३३२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५९२) से किं तं अप्पसत्था ? अप्पसत्था तिविहा पण्णत्ता। तंजहानाणज्झवणा दंसणज्झवणा चरित्तज्झवणा । सेतं अप्पसत्था। सेतं नोआगमतो भावज्झवणा। सेतं भावज्झवणा । सेतं झवणा। सेतं ओहनिप्फण्णे ।
(सू० ५९३) से किं तं नामनिप्फण्णे ? नामनिप्फण्णे सामाइए । से समासओ चउव्विहे पण्णत्ते । तंजहा-णामसामाइए ठवणासामाइए दव्वसामाइए भावसामाइए ।
(सू० ५९४) णाम-ठवणाओ पुव्वभणियाओ। (सू० ५९५) दव्वसामाइए वि तहेव, जाव सेतं भवियसरीरदव्वसामाइए ।
(सू० ५९६) से किं तं जाणयसरीर-भवियसरीरवइरित्ते जाणयसरीर-भवियसरीरवइरित्ते दव्वसामाइए? दव्वसामाइए पत्तय-पोत्थयलिहियं । सेतं जाणयसरीर-भवियसरीरवइरित्ते दव्वसामाइए । सेतं णोआगमतो दव्वसामाइए । सेतं दव्वसामाइए ।
(सू० ५९७) से किं तं भावसामाइए ? भावसामाइए दुविहे पण्णत्ते। तं०-आगमतो य नोआगमतो य ।
(सू० ५९८) से किं तं आगमतो भावसामाइए ? आगमतो भावसामाइएभावसामाइयपयत्थाहिकारजाणए उवउत्ते । सेतं आगमतो भावसामाइए। स्वापतेयं द्रव्यं तस्याऽऽय:, समाभरिया-ऽऽउज्जालंकियाणं ति आ(समा)भरितानां सुवर्णसङ्कलिकादिभूषितानाम् आतोद्यैझल्लरीप्रमुखैरलङ्कृतानाम् ।
अथ क्षपणानिक्षेपं विवक्षुराह- से किं तं झवणा इत्यादि । क्षपणा अपचयो निर्जरा इति पर्याया: । शेषं सूत्रसिद्धमेव, यावदोघनिष्पन्नो निक्षेप: समाप्तः । सर्वत्र चेह भावे विचार्येऽध्ययनमेव योजनीयम् । प्रकाशने क्रोधक्षपणादीनां प्रशस्ततया ज्ञानक्षपणादीनां चाप्रशस्ततयोपन्यासः, स च सुगम एव । उक्तमुद्रितप्रते तु क्रोधक्षपणादीनामप्रशस्ततया ज्ञानक्षपणादीनां च प्रशस्ततयोपन्यासः। तत्र 'जं अज्जियं चरित्तं देसुणाए वि पुव्वकोडिए । तं पि कसाइयमित्तो हारेइं णरो मुहूत्तेण ।। (बृहत्कल्पभाष्य-२७१५) इत्यादि वचनात् क्रोधेन संयमगुणादीनां यः क्षयो भवति तस्याप्रशस्ततया क्रोधेन गुणादीनां क्षपणा क्रोधक्षपणेत्येवं मध्यमपदलोपिसमासः कार्यः । तथा 'जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेण ।। (बृ.क.भाष्य ११७० ।। ) इत्यादिवचनात् ज्ञानेन प्रचुराणां कर्मणां यः क्षयो भवति तस्य प्रशस्ततया ज्ञानेन कर्मादीनां क्षपणा ज्ञानक्षपणेत्येवं मध्यमपदलोपिसमासः कर्तव्यः । ततश्चोक्तमुद्रितप्रतगतस्य सूत्रस्य सङ्गतिरपि स्यादेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org