________________
श्रीअनुयोगद्वारसूत्रम् [सू०१२१-१२४]
य अवत्तव्वए य ६, अहवा तिपएसिया य परमाणुपोग्गला य दुपएसिया य आणुपुवी य अणाणुपुवीय अवत्तव्वए य ७ । सेतं संगहस्स भंगोवंदसणया ।
(सू० १२१) से किं तं समोयारे ? समोयारे - संगहस्स आणुपुव्विदव्वाइं कहिं समोयरंति ? किं आणुपुव्वदव्वेहिं समोयरंति ? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? संगहस्स आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिं समोयरंति, नो अणाणुपुव्वीदव्वेर्हि समोयरंति, नो अवत्तव्वयदव्वेहिं समोयरंति । एवं दोण्णि वि सट्ठाणे सट्ठाणे समोयरंति । सेतं समोयारे ।
( सू० १२२ ) से किं तं अणुगमे ? अणुगमे अट्ठविहे पन्नत्ते । तंजहा संतपयपरूवणया १, दव्वपमाणं २, च, खेत्त ३, फुसणा ४, य । कालो ५ य, अंतरं ६, भाग ७, भाव ८, अप्पाबहुं नत्थि ॥९॥
९७
-
( सू० १२३ ) संगहस्स आणुपुव्वीदव्वाइं किं अत्थि णत्थि ? नियमा अत्थि । एवं दोfor a ।
Jain Education International
( सू० १२४) संगहस्स आणुपुव्वीदव्वाइं किं संखेज्जाइं, असंखेज्जाई, अणंताई ? भङ्गोपदर्शनतां बिभणिषुराह - एयाए णमित्यादि । अत्रापि सप्त भङ्गास्त एवार्थकथनपुरस्सरा भावनीयाः । भावार्थस्तु सर्व: पूर्ववत् । सेत्तमित्यादि निगमनम् ।
I
अथ समवताराभिधित्सया प्राह- से किं तं समोयारे इत्यादि, इदं च द्वारं पूर्ववद् निखिलं भावनीयम् ।
अथानुगमं व्याचिख्यासुराह से किं तं अणुगमे त्ति । अत्रोत्तरम् - अणुगमे अट्ठविहे पण्णत्ते त्ति, पूर्वं नवविध उक्तोऽत्र त्वष्टविध एव, अल्पबहुत्वद्वाराभावात्, तदेवाष्टविधत्वं दर्शयतितद्यथेत्युपदर्शनार्थः, संतपयगाहा, इयं पूर्वं व्याख्यातैव, नवरम् अप्पाबहुं नत्थि त्ति संग्रहस्य सामान्यवादित्वात् सामान्यस्य च सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र न संभवतीत्यर्थः ।
तत्र सत्पदप्ररूपणताभिधानार्थमाह- संगहस्सेत्यादि, ननु संग्रहविचारे प्रक्रान्ते आनुपूर्वीद्रव्याणि सन्तीत्यनुपपन्नम्, आनुपूर्वीसामान्यस्यैवैकस्य तेनास्तित्वाभ्युपगमात्, सत्यम्, मुख्यरूपतया सामान्यमेवास्ति, गुणभूतं च व्यवहारमात्रनिबन्धनं द्रव्यबाहुल्यमप्यसौ वदतीत्यदोषः । शेषभावना पूर्ववदिति । द्रव्यप्रमाणद्वारे यदुक्तं नियमा एगो रासि त्ति, अत्राह - ननु यदि सङ्ख्येयादिस्वरूपाणि तानि न भवन्ति तर्ह्येको राशिरित्यपि नोपपद्यते, द्रव्यबाहुल्ये सति तस्योपपद्यमानत्वात्, व्रीह्यादिराशिषु तथैव दर्शनात्, सत्यम्, किन्त्वेको राशिरिति वदतः कोऽभिप्रायः ? बहूनामपि तेषामानुपूर्वीत्वसामान्येनैकेन क्रोडीकृतत्वादेकत्वमेव; किञ्च, यथा विशिष्टैकपरिणामपरिणते स्कन्धे तदारम्भकावयवानां
For Private & Personal Use Only
www.jainelibrary.org