________________
१३० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० १८२) तत्थ णं जा सा अणोवणिहिया सा दुविहा पण्णता । तं जहा- णेगमववहाराणं १, संगहस्स य २ ।
(सू० १८३) से किं तं णेगम-ववहाराणं अणोवणिहिया कालाणुपुव्वी ? णेगमववहाराणं अणोवणिहिया कालाणुपुव्वी पंचविहा पण्णत्ता । तंजहा- अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोतारे ४, अणुगमे ५।
(सू० १८४) से किं तं गम-ववहाराणं अट्ठपदपरूवणया ? णेगम-ववहाराणं अट्ठपदपरूवणया- तिसमयट्टिईए आणुपुव्वी जाव दससमयट्ठिईए आणुपुव्वी, संखेज्जसमयट्टिईए आणुपुव्वी, असंखेज्जसमयट्टितीए आणुपुव्वी, एगसमयट्ठितीए अणाणुपुव्वी, दुसमयट्टिईए अवत्तव्वए, तिसमयट्टितीयाओ आणुपुव्वीओ जाव संखेज्जसमयद्वितीयाओ आणुपुव्वीओ, असंखेज्जसमयट्ठितीयाओ आणुपुव्वीओ, एगसमयट्टितीयाओ अणाणुपुव्वीओ, दुसमयट्ठिईयाइं अवत्तव्वयाइं। से तंणेगम-ववहाराणं अट्ठपयपरूवणया। आणुपुव्वीत्यादि, त्रय: समया: स्थितिर्यस्य परमाणु-द्व्यणुक-त्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स ७१त्रिसमयस्थितिव्यविशेष आनुपूर्वीति । आह- ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीत्वम्, ? नैतदेवम्, अभिप्रायापरिज्ञानात्, यत: समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतम्, ततश्च पर्याय-पर्यायिणो: कथञ्चिदभेदात् ७२कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाद् द्रव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वम्, किन्तु तद्विशिष्टद्रव्यस्यापि तदभेदोपचारात्तदुच्यत इति भाव: । एवं चतु:समयस्थित्यादिष्वपि वाच्यं यावद्दश समया: स्थितिर्यस्य परमाण्वादिद्रव्यसङ्घातस्य स तथा, सङ्ख्येया:
७१. त्रिसमयस्थितिव्यविशेष आनुपूर्वीतीति । पूरणगलनस्वभावाभावात् समकालावस्थानाभावाच्च समयानां मिथः सम्मील्य स्कन्धविरचनं न सम्भवति । अतः परमाण्वादिपुद्गलद्रव्यमेव कालानुपूर्वीत्वेन ग्राह्यं भवति ।
७२. कालपर्यायस्य चेह प्राधान्येनेति। विवक्षितं द्रव्यं परमाणुर्वा स्याद् द्व्यणुकं वा स्यात् त्र्यणुकादि वा स्याद्, न तदपेक्षया तस्यानानुपूर्वीत्वादिकमत्र गृहीतम्, अपि तु तत्स्थितिकालापेक्षयैव गृहीतम्। ततश्च परमाणुद्व्यणुकादि यद् द्रव्यमेकसमयस्थितिकं, तत्सर्वमनानुपूर्व्यव, यद् द्विसमयस्थितिकं तत्सर्वमवक्तव्यकमेव, यत्तु तदधिकसमयस्थितिकं तत्सर्वमानुपूर्येव गण्यते। इत्थञ्च विवक्षितस्य द्रव्यस्यानुपूर्व्यादित्वनिर्णये तत्स्थितिकाल एव यच्चिन्त्यते, तदेवात्र कालपर्यायस्य प्राधान्यं ज्ञेयम् ।
अथ द्रव्य-क्षेत्र-काल-कालानुपूर्वीसंवेधश्चिन्त्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org