________________
श्री अनुयोगद्वारसूत्रम् [सू०६०१,६०२]
३३५
सुत्तालावयनिप्फण्णे निक्खेवे इच्छावेइ, से य पत्तलक्खणे विण णिक्खिप्पड़, कम्हा ? लाघवत्थं । इतो अत्थि ततिये अणुओगद्दारे अणुगमे त्ति, तहिं णं णिक्खित्ते इहं णिक्खित्ते भवति, इहं वा णिक्खित्ते तहिं णिक्खित्ते भवति, तम्हा इहं ण णिक्खिप्पड़, तहिं व णिक्खिप्पिस । सेतं निक्खेवे ।
( सू० ६०१ ) से किं तं अणुगमे ? अणुगमे दुविहे पण्णत्ते । तंजहा - सुत्ताणुगमे य निज्जुत्तिअणुगमे य ।
(सू० ६०२) से किं तं निज्जुत्तिअणुगमे ? निज्जुत्तिअणुगमे तिविहे पण्णत्ते । तंजहानिक्खेवनिज्जुत्तिअणुगमे उवघातनिज्जुत्तिअणुगमे सुत्तप्फासियनिज्जुत्तिअणुगमे । स्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः । इयाणिमित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेपः एषयति अवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि प्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते न सूत्रालापकनिक्षेप - द्वारेणाभिधीयते, कस्मात् ? इत्याह- लाघवार्थम्, तदेव लाघवं दर्शयति- अस्ति इतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, हवा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यत इति । आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते ?, नैवम्, यतः सूत्रानुगमे एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः, ततो युक्तमुक्तं तस्मादिह न निक्षिप्यते इत्यादि। पुनरप्याह- यद्येवं किमर्थं सूत्रालापकनिक्षेपस्यात्रोपन्यास: ?, उच्यते, निक्षेपसाम्यमात्रादित्यलं त्रिस्तरेण। निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् ।
अथ तृतीयमनुयोगद्वारं निरूपयितुमाह से किं तं अणुगमे इत्यादि । अनुगम: पूर्वोक्तशब्दार्थ:, स द्वेधा सूत्रानुगमः सूत्रव्याख्यानमित्यर्थः, निर्युक्त्यनुगमश्च, नितरां युक्ता: सूत्रेण सह लोलीभावेन सम्बद्धा १२९ निर्युक्ता अर्थास्तेषां युक्ति: स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य लोपान्निर्युक्तिः, नाम-स्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमस्तस्या वा अनुगमो व्याख्यानं निर्युक्त्यनुगमः, स च त्रिविधः । निक्षेपो नाम स्थापनादिभेदभिन्नः, तस्य तद्विषया वा निर्युक्तिः पूर्वोक्तशब्दार्था निक्षेपनिर्युक्तिः, तद्रूपस्तस्या वाऽनुगमो निक्षेपनिर्युक्त्यनुगमः, तथा उपोद्धनं व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा निर्युक्तिरुपोद्घातनिर्युक्तिः,
I
१२९. निर्युक्ता अर्थास्तेषां युक्तिरिति । इदं 'निर्युक्ति' शब्दस्य व्युत्पत्तिनिमित्तं ज्ञेयम् । अग्रे 'निर्युक्तिः = नामस्थपानादिप्रकारैः सूत्रविभजनेत्यर्थः' इत्यादि यद्वक्ष्यति तत् प्रवृत्तिनिमित्तं ज्ञेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org