________________
३०४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० ४९०) अभिमुहनामगोत्ते णं भंते ! अभिमुहनामगोत्ते त्ति कालतो केवचिरं होति ? जहन्नेणं एकं समयं, उक्कोसेणं अंतोमुहत्तं ।
(सू० ४९१) इयाणिं को णओ कं संखं इच्छति ?-तत्थ णेगम-संगह-ववहारा तिविहं संखं इच्छंति, तंजहा-एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं च । उजुसुओ दुविहं संखं इच्छति, तंजहा-बद्धाउयं च अभिमुहनामगोत्तं च । तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति। सेतं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा । सेतं नोआगमओ दव्वसंखा। सेतं दव्वसंखा। शङ्खमिच्छतीति विचार्यते- तत्र नैगम-सङ्ग्रह-व्यवहारा: स्थूलदृष्टित्वात् त्रिविधमपि शङ्खमिच्छन्ति, दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशप्रवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि । ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद् द्विविधमेवेच्छति । १२५शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेवैकं चरममेवेच्छन्ति । सेत्तमित्यादि निगमनम्। ग्राह्या एवेति, अन्यथा मौलिकस्य द्रव्यशङ्खस्यासम्भवात् सूत्रकृतोक्तस्य तद्व्यतिरिक्तद्रव्यशङ्खभेदस्य शून्यत्वापत्तेः । तस्माद् वृत्तिकृता 'कारणे कार्योपचारं कृत्वेत्थं व्यपदेशप्रवृत्ति रिति यदुक्तं तेनैकभविकबद्धायुष्कयोरेवोपचरितं द्रव्यशङ्खत्वं प्राप्यते, न त्वभिमुखनामगोत्रस्य, तस्य मुख्यद्रव्यशङ्खत्वादिति ध्येयम् । तथा बद्धायुष्कत्वमभिमुखनामगोत्रत्वस्य कारणं भवत्येव, अबद्धायुष्करय शङ्खप्रायोग्यनामगोत्रकर्मणोर्विपाकत उदयाभिमुख्यस्यासम्भवात् । अत ऋजुसूत्रो मुख्यद्रव्यशङखस्याभिमुखनामगोत्रस्य कार्यस्य कारणे बद्धायुष्कत्व उपचारं कृत्वा बद्धायुष्कं द्रव्यशङ्खत्वेन स्वीकरोति, परन्त्वेकभविकं न स्वीकरोति, तस्य तत्कारणत्वाभावेनोपचारासम्भवात् । नैगम-सङ्ग्रह-व्यवहारास्तु दूरवर्तिनोऽपि कारणत्वं रवीकृत्यैकभविकमपि द्रव्यशङ्खत्वेनाभ्युपगच्छन्ति ।
१२५. शब्दादयस्त्वित्यादि । यद्वा शब्दादीनामयमप्यभिप्रायः शक्यते ग्रहीतुम्-यतः शब्दादय उपचारं न स्वीकुर्वन्ति, अतोऽभिमुखनामगोत्रलक्षणं मुख्यद्रव्यशङ्खमेवेच्छन्ति, न बद्धायुष्काख्यमुपचरितद्रव्यशङ्खमिति । ननु ‘भावं चिय सद्दणया' (वि. आ.भा.२८४७) इति वचनात् 'शब्दनया भावनिक्षेपमेवेच्छन्तीति ज्ञायते, तदत्र कथं 'तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति त्ति कथितम् ? अभिमुखनामगोत्रस्य द्रव्यशङ्खत्वादिति चेत् ? सत्यं, तथापि 'सिद्धस्य गतिश्चिन्तनीये'तिन्यायात् सूत्रसिद्धस्यास्य सङ्गतिश्चिन्तनीयैव । सा चैवं प्रतिभातियथा सङ्ग्रहनयस्य सामान्यग्राहित्वेऽपि क्वचिदशुद्धसङ्ग्रहो कञ्चिद्विशेषमप्यभ्युपगच्छति, एवं शुद्धानां शब्दादीनां भावनिक्षेपमात्रग्राहित्वेऽप्यशुद्धानां तेषां क्वचिद् द्रव्यनिक्षेपग्राहित्वमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org