________________
श्री अनुयोगद्वारसूत्रम् [सू०३५१]
२२१
( सू० ३५१ ) ( १ ) पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोअमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं ।
(२) जलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! एवं चेव । सम्मुच्छिमजलयरपंचेंदियाणं एवं चेव । अपज्जत्तगसम्मुच्छिमजलयरपंचेंदियाणं पुच्छा, जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असं० । पज्जत्तयसम्मुच्छि मजलयरपंचेंदियाणं पुच्छा, जहन्त्रेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । गब्भवक्कंतियजलयरपंचेंदियाणं पुच्छा, गो० जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । अपज्जत्तयाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं अंगु० असं० । पज्जत्तयाणं पुच्छा, गोयमा ! जहन्नेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं ।
(३) चउप्पयथलयराणं पुच्छा, गो० ! जह० अंगुलस्स असं०, उक्कोसेणं छ गाउयाई । सम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं, अपज्जत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु ० असं०, उक्को० अंगु० असं० । पज्जत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जहन्त्रेणं अंगु० संखे०, उक्को० गाउअपुहत्तं । गब्भवक्कंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, गोयमा ! जह० अंगु० असं०, उक्को० छ गाउयाई । अपज्जत्तयगब्भवक्वंतियचउप्पयथलयरपंचेंदियाणं
अत्र पञ्चेन्द्रियतिर्यक्पदेऽवगाहनां निरूपयितुमाह- पंचेंदियतिरिक्खजोणियाणमित्यादि । इहौघिकपञ्चेन्द्रियतिरश्चां प्रथममवगाहना चिन्त्यते - सा चोत्कृष्ट योजनसहस्रम् १०५ जघन्यं तु पदं सर्वत्राङ्गुलासङ्ख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रियतिर्यञ्चो जलचर-स्थलचर-खचरभेदात् त्रिधा भवन्ति, तत्रौघिकजलचराणां प्रथममवगाहना निरूप्यते - साऽप्युत्कृष्टा योजनसहस्रम् १, ततस्तेषामेव सम्मूर्च्छजानां तावन्मानैव २, ततस्तेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टाऽप्यङ्गुलासङ्ख्येयभागमानैव ३, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामुत्कृष्टा योजनसहस्रम् ४, इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षवती योजनसहस्रम् ५, अत एतेषामेवा - पर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यगुलासङ्ख्येयभागः ६, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् ७, इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहनास्थानानि । अत्र च सर्वत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवसेयम् ।
१०५. जघन्यं तु पदं सर्वत्राङ्गुलासङ्ख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयमित्यादि । ननु सूत्रकारैः पृथ्वीकायिकादीनां पर्याप्तानामपि जघन्यतोऽङ्गुलस्यासङ्ख्येयभाग एवावगाहना प्रोक्ता । परन्तु द्वीन्द्रियादिविकलेन्द्रियाणां पञ्चेन्द्रियाणां च पर्याप्तविशेषितानां सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org