________________
३२८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५५२) से किं तं जाणयसरीरदव्वज्झीणे ? जाणयसरीरदव्वज्झीणेअज्झीणपयत्थाहिकारजाणयस्स जं सरीरयं ववगय-चुत-चइत-चत्तदेहं जहा दव्वज्झयणे तहा भाणियव्वं, जाव सेतं जाणयसरीरदव्वज्झीणे।
(सू० ५५३) से किं तं भवियसरीरदव्वज्झीणे ? भवियसरीरदव्वज्झीणेजे जीवे जोणीजम्मणनिक्खंते जहा दव्वज्झयणे, जाव सेतं भवियसरीरदव्वज्झीणे ।
(सू० ५५४) से किंतं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झीणे? जाणयसरीरभवियसरीरवइरित्ते दव्वज्झीणे सव्वागाससेढी। सेतं जाणयसरीर-भवियसरीरवइरित्ते दव्वज्झीणे । सेतं नोआगमओ दव्वज्झीणे। सेतं दव्वज्झीणे ।
(सू० ५५५) से किं तं भावज्झीणे ? भावज्झीणे दुविहे पण्णत्ते। तंजहा-आगमतो य नोआगमतो य ।
(सू० ५५६) से किं तं आगमतो भावज्झीणे? आगमतो भावज्झीणे जाणए उवउत्ते। सेतं आगमतो भावज्झीणे ।
(सू० ५५७) से किं तं नोआगमतो भावज्झीणे ? नोआगमतो भावज्झीणेजह दीवा दीवसतं पड़प्पए, दिप्पए य सो दीवो । दीवसमा आयरिया दिप्पंति, परं च दीवेंति ॥१२६।।
उक्तमध्ययनम् । अथाक्षीणनिक्षेपं विवक्षुराह- से किं तं अज्झीणे इत्यादि। अत्रापि तथैव विचारो यावत् सव्वागाससेढि त्ति, सर्वाकाशं लोका-ऽलोकनभ:स्वरूपम्, तस्य सम्बन्धिनी श्रेणि: प्रदेशापहारतोऽपह्रियमाणाऽपि न कदाचित् क्षीयते, अतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता चास्याकाशद्रव्यान्तर्गतत्वादिति । से किं तं आगमतो भावज्झीणे ?, भावज्झीणे जाणए उवउत्ते। अत्र वृद्धा व्याचक्षते- यस्माच्चतुर्दशपूर्वविद: आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यायास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि पह्रियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्यः सामायिकादिश्रुतप्रदानेऽपि स्वात्मन्यनाशादिति । एतदेवाह- जह दीवा गाहा, व्याख्या- यथा दीपाद् अवधिभूताद् दीपशतं प्रदीप्यते प्रवर्तते, स च मूलभूतो दीप: तथापि दीप्यते तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति । प्रकृते सम्बन्धयन्नाह- एवं दीपसमा आचार्या:, दीप्यन्ते स्वयं विवक्षितश्रुतयुक्तत्वेन तथैवावतिष्ठन्ते, परं च शिष्यवर्गं दीपयन्ति श्रुतसम्पदं लम्भयन्ति । अत्र च नोआगमतो भावाक्षीणता श्रुतदायकाचार्योपयोगस्याऽऽगमत्वाद् वाक्काययोगयोश्चानागमत्वाद् नोशब्दस्य च मिश्रवचनत्वाद् भावनीयेति वृद्धा व्याचक्षते इति गाथार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org