________________
२२० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० ३५०) (१) एवं बेइंदियाईणं पुच्छा भाणियव्वा-बेइंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं बारस जोयणाइं; अपजत्तयाणं जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं; पजत्तयाणं जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं बारस जोयणाई।
(२) तेइंदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं तिण्णि गाउयाइं; अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेण वि अंगुलस्स असंखेजइभागं; पजत्तयाणं जहन्नेणं अंगुलस्स संखेजतिभागं, उक्कोसेणं तिण्णि गाउयाई।
(३) चउरिदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं चत्तारि गाउयाई; अपजत्तयाणं जहन्नेणं उक्कोसेण वि अंगुलस्स असंखेजइभार्ग; पज्जत्तयाणं पुच्छा, जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं चत्तारि गाउयाई । ६, तथा पर्याप्तत्वविशेषितानाम् ७, तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानामगुलासङ्खयेयभाग एवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात् जघन्योत्कृष्टताविचारो न विरुध्यते । एवमप्तेजो-वायु-वनस्पतिष्वगुलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौघिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽमुलासङ्खयेयभागरूपा, उत्कृष्टतस्तु समुद्र-गोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहस्रमाना अवगाहना द्रष्टव्या, अत्राह- ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारका-ऽसुरकुमारादिष्वप्यपर्याप्त-पर्याप्तभेदत: कस्मादसौ न प्रोक्ता ? सत्यम्, किन्तु ते लब्धित: सर्वेऽपि पर्याप्ता एव भवन्ति, १०४अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तच्चिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण । ___ अथ द्वीन्द्रियादिपदे अवगाहनामाह- तत्रौघिकद्वीन्द्रियाणाम् अपर्याप्तानां पर्याप्तानां चेति स्थानत्रये अवगाहना चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात् सूक्ष्मत्वाभावतो न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादिशङ्खादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामवगन्तव्या, एवं चतुरिन्द्रियेष्वपि, नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्वीपवर्तिनां भ्रमरादीनाम् ।
१०४. अतोऽपर्याप्तत्वेत्यादि । ननु पूर्वं (सू. २१६) द्विनामनिरूपणे 'अविसेसिए रयणप्पभापुढविणेरइए, विसेसिए पज्जत्तए य अपज्जत्तए य' त्तिसूत्रेऽपर्याप्तत्वलक्षणं प्रकारान्तरमुक्तमेवेति चेत् ? न, तत्र करणमपेक्ष्य तदुक्तं, अत्र तु लब्धिमपेक्ष्य चिन्त्यमानत्वात्तन्निषेध इति न कोऽपि विरोधः । ननु तत्र यदि करणापेक्षया पर्याप्तापर्याप्तत्वे चिन्तिते तत्रापि तदपेक्षयैव किं ते न चिन्तिते ? इत्याशङ्कायामाह-विचित्रत्वाद्वा सूत्रगतेरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org