Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
Catalog link: https://jainqq.org/explore/009652/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ गदाधरभट्टाचार्यविरचितः व्युत्पत्ति वा दः महामहोपाध्यायजयदेवमिश्रविरचितया जयाख्यव्याख्यया सहितः प्रयागविश्वविद्यालयमाच्यदर्शनाध्यापकेन एम० ए०, डी० लिट्०, काव्यतीर्थोपाधिभाजा श्रीमदुमेशमिश्रेण संशोध्य प्रकाशितः १६४० Page #2 -------------------------------------------------------------------------- ________________ Published by Dr. Umesha Mishra, M.A., D). Litt., The University of Allahabad, Allahabad. प्रथमसंस्करणम् १९२७ द्वितीयसंस्करणम् १९४० मूल्यं मुद्रात्रयम् ALL RIGHTS RESERVED राजकीय नियमानुसारेणास्य सर्वेऽधिकाराः स्वायत्तीकृताः । Printed by J. K. Sharma, at the Allahabad Law Journal Press, Allahabad Page #3 -------------------------------------------------------------------------- ________________ प्राक्कथनम् प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति न्यायसूत्रमवलम्ब्य मिथिलालङ्कारभूतेन नव्यन्यायशास्त्रस्यादिका गङ्गशोपाध्यायेन तत्त्वचिन्तामणिनामको ग्रन्थो विरचितः । तत्र क्रमशः प्रत्यक्षादिप्रमाणचतुष्टयविचारात्मकं खण्डचतुष्टयं वर्नते। शब्दखण्डस्त्वस्यैव ग्रन्थस्यान्तिमो भागः । खण्डेऽस्मिन् न केवलं नैयायिकानामपि तु मीमांसकानां वैयाकरणानाञ्च मतेन शब्दतत्त्वस्य विशेषेण निरूपणं वर्तते। नैयायिकमीमांसकवैयाकरणानां त्रयाणामपि समानोऽधिकारः शब्दखण्डे । अतोऽर्वाचीनः नैयायिकादिभिः सर्वैः शब्दतत्त्वविचारे ग्रन्थरचनाद्वारा पृथक् पृथक् विचारः प्रदर्शितः । शब्दतत्त्वविचारे प्रकृतिप्रत्ययभेदेन भागद्वयं वर्त्तते । तत्र प्रकृत्यर्थस्यालोचनं शक्तिवा दे गदाधरभट्टाचार्येण कृतम् । प्रत्ययविचारादृते शब्दतत्त्वविचारोऽपर्ण एति मत्वा प्रधानतया न्यायमतमवलम्ब्य नैयायिकप्रवरैः गदाधरभट्टाचार्यैर्युत्पत्तिवादनामको ग्रन्थः प्रणीतः । ग्रन्थोऽयं विषयोत्कृष्टतया सुस्पष्टलेखप्रणाल्या च सर्वैः शास्त्ररसिकैविशेषतयादृतः । नयायिकैर्वैयाकरणैश्च विशेषेण पठ्यते । प्रत्ययार्थनिरूपणपरोऽयं ग्रन्थो व्युत्पत्तिविधायकशास्त्र शिरोमुकुटायमाणः कस्य विपश्चितश्चेतसि मुदं नावहति । व्याकरणे न्याये वाऽस्याध्ययनं विना प्रकर्षपाण्डित्यं नैव लभ्यते। अतो महानादरोऽस्य ग्रन्थस्य पण्डितसमाजे । परन्तु गूढार्थोऽयं ग्रन्थः । सर्वतोभावेनाभिप्रायोद्घाटने न सर्वे समर्थाः । 'जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः' इत्यादिश्रीमदुदयनाचार्यकथनानुसारेण पाण्डित्यसम्पादकग्रन्थानामध्ययनाध्यापनादिकमपि क्रमशो ह्रासपथमेवानुसरति । अत एवेदशस्य ग्रन्थस्य सरला सुस्पष्टतरा टीकाप्यपेक्षिता । तत्रापि सन्ति कृष्णभट्टीयगूढार्थादर्शादयो विविधा Page #4 -------------------------------------------------------------------------- ________________ व्याख्याः किन्तु आधुनिकविद्यार्थिनां कृते न ताः सर्वथोपयोगिन्यः । इति मनसि निधाय महामहोपाध्यायमिथिलालङ्कारभूतसन्मिश्रजयदेवशर्मभिः जयाख्या सरलातिमनोहरैका व्याख्या व्यरचि । इयं विद्यार्थिनां महदुपयोगिनीत्यस्याः शीघ्रमेव पुनः संस्करणेनैव स्पष्टम् । यद्यपि शास्त्ररसिकानां दौर्भाग्यवशात्तातचरणाः प्रथमाविवरणे भेदान्वयविचारे "प्रत्ययत्वाद्यनुपस्थितिदशायां” (पृ० ११७) इति ग्रन्थपर्यन्तस्यैव टीकां विरचयन्त एव सन्निपातज्वराभिभूताः काशीविश्वेश्वरसायुज्यं प्राप्तवन्तस्तथाऽपि विद्यार्थिनामुपकाराय बहुस्थलेषु द्वितीयाविवरणादिष्वपि तातपादानां टीप्पण्यादितो ग्रन्थानद्धृत्य द्वितीयाविवरणपर्यन्तो ग्रन्थभागों जयासहितः पूर्वं प्रकाशितः। प्रायशो विविधप्रान्तीयपरीक्षासु द्वितीयापर्यन्त एव ग्रन्थः पाठ्यरूपेण निर्धारितोऽस्ति । अत एव बहुधा परीक्षार्थिभिद्वितीयाविवरणं यावदेव ग्रन्थः पठ्यते । परन्तु विशेषज्ञानलाभायातनोऽपि ग्रन्थोऽवश्यमेव पठनीयस्तत्सम्पादनाय तथा समस्तग्रन्थरक्षणाय चावशिष्टोऽप्यंश आख्यातविवरणपर्यन्तोऽद्य प्रेक्षावतां पुरतः प्रकाश्य संस्थाप्यते । ग्रन्थकर्तुष्टीकाकर्तुश्च संक्षिप्तोऽपि परिचयो ज्ञेयः । तत्र तावद् गदाधरभट्टाचार्यो जीयाचार्यपुत्रः वङ्गदेशीयवारेन्द्रब्राह्मणकुलोत्पन्नः पवनामण्डलान्तर्गतपक्ष्मीपाशनामकस्थानं स्वजन्मनाऽलङ्चकारेति विदुषां परामर्शः। प्राप्तवयस्को न्यायशास्त्र विशेषवैदुष्यसम्पादनाय गदाधरस्तार्किकशिरोमणिहरिरामतर्कवागीशसकाशमध्येतुं नवद्वीपमाजगाम । तत्राचिरेणैव तर्कवागीशमहाशयाः पञ्चत्वं प्राप्तवन्तः । गदाधरस्तु तत्स्थानापन्नोऽध्यापको बभूव । परन्तु नायं गदाधरो विद्योपाधिभिरलङ्कृतो हरिरामतर्कवागीशस्थानयोग्यः पण्डितश्चेति मत्वा पूर्वं न कोऽपि गदाधरादध्येतुमाजगाम । अनादरेणानेन गदाधरस्तु हतोत्साहो न जातः । परं पण्डितसमाजे स्वपाण्डित्यपरिचयप्रदानायोपायान्तरस्य शरणमवलम्बितवान् । आदौ पूर्वविद्यालय Page #5 -------------------------------------------------------------------------- ________________ स्थानं परित्यज्य राजमार्गसमीपस्थायां कस्याञ्चिद्वाटिकायां तेन स्वनिवासः कृतः । ततो विद्यार्थिनामभावे तत्रैवोपवने लतापर्णवृक्षादीनुद्दिश्योच्चैः गूढस्थलशास्त्रविचारमालोचयन् बहून् दिवसाननैषीत् । राजमार्गेण गच्छद्भिविद्यार्थिभिः पण्डितैश्च सकुतूहलं प्रच्छन्नरूपेणोदासीनभावेन वा गदाधरस्य शास्त्रीयविचारं श्रुत्वा तस्य विशिष्टवैदुष्यपरिचयो लब्धः । ततः क्रमशस्तद्योग्यताविषयसन्देहरहिता विद्यार्थिनस्तत्समीपमध्येतुमाजग्मुः । इत्येवं क्रमेणाल्पेनैव कालेन महता प्रयत्नेन गदाधरस्य पाण्डित्यख्यातिः सर्वत्र प्रथिता । इत्येवं नवद्वीपमहिमानामकग्रन्थतो ज्ञायते । एवं शतशरछात्रानध्यापयन्तो गदाधरभट्टाचार्या विविधान् ग्रन्थानपि प्रणिन्युः । तद्यथा-(१) न्यायकुसुमाञ्जलिटीका, (२) तत्त्वचिन्तामण्यालोकटीका, (३) आत्मतत्त्वविवेकदीधितिटीका, (४) तत्त्वचिन्तामणिदीधितिप्रकाशिका, (५) मुक्तावलीटीका, (६) दुर्गासप्तशतीटीका, (७) ब्रह्मनिर्णयः तथा चतुःषष्टि वादार्थाः। तत्र केचन--विषयतावादः, शक्तिवादः, व्युत्पतिवादः, मुक्तिवादः, सादृश्यवादः, रत्नकोशवादः, कारणतावादः, अनुमितिमानसवादः, नव्यमतवादः, विधिस्वरूपवादः, आख्यातवादः, कारकवादः, नवादः, बुद्धिवादः, स्मृतिसंस्कारवादः, इत्यादयः । अनेन रचिताष्टोकाः प्रायशो गादाधरीति नाम्नां लोके प्रसिद्धाः । शक्तिवादटीकाकारो जयरामोऽस्य प्रधानः शिष्यः । गदाधरस्याविर्भावकाल: पञ्चाशदुत्तरषड्शताधिकैकसहस्रमितः (१६५० खीस्ताब्दः) इति कथ्यते । जयाटीकाकर्तुर्जीवनचरितविषये तदन्यतमशिष्यप्रवरेण महामहोपाध्यायेन श्रीगङ्गानाथझामहाशयेन तदानीं प्रयागविश्वविद्यालयकुलपतिना यल्लिखितं* तदेवात्र प्रकाश्यते । * एतत्पूर्वमेव सुप्रभातमितिनामकसंस्कृतपत्रिकायां प्रकाशितमासीत् । Page #6 -------------------------------------------------------------------------- ________________ अस्ति मिथिलायां 'गजहडा' इति नाम्ना प्रसिद्धो ग्रामः । तत्रैव सुप्रतिष्ठिते सोदरपुरमैथिलब्राह्मणकुले प्रातःस्मरणीया महामहोपाध्यायाः श्री ६ जयदेवमिश्रशर्माणः रुद्र-रत्न-भू-परिमिते (१६११) वैक्रमीये संवत्सरे कार्तिकशुक्लपूर्णिमायां जन्म लेभिरे। सम्पादितद्विजोचितसंस्काराश्च हरिनगर-ग्रामे सुप्रसिद्धविद्वद्वर-हलधर-(प्रसिद्ध 'हल्ली') शर्मणः सकाशात् वर्षद्वयं यावत् व्याकरणशास्त्रस्याद्यमंशमधीत्य तत्र आर्थिकक्लेशं प्राप्य तत्स्थानमुज्झित्वा गन्धवारिनगरे लेखकस्य मातामह्या पुण्यशीलया श्री ३ वसुमतीदेव्या संस्थापिते विद्यालये महामहोपाध्यायश्री ६ रजेमिश्रशर्मभिरिदानीमपि मिथिलां मण्डयद्भिरधिष्ठिते तेभ्य एक शब्देन्दुशेखरादिग्रन्थान् स्वायत्तीचक्रुः, समाप्नुवंश्च तदानीमेव पण्डितमण्डलीषु प्रौढविद्वत्ताप्रतिष्ठाम् । गुणाग्नि-ग्रह-भू-(१९३३)-मिते च वर्षे काशीमागत्य विश्वविख्यातानां श्रीमतां बालशास्त्रिणां सकाशे, तदनन्तरञ्च सकलतन्त्रापरतन्त्राणां म० म० श्री ६ शिवकुमारमिश्रशर्मणां सकारी व्याकरणशास्त्रमधीतमपि परिमार्ण्य शास्त्रान्तराण्यपि समग्राण्यधिगत वन्तः । युवावस्थायामेव काशीस्थविद्वज्जनेषु लब्धवैदुष्यप्रतिष्ठो वस्वग्नि-रत्न-चन्द्र (१९३८) मिते संवत्सरे मिथिलाधीशेन पवित्रकीर्तिना महाराजश्री ५ लक्ष्मीश्वरसिंहमहोदयेन संस्थापितायां दरभङ्गापाठशालायां काशीस्थायां श्रीशिवकुमारमिश्र-श्रीरामकृष्ण (तात्या) शास्त्रि-श्रीसुधाकर द्विवेद--श्रीदुःखभ जनकविभिः पण्डितरत्नैः सह व्याकरणाध्यापकासनं शोभयामासुः, समभूषयंश्च तदासनं वेदर्षिरत्न-भू-(१९७४) मितवर्षपर्यन्तम् । तदनन्तरं हिन्दूविश्वविद्यालयाध्यक्षास्तान् प्राच्यविद्याविभागे प्रधानाध्यापकपदव्यां समावेशयन् । तदारभ्याजीवं तदेव स्थानं श्रीमद्भिरलङ्कृतमभूत् । एवञ्च प्रायशः षट्चत्वारिंशद्वर्षाणि नानाशास्त्राण्यध्यापयतामेषां व्यतीतानि । समासादिताश्च पाण्डित्यपदवीं सहस्रशश्छात्राः । तेष्वेकोऽयं लेखकोऽपि स्वभाग्यवशादासीत् । पण्डितवर्याणां कीदृशं पाण्डिलमासीदिति तेषां Page #7 -------------------------------------------------------------------------- ________________ ( ५ ) छात्रेण वर्णनमनुचितमेव प्रतिभाति । अस्त्वेतदेव पर्याप्तं यत् प्रायशो गणितशास्त्रवण सर्वष्वपि शास्त्रेषु तेषामधिकारः पूर्णतयाऽऽसीत् । शास्त्रविचारस्य तु सार एवैतेष्वेकत्रीकृत आसीत् । रत्नशशिरत्नभू-मिते (१६१६) च ईशवीये भारतसम्राट् पण्डितसम्राड्भ्य एभ्यो महामहोपाध्यायपदवीं वितीर्यास्याः पदव्याः प्रतिष्ठां वर्धयामासुः । महात्मनामेतेषां स्मारकास्तनिमिता ग्रन्थाः- (१) परिभाषेन्दुशेखरस्य टीका विजया (मुद्रिता)(२) शास्त्रार्थ रत्नावली (मुद्रिता)-(३) व्युत्पत्तिवादस्य टीका जया (मुद्रयमाणा)--(४) शब्देन्दुशेखरस्य टोका (अपूर्णा)-(५) महाविनायकस्थापनपद्ध ते:-(६) वास्तुपद्धति:--(७) शतचण्डीपद्धतिः-- (८) कुलदेवतास्थापनपद्धतिः-(६) नीलवृषोत्सर्गपद्धतिः-(१०) तुलादानपद्धतिश्चेति । पुत्रत्रयं कन्यकाद्वयं चेति । पुत्रेषु ज्येष्ठः श्रीमान् उमेशमिश्रः काव्यतीर्थः ‘एम० ए०', (डी० लिट०,) उपाधिभाक् प्रयागविश्वविद्यालये संस्कृताध्यापकपदमलङ्करोति ; मध्यमः श्रीरमेशो गृहकार्यं करोति; तृतीयः श्रीश्रीकृष्णः सम्पादितसंस्कारोऽधुना बाल्यावस्थायामेव (एम० ए०,) वर्तते। एवञ्चहिव समस्तसम्पदनुमापितप्राक्तनपुण्यराशयो नित्यसदनुष्ठा प्रत्यक्षीकृतब्राह्मण्या पूज्यपादाः सर्वथा सनातनधर्मावलम्बिनामादर्शा इवासन्। अशेषविद्वज्जन दौर्भाग्ये वर्षेऽस्मिन् कर्णाभ्यन्तरव्रणमूलकसन्निपातज्वरेणाकान्ताः । तत्रापि ज्वरप्रलापेषु शास्त्रीयाण्येव वाक्यान्युच्चेरुः । मरणात् प्राक चत्वारि दिनानि मणिकर्णिकायां चक्रपुष्करणीतीर्थगङ्गाप्रवाहयोर्मध्ये स्थित्या--"उत्क्षिप्य वाहू त्वसकृद्ववीमि, त्रयीमयेऽस्मिस्त्रयमेव सारम् । विश्वे गलिङ्गम्मणिकर्णिकाम्बु, काशीपुरी सत्यमिदं त्रिसत्य"मिति पद्यमुच्चैर्घोष पन्तो मध्याह्नसमये मणिकणिकागङ्गाजले निमग्नार्धशरीराः १९८२ वैक्रमे फाल्गुनशुक्लसप्तम्यां विश्वेश्वरसायुज्यमगमन् । शून्यमधुना पण्डतमण्डलम्भारते, शास्त्रार्थचर्चात्वस्तप्रायैव । शोकसन्तप्तेनाधिकं वर्ण यतुन्न पार्यते । समाश्वासनस्थानमेतावदेव यदधिक Page #8 -------------------------------------------------------------------------- ________________ ( ६ ) क्लेशं विनैव पठनपाठनादिकार्य्यं कुर्वाणा एव यथा सर्वत्र जीवने प्रौढा श्रासंस्तथैवामरणन्निरवाहयन् । ज्वराक्रान्तदिनपर्य्यन्त व्युत्पत्तिवादटीकारचनायां लग्ना आसन् । अत एवोक्तम्— जयः कुले जयोऽभ्यासे जयः पण्डितमण्डले । जयो मृत्यौ जयो मोक्षे 'जयदेवः' सदा जयः ॥ इति 'जयनिवास' प्रयाग आश्विन कृष्णसप्तम्यां चन्द्रे १६६७ वैक्रमाब्दे विदुषामनुचरः श्रीमदुमेशमिश्रः Page #9 -------------------------------------------------------------------------- ________________ ॥ श्रीगणेशाय नमः ॥ अथ व्युत्पत्तिवादः शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया श्रीदुर्गामाधवगणेशाः पान्तु गदाधरं श्रीगिरिजां गणेशं प्रणम्य विश्वेश्वरपादपद्मम् । शिप्यप्रियश्रीजयदेवमित्रो व्युत्पत्तिवादस्य तनोति टीकाम् ॥ १ ॥ सन्त्यस्य टीका विविधास्तथाऽपि परिश्रमो निष्फलतां न यायात् । द्राक्षाफले सत्यपि वि रसज्ञैर्नास्विाद्यते हृद्यरसो रसालः ।। २ ।। I चटादिपदात् पादिविपयकशाब्दबोधवारणाय तत्पदजन्यतद्विषयकशाब्दबोधं प्रति तत्पदजन्यतद्विपयकोपस्थितिः कारणं वाच्यम् । घटपदात् पटोपस्थितेरभावान्न तद्विपयकशाब्दबोधः । घटपदादेः समवायसम्बन्धेन सम्वन्ध्याकाशविषयकं पस्थितिबलादाकाशविषयकशाब्दबोधवारणाय तत्पदजन्यशाब्दबोधे दनिष्ठवृत्तिज्ञानाधीनतद्विषयकोपस्थितिः कारणम् । ग्राक्राशोपस्थितेर्वृत्तिज्ञानजन्यत्वाभावान्न शाब्दबोधजनकत्वम् । नीलो घट इत्यादावभेदादेर्घटादिपदनिष्ठवृत्तिज्ञानाधीनोपस्थित्यभावेन शाब्दबोधस्य च सत्त्वेन व्यभिचार स्यादित्यभेदादावपि घटादिपदस्य शक्तिरुपेयतेऽन्वि नाभिधानवादिभिः । तथा चाभेदादेः पदार्थद्वयसंसर्गस्यापि वृत्तिज्ञानाधीनोपस्थितेस्सत्त्वान्न व्यभिचारः । परन्त्वेतादृशकार्य्यकारणभावेऽपि घटादिपदात् घटविशेप्यकघटत्वप्रकारकस्येव घटप्रकारघटत्वविशेष्यकशाब्दबो Page #10 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके प्रति धस्यापि बाधकाभावादापत्त्या तत्पदजन्यतत्प्रक रकतद्विशेष्यकशाब्दबोधं तत्पदनिष्ठवृत्तिज्ञानाधीनतत्प्रकारकतद्विशेष्यकं । पस्थितिः कारणं वाच्यं, तथा च घटादिपदात् घटप्रकारकघटत्वविशेष्यको स्थितेरभावान्न तादृशशाब्दबोधापत्तिः । इत्थञ्च पदार्थद्वयसंसर्गनिष्ठश ब्दबोधीयविषयता किञ्चिन्निष्ठप्रकारतानिरूपित विशेष्यतानात्मकतया त दृशसंसर्गस्य वृत्तिज्ञानाधीनोपस्थित्यभावेऽपि व्यभिचाराप्रसक्त्या तत्र पदानां वृत्तिकल्पनमयुक्तमेवेति नैयायिकाः । परन्त्वेतेषां मते पदार्थद्वयसं सर्गभाननियामकाभावेन सर्वत्राबाधितसकलसंसर्गभानसम्भवेन नीलो घट इत्यादावभेदादेखि स्वस्वामिभावादेरपि भानापत्तिरिति शङ्कानिराशाय स्वमते नियामकमुच्यते| शाब्दबोधे चेत्यादिना । चशब्दस्त्वर्थे संसर्गपदानन्तरं स बोध्यः । एकपदार्थ इत्यत्रानुयोगिता सप्तम्यर्थः । तत्र वृत्तित्वसम्बन्धन प्रकृत्यर्थस्यान्वयः । तस्याश्च निरूपकत्वसम्बन्धेन संसर्गपदार्थेऽन्वयः । अपरपदार्थस्य वृत्तित्वसम्बन्धेन षष्ठ्यर्थप्रतियोगित्वे तस्य च निरूपकत्वसम्बन्धेन संसर्गपदार्थ - ऽन्वयः । शाब्दबोध इत्यत्र निरूपितत्वं सप्तम्यर्थः । तेनैव सम्बन्धेन शाब्दबोधस्य भासंधात्वर्थविषयतायामन्वयः । तस्यामेव निरूपितत्वसम्बन्धेन संसर्गमर्य्यादापदार्थाऽऽकाङ्क्षान्वयितृतीयार्थप्रयोज्यत्वस्य स्वरूपसम्बन्धेनान्वयः । तस्याश्चाख्यातार्थाश्रयत्वे निरूपितत्वेन तस्य च संसर्गपदार्थे स्वरू पेणान्वयः । तथा चैकपदार्थनिष्ठानुयोगितानिरूप कोऽपरपदार्थनिष्ठप्रतियोगितानिरूपकः संसर्गः शाब्दबोध निरूपिता आकाक्षानिरूपितप्रयोज्यत्व· विशिष्टा या विषयता तन्निरूपिताश्रयत्वविशिष्ट इति संसर्गमुख्यविशेष्यको बोधः :- शाब्दबोधे एकपदार्थानुयोगिकापरपदार्थ प्रायोगिक संसर्गभासिका समभिव्याहाररूपाऽऽकाक्षैव न तु प्रकारविशेष्ययोरिव शक्तिरिति पर्य्यव सितोऽर्थः । उद्देश्यतावच्छेदकव्यापकत्वं नियमेन विधेये भासते । तेनैकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वव्यापकत्वमाकाङ्क्षाप्रयोज्यशाब्दबोधीयविषयताश्रयत्वे लभ्यते । तेनाकाङ्क्षामन्तरा कुत्रापि शाब्दबोधें एकपदार्थेऽपरपदार्थस्य संसर्गो न भासते । पश्वादिपदजन्यशाब्दबोधे लागू Page #11 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः तः लान्योगिकलो प्रतियोगिकसंसर्गस्य शक्तिभास्यस्याकाङ्क्षाप्रयोज्यशाब्दबोधीयविषयत श्रयत्वाभावेन निरुक्तव्यापकत्वानुपपत्तिस्स्यादत एकपदार्थेपरपदार्थस्येत्य नयोस्संसर्गविशेषणत्वम् । न चानुमितौ प्रत्यक्षे च भूतलं घटवदित्यादौ स्तलानुयोगिकघटप्रतियोगिकसंयोगादौ तादृशसंसर्गत्वरूपोहेश्यतावच्छेदकस्य सत्त्वेऽपि विधेयभूतस्य निरुक्तविषयताश्रयत्वस्याभावेन व्यापकत्वानुपपत्तिस्तदवस्थैवेति वाच्यम् । एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंस वित्तिसंसर्गताख्यशाब्दबोधीयविषयतामुद्दिश्याकाङ्क्षाप्रयोज्य वस्यैव विधाने नानुपपत्त्यभावात् । न च निरुक्तविषयतायास्तेन रूपेणाभानात् कथं तेन येणोद्देश्यतेति चेत्-न। उद्देश्यताविधेयतयोविशेष्यताप्रकारतानात्मकतयोद्देश्यत्वे उद्देश्यतावच्छेदकरूपेण भासमानत्वस्यातन्त्रत्वात् । +- अथकपदार्थ इत्यत्रत्यैकत्वस्यापरपदार्थ इत्यत्रत्यापरपदार्थस्य च कुत्रान्वयः--पदे पदार्थे वा ? नाद्यः । तथा सत्येकं यत्पदन्तदर्थानुयोगिकोऽपरं यत्पदन्तदर्थप्रतियोगिकस्संसर्ग इति बोधः । तत्रापरत्वं भेदः । स च यद्येकपदत्वावच्छिन्न प्रतियोगिताकस्तदाऽप्रसिद्धिरेकपदत्वस्य पदमात्रवृत्तित्वात् । यद्येकपदनिष्ठप्रतियोगिताकस्ताव्यावर्तकत्वं द्वित्वादिनैकपदनिष्ठप्रतियोगिताकभेदस्य स्वस्मिन्नपि सत्त्वात् । न च पदविशिष्टः संसर्ग आकाङ्क्षाभास्यः। वैशिष्ट्यं स्वार्थानुयोगिकत्वं स्वनिप्ठप्रतियोगिताकभेदवत् यत्पदन्तर्थप्रतियोगिकत्व मित्युभ्यसम्बन्धेन । तत्र भेदस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताक इति ग्रन्थकृतस्त त्पर्य्यमिति वाच्यम् । घटपदपशुपदादिस्थले घटत्वादिसंसर्गस्थ व्यवच्छेदेऽ पे एवपदस्थले दोषात् । तत्र हि नान्ययोगव्यवच्छेदत्वावच्छिन्ननिरूपित शक्तिरन्ययोगव्यवच्छेदाप्रसिद्धेः । किन्तु अन्ययोगे व्यवच्छेदे च खण्डशः शक्तिः । व्यवच्छेदे अन्ययोगस्य स्वनिष्ठप्रतियोगिताकत्वरूपः संसर्ग आकाङ्क्षाभास्यः। तत्र पदान्तरस्याभावेन तत्संसर्गस्यासंग्रहापत्तिः । नान्त्यः । तत्पक्षे यद्यपि आद्यपक्षोक्तदोषद्वयवारणाय पदार्थविशिष्टः संसर्ग इत्यत्रैव तात्पर्य वक्तुं शक्यते । वैशिष्ट्यञ्च स्वानुयोगिकत्वस्वेतरार्थप्रतियोगिकत्वोभयसम्बन्धेन। एवस्थले पदार्थयोरन्ययोगव्यवच्छेदयोर्भेदेन दोषा Page #12 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके भावस्तथापि अभेदान्वयस्थले नीलो घट इत्यादौ प्रतियोगिन एवानुयोगित्वेन दोषादिति चेत्-अत्रोच्यते । धर्मविशिष्ट: संसर्गः संसर्गमय दिया भासते । वैशिष्ट्यं स्वावच्छिन्नानुयोगितानिरूपकत्वस्वेतरधर्मावच्छिन्नप्रतियोगितानिरूपकत्वोभयसम्बन्धेन । एवशब्दस्थले च व्यवच्छेदत्व धर्मान्ययोगत्वधर्मावादाय समन्वयः । नन्वेवमपि पशुपदे लाग़लत्वम दाय लोमप्रतियोगिकसंसर्गेऽपि शक्तिभास्ये धर्मविशिष्टसंसर्गत्वरूपोद्देश्यतावच्छेदकस्य सत्त्वेऽप्याकाङ्क्षाभास्यत्वरूपविधेयस्याभावेनोद्देश्यतावच्छेद व्यापकत्वस्याकाङ्क्षाभास्यत्वरूपे भङ्गापत्तिः । राज्ञो राजा राजराज इत्यादौ वाक्ये समासे स्वस्वामिभावरूपसंसर्गस्य राजत्वे राजत्वभेदाभावेनाकाङ्क्षाभास्यत्वानापत्तिश्च । समवायेनाभावो नास्तीत्यादौ नञर्थाभावेऽभावपदार्थप्रतियोगिकस्य स्वनिष्ठप्रतियोगिताकत्वस्याभावत्वप्रतियोगिकर य स्वावच्छिन्नप्रतियोगिताकत्वस्य च संसर्गस्याकाङ्क्षाभास्यत्वानापत्तिरच प्रतियोगितावच्छेदकस्याभावत्वस्यानुयोगितावच्छेदकाभावत्वभिन्नत्वाभावादभावत्वनिष्टप्रतियोगितायाश्च निरवच्छिन्नत्वादिति चेत्-न । उपस्थितीयविशेष्यताविशिष्टः संसर्ग इत्यर्थेनादोषात् । वैशिष्टयञ्च स्वप्रयोज्य विशेष्यतानिरूपकत्वस्वनिरूपितत्वाभाववदुपस्थितीयविषयताप्रयोज्यप्रकार तानिरूपकत्वोभयसम्बन्धेन । पश्यादिस्थले च समवायसम्बन्धीयप्रकारताविशेष्यताप्रयोजकयोरुपस्थितीयघटत्वघटनिष्ठयोः प्रकारताविशेष्यतयोः लाग़लनिष्ठविशेष्यतालोमनिष्ठप्रकारताप्रयोजकयोरुपस्थितीयलाङ्गललोमनिष्ठविशेष्यतयोश्च निरूप्यनिरूपकभावात्। राज्ञो राजेत्यादौ समवायेनाभावो नास्तीत्यादावपि प्रतियोग्यनुयोगिवाचकविभिन्नराजपदजन्योप स्थतीयराजनिष्ठविषयतयोरभावनपदजन्योपस्थितीयाभावनिष्ठविषयतयोश्च शाब्दबोधीयप्रकारताविशेष्यताप्रयोजकयोरभिन्नतया निरूप्यनिरूपकाभावविरहात् । ना च अभावत्वप्रतियोगिकस्वावच्छिन्नप्रतियोगिताकत्वसंसम्स्यासंग्रह एव । अभावपदजन्योपस्थितीयाभावत्वनिष्ठविषयताया न दजन्योपस्थितीयाभावनिष्ठविषयतानिरूपिताभावत्वनिष्ठविषयताभेदे मानाभावेनाभावनिष्ठ Page #13 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः विषयतानिरूपित वादिति वाच्यम् । अभावस्यैव स्ववृत्त्यभावत्वानच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नञर्थाभावेऽन्वयात्। सवप्रयोजकवृत्तिज्ञानीयविपयत्वानिरूपितवृत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपकत्वसम्बन्धस्य द्वितीयसम्बन्धस्थाने निवेशनीयस्वाच्च । अभावपदनिष्ठवृत्तिज्ञानीयविपयताया नपदनिष्ठवृत्तिज्ञानीयविषयतया निरूप्यनिरूपकभावविरहणासङ्ग्रहासम्भवात् । नच समवायस्यैकत्वेन घट इत्यादौ विभक्त्यर्थंकत्वनियोगिकाकाङ्क्षाभास्यसमवायादभिन्नस्य घटत्वप्रतियोगिकसमवायस्य वतिभास्यस्य संग्रहापत्तिः । एकत्वप्रतियोगिकसमवायस्योपस्थितीयविषयताविशिष्टत्वे घटत्वप्रतियोगिकस्य तस्य न तत्त्वमित्यस्य वक्तुमशक्यत्वादि ते वाचम् । समवास्यैकत्वे एकत्वप्रतियोगिकसमवाय आकाङ्क्षाभास्यो घटत्वप्रतियोगिकः समवायो नाकाङ्क्षाभास्य इत्यस्यापि वक्तुमशक्यतयेप्टर वस्यैवाङ्गीकरणीयत्वात् । न च चटत्वनिष्ठप्रकारतानिरूपिता समवायनिष्ठा संसर्गता अाकाङ्क्षाप्रयोज्येति व्यवहारापत्तिः, तस्या घटपदनिष्ठवृत्तिप्रयोज्यत्वस्यैव सत्त्वेनेप्टापत्तेरयोगात् । निरुक्तोपस्थितीयविषयता विशिष्टस सर्गनिष्ठसंसर्गताया एवाकाङ्क्षाप्रयोज्यत्वादिति वाच्यं, उपस्थितीयविषयताविशिष्टा संसर्गता आकाङ्क्षा प्रयोज्यत्यत्रैव तात्पर्यात् । वैशिष्ट्यं स्वप्रयोज्यविशेष्यतानिरूपितत्वस्वप्रयोजकवृत्तिज्ञानीयविषयत्वानिरूपितवत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपितत्वोभयसम्बन्धेन। समवायैकत्वेऽपि संसर्गतयोर्भेदेनाकाङ्क्षाप्रयोज्यत्वाप्रयोज्यत्वयोरुप पत्तेरिति दिक् । वत्तिज्ञानीयविपयत्वाप्रयोज्या संसर्गता अाकाङ्क्षाप्रयोज्या। उपस्थितीयविषयत्वाप्रयोज्या शाब्दबोधीया संसर्गता आकाङ्क्षाप्रयोज्येत्याद्यपि वक्तुं शक्यत इति केचित् । ल । नीलो घट इत्यादिवाक्यजन्यज्ञानविषयोऽभेदो वृतिभास्य पाकाङ्क्षाभास्यो वेति संशये नैयायिकेनाकाङ्क्षाभास्य इत्युच्यते । मीमांसकेन वृत्तिभास्य इत्युच्यते । तस्मिन् समये वृत्तिभास्यत्वस्य वृत्त्यभास्यत्तस्य वा निश्चयाभावेन वृत्त्यभास्यत्वादेराकाङ्क्षाभास्य Page #14 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके भासते । स च कचिदभेदः । कचिच्च तदतिरिक्त एवाधाराधेयप्रति त्वोद्देश्यतावच्छेदके प्रवेशानहत्वात्। घटो सास्तीति नेत्यत्र घटसत्ताभावाभावः प्रतीयते । नञ्द्वयनिष्ठवृत्तिज्ञानयोः समानाकारकतया तदीयविषयतयोरभावद्वयोपस्थितिद्वयविषयताप्रयोजकतया नअर्थाभावत्वनिष्ठप्रकारताप्रयोजकोप स्थितीयविषयताप्रयोजकवृत्तिज्ञानीयविषयताया अपरनअर्थाभावनिष्ठविशेष्यताप्रयोजकोपस्थितिविषयताप्रयोजकवत्तिज्ञानीयविषयतानिरूपितत्वाभावविरहेण स्वावच्छिन्नप्रतियोगिताकत्वसंसर्गस्यासंग्रहस्तु नम्पाद्यः । तत्र घटसत्ताभावत्वस्यैवावच्छिन्नप्रतियोगितयाऽन्वयेन तनिष्ठप्रकारताप्रयोजकत्वस्य परम्परया घटनिष्ठवृत्तिज्ञानीयविषयताया अपि सत्त्वेन तस्याश्चाभावनिष्ठविशेष्यताप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितत्वविरहेणापत्त्यभावादिति विक। स च संसर्गः क इति जिज्ञासायामाह--क्वचिदभेद इत्यादि । आधाराधेय इत्यादेः प्रत्येक भावेत्यत्रान्वयेन प्राधाराधेयभावः प्रतियोग्यनुयोगिभावो विषयविषयिभाव इत्यर्थः । यद्यपि न्यायसिद्धान्ते प्राधाराधेयभाव इत्यादेः समुदितस्य न सम्बन्धता क्वचिदस्ति तथापि वैयाकरणमतेनास्य ग्रन्थस्य सत्त्वान्नासंगतिः । तन्मते 'सम्बन्धो हि सम्बन्धिभ्यां भिन्नः, द्विष्ठ' इत्यादिभाष्यात् प्रतियोग्यनुयोगिनिष्ठस्यैव आधारतानिरूपिताधेयतेत्यादि क्रमेण समुदायस्य सम्बन्धत्वात् । भूतले घटः, घटो नास्ति, घटज्ञानमित्यादौ क्रमेण तेषां सम्बन्धानां प्रतीतिः । नप न्यायमतेनैव आधारत्वमाधेयत्वं प्रतियोगित्वमनयोगित्वं विषयत्वं विषयित्वं सम्बन्ध इत्यर्थसम्भवेनायं ग्रन्थोऽस्तु स्वरूपसम्बन्धेनाधारे निरूपकत्वसम्बन्धेनाधेये सत्त्वेनाधारत्वादेरपि द्विष्ठत्वस्योपपादनसम्भवादिति वाच्यं, अनुयोगिनिष्ठस्यैव सम्बन्धत्वेनाधेयत्वानुयोगित्वविषयित्वानां सम्बन्धत्वेऽप्याधारत्वप्रतियोगित्वविघयत्वानां संसर्गतया क्वचिदप्यभानात् । यद्यपि द्विष्ठत्वाभावेनाभेदस्य वैयाकरणमते सम्ब Page #15 -------------------------------------------------------------------------- ________________ जयाऽलङ्कृतः योग्यनुयोगिविषयविषयिभावादिः । प्रभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्त्तिना च पदेनोपस्थापितस्यैव प्रथमा ] ७ न्यत्वाभावस्तथापि विशिष्टबुद्धित्वहेतुकानुमितिसिद्धस्य नीलो घट इत्यादौ नीलविशिष्टघबुद्धौ सम्बन्धावगाहित्वस्यान्यथाऽनुपपत्त्या तस्य सम्बन्धत्वं कल्प्यते नैयायिकैरिति भावः । दुरधिगमेऽस्मिन् शास्त्रे शिष्यस्य झटिति प्रवेशायाभेदस्य सूचीकटाहन्यायेनोद्देशक्रमेण च संसर्गतया भानस्थलं तावदाह -- प्रातिपदिकार्थे इत्यादि । अनुयोगित्वं सप्तम्यर्थः । तत्र प्रकृत्यर्थस्य वृत्तित्वसम्बन्धेन, तस्य चाभेदे निरूपकत्वसम्बन्धेनान्वयः । उपस्थापितस्येत्यत्र वृत्तित्वसम्बन्धेन प्रकृत्यर्थान्वितषष्ठ्यर्थप्रतियोगित्वस्य च निरूपकत्वसम्बन्धेन तत्रैवाभेदे - ऽन्वयः । तथा च प्रातिपदिकार्थनिष्ठानुयोगितानिरूपकः स्वसमानविभक्तिकस्वाव्यवहितपूर्वान्नतरपदोपस्थाप्यार्थनिष्ठप्रतियोगितानिरूपकाभेद काङ्क्षाप्रयोज्यसंसर्गताश्रय इत्यर्थः । अनुगमवारणाय प्रातिपदिकविशिष्टोऽभेद आकाक्षाप्रयोज्यसंसर्गताश्रय इत्वर्थ इति वक्तव्यम् शिष्टचच्च स्वप्रयोज्यविशेष्यतानिरूपकत्वस्व विशिष्टपदप्रयोज्यप्रकारतानिरूपकत्वोभयसम्बन्धेन । तत्र वैशिष्ट्यं स्वप्रकृतिकविभक्तिसजातीयविभक्ति- . प्रकृतित्वस्वाव्यवहित्पूर्ववृत्तित्वान्यतरसम्बन्धेन । नीलो घट इत्यादौ घटरूपप्रातिपदिकविशि'टो भेदः । तत्र घटरूपप्रातिपदिकस्य नीलेऽन्यतरघटक प्राद्यः सम्बन्धः । नी नघट इत्यादौ समासे च घटस्य नीले द्वितीयः सः । नाभेदत्वावच्छेदेन प्रातिपदिकविशिष्टाकाङ्क्षाप्रयोज्यसंसर्गतावत्त्वं विधीयते । ऋत्र प्रातिपदिक वैशिष्ट्यं पूर्वोक्तसम्बन्धेनैव संसर्गतायां बोध्यम् । तथा सत्यभेदत्वव्यापकत्वं तादृशसंसर्गतारूपविधेये प्रतीयेत । तच्च न सम्भवति । स्तोकं पचतीत्यादिक्रयाविशेषणस्थले व्यभिचारात् । किन्तु प्रातिपदिकप्रयोज्यविशेष्यतानिरूपिताभेदनिष्ठसंसर्ग तात्वावच्छेदेन प्रातिपदिकविशिष्ट आ - Page #16 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके संसर्गमर्यादया भासते यथा नीलो घटो नीलघटमानयेत्यादौ घटादौ नीलादेः, न तु विरुद्धविभक्तिमत्पदार्थस्य । नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात्। स्वसमानविभ पदप्रयोज्यप्रकारतानिरूपितत्वविशिष्टमाकाङ्क्षाप्रयोज्यत्वं-विधीयते । प्रातिपदिकवैशिष्टयं पूर्ववत् । निरूपितत्ववैशिष्टयं सामानाधिकरण्येन । न च क्रियाविशेषणस्थलीयाभेदसंसर्गताया असंग्रह इति वाच्यम् । इप्टापत्तेः । तत्र नियामकान्तरस्यैव वक्ष्यमाणत्वात् । न चापिप्पलीत्यादिपूर्वपदार्थप्रधानसमासे व्यभिचारस्तत्रैकदेशिसमासस्य प्रत्याख्यानेन पूर्वपदार्थार्द्धानुयोगिकपिप्पलीरूपोत्तरपदार्थप्रतियोगिकाभेदस्य संसर्गमर्यादया भासमानत्वादिति बाच्चं, अन्तरसम्बन्धस्थाने.. स्वाव्यवहितोत्तरत्वस्य पूर्वोक्तसम्बन्धद्वयसहितस्यान्यतमत्वेन प्रवेशनीयत्वात् । पिप्पल्यादिपदस्यैव पिप्पल्य‘दौ लक्षणा । पूर्वपदञ्च तत्रैव तात्पर्यग्राहकमित्यस्य वक्ष्यमाणत्वेनाभेदस्याकाङ्क्षाभास्थस्वाभाबाच्च । __न तु विरुद्धविभक्तिमदिति । विरत्वज्य स्वप्रकृतिकविभक्त्यपेक्षया बोध्यम् । तत्त्वञ्च तादृशविभक्तिनिष्ठो यः प्रथमात्वाद्यन्यतमस्तदभाववत्त्वम् । यथा नीलस्य घट इत्यादौ घटप्रकृतिकसुविभक्तिनिष्ठः प्रथमात्वाद्यन्यतमः प्रथमात्वन्तदभाववत्त्वं नीलप्रकृतिकङस्विभक्तौ ।। तत्र हेतुमाह--नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वादिति । प्रयोज्यत्वं सप्तम्यर्थः । तस्य स्वप्रकारकत्वसम्बन्धेनानुभवेऽन्वयः । अनुभवेविरुद्धत्वञ्चानुभवविषयत्वाभावरूपम् । तथा च नीलघटाभेदान्वयबोधस्य नीलस्य घट इत्यादिवाक्यप्रयोज्यत्व प्रकारको यः सर्वानुभवस्तद्विषयत्वाभालाटिनार्थः । नीलबहाभेदान्वयबोधो नीलस्य घट इत्यादिवाक्यप्रयोज्य... इत्याकारकानुभवाभावादिति भावः । प्रातिपदिकवैशिष्ट्यनियामकसम्बन्धघटकस्वसमानविनक्तिकत्वं किमित्याशङ्कायामाह Page #17 -------------------------------------------------------------------------- ________________ प्रथमा ] . जयाऽलङ्कृतः क्तिकत्वं च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम्। साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तु समानानुपूर्वीकत्वं साजा --स्वसमानविर्भाक्तकत्वञ्चेति । विभक्तिविभाजकेति । स्वनिष्ठो यो विभक्तिविभाजकः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्वमित्यर्थः । ननु किमिदं विभक्तिविभाजकत्वम् ? न तावद्विभक्तित्वविशिष्टत्वं स्वव्याप्यत्वस्वव्या' याव्याप्यत्वोभयसम्बन्धेन । विभक्तित्वव्याप्यसुप्त्वव्याप्यत्वेन प्रथमात्वादेविभक्तिविभाजकत्वानापत्तेः । नाच विभक्तित्वव्याप्यत्वमेव विभक्तिपिभाजकत्वमिति प्रथमात्वादौ नाव्याप्तिरिति वाच्यं, सुत्वादीनामपि विभक्तित्वव्याप्यत्वेन तत्त्वापत्तेः । न चेष्टापतिः । आकाशत्वादावपि तथा सति पदार्थविभाजकत्वस्यैप्टव्यतया आकारात्मसम्मान पदार्थविभानकोपाधि रिति मुक्तावलीप्रत्यक्षखण्डोक्तग्रन्थस्यासङ्गत्यापत्तेः । नन्वत्र विभक्तिपः सुप्परम् । तथा च सुब्विभाजकधमणेत्यर्थः । सुब्बिभाजकत्वञ्च सुप्ताव्याप्यत्वे सति सुप्त्वव्याप्यत्वमिति न प्रथमात्वादावव्याप्तिरितिचेत्-, । सुप्त्वव्याप्यसर्वनामस्थानत्वव्याप्यत्वेन तस्या दुर्वारत्वात् । न च नपुंगकप्रकृतिकस्वादौ सर्वनामस्थानत्वाभाववति प्रथमात्वस्य सत्त्वेन तदव्याप्यताददोष इति वाच्यं, टादिसुप्पय॑न्तस्थितेन सुप्त्वव्याप्येनाऽऽप्त्वेन व्याप्यत्वात् तृतीयात्वादावप्याप्तेर्दुरित्वात् । ___अचोच्यते--गुप्त्वविशिष्टत्वं सुप्विभाजकत्वम् । वैशिष्ट्यञ्च स्वव्याप्यत्वस्वव्याप्याव्या'यत्वोभयसम्बन्धेन । द्वितीयसम्बन्धघटके स्वव्याप्ये स्वव्यायविशिष्टभिन्न वमपि देयम् । तत्र वैशिष्टचं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन । प्रथमात्वादौ सुप्त्वस्य स्वव्याप्यत्वं स्वव्याप्यविशिष्टभिन्नं यत्स्वव्याप्यन्तदव्याप्यत्वमप्यस्तीति लक्षणसमन्वयः । प्राप्त्वं तु तृतीया वविशिष्टमेव । उदासीने घटत्वादावतिव्याप्तिवारणाय प्रथमः सम्बन्धः । न च स्वस्यापि स्वव्याप्यत्वेन सुप्त्वेऽतिव्याप्तिः । अाद्य Page #18 -------------------------------------------------------------------------- ________________ १० व्युत्पत्तिवादः [ कारके सम्बन्मस्थाने स्वभिरवस्वयाप्यत्वोभनसम्बन्धेन स्वविशिष्टत्वनिवेशनमत् । सुत्वादावतिव्याप्तिवारणाय द्वितीयः सम्बन्धः । सुप्त्वव्याप्यं यदाप्त्वन्तद्वयाप्यत्वेन तृतीयात्वादावव्याप्त्यापत्त्या द्वितीयसम्बन्धघटके स्वव्याप्ये स्वव्याप्यविशिष्टभिन्नत्वं निवेशिवम् । प्राप्त्वे सुप्त्वव्याप्यतृतीयात्वादिविशिष्टत्वमेव न तु तद्विशिष्टभिन्नत्वम् । यत प्राप्त्वस्य तृतीयात्वसामानाधिकरण्यं टादिकमादाय तदभावसामानाधिकरण्यं उप्रभृतिमादाय तेनाप्त्वव्याप्यत्वेऽपि निरुक्ताव्याप्यत्वेन तृतीयात्वादावव्याप्त्यभावः । न---सुत्यादौ सुप्त्वव्याप्यप्रथमात्वादिव्याप्यत्वादेवातिव्याप्तिभङ्गो वाच्यः । स च न सम्भवति । प्रथमात्वादेहि सु ौ एतदन्यतरत्वादिकं सुप्त्वव्याप्यन्तद्विशिष्टत्वमेव । न तु तद्भिन्नत्वमिति बन्यं, स्वव्याप्यविशिष्टभिन्नत्वस्थाने स्वविशिष्टविशिष्टभिन्नत्वस्य निवेशनात् । तत्र चरमवैशिष्टयं पर्वोक्तमेव । अम्यञ्च स्वव्याप्यत्वस्वव्याप्याघटितत्वोभयसम्बन्धेन। तथा च निरुक्तान्यतरत्वमादाय नोक्तदोषः । तस्य सुप्त्वव्याप्यत्वेऽपि सूप्त्वव्याप्येन सूत्वेन घटितत्वात् । न चैवमपि सु अम् एतदन्यतरत्वे अतिव्याप्तिः । तत्र सुप्त्वव्याप्यत्वसुप्त्वव्याप्याव्याप्यत्वयोः सत्त्वादिति वाच्यं, स्वव्याप्याघटितत्वस्यापि तृतीयस्य सुप्त्ववैशिष्ट्यघटकस्य स्वीकारेण तादृशान्यतरत्वादेः सुप्त्वव्याप्यसुत्वादिघटितत्वेनातिव्याप्त्यभावात् । तथा च सुम्वविशिष्टो धर्मः सुखविभाजकः । वैशिष्ट्यञ्चः स्वविशिष्टत्वस्व शिविष्टाव्यामत्वस्वब्याप्याघटितत्वैतान्त्रितयसम्बन्धेन । प्राये...स्वन्यायल्बस्वभिनत्वोमयसम्बन्धेन वैशिष्टयम् । द्वितीये स्वव्याप्यत्वस्वविशिष्टविशिष्टभिन्नत्वोभयसम्बन्धेन वैशिष्टयम् । तत्राद्यवैशिष्ट्यं स्वव्याप्यत्वस्वमम्प्याघटितत्वोभयसम्बन्धेन । द्वितीयवैशिष्टयं स्वसमानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन । सर्वेषां विशेषणानां फलानि पूर्वमुक्तानि ।। नन्वेवं सति विभक्तिविभाजकः प्रथमात्वादिक एव । तथा च प्रथमात्वादिकथनं व्यर्थमेवेति चेत्-न। पर्य्यवसितस्यैव स्पष्टतया कथनात् । स्ववृत्तिर्यः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्त्वं स्ववृत्तियः सुप्विभाजकस्तद्वत्त्व वा साजा Page #19 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः त्यमिति कथनेऽपि सत्यभावः । सुमुस्त्वविशिष्टसंख्यावत्त्व सुब्विभाजकत्वम् । संख्यायां सुप्त्ववैशिष्टयं स्वव्यापकत्वस्वव्याप्यवृत्तित्वस्वाव्याप्यावृत्तित्वस्वव्याप्यविशिष्टभिन्नत्वैतच्चतुष्टयसम्बन्धेन । व्याप्यतावच्छेदकः स्वरूपसम्बन्धो व्यापकतावच्छेदकश्च स्वाश्रयाश्रयत्वसम्बन्धः । सा च सङ्ख्या प्रथमात्वादिषु सप्तमु वर्तमाना सप्तस्वसंख्या तद्वत्त्वं प्रथमात्वादिषु सम्तसु । यत्र यत्र स्वरूपसम्न्धेन सुप्त्वन्तत्र तत्र स्वाश्रयाश्रयत्वसम्बन्धेन प्रथमात्वादिनिष्ठं सतत्वनिति व्याप्तिः। तस्याञ्च सङ्ख्यायां सुप्त्वस्य व्यापकत्वं तस्य व्याप्यं प्रथमात्वादि तवृत्तित्वं तस्याव्याप्यं घटत्वादि तदवृत्तित्वं तस्य व्याप्यं प्रथमात्वादि तद्वैशिष्टयन्नास्ति। यतो वैशिष्टयं स्ववृत्तित्वस्वेतरस्वसमानाधिकरणवत्तित्वोभयसम्बन्धेन । तत्राद्यसम्बन्धसत्त्वेऽपि द्वितीयो नास्तीति तद्विशिष्ट भिन्नत्वं सङ्ख्यायामिति लक्षणसमन्वयः । प्रथमात्वादिगतषट्त्वनिरासाय स्वव्यापकत्वम् । सुत्वसहितप्रथमात्वादिगताष्टत्ववारणाय स्वच्याप्यविशिष्टभिन्नत्वम्बोध्यमित्यपि के चित् । न तु समानानुपूर्वीकत्वमिति । तथा सति हि स्वप्रकृतिकविभक्तिसमानानपर्वीकविभक्तकेनेत्यर्थस्स्यात् । तथा च वेदाः प्रमाणमित्यादौ दोपः । स्वस्थानापीकवच स्वघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नाघटितत्वस्वघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नाघटितत्वसम्बन्धावच्छिन्नस्वनिरूपितवृत्तितावत्त्वोभयसम्बन्धेन । स्वविशिष्टत्वं यथा घटसमानानुपूर्वीको घटस्तत्र स्वं घटस्तद्घटको कारो घशब्दः टशब्दः टक रोऽकारश्च । तदवृत्तिः श्रावणप्रत्यक्षविषयतावच्छेदको धर्मः पत्वादिस्तदव च्छन्नपकाराद्यघटितत्वं घटशब्दे । स्वस्मिन् घटशब्दे द्वितीयो घटशब्दः पूर्वोक्तसम्बन्धेन वर्तत इति तत्सम्बन्धावच्छिन्नस्वनिरूपितवृत्तितावत्त्वम यस्तीति लक्षणसमन्वयः । घटशब्दे नीलघटसमुदायसमानानपीकत्वव। रणाय द्वितीयः सम्बन्धः । तत्र समुदाये हि तेन सम्बन्धेन घटशब्दस्यावर्तनात्तत्समुदायनिरूपिततत्सम्बन्धावच्छिन्नवृत्तितावत्त्वस्य घटशब्देऽभावः । लममता समरसत्यादीनाञ्च न समानानुपूर्वीकत्वम् । ताल Page #20 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके त्यम् । वेदाः प्रमाणं शतं ब्राह्मणा इत्यादावन्वयबोधानुपपत्तेः । - ननु 'विंशत्याद्याः सदैकत्वे' इत्यनुशासनात् शतं ब्राह्मणा इत्यादेः साधुत्वेपि वेदाः प्रमाणमित्यादयः कथं प्रयोगाः, विशेष्य शब्दघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदको धर्मो लशब्दोत्तरतकारत्वन्तदवच्छिन्नलतशब्दघटितत्वस्यैव लताशब्दे सरशब्दघटकावृत्तिग्तादृशो धर्मो रशब्दोत्तरसकारत्वन्तदवच्छिन्नरसशब्दघटितत्वस्यैव रसशब्दे ... सत्त्वादिति ___ बोधानुपपत्तेरिति । तृतीयान्तसुन्दराभ्यां समभिव्याहृतचतुर्थ्यन्तघटाभ्यामित्यतोऽपि समानानुपूर्वीकत्वसत्त्वादभेदान्वयबोधापत्तश्चेत्यपि बोध्यम् । सिद्धान्ते तु प्रथमात्वादिता साजात्यविरहान्न दोषः। · ननु नीलो घटा इत्यादावभेदान्वयवारणाय तत्र समानवचनत्वस्य प्रयोजकतया वेदाः प्रमाणमित्यतो बोधस्यैवाभाव इति तदनुरोधोऽसङ्गत इत्याह-नन्विति । सदैकत्व इति । सदैकवचनान्ता इत्यर्थः । असति बाधकइति। नियतवचनत्वानुशिष्टभिन्नविशेष्यविशेषणवाचकपदोस्समानवचनत्वमभेदान्वयप्रयोजकमित्यर्थः । समानलिङ्गकल्वञ्च स्ववृत्तिपंल्लिङ्गत्वस्त्रीलिङ्गत्वनपुंसकलिङ्गत्वान्यतमधर्मवत्त्वम् । पुंल्लिङ्गत्वादिकञ्च पुंस्त्वस्त्रीत्वनपुंसकत्वबोधकत्वमेव । पुंस्त्वादिकञ्च प्राण्यप्राणिसाधारणं सत्त्वादिगुणानामुपचयापचयसाम्यरूपं, प्राणिवृत्ति च लिङ्गयोनित दभावरूपम । तत्र गुणदोषानप्रकृतत्वाद्विस्तरभयाच्च न विचार्यते । ____इति हेतुस्तदुद्भव इति । शक्लिनिपुणता लोककाव्यशास्त्राद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे' इति कागि का। शक्तिः संस्कारविशेषः, लोककाव्यशास्त्राद्यवेक्षणजन्या निपुणता व्युत्पत्तिविशेषः, यः काव्यं करोति जानाति च तदुपदेशेन काव्यकरणयोजनादौ पौनःपुन्येन प्रवृत्तिरभ्यासः, इति त्रयः समुदिता हेतुरिति तस्या अर्थः । Page #21 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः विशेपणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात् । अन्यथा घटा नील इत्यादेरपि साधुताप्रसङ्गात् । समाननिङ्गकस्थले तथा नियमोपगमेन वेदाः प्रमाणमित्यादेः साधुत्वोपपादनेऽपि 'इति हेतुस्तदुद्भवे' इति कारिकाया इति 'त्रयः समुदिता हेतु'रिति काव्यप्रकाशव्याख्याया असंगतिर्दुर्वारैव। एवमसमानलिङ्गकस्थले विशेष्यवाचकपदासमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तुमुचितमिति 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' पितरो देवता इत्यादेरनुपपत्तिः । मैवम् । यत्र विशेष्यवाचकपदो यत्र विशेष्यवाचकेत्यादि । यत्रेति वाक्य इति शेषः । घटकत्वं सप्तम्यर्थः पदेऽन्वेति वाचकेति बोधकेत्यर्थः । तेन लाक्षणिकविशेष्यपदस्य नासङ्ग्रहः । उत्तरत्वञ्चोत्तरत्वेनानुसन्धीयमानत्वम् । तेन दध्यादिविशेष्यबोधकपदोत्तरविभक्तेरसत्त्वेऽपि न दोषस्तदनुसन्धानस्य सत्त्वात् । विभक्तिपदानुपादाने विशेष्यवाचकपदोत्तर यत्किञ्चित्पदतात्पयेत्येव कथने सुन्दरं दधि बहवो गुणा इत्यादौ सौन्दर्य्य एकत्वविवक्षायां विशेष्यवाचकदधिपदोत्तरबहुपदतात्पर्यविषयबहुत्वविरुद्धैकत्वस्य विवक्षिततया समानवचनत्वानुपपत्तिविभक्तिनिवेशे तत्तात्पर्य्यविषयैकत्वसंख्याविरुद्धत्वासम्भवान्न दोष इति तु न युक्तमुक्तग्रन्थेन तादृशाविवक्षितत्वे समानवचनत्वव्याप्यत्वस्यैव लाभेन व्याप्यविरहस्य व्यापकाभावापादकत्वासम्भवात् । अयोगोलके धूमाभावेऽपि वह्नयभावादर्शनात् किन्तु विभक्तिपदं स्पष्टार्थमेव । प्रमाणं वेदशाखा एकत्वं प्रमेयमित्यादौ विशेष्यवाचकपदाव्यवहितोत्तरत्वनिवेशेनैवान्यत्रावश्यकेन निर्वाहात् विभक्तितात्पर्य्यविषयेत्यस्य विभक्तिजन्यबोधविषयत्वेनेच्छाविषयेत्यर्थः। यथाश्रुते तु दा: प्रमाणमित्यादावपि प्रमाणपदोत्तरविभक्तिजन्यबोधविषयत्वेनेच्छाविषयीभूतैकत्वे वेदपदोत्तरजस्पदजन्यबोधविषयो बहुत्वं Page #22 -------------------------------------------------------------------------- ________________ १४ व्युत्पत्तिवादः [ कारके त्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया श्रविवक्षितत्वं तत्र घटाद्विपदोत्तरसुपदजन्यबोधविषय एकत्वञ्च भवत्विति समूहालम्बनात्मतात्पर्य्यस्यापि विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्यत्वात्तद्विषयकत्वसंख्याविरुद्धत्वाभावेन विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्य विषयसंख्याविरुद्धसंख्याविवक्षितत्वाभावसत्त्वेन समानवचनत्वापत्तिः । इदानीन्तु एकत्वस्य वेदपदोत्तरजस्पदजन्यबोधविषयत्वे नेच्छाविषयत्वाभावान्न दोषः । संख्याविरुद्धत्वञ्च संख्याऽसामानाधिकरण्यं तादृशतात्पर्य्यविषयतावच्छेदकसंख्यात्वव्याप्यधर्मावच्छिन्न भिन्नत्वं वा । श्रविवक्षितत्वमिति । विशेषणवाचकपदोत्तरविभक्त्याऽविवक्षितत्वमित्यर्थः । तत्रेत्यस्य तद्वाक्ये इत्यर्थः । सप्तम्यर्थघटकत्वस्य विशेष्यविशेषणपदयोरन्वयः । तथा च बाक्यघटकविशेष्यबोधकपोत्तरविभक्तिजन्यबोधविषयत्वेने च्छीयविशेष्यतावच्छेदकसंख्यात्वव्याप्यजात्यवच्छिन्नभिन्न संख्याया विशेषणबोधकपदोत्तरविभक्त्याऽविवक्षितत्वं तद्वाक्यघटकविशेष्यविशेषणपदयोसमानवचनत्वमित्यर्थः । सम्मानवचनत्वञ्च स्वोत्तरविभक्तिवृत्त्येकवचनत्वद्विवचनत्वबहुवचनत्वान्यतमधर्मवद्विभक्तिकत्वम् । न चैवं सुन्दरो घटमित्यादावपि समानवचनत्वसत्त्वादभेदान्वयापत्तिरिति वाच्यम् । समानविभक्तिकत्वस्यापि प्रयोजकत्वात् । समानानुपूर्वीकत्वस्यैव वा समानवचनत्वरूपत्वात् । घटो द्रव्यमित्यादौ च स्थानिवृत्त्यानुपूर्वीमादाय सातवचनत्बोपपादवसम्भवात्। तात्पर्य्यानिवेशे विभक्त्यर्थसंख्याविरुद्धेत्याद्यर्थे कुत्रचिज्जम्विभक्तेरप्येकत्वादौ लक्षणयैकत्वमपि वेदपदोत्तरजस्विभक्त्यर्थः । तद्विरुद्धायाः प्रमाणपदोत्तरविभक्त्यर्थ संख्याया प्रभावेन विशिष्टाभावस्य सत्त्वेन समानवचनत्वापत्तिः । ननु विशेषणवाचकपदोत्तरविभक्त्या यत्र संख्याया अविवक्षा तत्र समानवचनत्वमित्येतावतैव निर्वाहे विरुद्धान्तनिवेशस्य किम्प्रयोजनमिति Page #23 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १५ विशेष्यविशेषणपदयोः समानवचनकत्वनियमः। अत एव पुरूर चेत्--अत्रोच्यते। यत् वेदत्वे एकत्वविवक्षयैकवचनान्तविशेष्यवाचकवेदघटितं प्रमाणत्वे एवत्वविवक्षयैकवचनान्तविशेषणवाचकप्रमाणपदघटितं वेदः प्रमाणमिति वाक्यं तत्र समानवचनत्वानुपपत्तिः विशेषणवाचकपदोत्तरविभक्त्या संख्याया विवक्षितत्वात् । विरुद्धान्तनिवेशे.विशिष्टाभावस्य सत्त्वेनानुपपत्त्यभावः । नन् यत्र विशे यवाचकेत्यादिग्रन्थेनाविवक्षितत्वस्य समानवचनत्वव्याप्यताया एव लाभेन विवक्षास्थले समानवचनत्वसत्त्वे क्षत्यभाव इति चेत्-- इदमत्र बोध्यम् । नोलो घटा इत्यतोऽभेदान्वयवारणायाभेदान्वये विशेष्यवाचकपदसमानवचनत्वं विशेषणवाचकपदवृत्तिप्रयोजकम् । विशेषणपदोतरविभक्त्यर्थसंख्या विवक्षास्थले वेदाः प्रमाणमित्यादौ व्यभिचारवारणायाविवक्षास्थलीयाभेदान्वये समानवचनत्वं प्रयोजकमिति वक्तव्यम् । तथा च प्रमाणत्वगतैकत्वतात्पर्य्यकस्वन्तप्रमाणपदघटितात् प्रमाणं वेदेति वाक्यादभेदान्वयवारणाय संर याविवक्षास्थलीयाभेदान्वये विशेष्यवाचकपदोत्तरवचनविभिन्नवचनकविशेषणवाचकपदत्वं प्रयोजकमित्यपि वक्तव्यम् । ततश्चोक्ते वेदः प्रमाणमितिस्थले व्यभिचारवारणाय संख्यायां विरुद्धान्तं निवेशनीयम् । एवं विभज्य कथने ग्रन्यविस्तरस्स्यादतो विशेष्यवाचकपदोत्तरविभक्तितात्पर्य विषयसंख्याविरुद्धसंख्याया विशेषणवाचकपदोत्तरविभक्त्या अविवक्षा यत्र तत्र समानवचनत्वमित्येवोक्तमिति ।। केचित्तु स्तोकं पचत इत्यादौ विशेषणवाचकस्तोकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वात्समानवचनत्वापत्तिः विरुद्धान्तनिवेशे तु विशेष्यवाचकपचधातुपदाव्य वहितोत्तरविभक्त्यभावेन तादृशविभक्तितात्पर्यसंख्याविरुद्धादिविवक्षापर्यन्तापसिद्ध्या तदभावस्याप्यप्रसिद्धत्वेन समानवचनत्वाभाव इति विरुद्ध न्तनिवेशस्य फलमित्याहुः । तन्न । स्तोकमत्त इत्यादौ नारा Page #24 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके विशेष्यवाचकाद्धातोरव्यवहितोत्तरविभक्तेस्सत्त्वेन विवक्षितत्वाभावपर्य्यन्तस्य प्रसिद्ध्या समानवचनत्वापत्तेविरुद्धान्तनिवेशेऽपि सत्त्वेन तदर्थं प्रातिपदिकपदप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकपदोत्तरविभक्त्या यत्र संख्याया अविवक्षा तत्र समानवचनत्वमित्यस्यैव वाच्यतया विरुद्धान्तनिवेशस्य फलाभावात् । न च मास्तु विरुद्धान्तनिवेशस्येदं फलन्तथापि पचतीति पक् कर्तरि क्विप। ततो द्विवचने स्तोकं पचावित्यादौ प्रातिपदिकपदप्रयोज्यविशेष्यतायाः सत्त्वेन समानवचनत्वापत्तिर्दुर्वारा । विरुद्धान्तनिवेशेऽपि इयमापत्तिरस्त्येव । न च विरुद्धान्तनिवेशे विशेष्यविशिष्टाया विभक्तेनिवेशः। वैशिष्ट्यञ्च स्वनिष्ठसंख्याबोधकत्वस्वबोधकपदाव्यवहितोत्तरत्वोभयसम्बन्धेन । स्तोकं पचावित्यादौ क्विबर्थनिष्ठसंख्याबोधकत्वेन स्तोकविशेष्यपाकनिष्ठसंख्याबोधकत्वाभावेन विशेष्यविशिष्टविभक्तरप्रसिद्ध्या अविवक्षितत्वपर्यन्तस्याप्यप्रसिद्ध्या समानवच नत्वानापत्तिरिति वाच्यम् । भावक्विबन्ते स्तोकं सम्पदावित्यादौ विशेष्यभूतसम्पत्तिविशिष्टत्वस्यैव विभक्तेः सत्त्वेनापत्तेर्दुरित्वादिति वाच्यम् । क्विपोऽनुसन्धानं विना शाब्दबोधानुदयेन तत्प्रकृतिभूतधातुप्रयोज्यैव विशेष्यता न क्विबन्तरूपप्रातिपदिकपदप्रयोज्या न वा विशेष्यभूतक्रियाविशिष्टत्वं विभक्तेविशेष्यबोधकधात्वव्यवहितोत्तरत्वस्यानुसन्धीयमानक्विपा व्यवहितत्वेन विभक्तेर्बाधात् । अव्यवहितोत्तरत्वं हि स्वोत्तरत्वेनानुसन्धीयमानोत्तरत्वेनाननुसन्धीयमानत्वस्वोत्तरत्वेनानुसन्धीयमानत्वोभयसम्बन्धेन स्वविशिष्टत्वमेवेति पक्षद्वयेऽपि दोषाभावात् । अत्रोच्यते । दारविशेषणवाचकं सुन्दरादिपदमपि बहुवचनान्तमेव साधु सुन्दरा दारा इति न तु सुन्दरो दारा इति । तत्र दारपदोत्तरविभक्त्या संख्याया अविवक्षितत्वेन विशेष्यवाचकपदाव्यवहितोत्तरविभक्तितात्पर्य्यविषयीभूतसंख्येत्याद्यविवक्षितत्वपर्यन्तस्याप्रसिद्ध्या सम्ानवचनत्वनियमानापत्त्या सुन्दरो दारा इत्यस्यापि साधुतापत्तिरिति-मैवम् । स्वाव्यवहितोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्धसंख्याविषयकबोधजनकत्वेन तात्प Page #25 -------------------------------------------------------------------------- ________________ जयाऽलङ्कृतः र्य्यविषयविभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्वसम्बन्धेन स्वविशिष्टं विशेषणवाचकं पदं स्वसमानवचनमिति नियमस्वीकारेण दोपाभावात् । उक्तसम्बन्धस्यान्यत्र प्रसिद्धया तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभाववत्त्वरूपसम्बन्धस्य विशेष्यवाचकदारपदप्रतियोगिकस्य विशेपणवाचकसुन्दरपदे सत्त्वेन समानवचनत्वनियमात् । न च भेदान्वयस्थले विशेषणवाचकराज्ादिपदोत्तरविभक्त्या संख्याया ग्रविवक्षणे राज्ञः पुरुषा इत्यादौ समानवचनत्वनियमापत्तिरिति वाच्यं स्वप्रयोज्यविशेष्यतानिरू प्रथमा ] १७ पिताभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वरूपद्वितीयसम्बन्धस्यापि वैशिष्ट्यनियामकतया प्रवेशनीयत्वेनादोषात् । राजपदस्याभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वाभावात् । न चैवमपि स्तोकं पचावित्यादौ धातोर्वैशिष्ट्यं स्तोकपदेऽस्ति । क्विपोनुसन्धानेन प्रतियोगितावच्छेदकसम्बन्धस्याभावात्ततश्च समानवचनत्वापत्तिस्तदवस्थेति वाच्यम् । स्वाव्यवहितोत्तरविभक्तिवृत्तिधर्म्मवद्विभक्तिकत्वरूप तृतीयसम्बन्धस्यापि वैशिष्ट्यघटकत्वेन प्रवेशात् । प्रकृते स्विपोनुसन्धानेन तद्वयवधानात् तृतीयसम्बन्धस्याभावेनादोषात् । नन्वेवं मैथिली दारा इत्यादौ दारपदोत्तरविभक्त्यर्थ संख्याया अविवक्षया प्रतियोगितावच्छेदव सम्बन्धाभावेनाभावरूपसम्बन्धसहित सम्बन्धत्रयस्य स - त्त्वेन मैथिलीपदस्य दारपदविशिष्टत्वात्समानवचनत्व नियमापत्तिरिति चेत्-न । मैथिलीपदोत्तरविभक्त्यैकत्वस्य विवक्षितत्वेन स्वोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्धत्वसम्बन्धावच्छिन्नप्रतियोगिता कस्वाभाववत्संख्याविवक्षाविषयविभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावस्य निवेशेनादोपात् । न च दारपदस्य विशेषणवाचकत्वे समानवचनत्वापत्तिस्तदुत्तरविभक्त्या संख्याया अविवक्षितत्वादिति वाच्यं उक्तसम्बन्धत्रयेण विशेष्यवाचकपदविशिष्टं नियतवचनातिरिक्तं पदं विशेष्यबोधकपदसमानवचनमिति स्वीकारात् । नियतवचनत्वञ्च एकवचनत्वद्विवचनत्व बहुवचनत्वान्यतमधर्मव्याप्यविषयताप्रयोजकत्वम् । व्याप्यतावच्छेदकसम्बन्धश्च २ Page #26 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके प्रयोजकत्वरूपः । व्यापकतावच्छेदकश्च स्वाश्रयाव्यवहितपूर्व त्वसम्बन्धः । प्रकृते दारत्वरूपानुपूर्व्यवच्छिन्न प्रयोजकता निरूपितप्रयोज्यतावती स्त्रीत्वावच्छिन्ना विषयता बहुवचनत्वरूपधर्मव्याप्या । यत्र यत्र प्रयोजकत्वसम्बन्धेन स्त्रीत्वावछिन्ना दारत्वरूपाऽऽनुपूर्व्यवच्छिन्नप्रयोजकतानिरूपितप्रयोज्यतावती विषयता तत्र तत्र स्वाश्रयाव्यवहितपूर्वत्वसम्बन्धेन बहुवचनत्वमिति व्याप्तेः सत्त्वात् । तत्प्रयोजकत्वञ्च दारपदे इति तस्य नियतवचनत्वान्न समानवचनत्वम् । १८ नन्वेवमेकत्वबोधकत्वेनाविवक्षिता जात्येकत्वबोधकत्वेन विवक्षिता वा या विभक्तिस्तदन्तविशेष्यवाचकपदघटितस्य द्वौ पुरुषः त्रयः पुरुषः इति वाक्यस्यापि साधुत्वापत्तिः । द्विशब्दत्रिशब्दयोन्नियतव वनत्वेन समानवचनत्वनियमाप्रसक्तेरिति चेत् प्रत्रोच्यते । स्वविशिष्टं वद स्वसमानवचनम् । वैशिष्ट्यञ्च सायोज्यविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वस्यवहितोत्तरविभक्तिवृत्तिप्रत्ययत्ववद्विभक्तिप्रकृतित्वस्वाव्यवहितोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्धसंख्याबोधकत्वतात्पर्य्यविपयविभ क्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिता कस्वाभाववत्व स्वोत्तरविभक्तिवा च्यसंख्यावच्छिन्नानुयोगिताकपर्य्याप्तिप्रतियोगिधर्मावच्छिन्नबोधकत्वतात्पर्य्य विषयत्वस्वोत्तरविभक्तिसमानानुपूर्वीकविभक्तिप्रकृतित्वप्रकारकसम्भावना प्रयोज्यसाधुत्वप्रकारकसम्भावनाविषयत्वाभाववत्त्वोभय्सम्बन्धावच्छिन्नप्र तियोगिताकस्वाभाववत्वैतच्चतुष्टयसम्वन्धेन । मैथिली दारा इत्यादौ दारपदं प्रकारताप्रयोजकम् । तत्र विशेष्यवाचकमैथिलीप विशिष्टत्वं नास्ति । यत आद्यसम्बन्धत्रयसत्त्वेऽपि चतुर्थसम्बन्धो नास्ति । यतोऽभावप्रतियोगितावच्छेदकसम्बन्धद्वयमेवास्ति । तथा हि विशेष्यवाचकमैथिलीपदोत्तरविभक्तिस्सुस्तद्वाच्यैकत्वसंख्यावच्छिन्नानुयोगितानिरूपकपर्य्याप्तिप्रतियोगिभूतो धर्मो दारत्वन्तस्य प्रत्येकपर्य्याप्तत्वात् तदवच्छिन्नबो कत्वेन तात्पर्य्यविपयत्वं दारपदे । एवं स्वोत्तरा विभक्तिः सुस्तत्समानानुपूर्वीकसुविभक्तिप्रकृतित्वप्रकारकसम्भावनाप्रयोज्या यद्ययं दारशब्दः सुविभक्तिप्रकृतिस्स्यात्तदा Page #27 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः साधुः स्यादिति सम्भावना । सा च नास्तीतितादृशसम्भावनाविषयत्वाभाववत्वसम्बन्धश्च दा-पदेऽस्तीति न समानवाचापतिः । द्वौ पुरुषस्त्रयः पुरुष इत्यादयश्च न प्रयोगास्तत्रोक्तचतुष्टयसम्बन्धेन विशेषणवाचकद्वयादिपदे पुरुषपदवैशिष्ट्य सत्त्वेन समानवचनत्वनियमाक्रान्तत्वाच्चतुर्थसम्बन्धघटकीभूतप्रतियोगितावच्छेदकप्रथमसम्बन्धस्य तत्राभावेन चतुर्थसम्बन्धस्यापि सत्त्वात् । तथा हि पुरुषपदोत्तरसुविभक्तिवाच्यैकत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वस्य द्वित्वादौ बाधेन तद्घटितः सम्बन्धो नास्तीति सर्वमुपपन्नम् । न च पुणवन्तौ देव इत्यस्यानिस्तारः । पुष्पवन्तपदवाच्यतावच्छेदकस्य सूर्य्यत्वादेरेकत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वेन दारपदसमानत्वादिति वाच्यं, तम्दापयप्तिप्रतियोगिधर्मविशिष्टत्वस्य निवेशनीयत्वात् । वैसिष्टच स्वान्छितकोषकत्वेन तात्पर्यविप्रयत्वस्वपर्याप्तावच्छेदकलाविरूपिताबच्छेद्यतावती या-शक्यता तन्निरूपितशक्ततावत्वोभयसम्बन्धेन पुष्पदन्तपदशक्यतायाश्च सूर्यत्वचन्द्रत्वोभयपर्याप्तत्वात् । स्वप्रयोज्यत्यादिनिवेशात् स्तोकं सुन्दरौपचावित्यादौ न दोषः। द्वितीयसम्बन्धनिवेशात् स्तोकं पचावित्यादौ न दोषः। तृतीयस्य निवेशेन सुन्दरा दारा इत्यादौ दोषाभावः । चतुर्थस्य निवेशेन मैथिली दारा इत्यादावदोषः । तत्रापि प्रथमस्य प्रतियोगितावच्छेदकस्य निवेशेन द्वौ पुरुष इत्यादौ न दोषः । द्वितीयस्य प्रतियोगित वच्छेदकस्य निवेशेन निलौ घट इति प्रयोगाभावः । · ननु शतं ब्राह्मणा इत्यादौ समानवचनत्वापत्तिरुक्तचतुष्टयसम्बन्धेन शतपदस्य विशेष्यवाच ब्राह्मणपदविशिष्टत्वात् । न च विशेषणवाचकशतपदोत्तरविभक्त्यैकत्व य विवक्षितत्वान्न दोष इति वाच्यं, एकत्वाविवक्षायां शतानि ब्राह्मणा इति प्रयोगापत्तेर्दुर्वारत्वात् । न चैकत्वाविवक्षायान्तादशप्रयोगस्येष्टत्वम् वेति वाच्यं, 'विंशत्याद्याः सदैकत्व' इत्याद्यनुशासनेनैकवचनान्तानामेव विशत्यादिशब्दानां साधुत्वबोधनात् इति चेत्-अत्रोच्यते । विंशत्यादिपदोत्तरविभक्त्या प्रकृत्यर्थतावच्छेदकगतैव संख्या प्रती Page #28 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवाद: [ कारके वोमाद्रवसौ विश्वेदेवा इत्यादौ द्वित्वविशिष्टयोः पुरूरवोमाद्रवःप्रभृत्योविशेषणतया विवक्षितत्वात्तद्वाचकस्य द्विवचनान्तता। वेदाः प्रमाणमित्यत्र च विशेषणपदोत्तरविभक्तया बहुत्वविरुद्धमेकत्वं यते । तथा च विंशतित्वादीनामेकत्वादेकवचनान्ता एव विशत्यादिशब्दास्साधवः । अत्रैव विंशत्याद्या इत्यनुशासनतात्पर्य्यमत एव विंशतित्वशतत्वादौ द्वित्वादिसत्त्वे द्वे विंशती त्रीणि शतानीत्यादयः प्रयोगा उपपन्नाः । तदनुशासनेन विंशत्यादिशब्दानामेकवचनान्तानामेव साधुत्वबोधने तु तेषामसाधुत्वापत्तेः। तस्मादेकत्वाविवक्षायामेकशतेऽपि शतानि हाह्मणा इत्याद्या इष्यन्त एवेति तत्त्वम् । विशेषणवाचकपदे विंशत्यादिसंख्यावाचकातिरिक्तत्वस्य निवेशो वा बोध्यः । नन्वेवं 'मैथिली तस्य दारा' इतिवत् साधुत्वेन प्रतीतस्य रुक्मिणीसत्यभामे कृष्णस्य दारा इत्यस्य साधुत्वानापत्तेः । विशेष्यवाचकरुकमिणीसत्यभामपदोत्तरविभक्तिवाच्यद्वित्वसंख्यायां दारत्वप्रतियोगिकपर्याप्त्यनुयोगितानवच्छेदकत्वात् । त्रयः पुरुष इत्यादेरिव तस्य समानवचनत्वनियमाक्रान्तत्वादिति चेत्-अत्रोच्यते । वाच्यत्वघटितसम्बन्धस्थाने स्वोत्तरविभक्तिवाच्यसंख्याविशिष्टधर्मावच्छिन्नबोधकत्वस्य निवेश । वैशिष्ट्यञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वस्वन्यूनसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वान्यतरसम्बन्धेन । तथा च नापत्तिरित्वस्य द्वित्वन्यूनसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वादिति दिक् ।। द्वित्वविशिष्टयोः पुरूरवोमाद्रवः प्रभृत्योरिति । पुरूरवःपदं पुरूरवोघटितसमुदायपरम् । माद्रवःपदं तद्घटितसमुदायपरम् । विशेषणवाचकपदोत्तरविभक्त्या द्वित्वं विवक्षितमिति समानवचन वाभावः । वेदाः प्रमाणमित्यादौ समानवचनत्वाभावमुपपादयति-वेदाः प्रमाणमित्यत्र चेति । एकत्वं विवक्षितमिति । नन्वेकत्वं प्रकृत्यर्थे प्रमाणे बाधितन्तस्य बहुत्वादि Page #29 -------------------------------------------------------------------------- ________________ प्रथना ] जयाऽलङ्कृतः २१ विवक्षितं तच्च प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति । शाब्दप्रमाकरणत्वं च शब्दत्वावच्छिन्नं यावच्छब्दनिष्ठमेकमेवेति नायोग्यता। नच-पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिविरोधः संपन्नो त्यत आह-तच्वेति । एकत्वञ्चेत्यर्थः। शब्दत्वावच्छिन्नेति । अवच्छेदकस्य शब्दत्वस्यैकत्वात्तदच्छिन्नस्य करणत्वस्याप्येकत्वेन तत्र तस्याबाधात् । नन-साक्प्रमाकरण त्वमित्यस्य शाब्दत्वविशिष्टप्रमात्वावच्छिन्नकार्यतानिरूपितकारणत्वमित्यों न सम्भवति । शब्दत्वावच्छिन्नकारणतानिरूपितकार्यताया भ्रमात्म कशाब्दबोधसाधारणतया तदपेक्षया शाब्दप्रमात्वस्य न्यूनवृत्तित्वेन तादृश कार्य्यतावच्छेदकत्वासम्भवात् । प्रमात्वस्य च वस्तुसद्भावाधीनतया शब्दजन्यतावच्छेदकत्वे मानाभावाच्च स्वजन्यकायें स्वप्रयोज्यस्यैव स्वजन्यतावच्छेदकत्वौचित्यात् । नमामि सान्दप्रमानिष्ठकार्य्यतानिरूपितेत्याद्यर्थः । सा च कार्यता शाब्दत्वावच्छिन्नैव स्यात्तस्या भ्रमप्रमासाधारण्येन वह्निना पिञ्चतीतिवाक्यजन्यभ्रमात्मकज्ञानेऽपि सत्त्वेन तन्निरूपितकारणतावति वह्निना सिञ्चतीति वाक्येऽपि प्रमाणमिति व्यवहारापत्तेरिति चेत्-प्रत्रोच्यते । शाब्दत्वावच्छिन्नकार्य्यतायाः शब्दत्वावच्छिन्नकारणतानिरूपिताया भ्रमप्रमासाधारण्येऽपि प्रमावृत्तित्वविशिष्टायास्तस्याः प्रमायामेव स्थितिरितिवत्तनिरूपितकारणताया अपि प्रमाजनकवाक्ये एव स्थितिरिति मन्यते । तथा च शाब्दप्रमाकरणत्वमित्यस्य शाब्दत्वावच्छिन्नप्रमावृत्तित्वविशिष्टकार्यतानिरूपितकारणत्वमित्यर्थः । तथा च न भ्रमजनके वह्निना सिञ्चतीति वाक्य प्रमाणत्वव्यवहार इति दिक् । न च पदार्थः पदार्थेनेति । पदार्थः पदार्थेनान्वेति-न पदार्थंकदेशेनेतिव्युत्पत्तेः स्वरूपम् । प्रकृते प्रमितिकरणत्वस्य प्रमाणपदार्थंकदेशतया तत्रैकत्वान्वयासम्भवो व्युत्तत्तिविरोमादिति भावः । एवस्या व्युत्पत्तेरङ्गीकारादेव घटत्वेऽभेदेन नित्या वयतात्पर्य्यकस्य नित्यो घट-इति वाक्यस्य नापत्तिः । Page #30 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके घटत्वस्य पदार्थंकदेशत्वेन तत्र नित्यान्वयस्य प्रकृतव्युत्पत्तिविरुद्धत्वात् । नन्वन्वधितावच्छेदकरूपेणोपस्थितपदार्थे एव पदार्थान्वयात् । स्वरूपत एव घटपदोपस्थिते घटत्वादावन्वयासम्भवेन नापत्तिरिति चेत्-न । जातित्वविरिष्ठजातिमत्ताल्पली कलच्छब्दघटितस्य जातिल्वावच्छिलेऽभेदेन नित्यान्वयबोधकस्य नित्यः स इति वाक्यस्य प्रामाण्यापत्तेः । अतव्युत्पत्तिमूलभूतः कार्यकारणभावोऽपि विचार्यते । किचिनिष्ठप्रकास्लामिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन पदजन्योपस्थितिः कारणम् । घटत्वादौ विशेष्यतासम्बन्धेन घटपदजन्योगस्थितेरभावेन तत्र पदार्थान्तरान्वयाभावः। नच नित्यः स इत्यादौ जालावुपस्थितीयविशेष्यतायाः सत्त्वेन नित्यान्वयो दुर्वार इति वान्यं, मुख्यबिशेष्यताया एव कारणतावच्छेद्रकत्वाभ्युपगमात् । तस्माच्च जातित्वनिष्ठप्रकारतानिरूपितायामाश्रयनिष्ठविशेष्यतानिरूपितप्रकारतासामानाधिकरण्येन प्रकास्त्वासमानाधिकरणविशेष्यतास्वरूपमुख्यत्वासम्भवात् । --च. घटादावपि घटवदर्थकतत्पदजन्योपस्थितीयप्रकारतायाः सत्त्वेन मुख्यविशेष्यतयोपस्थित्यभावेन नीलादेरन्वयानापत्त्या नीलो घट इत्यस्याप्यप्रमा गत्वापत्तिरिति वावं, स्वनिरूपितत्वस्वनिरूपिलप्रकारत्वासामानाधिकरण्योभयसम्बन्धन स्वचिसिष्टविशेष्यतासम्बन्धेनोपस्थितिः कारणमित्यभ्युपगमेन पदान्तरजन्योपस्थित्यन्तरीयप्रकारतायाः सत्त्वेऽप्यापत्तिविरहात स्वमुपस्थितिः । अवैध मपि घटवान् तत्पदशक्यो घटो घटपदशक्य इति ज्ञानद्वयाधीनसमूहालम्बनो. पस्थितिजन्यो नीलो घट इति बोधो न स्थात् । घटनिष्ठयोस्तदीयप्रकारता. विशेष्यतयोस्सत्त्वेन मुख्य विशेष्यतयोपस्थितेर्घटेऽसत्त्वात् । अनोच्यते। स्कप्रयोज्यविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति स्वजन्योपस्थितिः स्कविशिष्ठविशेष्यतासम्बन्धेन कारणम् । विशेष्यतायां वैशिष्टयं स्वजन्यतम्बच्छेदकत्वस्वजन्यतावच्छेदकप्रकारत्वासामानाधिकरण्योभयसम्बन्धेनेति न दोषः । न च लाङ्गले पशुपदप्रयोज्या या तत्पदप्रयोज्यलोमनिष्ठप्रकारतानिरूपितविशेष्यता तद्रूपसम्बन्धेन शाब्दबोधो न स्यात् । पशुपदजन्योप Page #31 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः . २३ स्थितेरुक्तसम्बन्धेनाभावादिति वाच्यम् । कार्यतावच्छेदकीभूतविशेप्यतायां स्वेतरपदप्रयोज्यप्रकारतानिरूपितत्वस्यापि निवेशेनादोषात् । तस्वाश्च पशुपदायोज्ययैव लोमनिष्ठप्रकारतया निरूक्तित्वात् । नन्वेचं देवदत्तस्य गुरुरित्यादौ गुरुत्वे गुरुपदप्रयोज्योपस्थितीया गुरुत्वत्वनिष्ठप्रकारतानिरूपिताविशेष्यता यद्यप्यस्ति परन्तु तस्यां गुरुनिष्ठविशेष्यतानिरूपितप्रकारतासामानाधिकरण्यस्यैव सत्त्वेन गुरूल्ने निरूक्तित्वसम्बन्धेनेष्टस्य देवदत्तान्वयस्याना पत्तिरिति चेत्-न । कार्यतावच्छेदकीभूतविशेष्यतायां नित्यसाकाङ्क्षावृस्तित्वस्य निवेशनीयत्वात् । गुरुत्वादिकञ्च नित्यसाका क्षम् । तत्पश्च स्वनिरूपकाकाङ्क्षाव्याप्यज्ञानविषयत्वम् । स्कञ्च गुरुत्वादिकम् । ततश्न प्रकृतशाब्दबोधीयविशेष्यताया गुरुत्वनिष्ठायाः प्रकृतकार्यत्मनवच्छेदकत्वान्नापत्तिः । नम्वेवमपि अगुरुपदार्थस्याभेदेन गुरुत्वपदार्थेऽन्वयतात्पर्येण गुरुरगुरुरित्यापद्येत । नित्यसाकाङ्क्षतया गुरुत्वनिष्ठाया पापाद्यमानशाब्दबोधीयविषयतायाः कार्य्यतावच्छेदकसंसर्गत्वाभावादिति चेत्-न । प्रकास्तानिरूपितत्वस्थाने प्रकारताविशिष्टत्वस्य निवेशनीयत्वात् । वैशिष्टयञ्च स्वनिरूपितत्वस्वाश्रयनिरूपितत्वाभाववद्वृत्तित्वोभयसम्बन्धेन देवदत्तस्य गुरुरित्यादौ देवदत्तनिष्ठप्रकारतायाः स्वनिरूपितत्वेऽपि स्वाश्रय देवदत्तनिरूपितगुरुत्ववृत्तित्वस्यैव विशेष्यतायां सत्त्वेन वैशिष्टयाभावेनागुरु पदार्थनिष्ठप्रकारतायाः स्वाश्रयागुरुनिरूपितत्वाभाववद्गुरुत्ववृत्तित्वस्वनिरू पितत्वोभयसम्बन्धेन गुरुत्वनिष्ठविशेष्यतायां वैशिप्ट्यस्य सत्त्वेन च नोभयत्र दोषः। प्रकृत्या चारुरित्यादौ चारुत्वे चारुपदार्थविगेपणीभूते प्रकृतेरभेदेन संसर्गेणान्वयः कथम् । तत्र निरुक्तसम्बन्धेनोपस्थितेरभावादिति चेत्-अत्रोच्यते । प्रकृत्यादिगणनिष्पन्नतृतीयार्थाभेदस्य प्रकारतयैव भानम् । ततश्च संसर्गघटकप्रकारतायां विभक्त्यप्रयोज्यत्वं निवेश्यते । प्रकृतेऽभेदनिष्ठप्रकारतायां विभक्तिप्रयोज्यत्वस्यैव सत्त्वेन कार्यतावच्छेदकसंसर्गाभावाददोषोऽत एव सम्पन्नो व्रीहिरित्यादौ व्रीहौ बहुत्वरूपसम्पत्तिविशिष्टे एकत्वान्वयस्य बाधेन ब्रीहित्वे विभक्त्यर्थंकत्वस्यान्वयेऽपि Page #32 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके व्रीहिरित्यनेकनीहितात्पर्यकेप्येकवचनदर्शनेन तादृशव्युत्पत्तिसङ्कोचस्यावश्यकत्वात् । यदि-च स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसम्बन्धेन प्रकृत्यर्थ एवैकत्वान्वयः, व्रीहित्वजाते: स्वरूपत एव व्रीह्यादिपदशक्यतावच्छेदकतयाऽन्वयितावच्छेदकरूपेणानुपस्थितेस्तत्र पदार्थान्तरस्यान्वयानुपपत्तेरिति मन्यते, तदा प्रकृतेऽपीदृश्येव गति: यनु संपन्नो व्रीहिरित्यादावेकवचनोपस्थितानि नानैकत्वानि प्रत्येक नानात्रीहिष्वन्वीयन्ते इत्युक्त्यैव सामञ्जस्ये जातावेकत्वमानोपगमो निरर्थक इति । तल्सत् । यत: स्वसजातीयनिष्ठभेदप्रति व्यभिचाराभावः । एकत्वनिष्ठप्रकारताया विभक्तिप्रयोज्यत्वात् । एवञ्च वेदाः प्रमाणमित्यादौ प्रमाकरणत्वे एकत्वान्वयोऽप्युपश्यते । समानावच्छिन्नविशेष्यताकनिश्चयस्यैव विरोधिज्ञानप्रतिबन्धकतया तस्यैव प्रवृत्तिनिवृत्तिप्रयोजकतया निरवच्छिन्नविशेष्यताकेतरपदार्थप्रकारकशाब्दबोधस्यानुपयोगेनानभ्युपगमात् स्वरूपत उपस्थिते व्रीहित्वे एकत्वान्वपो न सम्भवतीत्य साह-यदि चेत्यादि । स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वेति । स्वमेकत्वन्तदाश्रयः प्रकृत्यर्थतावच्छेदकं व्रीहित्वं तद्वत्त्वं ब्रीहौ सम्बन्धः। अन्वयितावच्छेदकरूपेणेति । ननु प्रकृतान्वयिता एकत्वनिष्ठप्रकारतानिरूपिताविशेष्यतैव । तदवच्छेदकञ्च न किमपि व्रीहित्वत्वस्यानुपस्थितत्वादन्यस्य कस्य चिदसम्भवात् प्रकृतान्वयितावच्छेदकरूपमप्रसिद्धमिति चेक्न्वयितावच्छेन्द्रकतया सम्भावितं यद्रूपं व्रीहित्वत्वन्तद्रूपेणेत्यर्थेनाप्रसिद्धयभावात् । प्रकृतेऽपीति । वेदाः प्रमाणमित्यत्रापीत्यर्थः । ईदृश्येवेति । स्वाश्रयप्रमितिकरणत्ववत्त्वसम्बन्धेन प्रमाण एवैकत्वान्वय इत्यर्थः । तथा च न तदर्थ व्युत्पत्तिसंकोच इति भावः । स्वसजातीयनिष्ठेत्यादि। यत्रैकत्वान्वयो विवक्षितस्तत्र' स्वसजातीयरहितत्वमेवैकत्वं विभक्तिप्रतिपाद्यम् । स्वमत्र घटादिः । ननु यत्र सजातीयो Page #33 -------------------------------------------------------------------------- ________________ __ २५ प्रथमा ] जयाऽलङ्कृतः योगितानवच्छेद कैकत्वरूपसजातीयद्वितीयरहितत्वमेकवचनार्थः न त्वेकत्वमात्रम् । तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभात्। अनुपयोगाच्च । अत एव पशुना यजेत इत्यादौ पशुनिष्ठतादृशैकत्वस्य विवक्षितत्वादनेकपशुकरणकयागान्नादृष्टसिद्धिः सानात्यं च स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्वरूपेण । अतोऽत्र घटोऽतीत्यादौ घटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वा द्वितीयोऽस्ति तत्रा परस्मिन घटादौ तदद्वितीयाभावरूपं रहितत्वं वर्तत. एवान्यस्य रहितल स्य वर्णयितुमशक्यत्वादित्यतः स्वयमेव परिष्करोति-' स्वसजातीयनिष्ठेत्य दिना । स्वसजातीयत्वं स्ववृत्तिधर्मवत्त्वम् । तत्र स्वं' घटादिस्तद्वृत्तिधर्मः क इति जिज्ञासायामाह-साजात्यञ्चेति । स्वसमभिव्याहृतपदार्थेत्यादि । स्वं यदर्थ एकत्वं वर्ण्यते तदेकवचनं स्वादिः । तत्समभिव्याहृतन्तद्घटितवाक्यघटक पदमत्र घटोऽस्तीत्यादौ-अत्रेत्यादि। तदर्थ एनहे विद्यमानत्वा दस्तत्संसर्गः स्वरूपादिः । प्रकृत्यर्थतावच्छेदकञ्च घटबादिः तथा चात्र घटोऽस्तीत्यादौ स्वर्थंकत्वं घटे प्रतीयते तच्चैकत्वं घटे किमित्यांकाङ्क्षायां घटवृत्तयो ये धर्माः सुप्रकृत्यर्थतावच्छेदकं घटत्वं सुसमभिव्याहृतपदा तद्देशविद्यमानत्वादिस्वरूपादिसंसर्गाश्च तद्वत्त्वम् । यदि तस्मिन् देशे द्वितीयो घटोऽस्ति तदा तत्र तन्निष्ठो भेद एतद्घटगतैकत्ववान्नेत्याकारकस्तत्प्रतिय गितावच्छेदकमेव तदेकत्वम् । यदि तत्र द्वितीयो नास्ति तदा स्वयमेव स्वसज तीयस्तनिष्ठस्तद्गतैकत्ववानेत्याकारको भेदो नास्ति। किन्तु देशान्तरीय दिनिष्ठैकत्ववान्नेत्याकारक एव तत्प्रतियोगितानवच्छेदकमेतद्देशस्थघटतमेकत्वमिति तदेकवचनप्रतिपाद्यमिति निष्कर्षः ।। ___ नन् यदैतद्देशे एको घटो ब्राह्मणस्यापरश्च शूद्रस्य तदाऽत्र ब्राह्मणस्य घटोऽस्तीति प्रयोगो न स्यादेतद्घटवृत्तिर्यः प्रकृत्यर्थतावच्छेदकघटत्वं सुसमभिव्याहृतपदार्थेतद्देश विद्यमानत्वसंसर्गश्च तद्वत्त्वमपरस्मिन् शूद्रघटे तनिष्ठभेदप्रतियोगितावच्छे कत्वमेव ब्राह्मणघटगतैकत्व इत्येकवचनप्रयोगोऽसंगत Page #34 -------------------------------------------------------------------------- ________________ [ कारके व्युत्पत्तिवादः इति चेत्-न । यावत्स्वसमभिव्याहतपदार्थसंसर्गस्य विवक्षितत्वात् । प्रकृते. ब्राह्मणस्य घटे ब्राह्मणसंसर्गोऽस्ति स शूद्रघटे नास्तीत्वनः । न च स्वस्वामिभावस्यासत्त्वेऽपि कालिकादिसंसर्गोऽस्त्येवेति वाच्यं, शाब्दबोधविषयसंसर्गस्यैव विवक्षितत्वेन कालिकादिसम्बन्धसत्ताया अकिञ्चित्करत्वात् । न च कस्मिँश्चिच्छाब्दबोधे कालिकादेरपि विषयत्वसम्भवात्तस्य च प्रकृते सत्त्वादोष एवेति वाच्यं, प्रकृतशाब्दबोधविषयताया एवापेक्षितत्वात् । कालिकसम्बन्धेन देवदत्तविशिष्टो यज्ञदत्तः अत्र घटोऽस्तीतिवाक्यद्वयजन्यसमूहालम्बनबोधमादाय तस्या अपि तत्र सम्भवादिति चेत् । स्ववृत्तयो यावन्तः सुसमभिव्याहृतपदार्थसंसर्गास्तेषां सर्वेषां सत्ताया अपेक्षितत्वात् । प्रकृते कालिकादेाह्मणसंसर्गस्य शूद्रघटे सत्त्वेऽपि स्वस्वामिभावरूपस्य तद्घटे वर्तमानस्य ब्राह्मणसंबंधस्य शूद्रघटेऽसत्त्वेन यावत्संसर्गाभावेनादोषः । पशुना यजेतेत्यनेनैकत्वविशिष्टपशकरणके याग इष्टजनकत्वं बोध्यते । तत्र पशुसजातीयो द्वितीयो नास्ति किन्तु स्वयमेव स्वसजातीयस्तनिष्ठभेदप्रतियोगितानवच्छेदकत्वं तद्गतैकत्वेऽस्तीति समन्वयः । पशुद्व प्रकरणकयागे च नानया श्रुत्याऽदृष्टजनकत्वं बोध्यते तत्रैकत्वविशिष्टपशुकरणकयागत्वरूपोद्देश्यतावच्छेदकानाक्रान्तत्वात् । तद्यागीयद्वितीयपशोरपरपशुसजातीयस्य सत्त्वेन एकत्वविशिष्टपशोरभावात् । ननु सर्वस्यैकत्वविशिष्टपशुकरणकयागस्यानयाऽदृष्टजनकत्वबोधनाय सर्वस्तादृशो याग एतद्यधातुरूप- . पदार्थः । तत्संसर्गस्य पशुत्वरूपप्रकृत्यर्थतावच्छेदकस्य च या गान्तरीयपशौ सत्त्वात्स एव एतद्यागीयपशुसजातीयस्तद्रहितत्वमेतत्पशौ नास्तीति कथमेकत्वविशिष्टपशुकरणको यागः प्रसिद्ध इति चेत्-न । एतत्पशुवृत्तिरेतद्यागव्यक्तिसंसर्गस्स च यागान्तरीयसंसर्गवति पशौ नास्तीति तस्यैतत्सजातीयत्वाभावात् । एवं नरेण नरो यजेतेत्यादावपि करणभूतनरसजातीयत्वं कर्तृभूतनरे तत्सजातीयत्वन्तस्मिन् वा नरे नास्ति करणभूतनरे यागस्य करणत्वं संसर्गस्स च कर्तरि नरे नास्ति। तस्मिन् नरे यागस्य कर्तृत्वं संसर्गस्स च करणभूते तस्मिन् नास्तीत्यतः स्ववृत्तिसंसर्गवत्त्वस्यान्यत्राभावात् किन्तु Page #35 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः २७ स्वयमेव स्वसजातीयन्तनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तद्गतैकत्वे सत्त्वेनोभयत्रैकवचनोपपत्तिः न च बहुब्राह्मणकर्तृकशयनाधिकरणस्थानतात्पयेणात्र ब्राह्मणः श्ते इत्यापद्येत । कर्त्तभेदेन शयनक्रियाया भेदादेकब्राह्मणवृत्तिर्यः शयनक्रियाव्यक्तिसम्बन्धः । स ब्राह्मणान्तरे नास्तीति स्वसजातीयत्वं स्वस्मिन्नेव तनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तदेकत्वे सत्त्वादिति वाच्यं, पदार्थसंसर्गित्वमित्यत्रत्यपदार्थपदेन पदार्थतावच्छेदकस्य ग्रहणनादोपात् । तथा च ब्राह्मणे यः शयनत्वरूपपदार्थतावच्छेदकस्य सम्बन्धः स्वावच्छित्रनिरूपित् कर्तृत्वरूपस्तस्यैव ब्राह्मणान्तरे सत्त्वेनैतद्ब्राह्मणसजातीयो द्वितीयो ब्राह्मणस्तद्रहितत्वाभावेनैकवचनोपपत्त्यभावात् । अथैवं सति शुना यजेतेत्यत्र दोष एव । तत्राप्येतत्पशुनिष्ठो यो यागत्वरूपपदार्थतावच्छेदकसम्बन्धः स्वावच्छिन्ननिरूपितकरणत्वरूपस्तस्यैव यागान्तरीयपगावपि सत्त्वेन तस्याप्येतत्पशुसजातीयत्वेन तद्रहितत्वाभावादिति चेत-सत्यम् । अत्र यज्धातो-गत्वोपलक्षिततत्तद्वयक्तित्वावच्छिन्ने लक्षणा । ततश्चैतद्यागीयपशौ यो यज्पदार्थतावच्छेदकतद्व्यक्तित्वसम्बन्धस्तस्य यागान्तरीयपशावभावात् तत्र हि भिन्नतद्वयक्तित्वस्य स्वावच्छिन्नकरणत्वसम्बन्ध इति यागान्तरीयपशोरेतत्पशुसाजात्याभावेन दोपानवकाशात् ।। केचित्तु पदार्थादं पदजन्योपस्थितिमुख्यविशेष्यपरमेव यज्धातुर्यागत्वावच्छिन्नपर एव । बहुव्राह्मणकर्तकशयनस्थले अत्र ब्राह्मणः शेते इतीष्यते एव । न चैवं सति बहुघटसत्त्वदशायामत्र घटोऽस्तीति वाक्यन्तु जात्येकत्वादेव समर्थनीयमिति ग्रन्थासङ्गतिर्बहुब्राह्मणकर्तृकशयनदशायामत्र ब्राह्मणः शेते इत्यस्येवास्यापि व्यक्त्यैकत्वपरतयाऽपि साधुत्वोपपादनसम्भवादिति वाच्यं, प्रत्र घटोऽस्तीत्यादौ घटत्वावच्छिन्नाधेयताया एवास्धात्वर्थसत्तारूपतया तप्या एकत्वेनात्र ब्राह्मणः शेते इत्यतो वैलक्षण्यसम्भवादित्याहुः । स्वविशिष्टमेकत्वमेकवचनार्थः । वैशिष्टयञ्च स्वाभाववत्त्वसम्बन्धेन । प्रतियोगितावच्छेदकसम्बन्धश्च स्वविशिष्टावच्छेदकतावत्त्व Page #36 -------------------------------------------------------------------------- ________________ २८ व्युत्पत्तिवादः [ कारके प्रसिद्धावपि न क्षतिः। एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्यैव तत्र बोधादिति तस्य च प्रसिद्धत्वात्। एतद्देशे बहु रूपः । तत्र वैशिष्ट्यं स्वप्रयोज्यप्रकारतावच्छेदकतया विवक्षितसंसर्गावच्छिन्नत्वस्वविशिष्टनिष्ठभेदप्रतियोगितानिरूपितत्वोभयसम्बन्धेन । तत्र वैशिष्टयं स्वप्रकृत्यर्थतावच्छेदकधर्मवत्त्वस्वविशिष्टसमुदायत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावत्त्वोभयसम्बन्धेन । समुदायत्वे वैशिष्टयं स्वप्रकृत्यर्थनिष्ठाधिकरणतानिरूपिताधेयतावच्छेदकत्वस्वसमभिव्याहृतपदार्थसंसर्गवृत्तित्वस्वसमभिव्याहृतपदार्थसंसर्गतरावृत्तित्वस्वसमभिव्याहतपदार्थसंसर्गवृत्त्यभावाप्रतियोगित्वैतच्चतुष्टयसम्बन्धेनेति तत्त्वम् । संसर्गश्च स्वप्रयोज्यशाब्दबोधीयविषयतया साक्षात्परम्परया निरूपितविषयताश्रयो ग्राह्यस्तेन प्रकृतशाब्दबोधाविषयसंसर्गमादाय नातिप्रसङ्गः । बहुविशेषणानां फलान्युक्तान्येवावशिष्टमुच्यते । सम्पन्नो व्रीहिरित्यादौ व्रीहित्वगतै कत्वे सजातीयव्रीहिनिष्ठो यो व्रीहित्वगतैकत्ववान्नेत्याकारको भेदस्तत्प्रतियोगितावच्छेदकत्वस्यैव सत्त्वेन कथन्तदेकवचनार्थ इति शङ्कावारणायावच्छेदकतायां स्वप्रयोज्यप्रकारतावच्छेदकेत्यादिनिवेशितम् । प्रकृतभेदीयप्रतियोगितावच्छेदकतायास्समवायसम्बन्धावच्छिन्नत्वेन स्वप्रयोज्यप्रकारताच्छेदकः स्वाश्रयाश्रयत्वरूपस्तदवच्छिन्नत्वाभावात् । तत्र हि स्वार्थकत्वस्य स्वाश्रयाश्रयत्वसम्बन्धेनैव बीहावन्वयेनापत्त्यभावः । स्वाश्रयाश्रयत्वसम्बन्धेन व्रीहित्वगतैकत्वविशिष्टभेदस्य च ब्रीहावभावादिति दिक् । स्वसमभिव्याहृतेत्यत्र स्वमेकवचनम् । साजात्यनियामकतया प्रकृत्यर्थतावच्छेदकधर्ममात्रस्यं चहणे दोषमाहअतोऽत्र घटोऽस्तीत्यादाविति । अतः स्वसमभिव्याहृत पदार्थसंसर्गित्वनिवेशादित्यर्थः । अन्यथा घटमात्रस्य सजातीयत्वादिति भावः । समभिव्याहृतेत्यादिनिवेशलभ्यमाह-एतद्देशविद्यादानेत्यादि तादृशवाक्येति । अत्र Page #37 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः २६ घटसत्त्वदशायां तादृशवाक्यप्रयोगस्तु जात्येकत्वादेव समर्थनीयः ।। यत्तु एकत्वाविवक्षायामपि भावाख्यातस्थले एकवचनस्य साधुत्वदर्शनात्संख्याया अविवक्षणेऽपि संपन्नो व्रीहिरित्यादावेकवचनोपपत्तेरलं जात्येकत्वपरतया तत्र समर्थनेनेति तदप्यकिञ्चित्करम् । भावाख्यातस्थले गत्यन्तरविरहेण विभक्तनिरर्थकत्वोपगमात् । तत्र च सार्थकत्वोपगमसम्भवे तत्परित्यागस्यानुचितत्वात् । सति तात्पर्ये तद्बोधस्यानुभविकत्वाच्चेति। एवं 'त्रयः समुदिता हेतु'रित्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरं ताहशसमुदायत्वान्वितमेकत्वमेकवचनार्थः। अत...एव शक्त्यादीनां घटोऽस्तीतिवाक्येत्यर्थः । एवं त्रयः समुदिता हेतुरित्यत्र हेतुपदमित्यादि । हेतुपदस्य प्रयोजकत वच्छेदकसमुदायत्वावच्छिन्ने लक्षणा कार्योत्पत्तिरिति तु पर्यवसितार्थकथ सन्न तु लक्ष्यतावच्छेदककुक्षौ तस्य प्रवेशस्तदुद्भव इत्यनेनैव कार्योत्पतं त्यस्य लाभात् । प्रयोजकता च शक्तिनिपुणताऽभ्यासात्मके समुदाये कायोत्पत्तिसमानाधिकरणाभावाप्रतियोगित्वरूपा । प्रत एव शक्त्यादीनामिति । शक्तिनिपुणताऽभ्यासा इतिपदोपस्थिताः हेतुपदाच्च प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्न उपस्थितस्तस्याभेदसम्बन्धेनेत्यर्थशक्त्यादावन्वयस् तदर्थंकदेशे समुदायत्वे स्वर्थंकत्वस्यान्वयस्तदुद्भवे इत्यस्व काव्योत्पत्तीत्यर्थस्तस्याश्च प्रयोजकतायां सप्तम्यर्थनिरूपितत्वसम्बन्धेनान्वयः । तथा च काव्योत्पत्तिनिरूपितप्रयोजकतावच्छेदकैकत्वविशिष्टसमुदायत्वावच्छिन्नाभिन्नाः शक्तिनिपुणताभ्यासा इति इतिहेतुस्तदुद्भव इति वाक्यात् त्रयः समुदिता हेतुरिति वाक्याच्च बोधः। समुदिता इति विवरणवाक्यघटकपदं हेतुपदस्थोक्तार्थलाक्षणिकत्वं बोधयति । एवं च यथा दाहं प्रति तृणस्यारणेश्च म गेश्च स्वातन्त्र्येण कारणत्वं नैकसहायेनापरस्य तथैव काव्योत्पत्तौ शत्यादीनां प्रत्येक कारणत्वमित्येव कुतो न काव्य Page #38 -------------------------------------------------------------------------- ________________ _व्युत्पत्तिवादः [ कारके त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः । तथा सत्येषामेकैकसमवधानदशायामपि कार्योत्पत्तेरावश्यकतया तत्तितयपर्याप्तसमुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वानुपपत्तेः। एवंजात्याकृतिव्यक्तयः पदार्थ इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्तस्यैकत्वं विवक्षितमिति तत्र प्रकाशतात्पर्य्यमिति सङ्काया अनवकाशः । उक्तवाक्यार्थविरोधात् । प्रत्येकमन्यासहायेन कारणत्वे एकस्यापि शक्त्यादेः सत्त्वे कार्योत्पतेरावश्यकतया प्रत्येकं प्रयोजकतापर्याप्तिर्वक्तन्या। तथा च विलयपर्याप्तसमुदायत्वस्यातिप्रसक्तत्वेन तदनवच्छेदकता तदवच्छेदकसमुदायत्वघटितोक्तवाक्यार्थविरोधः स्पष्ट एव । ननु हेतुपदं शक्यार्थपरमेव कुतो न ग्रन्थकृत्तात्पर्य्यविषयीभूतन्तथा सति तणारणिमणिन्यायेन हेतुताप्रसज्यतेति तु नाशङ्कतीयम् । दण्डादीनां घटं प्रतीवान्वयव्यतिरेकाभ्यामेव निर्णयसम्भवादिति चेत-न । हेतो - नात्वात् शक्तित्वाद्यवच्छेदकभेदेन हेतुताया अपि नानात्वाञ्च+ स्वर्थंकत्वस्यान्वयासम्भवेनाविवक्षाया एव वक्तव्यतया त्रयः समुदिता हेतुरित्यत्रासमानवचनत्वानुपपत्तेरिति दिक् ।। त्रितयनिष्ठस्येत्यादि । घटादिपदनिरूपिता शक्तिर्घत्वादिजातिसमवायादिसम्बन्धघटादिव्यक्तिनिष्ठा एकैवेति । तत्रैवैकत्वान्वय इति पदार्थे जात्यादावेकत्वबाधेऽपि न क्षतिः । न च घटादिपदशक्तिः का या जातिसम्बन्धव्यक्तिषु एका स्यात् । किञ्च पदशक्तिरित्यस्य कोऽर्थः ? पदनिरूपिता पदनिष्ठा वा शक्तिः । शक्तेरीश्वरेच्छारूपत्वेश्वरनिष्ठायां तस्यां पदनिरूपितत्वनिष्ठत्वयोर्बाधात् जात्यादिनिष्ठत्वस्य बाधाच्चेति वाच्यम् । पदजन्यवोधविषयता शक्तिः । पदशक्तिरित्यस्य पदसम्बन्धिनी शक्तिरित्यर्थः । सम्बन्धश्च स्वजन्यबोधनिरूपितत्वरूपः । सा च निरुक्त Page #39 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः । विशेष्यपदस्य बहुवचनान्तत्वेऽपि विशेषणपदस्यैकवचनान्ततोपपत्तिः। प्रत्यक्षानुमाने यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेनाविवक्षितत्वात्प्रमाणपदस्य बहुवचनान्ततेति । एवं पितरो देवता इत्यत्रापि पितृपिता विषयतारूपा शक्ति स्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितेश्वरीयेच्छीयविशेप्यताव त्वसम्बन्धेन व्यक्तौ वर्त्तते स्वनिष्ठविशेष्यतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नप्रकारतावत्त्वसम्बन्धेन जातौ वर्त्तते स्वनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकसंसर्गघटकावच्छेदकतावच्छेदकत्वसम्बन्धेन समवायादौ वर्तत इति त्रितयनिष्ठत्वमपि तस्या उपपद्यते । एतेनेश्वरेच्छायाः शक्तित्वे ईश्वरेच्छायाः समूहालम्बनात्मिकाया एकस्या एव सत्त्वेन शक्तशक्यतावच्छेदकभेदेनापि शक्तिभेदानापत्तेः । तद्विषयतायास्तत्त्वे बोधादेरपि घटादिप शक्यत्वापत्तेस्तस्यापि तदिच्छाविषयत्वात्तादृश विषयशानामे कत्त्वाभावाच्छ तावप्येकत्वाभाव इत्यादिवदन्तोऽपास्ताः । प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्येत्यादि । प्रत्यक्षप्रमाऽनुमानप्रमादीनां भिन्नत्वात् । तत्तत्करणतानाञ्च प्रत्यक्षादिनिष्ठानां प्रत्यक्षत्वानुमानत्वाद्यवच्छेदकभेदेन भिन्नत्वादिति भावः । ___ ननु प्रमेत्यनुगत तीत्यनुरोधेन प्रमात्वस्यैकस्यावश्याभ्युपगन्तव्यत्वेन तत्रैवैकत्वान्वयाय विभ त्यर्थंकत्वविवक्षाऽस्त्विति चेत्-न । प्रवृत्तिनिमित्तदाधमान्यतरान्वितैकत्वबोधं प्रत्येव प्रकृतिप्रत्ययानुपूर्वीरूपस्याकाङ्क्षात्वाभ्युपगमेन प्रमात्वान्वि कत्वबोधं प्रति प्रमाणमित्यस्य निराकाङ्क्षत्वेन लादशवोधासम्भवेनैकत्वस्याविवक्षितल्वात् । पितरो देवता इत्यत्र त्यागोद्देश्यत्वमेव । देवतालाञ्च पितृत्वपितामहत्वाद्यवच्छेदकभेदाद्भिन्नमिति न कुत्राप्येकत्वान्वययोग्यतेत्येकत्वस्याविवक्षया समानवचनत्वम् । पितृभ्यः स्वधेतिव्यवहारस्तु न प्रमाणिक इति भावः । Page #40 -------------------------------------------------------------------------- ________________ ३२. व्युत्पत्तिवादः [ कारके महत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । उद्देश्यतावच्छेदकभेदेनैव उद्देश्यताभेदात् । तत्र एकत्वस्याविवक्षया देवतापदस्य बहुवचनान्ततेति दिक् । स्वप्रकृतिकत्वं च स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम् । तेन दधि सुन्दरमित्यादौ विशेष्यपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः। तत्र विभक्तरनुसन्धानं विना शाब्दबोधानुपगमात् । एवं तादृशविभक्तिसजातीयविभक्तिकत्वमपि तथाविधविभक्त्यव्यवहितपूर्ववर्तितया प्रतिसन्धीयमानत्वम् । तेन इदं दधीत्यादौ विशेषणपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः। अथ नीलस्य घट इत्यादावपि पदार्थोपस्थित्यादिकारणसमवधानसंभवात् कथन्न नीलघटाद्योरभेदान्वयबोधः । सामग्र्या कार्यजनने उक्तनियमभङ्गप्रसङ्गरूपबाधकस्याकिञ्चित्करत्वादिति चेत् तथाविधान्वयबोधौपयिकाकाङ्क्षाविरहात्। तथा हि तादृशान्वयबोधे प्रथमाविभक्त्त्यन्तघटादिपदसमभिव्याहृतप्रथमान्तनीलादि ननु विंशत्याद्या इत्यादि तु प्रसङ्गादागतम् । प्रकृतन्तु स्वप्रकृतिकविभक्तिसजातीयेत्यादौ स्वप्रकृतिकत्वन्तदाह-स्वप्रकृतिकत्वञ्चेति । प्रतिसन्धीयमानत्वं ज्ञायमानत्वमित्यर्थः । तादृशेति । स्वप्रकृतिकेत्यर्थः । तथाविधेति। स्वप्रकृतिकविभक्तिसजातीयेत्यर्थः । उक्तनियमभङ्गति-- समानविभक्तिकपदोपस्थापितयोरेवाभेदान्वय इति नियमेत्यर्थः । तथाविधेति । अभेदान्वयेत्यर्थः । बोधौपयिकेति । बोधजनकेत्यर्थः । सा चाकाङ्क्षा कीदृशीत्याकाङ्क्षायामाह-तथा हीति । तादृशान्वयबोध इति । अभेदसम्बन्धावच्छिन्ननीलत्वाद्यवच्छिन्नप्रकारतानिरूपितघटत्वाधवच्छिन्नविशेष्यताकशाब्दबोध इत्यर्थः । प्रथमा विभक्त्यन्तेत्यादि । इ सन्च वस्तुस्थितिमात्रन्न तु प्रथमात्वविभक्तित्वादिभिविभक्तेराकाङ्क्षाशर रे प्रवेशः, उक्तधर्माज्ञानेऽपि घट इत्यादेरानुपूर्वीप्रकारेणैवाकाङ्क्षायां प्रवेशः । तथा च Page #41 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः नीलो घटो घटो नील इत्याद्यानुपूर्व्यवच्छिन्नविषयतानिरूपकज्ञानस्यैव शाब्दबोधजनकत्वम । यामि नीलश्चैत्रस्य घट इत्यादिवाक्यं प्रयुज्यते तत्रापि तथानुपूर्वीमद्वाक्यं कल्पयित्वैव शाब्दबोधः करणीयः । अत एवासत्तिरप्युपपद्यते । अन्यथा नीलोपस्थितिघटोपस्थित्योश्चैत्रोपस्थित्या व्यवधानादव्यवधानघटिताय स्तस्या अभावेन शाब्दबोधानापत्तिः । नीलपट इत्यादिसमासस्थले नीलो घट इति समुदायगतानपूा अभावेन व्यासस्थलीया. काङ्क्षाया अभावेन शाब्दबोधानापत्त्या तत्स्थलीयानुपूर्वीज्ञानस्यापि पृथक कारणत्वं वाच्यम् । एवमेव नीलो घटौ, नीला घटा, नीलं घट, नीलान् घटानित्यादिसमुदायगतानुपूर्वीज्ञानानामपि तत्तदानुपूर्वीप्रकारकत्वेनैव कारणत्वं वक्तव्यमेकरूपण कारणताया वक्तुमशक्यत्वात् । ___ कानुनीलघटः, नीलघटौ, नीलघटा इत्यादिविभक्त्यन्तसमुदायपर्याप्तानुपूर्वीणां कारणतावच्छेदकत्वे समासस्थलेऽपि विभक्तीनां सप्तत्वेन तदन्तनिष्ठानुपूर्वीणामपि सप्तानां कारणतावच्छेदकत्वापेक्षया नीलघटत्वरूपानुपूर्वीप्रकारकज्ञान नैव सप्तानां कारणत्वे लाघवात्तथैव वक्तुं युक्तमत एव मूलेऽपि नीलपदाव्यवहितोत्तरघटपदत्वं घटपदाव्यवहितपूर्वनीलपदत्वमित्येवाकाङ्क्षासप्तविभक्त्यन्तनीलघटसमासस्थले उक्तमिति चेत्सत्यम् । तस्यापि विभक्त्यन्तानुपूर्वीणां प्रवेश एव तात्पर्य कथमन्यथा निविभक्तिकनीलघटे तिसमुदायात् शाब्दबोधाभावः । यथाश्रुतग्रन्थरीत्या नीलपदाव्यवहितोत्तर घटपदत्वादेस्तत्र सत्त्वेन शाब्दबोधापत्तेर्दुरित्वात् । ___ नबुकीदृशस्वत्र शाब्दबोध आपाद्यते । बतावन्नीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताक इति वक्तुं शक्यते । तादृशशाब्दबोधस्याप्रसिद्धेस्तत्कारणरूपानादकस्याप्यप्रसिद्धः। न नीलो घट इत्यादौ नीलघट इत्यादौ च तादृशशाब्दबोधप्रसिद्धिरिति वाच्यं, तत्रैकत्वस्यापि विशेषणतया भानेन तन्नियामकविभक्तिपदजन्यैकत्वोपस्थितिघटपदाव्यवहितोत्तरसुपदत्वरूपानुपूर्वीज्ञानादेरपि कारणत्वेन तदभावेनापत्त्यभावादिति चेत् पत्नोच्यते । नीलो घटो तीलघट इत्यादावेकत्वत्वावच्छिन्नविषयताघटितशाब्द Page #42 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके पदत्वमेवासमस्तनीलघटपदाद्याकाङ्क्षा । समासस्थले च घटपदाद्यव्यवहितपूर्ववर्तिनीलादिपदत्वं नीलादिपदाव्यवहितोत्तरवर्तिघटादिपदत्वं वा आकाङ्क्षा । उक्तस्थले च तादृश्या एकस्या अप्या बोधत्वावच्छिन्नकार्यतानिरूपितकारणताया एवैकत्वोपस्थित्यादेः सत्त्वेनैकत्वत्वावच्छिन्नविषयत्वाघटितनीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दत्वावच्छिन्नकाऱ्यांपादने एकत्वोपस्थितेरनपेक्षणेनापत्तिसम्भवः । लापाद्यतावच्छेदकधर्मस्य निरुक्तशाब्दबोधे अधिकं प्रविष्टन्न तू तानिरितिरीत्या सत्त्वेऽपि तद्धविच्छिन्नकार्यतानिरूपितकारणतायाः कुत्राप्यभावेनापादकासम्भव एवेति वाच्यम् । नीलपदाव्यवहितोत्तरघटपदत्वरूपमूलोक्ताकाङ्क्षाया एव तत्कारणीभूतायास्तत्रापादकत्वसम्भवादिति वाच्यम् । पापाद्यतावच्छेदकधर्मं प्रत्येकत्वादिविषयताघटितनीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वादेर्व्याप्यतया व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादकसामग्र्या अपेक्षिततया तस्याश्च घटपदाव्यवहितोत्तरसुपदत्वरूपानुपूर्वीरूपाकाङ्क्षाज्ञानादिघटिततया निविभक्तिकनीलघटेतिसमुदायादौ तदभावेनापत्त्यभाव इति दिन । एक यादृशयादृशानुपूर्व्यवच्छिन्ने यादृशयादृशानुपूर्व्यवच्छिन्नसमभिव्याहृतत्वज्ञानाद्यादृशः शाब्दबोधो जायते तादृशतादृशानुपूर्व्यवच्छिन्नविषयतानिरूपिततादृशानुपूर्व्यवच्छिन्नसमभिव्याहृतत्वविषयतानिरूपकज्ञानं तादृशशाब्दबोधे कारणमिति मिष्कर्मः । उक्तस्थले चेति । नीलस्य घट इत्यादिस्थले चेत्यर्थः । तादृश्याः प्रथमान्तीनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाया इत्यर्थः । ननु प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानानीलो घट इति वाक्याज्जायमानाभेदान्वयबोधे द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वादिरूपाकाङ्क्षाया अभावात् तादृशाकाङ्क्षा Page #43 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः ३५ काङ्क्षाया विरहानापत्तिः। कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशान्नोक्ताकाङ्क्षाज्ञानयोः परस्परबोधे व्यभिचारः। ज्ञानान्नीलं घटमित्यादिवाक्याज्जायमानेऽभेदान्वयबोधे च प्रथमान्तनीलेत्यादिरूपाकाङ्क्षाया अभावात् 'तत्सत्त्वे तत्सत्ता तदभावे तदभाव' इत्यन्वयव्यतिरेकनिबन्धनकार्यकारणभावासम्भव .... इत्यत आह-कार्यतावच्छेदककोटावित्यादि। तथाच प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिनप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणं, द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्यादिक्रमेण यावदाकाङ्क्षाज्ञानं कार्यकारणभावः । तथा च व्यभिचाराभावः। एकस्मिन्नेव हि कार्ये नानाकारणसद्भावे तदुदय इति भावः । ननु यत्र देवदत्तस्य प्रथमान्तनीलपदसमभिव्याहृतेत्याद्याकाङ्क्षाज्ञानं जातन्तदव्यवहितोत्तरक्षणे एव यज्ञदत्तस्य पूर्वक्षणोत्पन्नद्वितीयान्तनीलपदसमभिव्याहृतेत्याद्याकाङ्क्षाज्ञानात्तादृशाभेदान्वयबोधस्तत्र तादृशबोधे प्रथमान्तनीलेत्याद्याकाङ्क्षाज्ञानकार्य्यतावच्छेदकाक्रान्तिसत्त्वेन तादृशबोधाधिकरणे यज्ञदत्ते तदाकाङ्क्षाज्ञानाभावेन व्यभिचारोऽस्त्येवेति चेत्-मैवम् । अव्यवहितोत्तरत्वं विहाय स्वाव्यवहितोत्तरत्वस्वाधिकरणदेशवृत्तित्वोभयसम्बन्धेन ज्ञानस्य वैशिष्ट यं बोधे निवेश्य तादृशबोधे द्वितीयसम्बन्धविरहेण तत्कार्य्यतावच्छेदकाना क्रान्ततयाऽऽपत्तेर्वारणसम्भवात् । न चोक्तोभयसम्बन्धेन स्वविशिष्टत्वमेव कार्य्यतावच्छेदकमस्तु । तथा सति कार्य्यतावच्छेदक Page #44 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके कोटावित्युक्तिसूचितस्याभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वे कार्य्यतावच्छेदकत्वस्य वैयर्थ्यमिति वाच्यम् । चैत्रे प्रथमक्षणे प्रथमान्तेत्यादिकिमप्याकाङ्क्षाज्ञानं जातम् । तदुत्तरक्षणे चैत्रमैत्रोभयत्र यज्ञदत्तीयापेक्षाबुद्धया द्वित्वसंख्योत्पन्ना । तत्र संख्यायां निरुक्ताकाङ्क्षाज्ञानवैशिष्ट्यरूपकार्य्यतावच्छेदकाक्रान्तिसत्त्वेन तस्याश्च तादशाकाङ्क्षाज्ञानशून्ये मैत्रेऽप्युत्पत्त्या व्यभिचारप्रसक्तेर्वारणायाभेदसम्बन्धावच्छिन्नेत्यादिप्रवेशावश्यकत्वात् । न च तावताऽपि स्वविशिष्टशाब्दबुद्धित्वमेव कार्य्यतावच्छेदकमस्तु। विषयताविशेषनिवेशो व्यर्थ एव । तदाकाङ्क्षाज्ञानोत्तरे अन्यादृशेऽपि जायमाने शाब्दबोधे तदाकाङ्क्षाज्ञानस्य कारणत्वे इष्टापत्तेरिति वाच्यम् । यत्र नीलो घट: घटवद्भूतलमिति समूहालम्बनमाकाङ्क्षाज्ञानं नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितं तत्र घटवद्भूतलमिति बोधो जायते न तु नीलाभिन्नो घट इति बोधः । तत्र प्रथमान्तनीलपदोत्तरप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानोत्तरत्वविशिष्टशाब्दबोधरूपं कायं घटवदिति बोधः । कारणञ्चाप्रामाण्यज्ञानानास्कन्दितप्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदरूपाकाङ्क्षाज्ञानं नास्तीति व्यभिचारप्रसक्त्या तद्वारणायाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकत्वं शाब्दबोधे विशेषणं देयम् । तथा च तत्र कार्य'कारणयोर्द्वयोरप्यभावान्न दोषः। न च कारणतावच्छेदककोटावप्रामाण्यज्ञानानास्कन्दितत्वनिवेशाभावमात्रेण व्यभिचारवारणसम्भवान्न विषयप्रवेशो युक्त इति वाच्यम् । अप्रामाण्यज्ञानास्कन्दितात् नीलो घट इत्याकाङ्क्षाज्ञानादभेदान्वयवारणाय कारणकोटावप्रामाण्यज्ञानानास्कन्दितत्वनिवेशस्यावश्यकत्वात्। ननु क्व एतस्योपयोगः । न तावत् प्रथमक्षणे नीलो घट इत्याकाङ्क्षाज्ञानं तत इदं ज्ञानमप्रमाणमितिज्ञानं ततः शाब्दबोधो मा भूदित्यर्थमन्यथा आका ङ्क्षाज्ञानस्य सत्त्वाच्छाब्दबोधापत्तिरिति युक्तम् । तत्र बोधस्याभावे स्वविशिष्टशाब्दबुद्धित्वावच्छिन्नरूपकार्य्यस्याप्यभावेनादोषात् । तत्र बोधस्य Page #45 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः ३७ सत्त्वे तु कारणस्यापि सत्त्वेनादोषादिति चेत्-न । स्त्र प्रथमक्षणे भाविज्ञानमप्रमेति ज्ञानं, द्वितीयक्षणे नीलो घट इत्याकाङ्क्षाज्ञानं, तृतीयक्षणे आद्यस्य भाविज्ञानमप्रमेत्यप्रामाण्यज्ञानस्य नाशेनाप्रमाण्यज्ञानानास्कन्दितस्य नीलो घट इत्याकाङ्क्षाज्ञानस्य सद्भावात्, चतुर्थक्षणे नीलो घट इति बोधो भवति । कार्योत्पत्तिप्राक्क्षणे कारणस्य सत्त्वात् तृतीयक्षणे च बोधो न भवति। तत्प्राक् द्वितीयक्षणेप्रामाण्यज्ञानास्कन्दितस्यैवाकाङ्क्षाज्ञानस्य सत्त्वेन तदनास्कन्दितस्य तस्यासत्त्वात् । अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशाभावे द्वितीयक्षणे आकाङ्क्षाज्ञानस्य सत्वात् स्वविशिष्टः शाब्दबोधः। स एव चतुर्थक्षणस्थस्तस्य तृतीयक्षणे आपत्तिप्रसङ्गादप्रमाण्यज्ञानानास्कन्दितत्वनिवेश इति बोध्यम् । न च बोधे शाब्दत्वविशेषणं व्यर्थमिति वाच्यम् । नीलो घट इत्याकाङ्क्षाज्ञाने अप्रामाण्यज्ञानास्कन्दिते अनुमितिसामग्र्याञ्च सत्यां नीलो घट इत्यनुमितिर्जायते। तत्राप्रमाण्यज्ञानानास्कन्दिताकाङ्क्षाज्ञानरूपकारणाभावे प्रथमान्तनीलपदसमभिव्याहतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तराभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकबोधस्य सत्त्वे न व्यभिचारापत्तेः । शाब्दत्वनिवेशे च शाब्दबोधाभावेनादोषात् । न च कार्य्यदलेऽप्याकाङ्क्षाज्ञानेऽप्रामाण्यज्ञानानास्कन्दितत्वनिवेशेनैवौक्तस्थलद्वये व्यभिचाराप्रसक्त्या विषयताविशेषस्य शाब्दत्वस्य च निवेशो व्यर्थ एव। किं च विषयत्वादिनिवेशेऽपि अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशः कार्यदले आवश्यकः । अन्यथा नीलो घट: श्यामो घट: इति समूहालम्बनात्मकाकाङ्क्षाज्ञानं नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितं यत्र तत्र बोधो भवति कार्य्यतावच्छेदकाक्रान्तोऽप्रामाण्यज्ञानानास्कन्दितं नीलो घट इत्याकाङ्क्षाज्ञानञ्च नास्तीति व्यभिचारः स्यात् । अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशे च कार्यकारणयोरभावेनादोष इति वाच्यम् । अप्रामाण्यज्ञानेऽप्यप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्यान्तत्राप्यप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्यम् । एवं तत्र तत्रत्यविश्रामः । एवं नीलपदासमभिव्याहृते घटे नीलपदसमभिव्याहृतत्वज्ञानरूपाप्रामाण्यज्ञान नीलत्वाभाववति नीलत्वज्ञानरूपमप्रामाण्यज्ञानमित्या Page #46 -------------------------------------------------------------------------- ________________ ३८ व्युत्पत्तिवादः [ कारके दिसर्वेषां ज्ञानाचामनास्कन्दितत्वनिवेशापेक्षया विषयत्वादिनिवेशे - एव लाघवम् । एवमप्रामाण्यज्ञानानां तत्तद्रूपेणैच नीवेशनीयतयोक्तसमूहालम्बनस्थलीयाप्रामाण्यज्ञानव्यक्तेरनास्कन्दितत्वस्य कारणतावच्छेदके अनिवेशेनैव दोषवारणसम्भवात्। किञ्च प्रवृत्तिं प्रतीष्टसाधतत्वज्ञानं कारणम् । इष्टच्च अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वावच्छिन्नन्तदवच्छिन्नसाधनत्वस्य नीलो घट इति वाक्येऽग्रहे नीलो घट इति वाक्ये प्रवृत्तिर्न स्यादतो विषयतादेः साध्यतावच्छेदके प्रवेश आवश्यक इत्यपि बोध्यम् । — ननु कार्य्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशेन नानाकार्यकारणभावकल्पनापेक्षयाऽन्यतमत्वेनैवाकाङ्क्षाज्ञानानां कारणत्वं परिकल्प्यक एव कार्यकारणभावोऽस्त्विति चेत् अत्रोच्यते । अन्यतमत्वं प्रकृते प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगिकभेदविशिष्टद्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाक्षाज्ञानप्रतियोगिकभेदरित्येवं क्रमेण सकलाकाङ्क्षाज्ञानभेदं निवेश्य तद्वद्भिनत्वमेव । तत्र विनिगमनाविरहेणैतदाकाङ्क्षाज्ञानभेदविशिष्टत्वेनापराका ङ्क्षाज्ञानभेदस्यापराकाङ्क्षाज्ञानभेदविशिष्टत्वेनैतदाकाङ्क्षाज्ञानभेदस्येत्येवंक्रमेण प्रवेशे कारणताबाहुल्यम् । गुरुधर्मस्य कारणतावच्छेदकता चेति मूलोक्तप्रकारत्यागे बीजभावः। एवं भेदविशिष्टस्य जगतो भेदप्रतियोगितया प्रवेशेनातितरां गौरवम् । न च भेदविशिष्टस्य जगतो भेदविशिष्टत्वेनैकरूपेणैव प्रवेशो न तु तत्तद्रूणेति न गौरवं जगत्प्रवेशप्रयुक्तमिति वाच्यम् । जगति सर्वत्र भेदविशिष्टत्वावच्छिन्नायाः कारणतावच्छेदकतायाः सम्बन्धकल्पनेन गौरवस्य स्पष्टत्वात् नान्यतमत्वेन कारणत्वम् । न च तत्तदाकाङ्क्षाज्ञानानां यावन्तो भेदास्तद्गतसमुदायत्वावच्छिन्नप्रतियोगिताकाभावस्यैवान्यतमत्वरूपतया वैशिष्ट्यस्याप्रवेशेन न कारणतावच्छेदकस्य नानात्वं विनिगमनाविरहप्रयुक्तम् । न वा जगत्प्रवेशप्रयुक्तं गौरवं जगतोऽप्रवेशादिति वाच्यम् । यतो भेदगतसमुदायत्वस्यापेक्षाबुद्धिविशेषविषयत्वरूपतयाऽपेक्षा Page #47 -------------------------------------------------------------------------- ________________ प्रथमा ] ३६ बुद्धीनाञ्च नानात्वेन विनिगमनाविरहेण सर्वबुद्धिविषयत्वरूपाणां समुदायत्वानां प्रवेशेन कारणताबाहुल्यम् । अवच्छेदकगौरवञ्च तदवस्थमेव । न च तावदाकाङ्क्षाज्ञाननिष्ठ मेकमखण्डोपाधिरूपं जातिरूपम्वाऽन्यतमत्वं मत्वा तदवच्छेदेन कारणत्वकल्पने एकमेव कारणत्वं लघुधर्म्मावच्छिन्नञ्चेति वाच्यं यतः समानविषयकशाब्दबोधं प्रति प्रत्यक्षसामग्रयाः प्रतिबन्धकतया तदभावोऽप्याकाङ्क्षाज्ञानजन्यशाब्दबोधे सहकारीति तादृशप्रत्यक्षसामग्रयां सत्यामाकाङ्क्षाज्ञानादिकरणकलापान्न शाब्दबोधः । तत्रैव शाब्दबोधो जायतामितीच्छायां सत्यामिष्टस्य शाब्दबोधस्योपपत्तये प्रत्यक्षसामग्रयां शाब्दे - च्छाविरहविशिष्टत्वमपि देयम् । तथा च शाब्देच्छाविरहविशिष्टा प्रत्यक्षसामग्री नास्ति । विशेषणाभावप्रत्युक्तस्य विशिष्टाभावस्य सत्त्वादुपपन्नः शाब्दबोधः । तथा यत्र नीलो घट इत्याकाङ्क्षाज्ञानं समानविषयकप्रत्यक्षसामग्री द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानजन्यः शाब्दबोधो जायतामितीच्छा तत्र शाब्दबोधो न जायते । शाब्दबोधेनोत्पन्नेन यस्या इच्छाया विषयसिद्धिस्तस्या एव ह्युतेजकत्वात् । तत्र तत्तद्रूपेणाकाङ्क्षाज्ञानस्य कारणत्वे प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघट , जयाऽलङ्कृतः पदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानजन्यशाब्दे च्छाविरहविशिष्टाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्न प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकप्रत्यक्ष सामग्रीविरहविशिष्टं प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमिति कार्य्यकारणभावशरीरे निष्पन्नेऽन्यादृशाकाङ्क्षाज्ञाने अन्यादृशाकाङ्क्षाज्ञानाधीनशाब्देच्छायाः सत्त्वेऽपि प्रतिबन्धिकायां समानविषयकप्रत्यक्षसामग्रयां सत्यां न बोधः । अन्यतमत्वेन प्रवेशे तु अन्यतमाकाङ्क्षाज्ञानमन्यतमाकाङ्क्षाज्ञानाधीनशाब्देच्छाविरहविशिष्टसमानविषयकप्रत्यक्ष सामग्रीविरहविशिष्टमभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्दबोधं प्रति Page #48 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके कारणमिति कार्यकारणशरीरे सत्यां समानविषयकप्रत्यक्षसामग्रयां कस्माच्चिदन्यतमाकाङ्क्षाज्ञानात् कस्यामप्यन्यतमाकाङ्क्षाज्ञानाधीनशाब्देच्छायां शाब्दापत्तिरतो नान्यतमत्वे कारणत्वसम्भवः । अथाव्यवहितोत्तरत्वनिबेशे नीलस्य घट इत्यादौ शाब्दापत्तिर्दुर्वारैव । स्वोत्तरजायमानाभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधं प्रत्येव प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाकाङ्क्षाज्ञानस्य कारणत्वेनापाद्यमानशाब्दबोधस्य तत्तदाकाङ्क्षाज्ञानानुत्तरत्वेन तत्तकार्य्यतावच्छेदकैरनाक्रान्तत्वेन तत्तत्कारणविरहस्याकिञ्चित्करत्वात् । न चाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्याप्रसिद्धत्वादेव नापत्तिः । नीलो घट इत्यादौ तत्तदाकाङ्क्षाज्ञानोत्तरत्वविशिष्टाभेदबोधस्य सत्त्वेऽपि शुद्धनीलत्वावच्छिन्नाभेदबुद्धेस्तत्राभावेन न तत्र प्रसिद्धिरिति वाच्यम् । समान्यस्य विशेषेएव सत्त्वेनापाद्यमानतावच्छेदकधर्मस्याभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वस्य तत्रैव प्रसिद्धेः । न च तर्हि तच्छाब्दबोधकारणीभूताकाङ्क्षाज्ञानाभावादेव नापत्तिरिति वाच्यम् । आपाद्यमानतावच्छेदकधर्मस्य तत्तदाकाङ्क्षाज्ञानकार्यतानवच्छेदकत्वमित्यस्योक्तत्वात् । ___ अत्रोच्यते--सामान्यधर्मावच्छिन्ने कार्ये जननीये विशेषधर्मावच्छिन्नकार्योत्पादकसामग्रया अपेक्षा । यथा शुक्लपटत्वावच्छिन्नं प्रति शुक्लतन्तोः, कृष्णपटत्वावच्छिन्नं प्रति कृष्णतन्तोः कारणत्वे निर्णीते पटत्वावच्छिन्नकार्यस्य तत्तच्छुक्लकृष्णतन्तूनामेवापेक्षा न तु कारणान्तरस्य । एवं सति सामान्यनीलत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिनविशेष्यताकशाब्दबुद्धित्वावच्छिन्ने विशेषतत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरत्वविशिष्टतादृशधर्मावच्छिन्नकार्योत्पादकसामग्रयास्तत्तदाकाङ्क्षाज्ञानादिघटिताया अपेक्षणात् । प्रकृते नीलस्य घट इत्यादौ तासां तत्तदाकाङ्क्षाज्ञानघटितानां सामग्रीणां कस्या अप्यभावेन नापत्तिः । ननु कारणकूट एव सामग्री । तथा च सामान्यधर्मावच्छिन्ने कार्ये Page #49 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः ४१ जननीये विशेषधविच्छिन्नस्य कार्य्यस्य कारणसमुदाय अपेक्ष्यत इत्येव फलति । तच्च न युक्तम् । नीलो घट इत्यादौ सामान्यधर्मावच्छिन्नकाय॑स्य सत्त्वेऽपि विशेषतत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरविशिष्टतादृशधर्मावच्छिन्नकारणकटस्य सकलतत्तदाकाङ्क्षाज्ञानघटितस्याभावेन कुत्राप्यभेदबोधानापत्तेरिति चेत्-न। विशेषधविच्छिन्नकार्योत्पत्तिप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नस्यापेक्षेति कथनेनादोषात् । एकैकाकाङ्क्षाज्ञानघटितसमुदायत्वस्यैव तथात्वेन तदवच्छिन्नस्य नीलो घट इत्यादौ सर्वत्र सत्त्वात् अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वस्याननुगतत्वेऽपि कार्योत्पत्तिप्रयोजकतावच्छेदकत्वेनानुगमसम्भवात् । अभेदसम्बन्धेन नीलविशिष्टघटत्वावच्छिन्नशाब्दबोधं प्रति तादृशशाब्दबुद्धित्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणतावदाकाङ्क्षाज्ञानं कारणमिति प्रकृतापत्तिवारणायाङ्गीक्रियत इति नापत्तिरिति परे। __ अत्र केचित् विशेष्यवाचकपदे प्रथमान्तत्वादिकमनिवेश्यैव प्रथमान्तनीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरतादृशशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणम् । एवं द्वितीयान्तनीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरतादृशशाब्दबोधं प्रति द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्येवं क्रमेण कार्यकारणभावे नीलस्य घट इत्यादावापाद्यमानशाब्दस्य षष्ठयन्तनीलपदसमभिव्याहृतषष्ठयन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्य कार्य्यतावच्छेदकषष्ठ्यन्तनीलपदसमभिव्याहृतघटपदव्यवहितोत्तरतादृशशाब्दबुद्धित्वाकान्ततया तादशाकाङ्क्षाज्ञानाभावेन नापत्तिरित्याहुः । तन्न । नीलस्य घट: नीलो घट इति समूहालम्बनात्मकाकाङ्क्षाज्ञानादिष्टस्य नीलघटाभेदान्वयस्यानापत्तेस्तस्य स्वकीयकार्यतावच्छेदकाक्रान्तत्वेन षष्ठ्यन्तनीलपदसमभिव्याहृतषष्ठयन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्याभावात्। परे तु अव्यवहितोत्तरत्वादिघटितान् प्रथमान्तत्वादिघटितान् कार्य Page #50 -------------------------------------------------------------------------- ________________ ४२ व्युत्पत्तिवादः [ कारके - यत्तु समासव्याससाधारणं विशेषणपदस्य विशेष्यवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमेव तादृशान्वयबोधौपयिकाकाङ्क्षा विशेष्यवाचकपदनिष्ठविशेषणवाचकपदाप्रकृतिकविभक्यप्रकृतित्वं च न तथा नीलघटमानयेत्यादावसंभवादिति तदसत्। विशेष्यवाचकपदाप्रकृतिकत्वस्य तादृशपदानुत्तरत्वस्य तदुत्तरत्वेनाप्रतिसन्धीयमानत्वरूपस्य वा नीलो घट इत्यादौ कारणभावान् षट्संख्याकान् विधाय तत्तदाकाङ्क्षाज्ञानानुत्तरतादृशशाब्दबुद्धित्वावच्छिन्नं प्रति सप्तम्यन्तनीलपदसमभिव्याहृतसप्तम्यन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्य कारणत्वमित्यभ्युपगमेन नीलस्य घट इत्यादौ पापाद्यमानस्यानुत्तरत्वादिघटितकार्य्यतावच्छेदकाक्रान्तत्वेन तत्कारणाभावेनापत्त्यभावादित्याहुः । तदपि न । नीलो घटाः नीलस्य घट इति समूहालम्बनाकाङ्क्षाज्ञानात् नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितात् नीलघटाभेदान्वयबोधापत्तेस्तादृशापाद्यमानस्य तत्तदाकाङ्क्षाज्ञानानुत्तरत्वादिघटितकार्य्यतावच्छेदकधर्मानाक्रान्ततया सप्तम्यन्तत्वघटितकारणविरहस्याकिञ्चित्करत्वादिति दिक् । . नानाकाङ्क्षाज्ञानानां कारणत्वापेक्षया लाघवादेकस्यैवाकाङ्क्षाज्ञानस्य कारणत्वमस्त्विति नानेककार्यकारणभावो नाप्यव्यवहितोत्तरत्वादिनि. वेश इत्याह-यत्त्वित्यादिना। ___ ननु विशेष्यवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं विशेषणवाचकपदे विशेषणवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं विशेष्यवाचकपदे । अनयोरेव विनिगमनाविरहेण कारणत्वापत्तावनेककारणत्वं कारणाव्यवहितोत्तरत्वनिवेशोऽप्यावश्यक एवेत्यत आह-विशेष्यवाचकेत्यादि । सत्त्वादिति । प्रत्युच्चारणं शब्दस्य भेदेन नीलपदोत्तरत्वादिविशिष्टविभक्तेर्घटपदोत्तरस्वादिविभक्तिभिन्नत्वमिति भावः । Page #51 -------------------------------------------------------------------------- ________________ .. ४३ प्रथमा ] जयाऽलङ्कृतः नीलादिपदसमभिव्याहृतविभक्तौ घटपदसमभिव्याहृतविभक्तिभिन्नतया सत्त्वात् । अथ विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्य विवक्षणान्न दोष इति चेतर्हि विभक्तित्वा विभक्तीनां भेदेऽपि तन्निष्टप्रथमात्वादीनामभेदात्तद्घटितस्यैवाकाङ्क्षात्वमुच्यते--अथेत्यादिना। विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकेत्यादि । नीलो घट: नीलघट इत्यादौ विशेष्यवाचकं पदं घटपदं तदुत्तरा सुविभक्तिः तदवृत्तिविभक्तिविभाजको द्वितीयात्वादिधर्मस्तद्वत्यो द्वितीयादिविभक्तयस्तद्राहित्यस्योभयत्र नीलादौ सत्त्वेन साकाङ्क्षत्वमुपपन्नम् । अथ विशेष्यवाचकं घटपदन्तदुत्तरत्वं सर्वासां विभक्तीनां घट घटेन घटायेत्यादौ तन्निरूपितवृत्तित्वस्यैव सर्वेषां विभाजकद्वितीयात्वादीनां सत्त्वेन विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्माप्रसिद्धिः । विशेष्यवाचकपदोत्तरयत्किञ्चिद्विभक्त्यवृत्तित्वनिवेशे नीलो घट इत्यादावपि नाकाङ्क्षा स्यात् । प्रथमात्वस्यापि नीलं घटमित्यादौ विशेष्यवाचकघटपदोत्तरद्वितीयाविभक्त्यवृत्तित्वेन तद्वत्सुविभक्तिप्रकृतित्वस्यैव नीलपदे सत्त्वात्। विशेष्यवाचकपदस्य घटपदत्वादिना प्रवेशेऽप्युक्तदोषद्वयस्यानिस्तार एव । तद्व्यक्तित्वादिना प्रवेशे तूक्तदोषद्वयनिस्तारेऽपि नीलो घट इत्याद्यानुपूर्वीमद्वाक्येऽपि प्रत्युच्चारणं घटशब्दस्य भेदेन तत्तद्व्यक्तिप्रवेशेनाकाङ्क्षाया अप्यानन्त्यापत्त्या 'वृश्चिकभिया पलायमानस्य तरक्षुमुखे निपात एवे'ति चेत्-न । उक्तस्थले नीलपदे घटपदवत्वमेवाकाङ्क्षति स्वीकारात् । घटपदवत्ता च स्वाभाववत्त्वसम्बन्धेन । साभावश्च स्वोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकः । तथा च नाप्रसिद्धिन वाऽननुगम । यद्घटपदवत्त्वं विवक्षितन्तद्घटपदव्यक्त्युत्तरविभक्तेरेव सम्बन्धघटकतया प्रवेशेन व्यक्त्यन्तरघटपदमादाय दोषदानस्यासम्भवात् । विभक्तित्वादिकमजानत इति । येन विभक्तित्वं न ज्ञायते तस्यापि Page #52 -------------------------------------------------------------------------- ________________ ४४ व्युत्पत्तिवादः [ कारके दिकमजानतः पुरुषस्य तादृशधर्मज्ञानासंभवाच्छाब्दबोधानुपपत्तिः । नीलो घट इत्यादावपि सुपदस्याम्पदत्वादिभ्रमदशायां ताशबोधस्यानुदयात् । नीलस्य घट इत्यादावपि षष्ठयादेः सुपदत्वादिभ्रमदशायां शाब्दबोधोत्पत्त्या स्वरूपतो विरुद्धविभ नीलो घट इत्यादितः शाब्दबोधो भवति । विभक्तित्वघटिताया आकाङ्क्षायाः स्वीकारे विभक्तित्वज्ञानाभावेन तद्घटिताकाङ्क्षाया अपि ज्ञानाभावेन तस्य तद्वाक्याच्छाब्दबोधो न स्यादित्यर्थः । न च स्वोत्तरावृत्तिधर्मवदित्याद्यवोच्यतां विभक्तिविभाजकत्वन्न निवेश्यतां तथा च विभक्तित्वज्ञानमन्तराऽपि शाब्दबोधः स्यादिति वाच्यं, नीलो घट इत्यादौ नीलपदोत्तरविभक्तिगततद्व्यक्तित्वस्य घटपदोत्तरविभक्त्यवृत्तित्वेनाकाङ्क्षानापत्तेः । ननु विशेष्यवाचकपदोत्तरावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मेत्याघेवास्तु तद्व्यक्तित्वस्य श्रावणप्रत्यक्षविषयतानवच्छेदकत्वानोक्तदोषः । स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन भेदविशिष्ट एव धर्मो निवेश्यताम्वा। तद्व्यक्तित्वञ्च भेदविशिष्टभिन्नमेवेति चेत्-माने । नीलो घट: नीलघट इतिवाक्यगतश्रावणप्रत्यक्षविषयतावच्छेदकधर्मातिरिक्तस्य तद्वाक्यगतधर्मस्य शाब्दबोधात् प्रागज्ञानेऽपि शाब्दबोधस्येष्टस्यानापत्तेः । नीलो घट इत्यत्र घटपदोत्तरविसर्गावृत्तरोत्वस्य नीलपदोत्तरविभक्तिवृत्तित्वेन निराकाङ्क्षत्वापत्तेश्च । एतर्थमेव विभक्तित्वादिकेत्यत्रादिपदोपादानमिति विक् । नन्वाकाङ्क्षव कारणं न तज्ज्ञानमिति विभक्तित्वादिधाज्ञानेऽपि तस्या वस्तुतः सत्त्वेनानुपपत्त्यभाव इत्मताह-घट इत्यादावपीत्यादि । स्वरूपत इति वस्तुसत इत्यर्थः । अज्ञातस्यापीति यावत् विरुद्धविभक्तिराहित्यस्येति । निरुक्ताकाङ्क्षाया इत्यर्थः । Page #53 -------------------------------------------------------------------------- ________________ क्तिराहित्यस्याप्रयोजकत्वात् । अमीलो घट: नीलघट इत्यादिद्विविधबोधसाधारणं स्वोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टस्वोत्तरत्वादिरूपस्वाव्यवहितोत्तरत्वसम्बन्धेन नीलादिपदवत्स्वन्तघटादिपदत्वमेव तथास्त्विति चेत् न । नीलघटरूपमित्यादिवाक्यसाधारण्यानुरोधेनान्यदृश्या अपि आकाङ्क्षायाः समासस्थले उपगन्तव्यतया उपदर्शितसमासव्याससाधारणानुगताकाङ्क्षानुसर स्वोत्तरसुपद भिन्नपदानुत्तरत्वेत्यादि । अकं भावः । नीलो घट: नीलघट उभयत्र स्वो नरत्वस्वोत्तरसुपदभिन्नपदानुत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टस्वन्तघटप दत्वमेवाकाङ्क्षाऽस्तु । स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्वं नीलपदाव्यवहितोत्तरघटपदत्वमित्याकाङ्क्षाद्वयोपगमो निरर्थक इति । नीलघटरूपमिति । अत्र कर्मधारयपूर्वपदकषष्ठीतत्पुरुषः । षष्ठीतत्पुरुषोत्तरपदकर्मधारयो वा । आधे नीलस्य घटान्वयित्वे एकदेशान्वयापत्तिः । समासे वृत्त्यभावेन घटस्य घटीये लक्षणां विधाय रूपे अभेदान्वयस्यैव वक्तव्यत्वात् । द्वितीये रूपस्यैव विशेष्यवाचकपदत्वन्न घटरूपसमुदायस्य तत्र वृत्त्यभावात् । तथा च नीलोत्तरसुभिन्नपदं घटपदन्तदुत्तरत्वस्यैव रूपपदे सत्त्वेनाना काङ्क्षत्वापत्तेस्तदर्थमन्यादृश्या अप्याकाङ्क्षाया वक्तव्यत्वेन कार्यकारणभावबाहुल्यादुक्तस्थलद्वये एकाकाङ्क्षायास्सद्भावस्याकिञ्चित्करत्वात् । दमुफ्लक्षणम् । नीलो घटौ नीला घटाः इत्यादि सर्वविभक्त्यन्तवाक्यानं नीलघटौ नीलघटा इत्यादिसमासानाञ्चैकविधाका झाया वक्तुमशक यत्वात् । सर्वत्र दोषस्य सत्त्वात् स्वोत्तरसुप्पदभिन्नपदानत्तरत्वस्वोत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टसुबन्तघटपदत्वरूपाकाङक्षायां तात्पर्य्यकलने उक्तस्थलेषु दोषाभावेऽपि नीलस्य घट: नीलौ घट इत्यादीनामपि साकाङ्क्षत्वापत्तेस्तस्मात् स्वोत्तरसुपः सुत्वादिनैव प्रवेश्य स्वोत्तरसुपदभिन्नपानुत्तरत्वस्वोत्तरत्वोनयसम्बन्धेन नीलपदविशिष्टस्वन्त Page #54 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके णस्याप्रयोजकत्वादिति । अथ नीलं घटमानयेत्यादौ नीलादेर्घटादावन्वयोपगमे नीलादिपदोत्तरविभक्त्यर्थकर्मत्वादेः कुत्रान्वय इति चेत्-न कुत्रापि । विभक्तिपदं साधुत्वार्थमेव प्रयुज्यते । अभेद एव वा विशेषणविभक्तेरर्थः । अभेदस्य संसर्गमर्यादया भानं तु समासस्थल एव । तत्र लुप्तविभक्त्यनुसंधानं विनापि शाब्दबुद्धेरा ४६ घटपदत्वमितिरीत्या नानाविधाया एव तस्या वक्तव्यत्वात् । घटो नीलः नीलोऽस्ति घट इत्यादावपि भिन्नैवाकाङ्क्षा । नीलं घटमानयेत्यत्र नीलघटयोरभेदान्वयबोधे शाब्दत्वस्य सर्वानुभवसिद्धतया न नीलान्वितकर्म्मत्वस्यानयनक्रियायामन्वयः । घटेऽन्वितस्य नीलस्य कर्मत्वेऽप्यन्वये द्विधा भानप्रसङ्गात् प्रकृत्यर्थान्वितस्यैव प्रत्ययार्थस्य भाननियमात् । नीलानंन्वितकर्मत्वस्य क्रियायामन्वयासम्भवात् । नाऽपि नीले कर्मत्वस्यान्वयः, कारकाणां क्रियायामन्वयनियमात् । प्रकृत्यर्थं प्रति प्रत्ययार्थस्य विशेष्यत्वनियमाच्च । नीलान्वितकर्मत्वस्य च क्रियायामन्वयः नीलघटयोरभेदभानं मानसं नीलनिष्ठ कर्मतानिरूपकमानयनं घटरच नीलाभिन्न इत्यपि न । अभेदांशेऽनुभवसिद्धस्य शाब्दत्वस्यापलपितुमशक्यत्वात् । इत्थञ्च कर्मत्वस्य कुत्रान्वय इति प्रश्नः । न कुत्रापीति । कर्मत्वस्य न भानम्। अभेदाज्वग्रबोधप्रयोजकसमानविभक्तिकत्वरूपाकाङ्क्षासम्पादकतयैव साधुत्वार्थत्वम् । तदर्थस्याभाने निरर्थकत्वमेवेत्यत आह- प्रभेद एवेति । ननु तर्ह्यभेदस्य प्रातिपदिकार्थे संसर्गतया भानमिति पूर्वग्रन्थविरोधोऽत ग्राहसमास्थल इति । ननु समासेऽपि विभक्तेरनुसन्धानेन तदर्थ एवाभेद इत्यत ग्रह - तत्र लुप्तविभक्तीत्यादि । प्रभेदस्य व भेदाभावोऽर्थस्तदर्थैकदेशभेदे नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेनान्वयोऽभावस्य च स्वरूपसम्बन्धेन घटेऽन्वयः । तथा च मीलनिष्ठप्रतियोगितानिरूपकभेदप्रतियोगिकाभाव Page #55 -------------------------------------------------------------------------- ________________ नुभविकत्वादित्यपि वदन्ति । अथैवन्मते अभेदो यदि भेदत्वावच्छिन्नाभावस्तदाऽप्रसिद्धिः, यदि च भेदप्रतियोगिकोऽभावस्तदा विशिष्टो घट इत्यर्थः । एतन्मत इति । अभेदस्य विभक्त्यर्थत्वमत इत्यर्थः । तदाऽप्रसिद्धिरिति। यस्य...कस्प चिद्भेदस्य सर्वत्रैव सत्त्वादभावस्य प्रतियोगितावच्छेदकावच्छिन्नेन सह विरोधात् भेदत्वावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धिरित्यर्थः। ननु तादृशाभावस्याप्रसिद्धत्वे तत्प्रसिद्धेरप्यप्रसिद्धत्वे तत्प्रसिद्धयभावोऽप्यप्रसिद्ध इति तदाऽप्रसिद्धिरित्यस्य कोऽर्थः ? अत्रोच्यते । स्यादयं दोषो यदि अप्रसिद्धयेकदेशप्रसिद्धौ भेदत्वावच्छिन्नाभावान्वयः स्यात् । स एव न किन्तु घटादौ भेदस्य भेदे भेदत्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धस्यात्यन्ताभावेऽप्रसिद्धिरित्यर्थः । भेदनिष्ठप्रकारतादौ प्रसिद्धस्य भेदत्वावच्छिनत्वस्यात्यन्ताभावीयप्रतियोगितायामप्रसिद्धिरित्यर्थो वेति बोद्धयम् । ननु भेदत्वेन घाभावस्य संय्योगेन भेदाभावस्य भेदघटोभयाभावस्य च भेदत्वावच्छिन्नप्रतियोगिताकतया तेषाञ्च प्रसिद्धतया कथं भेदत्वावच्छिन्नप्रतियोगिताकोऽभावोऽप्रसिद्ध इति चेत्-न। भेदनिष्ठस्वरूपसम्बन्धावच्छिन्नभेदत्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्प्रतियोगिताकोऽभावोप्रसिद्ध इति तात्पर्य्यात् । आद्य प्रतियोगितायां भेदनिष्ठत्वाभावात् , द्वितीये तस्यां स्वरूपसम्बन्धावच्छिन्नत्वाभावात् , तृतीयें तस्यां भेदत्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यताया अभावात्, तेषामभावानां प्रकृताभावपदेनाग्रहणात् । क्नु भेदत्वेन भेदपटौ न स्त इति प्रतीतिविषयीभूतोऽभावस्तादृशः प्रतियोगिताया भेदवृत्तित्वात्। एवं स्वरूपसंय्योगोभयसम्बन्धेन भेदत्वेन भेदाभावोऽपि तथा प्रतियोगितायाः स्वरूपसम्बन्धावच्छिन्नत्वात् किञ्च भेदघटोभयाभावीयप्रतियोगितावच्छेदकतापि प्रत्येकघटत्वादिपर्याप्तव न तु भेदत्वघटत्वादित्रितयपर्याप्ता मानाभावात् । घटो नास्ति भेदो नास्तीति Page #56 -------------------------------------------------------------------------- ________________ ४८ व्युत्पत्तिवादः [ कारके प्रतीतिविषयीभूतप्रतियोगितावच्छेदकतायाःघटत्वादिप्रत्येकपर्याप्ताया एवोभयाभावीयप्रतियोगितानिरूपितत्वेनापि भानसम्भात् तस्य च प्रसिद्धत्वादिति चेत् न । उभयादिपर्याप्ताया एकस्या अभावे घटसत्त्वे घटो नास्ति भेदो नास्तीति समूहालम्बनप्रतीतिर्न भवति । घटभेदौ न स्त इति प्रतीतिश्च भवत्यतो निरुक्तसमूहालम्बनप्रतीतिविषयाभावविलक्षणोयमभयाभावो वैलक्षण्यञ्चैतदेव यदुभयाभावीयप्रतियोगितावच्छेदकतायाः घटत्वाद्युभयपर्याप्तत्वमित्यमेषात् । भेदत्वविशिष्टाभावस्यैव विवक्षितत्वात् । वैशिष्ट्यञ्च स्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धपाप्तावच्छेदकतानिरूपितावच्छेद्यतावत्प्रतियोगिताकत्वस्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावन्निरूपकतानिरूपितनिरूप्यतावत्त्वोभयसम्बन्धेन । भेदत्वेन भेदघटोभयाभावीयप्रतियोगितावच्छेदकताया भेदत्वपर्याप्तत्वेऽपि तदभावीयनिरूपकतावच्छेदकताया भेदत्वाप-प्नत्वात्। द्वितीयेऽभावे च संसर्गतात्मकप्रतियोगितावच्छेदकतायाः स्वरूपसंय्योगोभयपर्याप्तत्वेन स्वरूपसम्बन्धापर्याप्तत्वात् । ननु घटत्वभेदत्वोभयत्वत्रितयपर्याप्ताप्यवच्छेदकता भेदत्वेऽपि पर्याप्तैव न ह्यवयवापर्याप्तस्य समुदाये पर्याप्तिरस्तीत्युक्तेस्तथा चोभयाभावीयापि प्रतियोगिता भेदत्वपर्याप्तावच्छेदकताकानिरूपकतावच्छेदकताऽप्युक्तरीत्या भेदत्वपर्याप्तेति कथमुभयाभावस्याग्रहणमिति चेत्-न । त्रितयपर्याप्तायास्तस्याः प्रत्येकपर्याप्तत्वेऽपि पर्याप्तिरेकैव तदनियोगितावच्छेदकन्त्रितयगतन्त्रित्वमेव समनियतत्वात् न तु भेदत्वगतमेकत्वन्तस्यानुयोगितापेक्षयान्यूनवृत्तित्वात् । तथा च भेदत्वगतैकत्वविशिष्टोऽभाव एवाप्रसिद्धत्वेन विवक्षित इत्यदोषात् । वैशिष्ट्यञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावनिरूपकताकत्वस्वावच्छिनानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावती या स्वरूपसम्बन्धत्वगतैकत्वावच्छिन्नानुयोगिताकपर्याप्तियोग्यवच्छेदकतानिरूपितावच्छेद्यतावती प्रतियोगिता तनिरूपकत्वोभयसम्बन्धेनोभयाभावीयप्रति Page #57 -------------------------------------------------------------------------- ________________ ४६ प्रथमा ] जयाऽलङ्कृतः योगिता च न भेदत्वगतैकत्वावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रतियोगिभूतावच्छेदकताकाऽपि तु त्रित्वावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रतियोगिभूतावच्छेदकताकेति तस्य प्रसिद्धत्वेऽपि विविक्षताभावस्याप्रसिद्धत्वात्। ननु द्वित्वादिकं यथा द्वित्वत्वादिनैव व्यासज्यवृत्ति न तु वस्तुत्वादिनापि तथोभयाभावस्य प्रतियोगितावच्छेदकता निरूपकतावच्छेदकता प्रतियोगितानिरूपितसंसर्गतात्मकावच्छेदकता चावच्छेदकतात्वेनैव व्यासज्यवृत्तिन तु वस्तुत्वादिनाऽपि । तथा च वस्तुत्वावच्छिन्नप्रकृतावच्छेदकतानिष्ठप्रतियोगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकं भेदत्वगतैकत्वमेव वस्तुत्वावच्छिन्ना या निरूपकतावच्छेदकतानिष्ठप्रतियोगिता तन्निरूपकपर्याप्त्यनुयोगितावच्छेदकमपि भेदत्वगतमेकत्वं तथा वस्तुत्वावच्छिन्ना या प्रतियोगितानिरूपितसंसर्गतात्मकावच्छेदकतानिष्ठाप्रतियोगिता तन्निरूपकपर्याप्त्यनुयोगितावच्छेदकमपि स्वरूपसम्बन्धत्वगतमेकत्वम् । तथा च भेदत्वगतैकत्वविशिष्टाभावोऽपि स एवोभयाभावो वस्तुत्वावच्छिन्नप्रतियोगितामादायेति स एव दोष इति वेत्-न । स्वनिरूपितप्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकत्वस्वनिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वोभयसम्बन्धेन भेदत्वगतैकत्ववृत्तिर्योऽभावस्तस्यैवाभिप्रेतत्वेनादोषात् । वस्तुत्वावच्छिन्नप्रतियोगितायाः संसर्गाघटकत्वात् । संसर्गघटकाभावीयप्रतियोगिता च स्वनिरूपितसंसर्गतात्मकावच्छेदकतात्वावच्छिन्नप्रतियोगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन स्वरूपसम्बन्धत्वगतैकत्ववृत्तिरेवेति न स्वरूपसंयोगोभयसम्बन्धेन भेदाभावमादायापि दोषः । ननु भेदत्वघटत्वोभयत्वैतत्रितयगताप्यवच्छेदकताभेदत्ववृत्तित्वविशिप्टावच्छेदकतात्वेन भेदत्व एव सकलब्राह्मणवृत्त्यपि ब्राह्मणत्वं चैत्रवृत्तित्वेन चैत्र एवेतिवत्तथा चावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकमपि भेदत्वगतैकत्वमेवेति स दोषस्तदवस्थ एव। यद्यपि भेदत्ववृत्तित्वावच्छेदकतात्वोभयधर्मावच्छिन्ना पर्याप्तीया प्रतियोगिता Page #58 -------------------------------------------------------------------------- ________________ ५० व्युत्पत्तिवादः [ कारके नावच्छेदकतात्वावच्छिन्ना तथापि पूर्वोक्तरीत्योभयपर्याप्ताया अपि प्रतियोगितावच्छेदकतायाः अवच्छेदकतात्वपर्याप्तत्वमक्षतमेवेत्यवच्छेदकतात्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्वेन प्रतियोगितायाःप्रवेशेऽपि दोषानुद्धार एव। न च स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपाप्त्यनुयोगितावच्छेदकत्वसंबन्धेनावच्छेदकतात्वगतैकत्ववृत्तिप्रतियोगितानिरूपकपर्याप्तेरेव प्रवेशान्न दोष इति वाच्यम्। उक्तरीत्योभयवृत्त्यप्यवच्छेदकताऽवच्छेदकतात्ववृत्तित्वेनावच्छेदकतात्व एव । तत्रापि किञ्चिन्निवेशे पुनरपि पूर्वोक्तरीत्या दोष इत्यनवस्थापात इति चेत्-प्रत्रोच्यते । भेदत्ववृत्तित्वविशिष्टावच्छेदकतावद्भेदत्वमिति प्रतीताववच्छेदकतानिष्ठाधेयता भेदत्ववृत्तित्वावच्छिन्नैव नावच्छेदकतात्वावच्छिन्ना नापि भेदत्ववृत्तित्वावच्छेदकतात्वोभयधर्मावच्छिन्ना मानाभावात् । तथा च स्वनिरूपितावच्छेदकतात्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावच्छेदकत्वसंबन्धेन भेदत्ववृत्तिप्रतियोगितानिरूपकाभाव एवाप्रसिद्धत्वेन विवक्षितः । प्रकृताधेयताया भेदत्ववृत्तित्वावच्छिन्नत्वेनावच्छेदकतात्वावच्छिन्नत्वाभावान्न दोषः । न च भेदत्ववृत्तिमत् भेदत्वं भेदत्ववृत्त्यवच्छेदकतावत् भेदत्वमनयोः प्रतीत्योर्भेदत्ववृत्तित्वावच्छिन्नाया एवाधेयताया विषयत्वे वैलक्षण्यानुपपत्तिरिति वाच्यम् । एकत्रावच्छेदकतात्वस्य प्रकारत्वमपरत्र नेत्येतद्वैलक्षण्यस्यैव सत्त्वात्। विस्तरस्त्वस्मद्विरचितायां शास्त्रार्थरत्नावल्यां विजयायाञ्च द्रष्टव्यः । ___ यदि च भेदप्रतियोगिकोऽभाव इति। तका च यस्य कस्य चिद्धदस्य सत्त्वेऽपि यस्य कस्य चिद्भेदस्य तद्वयक्तित्वेनाभावसद्भावात् नाप्रसिद्धिरिति भाषः । नीलो घट इत्यादौ नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेन विभक्त्यर्थभेदाभावैकदेशे भेदेऽन्वयोऽभावस्य च स्वरूपसम्बन्धेन घटेऽन्वयस्तथा च नीलनिष्ठप्रतियोगितानिरूपकभेदनिष्ठप्रतियोगितानिरूपकाभावविशिष्टो घट इति बोधः । ननु नीलप्रतियोगिक दस्यैव जले सत्त्वेन तस्य तद्वयक्तित्वेनाप्यभावो Page #59 -------------------------------------------------------------------------- ________________ नीलं जलमित्यादिवाक्यस्यापि प्रामाण्यापत्तिः। जले द्वित्वादिना जले नास्तीति कथं गेलं जलमित्यस्य प्रामाण्यमित्यत आह-द्वित्वादिति । भेदघटोभयं नास्ति पृथिवीवृत्तित्वविशिष्टभेदो नास्तीति प्रतीतिविषयीभूतस्य द्वित्वावच्छिन्नप्रतियोगिताकस्य पृथिवीवृत्तित्वभेदत्वोभयधर्मावच्छिन्नप्रतियोगिताकस्य च नीतभेदप्रतियोगिकस्याभावस्य जले सत्वेन प्रामाण्यं स्यादित्यर्थः । यदि च भेदत्वनिष्ठप्रतियोगितावच्छेदकताकोऽभावस्तथाऽपि स एव दोषः । उक्ताभावस्यापि भेदत्वनिष्ठप्रतियोगितावच्छेदकताकत्वात्। यदि च भेदत्वपर्याप्तप्रतियोगितावच्छेदकताकोऽभावो विवक्षितः प्रस्ताभावीयप्रतियोगितावच्छेदकतापर्याप्तिश्च न भेवल्वे तदाऽप्रसिद्ध एवेव्यक्तम् । नन प्रतियोगिव्यधिकरणोऽभावो गृह्यते निरुक्ताभावौ च प्रतियोगिभतभेदसमानाधिकर गमेवेति न दोष इति चेत्-न । सर्वस्यैव पदार्थस्य प्रतियोगितया प्रतियोगिव्यधिकरणाभावस्याप्रसिद्धेः । स्वप्रतियोगिव्यधिकरण इत्युक्तावननुगमः । बनु- व्यासज्यत्तिधर्मानवच्छिन्नभेदनिष्ठप्रतियोगितानिरूपकोऽभावो गृह्यते निरुक्ताभावस्य व्यासज्यवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकत्वादिति चेत्न । तथाऽपि पृथिवीवृत्तित्वविशिष्टनीलभेदाभावं घटत्वेन नीलभेदाभावं संयोगेन नील भेदाभावञ्चादाय नीलं जलमित्यस्य प्रामाण्यापत्तेरवारणात् । यदि च स्वप्रतियोगिसामानाधिकरण्यस्वतादात्म्यैतदुभयसम्बन्धनाभावविशिष्टभियोऽभावः स्वनिरूपकत्वस्वाश्रयसामानाधिकरण्योभयसम्बन्धेन प्रतियोगित विशिष्टान्यो वाऽभावो गृह्यते। उक्ताभावाश्च नैतादृशा इति न दोषो नाप्यनन् गमो न वाऽप्रसिद्ध इत्युच्यते । तदा पुनरप्यभावविशिष्टघटोभयभेदं प्रतियोगिता विशिष्टघटोभयभेदञ्चादाय निरुक्ताभावानामपि ग्रहणसम्भवेन दोष एवेति चेत्--अनोच्यते । अभावविशिष्टत्वप्रतियोगिताविशिष्टत्वपर्याप्तप्रतियोगितावच्छेदकताकभेदस्य ग्रहणेनोभयभेदस्य निरस Page #60 -------------------------------------------------------------------------- ________________ नीलभेदाद्यभावस्य सत्त्वात् । नीलभेदत्वावच्छिन्नाभावस्य विभक्त्यर्थत्वे नीलादिपदार्थानन्वथप्रसङ्गः। न च भेदप्रतियोगिकाभाव एव नेन न दोष इति चेत्--इदमत्रावधेयम् । नीलभेदः स्वाभाववत्वसम्बन्धेन नीलत्वसमनियतत्वान्नीलत्वरूपस्तथा चं नीलभेदाभावस्य नीलभेद इव नीलत्वमपि प्रतियोगि तत्समानाधिकरण एव नीलभेदाभाव इति प्रतियोगिताविशिष्टान्यो नीलभेदाभावोऽप्रसिद्ध एव । किञ्चानीलघटभेदो नीलगुणस्वरूपो नीलगुणस्य च नानात्वात् । यत्किञ्चिन्नीलगुणवत्यपि 'बटे यत्किञ्चिन्नीलगुणात्मकस्यानीलघटभेदस्य योऽभावस्तस्य सत्त्वेन नीलो घटोऽनील इत्यापद्यतेति । ननु नीलो घट इत्यादौ नीलभेदत्वावच्छिन्नप्रतियोगिताकाभाव एव विभक्त्यर्थोऽस्तु । नीलभेदत्वपर्याप्तावच्छेदकतायाः प्रवेशेन नोभयाभावमादाय नीलं जलमित्यस्य प्रामाण्यं नीलस्य प्रतियोगितावच्छेदके प्रवेशेन नाप्रसिद्धिरपि । न च पीतो 'घट इत्यादौ पीतभेदत्वावच्छिन्नप्रतियोगिताकाभावस्यैव विभक्त्यर्थत्वं वक्तव्यम् । तथा च शक्यतावच्छेदकानन्त्येन शक्त्यनन्तताप्रसङ्ग इति वाच्यम् । स्वप्रकृत्यर्थतावच्छेदकत्वोपलक्षितध विच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावत्वस्यैकस्यैव शक्यतावच्छेदकत्वेनानन्त्याप्रसङ्गात् नीलादिपदसमभिव्याहाराच्च । नीलत्वाद्यवच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्यर्थो लभ्यते । पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् । पीतत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्यर्थ इत्याह-- नीलभेदत्वावच्छिन्नप्रतियोगिताकाभावस्येत्यादि । ___ नीलादिपदार्थानन्वय इति । नीलरूपप्रकृत्यर्थस्य विभक्त्यर्थंकदेशे नीले अभेदेन नान्वयः । प्रकारतावच्छेदकभेदस्य विशेष्यतावच्छेदकेऽभावात् । नापि नीलभेदे स्वप्रतियोगिकत्वसम्बन्धेनान्वयः । उद्देश्यतावच्छेदके नीले Page #61 -------------------------------------------------------------------------- ________________ विभक्त्यर्थः । नोलपदसमभिव्याहारान्नीलभेदत्वावच्छिन्नाभावः प्रतीयते इति वाच्यम् । पदार्थद्वयसंसर्गभानस्यैवाकाङ्क्षानियम्यत्वान्नीलभेदत्वावच्छिन्नप्रतियोगितान्तर्भावेण वृत्ति विना भेदरून पपदार्थतावच्छे कस्याभावे तादृशसंबन्धेन भानासंभवात् । मैत्रम्। भेदोऽभावश्च विशेषणविभक्तरर्थः। विशिष्टलाभस्त्वाकाङ्क्षा विधेयभूतनीलभेद भावात् । तयोर्भेदस्य शाब्दबोधे हेतुत्वात् । अन्यथा घटो, घटत्ववानिति प्रत त्यापत्तेः । अत एव नीलभेदत्वावच्छिन्नाभावेऽपि वृत्तित्वसम्बन्धनान्वयोऽपि न । न च भेदप्रतियोगिकाभाव एव विभक्तर्थः । भेदे च नीलस्य स्वनिष्ठ प्रतियोगिताकत्वसम्बन्धेनान्वयः । नीलपदसमभिव्याहाररूपाकाङ्क्षावलाच्च भेदस्य पदार्थंकदेशस्य स्वनिष्ठनीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च नीलभेदत्वावच्छिन्नाभावस्या नाप्रसिद्धिः । अवच्छेदकप्रवेशाच्च नोभयाभावमादाय नीलं जलमित्यस्य प्रामाण्यं पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् पीतभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वय इति सर्वमुपपन्नम् ।। पदार्थद्वयसंसर्गभानस्यैवेत्यादि । एकपदार्थेऽपरपदार्थस्यैव संसर्गस्याकाङ्क्षाभास्यत्वनियमात् भेदरूपपदार्थंकदेशस्याभावरूपपदार्थंकदेशे नीलभेदत्वांवच्छिन्न प्रतियोगिताकत्वसंसर्गस्य नीलपदसमभिव्याहाररूपाकाङ्क्षाभास्यत्वासम्भवात् । नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वस्य भानाय विभक्त्यर्थतावच्छेदककोटावेव प्रवेशः कर्त्तव्यः । तथा च पूर्वोक्तोऽनन्वय एवेति भावः । मैवमिति । भेदप्रतियोगिकाभावरूपविशिष्टस्य विभक्त्यर्थत्वे एव भेदादेः पदार्थंकदेशत्वं स्यात्तदेव नेत्याह--भेदोऽभावश्चेति । तथा चोभयोः पदार्थत्वात् । प्रकृत्यर्थस्य नीलादेर्भेदपदार्थे नीलत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः । भेदस्य चाभावपदार्थे स्वनिष्ठनीलभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वयः । नीलपदसमभिव्याहाररूपाकाङ्क्षा। बलादित्याह-विशिष्टलाभस्त्विति । नीलभेदत्वावच्छिन्नप्रतियोगिता Page #62 -------------------------------------------------------------------------- ________________ ... व्युत्पत्तिवादः [ कारके - दिवशात् । एतेन- भेदे नीलादिपदार्थान्वये एकदेशान्वयप्रसङ्ग इत्यपि निरस्तम्। न च विशेषणविभक्तरभेदार्थकत्वमते नीलं घट इत्यादावप्यभेदान्वयबोधापत्तिर्धान्येन धनवानित्यादौ तृतीयया अभेदबोधनात् अभेदप्रकारकबोधे विरुद्धविभक्तिराहित्यस्यानपेक्षणादिति वाच्यम् । द्वितीयादिनाऽभेदबोधने द्वितीयाद्यन्तवि काभावलाभस्त्वित्यर्थः । इत्यपि निरस्तमिति । भेदस्य विभक्तिजन्योपस्थितीयमुख्यविशेष्यताश्रयत्वरूपपदार्थतया पदार्थंकदेशत्वाभ वान्नैकदेशान्वय इति भावः । विशेषणविभक्तेरभेदार्थकत्वमते इति । अनेन ग्रन्थेनाभेदसंसर्गकबोधाभ्युपगमे नायं दोष इति लभ्यतेऽन्यथा विशेषणविभक्तेरभेदार्थकत्वेतिविशेषोक्तेरसङ्गत्यापत्तेस्तन्नोपपद्यते । संसर्गतामते धान्येन धनवानित्यादावप्यभेदसंसर्गकबोध एव वक्तव्यस्तथा च संसर्गतया भाने समानविभक्तिकत्वस्यानियामकत्वात् तन्मतेऽपि नीलं घट इत्यादावापत्तिसम्भवाद्विशेषणविभक्तेरभेदार्थकत्व इत्यसङ्गतमेवेति चेत्--न । संसर्गत या भाने स्तोकं पचतीत्यादेरिव धान्येन धनवानित्याकाङ्क्षाया नियामकत्वेऽपि नीलं घट इत्याकाङ्क्षाया अनियामकत्वेन दोषाभावात् । प्रकारतामते एव दोषस्य सत्त्वेन विशेषोक्तेरावश्यकत्वात्। नीलं घट इत्यादावप्यभेदान्वयबोधापत्तिरिति। नीलप्रतियोगिकभेदाभावविशिष्टो घट इति बोधापत्तिरित्यर्थः । नन्वभेदप्रकारकबोधेऽपि समानविभक्तिकत्वरूपविरुद्धविभक्तिराहित्यस्यापेक्षणान्नापत्तिरित्यत आह-धान्येनेत्यादि । द्वितीयादिनेति । प्रथमार्थाभेदप्रकारकबोधे प्रथमान्तविशेष्यवाचकपदसमभिव्याहारः कारणमित्यादिरीत्या कार्यकारणभाव इति भावः । नन्वादिपदेन सर्वासां विभक्तीनां ग्रहणे धान्येन धनवानित्यादावभेदान्वयबोधानापत्तिः । तृतीयातिरिक्तानां तासां ग्रहणे तृतीयार्थाभेदप्रकारकबोधे तृतीयान्तविशेष्यवाचकपदसमभिहारस्यानपेक्षणात् । नीलेन Page #63 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः शेष्यवाचकपदसमभिव्याहारस्य प्रयोजकत्वमित्युपगमात् । पश्च प्रमेयो घट इत्यादौ प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धया घट इत्यत्राप्यभेदबोधापत्तिः । न च धान्येन धनवानितिवन्नीलेन घट इत्यपीष्यत एवेति वाज्यं, प्रकृत्यादिभ्य उपसंख्यानमितिवार्तिकेतरस्याभेदे तृतीयाविधायकशास्त्रस्याभावात् । तच्च वार्लिकं सर्वविभक्त्यपवादभूतमत एव प्रकृत्या चारुः, गोत्रेण गार्ग्यः, समेनैति, विषमेनैतीत्यादौ प्रकृतेश्चारुः प्रकृतिश्चारुः, गोत्रो गार्ग्यः, सममेति, विषममेतीत्यादयो न प्रयोगाः । तथा च यत्र तृतीयातिरिक्ता विभक्तिन प्रामाणिकी तत्रैव प्रकृत्यादिभ्य इति वार्तिकं प्रवर्तत इति निश्चीयते । अब च नीलो घट इति प्रयोगे प्रथमायाः प्रामाणिकत्वं सर्वैरवगम्यते तस्मान्न प्रकृत्यादिपदेन नीलादीनां ग्रहणमिति नीलेन घट इति प्रयोगो न प्रामाणिकः । इदानीं नीलेन घट इत्यस्यापि बोधजनकत्वेन प्रामाणिक वापत्तिरिति चेत्-न । प्रकृत्यादिभ्य उपसंख्यानमितिवार्त्तिकविहिततृतीयातिरिक्ततृतीयार्थाभेदप्रकारकबोधे तृतीयान्तविशेष्यवाचकपदसमभिहारः कारणमिति कार्यकारणभावकल्पनेन नीलेन घट ' इत्यादावापत्त्यभावात् । अथ प्रमेयो घट इति । विभक्त्यर्थे भेदे प्रकृत्यर्थस्य प्रमेयत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदस्य च प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः कार्य्यः । स च न सम्भवति । भेदस्य हि प्रतियोगितावच्छेदकेन सह विरोधात् सर्वत्र प्रमेयत्वस्य सत्त्वेन प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धिरित्याह-प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धचेति । कम्बुग्रीवादिमति कम्बुग्रीवादिमत्वं घटत्वञ्च वर्तते । कम्बुग्रीवादिमति या भेदीया प्रतियोगिता तदवच्छेदकं लाघवात् घटत्वमेवेत्येवं रीत्या लघुधर्मसमनियतगुरुधर्मस्य प्रतियोगितानवच्छेदकत्वं तथा च कम्बुग्रीवादिमत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धया कम्बु Page #64 -------------------------------------------------------------------------- ________________ लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे कम्बुग्रीवादिमान घट इत्यादावपि कम्बुग्रीवादिमत्त्वावच्छिनातियोगिताकभेदाप्रसिद्धया विशेषणविभक्तेरभेदार्थव त्वासम्भवः । एवं नीलपटादिपरनीलादिपदबैटितस्य नीलो घट इ यादिवाक्यापि प्रामाण्यापत्तिः । नीलत्वादिना पटादेर्भदाभावस्य नीलघटाहो सत्त्वात्। एतेन विशेषणतावच्छेदकीभूतनीलप्रमेयत्वादिकमेव विशेषणविभक्त्यर्थः, नोलत्वादेर्नीलत्वावच्छिन्न भेदाभावरूपत्याऽभेदार्थकत्वप्रवादोपपत्तिरित्यपि निस्स्तम् । नील बादौ नीलत्वादिमत; स्ववृत्तित्वसम्बन्धेनान्वये आकाङ्क्षाविरह च । यथा हि तद्विशिष्टे अधिकरणे आश्रयतया तदन्वयोऽनुभवविरुद्धः तथा तद्धर्मे आधेयतया तद्धर्मवदन्वयोऽपि । अत एव कर्म गच्छतीति वाक्यस्य निराकाङ्क्षता। न चैवं संसर्गतामतेऽप्यनिस्तारः । ग्रीवादिमान् घट इत्यादि बोधानुपपत्तिरित्याह--लघुध-मसमनियतेत्यादि । प्रामाण्यापत्तिरिति । नीलपटगतनीलत्वं नीलगुण एव । स च नीलघटगतनीलगुणाद्भिन्न एव । तथा च नीलत्वावच्छिन्ननीलपट निष्ठप्रतियोगिताकभेदाभावो नीलपटनिष्ठनीलगुणस्वरूपस्तस्य घटेऽसत्त्वेन कथं नीलपटपरनीलपदघटितनीलो घट इति वाक्यस्य प्रामाण्यापत्तिरिति न वाच्यम् । पटरूपद्रव्यपरद्रव्यपदघटितस्य द्रव्यं घट इति वाकास्योपलक्षणीयत्वात् नीलत्वावच्छिन्नाधेयतानिरूपिताधिकरणत्वस्यैव नीलत्वपदेन ग्रहणाद्वा तस्याधिकरणत्वस्य चैक्यात् । एतेनेति । तृतीयदोषस्य सत्त्वेनेत्यर्थः । नीलस्वादौ नीलत्वादिमत इति । अत एव नीलस्य नीलत्वमिलादावन्वयबोधो न । तद्विशिष्ट अधिकरण इति । नीलो नीलत्ववानित्यादा पति बोध्यम् । अत एवेति । कर्म गच्छतीत्यादिवाक्यात् कर्मत्वविशिष्टस्य ! कृत्यर्थस्य वृत्तित्वसम्बन्धेन द्वितीयाथकर्मत्वे अन्वयबोधाभावादिति भावः । न चैवं संसर्गता Page #65 -------------------------------------------------------------------------- ________________ नीलो घट इत्यादौ स्ववृत्तिनीलत्वादेंः संसर्गतास्वीकारे उक्तस्थले प्रामाण्यापत्तेर्दुर्वारत्वादिति वाच्यम् । स्ववृत्तिनीलत्वादेः स्वस्मिन्नेव सम्बन्धतोपगमेन पटादिवृत्तिनीलत्वादेर्घटादौ पटादिसम्बन्धताविरहेण तादृशातिप्रसङ्गाभावात् । वस्तुतस्तु तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एव नीलत्वादिप्रकारेण भासमानानां तत्तव्यक्तीनां स्वस्मिन् सम्बन्धतया भासते इति न काप्यनुपपत्तिः। सम्बन्धता च तस्य भेदप्रतियोगिताकाभा मतेऽप्यनिस्तार इति । तन्मतेऽपि प्रामाण्यापत्तिरूपदोषानुद्धार एवेत्यर्थः । तदेवोपपादयति-नीलो घट इत्यादिना। उक्तस्थल इति । नीलपटपरनीलपदघटितनीलो घट इत्यादावित्यर्थः। संसर्गतामतेऽपि नीलभेदाभावरूपनीलत्वस्यैव संसर्गता नीलत्वस्य च नीलपट इव नीलघटेऽपि सत्त्वादुक्तदोषस्तदवस्थ एवेति भावः। स्ववृत्तिनीलत्वादेः स्वस्मिन्नेव सम्बन्धतोपगमेनेति । उक्तस्थले च पटवृत्तित्वविशिष्टनीलत्वमेव संसर्गः । तच्च पटे एव न घटे इति नोक्तदोष इति भावः। तत्तद्वयक्तित्वावच्छिन्नभेदाभाव एवेति। तथा च नीलपटपरनीलपदघटितस्य नीलो घट इति वाक्यस्य न प्रामाण्यापत्तिः। पटगततद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्यैव घटे सत्त्वेन तदभावरूपसम्बन्धस्य तत्राभावात् । भेदप्रतियोगिकाभावत्वेनेति । ननु भेदत्वावच्छिन्नप्रतियोगिताकाभावत्वेन न संसर्गता तद्धर्मस्याप्रसिद्धत्वात् । भेदनिष्ठप्रतियोगिताकाभावत्वस्य प्रसिद्धत्वेऽपि तस्य तद्वयक्तिभेदघटोभयाभावेऽपि सत्त्वेन तस्यापि संसर्गत्वापत्तौ तस्य चोभयाभावस्य घटेऽपि सत्त्वेनोक्तवाक्यस्य प्रामाण्यं दुर्वारमेवेति तद्वयक्तिभेदत्वावच्छिन्नप्रतियोगिताकत्वेनैव संसर्गताया वक्तव्यतया कथमत्रांशे औदासिन्यमिति चेत्--न । भेदप्रतियोगिकाभावत्वेन सामान्यरूपेणापि तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावस्यैवोभयाभावभिन्नस्य संसर्गत्वोपगमात् । Page #66 -------------------------------------------------------------------------- ________________ ५८ व्युत्पत्तिवादः [ कारके वत्वेन तत्तद्व्यक्तिभेदप्रतियोगिताकाभावत्वेन वेत्यन्यदेतत्। न चैवं विशेषणविभक्तेरभेदार्थकत्वमतेऽपि तत्तद्व्यक्तित्वावच्छिन्नाभेद एव विभक्त्यर्थो वक्तव्य इति वाच्यम् । तथा? सत्यपूर्वव्यक्तिनिष्ठतत्तद्व्यक्तित्वस्य कथंचिदपि भानासम्भवेन तदवच्छिन्नभेदाभावे शक्तिग्रहासम्भवनापूर्वव्यक्तीनामभेदान्वयबोधानुपपनेः । संसगॅज्ञानस्य विशिष्टबुद्धावहेतुत्वेनानुपस्थितस्यापि संसर्गतया भान सम्भवेन संसर्गतामतेऽनुपपत्त्यभावात् । न च विभक्त्यर्थेऽपि भेदे अतिप्रसक्तधर्मस्यापि विषयतात्मकसंसर्गताया अवच्छेदक त्वात् । अन्यदेतदिति। अतिप्रसक्तेन भेदप्रतियोगिकाभावत्वेन अनतिप्रसक्तेन तद्वयक्तित्वावच्छिन्नप्रतियोगिकाभावत्वेन वा अस्तु संसर्गता परन्तु सा प्रदर्शितविशेषाभावनिष्ठवेति कस्मिन्नपि पक्षे दोषाभावेन यथेच्छसि तथा स्त्विति भावः । तथा सतीति । तस्य विभक्त्यर्थत्वे सतीत्यर्थः।। अपूर्वव्यक्तिनिष्ठेति । तद्वयक्तित्वभेदेन तद्घटित धर्मस्यापि भिन्नत्वेन तत्तत्सकलधर्मावच्छिन्ने विभक्तेः शक्तिस्वीका: श्यामः पुत्रो भवितेत्यादौ भाविपुत्रगततद्वयक्तित्वघटितधर्मे विभक्तेर्व्यवहाराभावेन तद्धविच्छिन्ने विभक्तिशक्तेर्ग्रहाभावेन बोधानापत्तेरिति भावः । न च संसर्गतयाऽप्यनुपस्थितस्य तस्य कथं भानमत एव संसर्गेऽपि मीमांसकः शक्तिः स्वीक्रियत इति वाच्यम् । मोमांसकमतं निराकृत्यानुपस्थितस्यापि पदार्थद्वयसंसर्गस्य संसर्गमर्यादया भानस्य नैयायिकर्व्यवस्थापितत्वात् । ___संसर्गतामतेऽनुपपत्त्यभावादिति । न च शाब्दबोधे संसर्गमर्यादया अनुपस्थितस्य तस्य भानेऽपि नीलो घट इति वाक्यं तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावसम्बन्धावच्छिन्ननीलनिष्ठप्रकारताकबोधेच्छयोच्चरितमित्याकारकतात्पर्य्यज्ञानस्य नीलो घट इति वाक्यजन्यशाब्बोधे कारणत्वं वक्तव्यम् । तात्पर्य्यज्ञाने च अवच्छिन्नत्वांशे प्रकारतयैव तस्य भानेन तद् Page #67 -------------------------------------------------------------------------- ________________ । तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धन नीलत्वादिना तत्तद्व्यक्तीनामन्वयः। तादृशभेदानामपि वत्तव्यक्तिभेदत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वय उपेयते । तावतैव तत्तद्व्यक्तित्वावच्छिन्नाभेदलाभ इति न किंचिदनुपपन्नमिति वाच्यम् । विशेषरतावच्छेदकावच्छिन्नाया एव प्रतियोगिताया घटिततात्पर्य्यज्ञाने तज ज्ञानस्य हेतुत्वेन तस्यानुपस्थितौ तात्पर्य्यज्ञानासम्भवेन शाब्दबोधानुपपत्तिरेवेति वाच्यम् । न च नीलो घट इति बोधनेच्छयोच्चरितमिदं वाक्यमित्याका रकस्य तात्पर्य्यज्ञानस्य संसर्गतयैव संसर्गावगाहिनः कारणत्वमस्तु तथा चानुपस्थितस्यापि तद्वयक्तित्वस्य संसर्गघटकतया भाने न बाधकमिति व च्यम् । अपूर्ववाक्यार्थस्थले शाब्दबोधात् प्राक् तादृशवाक्यार्थाप्रसिद्धेस्तात्पर्यग्रहे ज्ञानविशेषणतया वाक्यार्थस्य भानासम्भवादिति वाच्यम् । स्वनिरूपित्तसांसर्गिकविषयतानिरूपितघटादिनिष्टविषयताकत्वसम्बन्धेन नीलनिष्ठप्रकारताविशिष्टज्ञानजनकत्वेनोच्चरितमित्याकारकतात्पर्यज्ञानस्थ वारणत्वेनापूर्ववाक्यार्थस्थलेऽपि तादृशज्ञानसम्भवेन तद्वयक्तित्वोपस्थितेरन क्षणादिति ध्येयम् । न च विभक्त्यर्थेऽपि भेद इति । अयं भावः । अभेदस्य विभक्त्यर्थत्वेऽपि दोषाभावः । तथा हि भेदोऽभावश्च विशकलित एव विभक्त्यर्थोऽस्तु नीलादेश्च तद्वयक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदेऽन्वयः । भेदस्य च तद्व्यक्तिभेदत्वावच्छिः प्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च तद्वयवि तत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न प्रतियोगिताकाभावो लभ्यत इति न पूर्वोक्तदोषावसरः । तद्वक्तित्वस्य संसर्गघटक़तयैव भानेनानुपस्थितत्वेऽपि क्षत्यभावात् । विशेषणतावच्छेकावच्छिन्नाया इति । प्रतियोगिविशेषणतया भा मानधविच्छिन्न प्रतियोगिताया एव प्रतियोगिनोऽभावे संसर्गतया भानं भवतीत्यर्थः । तथा च नीलत्वेन भासमाननीलादेर्भेदे Page #68 -------------------------------------------------------------------------- ________________ अभावे प्रतियोगिनः सम्बन्धतया भानात् । अन्यथा विशिष्टवैशिष्ट्यबुद्धित्वानुपपत्तिः। प्रतियोगिविशेषिताभावज्ञानं च विशिष्टवैशिष्ट्यबोधमर्यादान्नातिशेत इति दर्शनात्केवलं विशेष्ये विशेषणमिति रीत्या न कश्चिदभ्युपैतीति चेत्-सत्यम्। अभेदस्तादात्म्यम् । तच्च स्ववृत्त्यसाधारणो धर्मः। असाधारण्यं च एकमात्रवृत्तित्वम् । तच्च स्वसामानाधिकरण्यस्वप्रति नीलत्वावच्छिन्नप्रतियोगिताया एव संसर्गत्वं न तु तद्वपक्तित्वाच्छिन्नप्रतियोगिताया इत्यर्थः । विशिष्टवैशिष्टयबुद्धित्वानुपपत्तिरिति । विशेषणविशेषणतावच्छेदकोभयप्रतियोगिकसम्बन्धद्वयावगाहिबुद्धित्वं विशिष्टवैशिष्टयबुद्धित्वम् । तथा च नीलो घट इत्यादौ विभक्यर्थभेदे नीलस्य स्वप्रतियोगिकत्वं नीलत्वस्य च स्वावच्छिन्नप्रतियोगिताकत्वं संसर्ग एव स्यादित्यर्थः । अन्यथा घटसत्त्वेऽपि घटाभाववत्ताबुद्धिप्रसङ्गात्। द्वित्वावच्छिन्नप्रतियोगिताकस्यान्यतव्यक्तित्वावच्छिन्नप्रतियोगिताकस्य च घटाभावस्य घटसत्त्वेऽपि स त्वात् । प्रतियोगिविशषिताभावेति । प्रतियोगिना विशेषितो योऽभावस्तज्ज्ञानं घटाभावः घटो नास्तीत्याकारकज्ञानमित्यर्थः । नातिशेत इतीति। निरुक्तविशिष्टवैशिष्टयबुद्धित्वं न जहातीत्यर्थः । केवलं विशेष्ये विशेषणमितीति। अभावे विशेष्ये प्रतियोगितया घटो विशेषणं घटे च समवायेन घटत्वं विशेषणमितिरीत्येसर्थः । प्रतियोगितायां प्रतियोगिविशेषणधर्मावच्छिन्नत्वं विहायति बावत् । ___एकमात्रवृत्तित्वमिति । तच्चैकवृत्तित्वे सति एकेतरावृत्तित्वरूपमिति यथाश्रुतन्तु न युक्तम् । एकत्वस्य केवलान्वयित्वेन एकेतरत्वस्याप्रसिद्धया तस्याप्रसिद्धत्वात् । स्वसामानाधिकरण्येति । स्वं भेदः यथा घटे योऽन्यघटव्यक्तेर्भेदः स स्वं तत्सामानाधिकरण्यं तत्प्रतियोगिवृत्ति वञ्च घटत्वे इति Page #69 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः ६१ योगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव विशेषणविभक्तरर्थः । वृत्तिश्च तत्र प्रकृत्यर्थस्य संस भेदविशिष्टमेव घटत्वमेवोभयवृत्तिः सर्वोऽपि धर्मो भेदविशिष्टस्तदन्यत्वं तद्वयक्तित्वे एव । यथा प्रतियोगिभूतघटव्यक्तिगततद्वयक्तित्वे तादृशभेदप्रतियोगिवत्तित्वेऽपि तद्भदसामानाधिकरण्यन्नास्ति । अनुयोगिघटगततद्वयक्तित्वे च तद्भदसामानाधिकरण्येऽपि प्रतियोगिवृत्तित्वन्नास्तीति भेदविशिष्टभिन्नत्वं बोध्यम् । अथ प्रतियोगिभूतघटगततद्व्यक्तित्वस्याप्यनुयोगिनि कालिकसम्बन्धेन सत्त्वात् । अनुयोगिघटगततद्व्यक्तित्वस्य तेन सम्बन्धेन प्रतियोगिनि सत्त्वात्तद्वयक्तित्वमपि भेदविशिष्टमेव । स्वरूपसम्बन्धावच्छिन्नवृत्तिताया निवेशे समवायेन वृत्तित्ववतां घटत्वादीनामपि भेदविशिष्टान्यत्वापत्त्या भिन्ननीलघटपरनीलपदघटितस्य नीलो घट इत्यादेरपि प्रामाण्यापत्तेः । कालिकान्यसम्बन्धावच्छिन्नवृत्तिताया निवेशे घटगततद्व्यक्तित्वविषयकज्ञानप्रतियोगिको यो घटे भेदस्तद्विशिष्टत्वमेव घटगततद्वयक्तित्वे तस्य स्वरूपसम्बन्धेन अनुयोगिनि घटे विषयितासम्बन्धेन प्रतियोगिनि ज्ञानेऽपि सत्त्वात् । न च तस्य सम्बन्धस्य वृत्तित्वानियामकत्वं ज्ञाने घट इति प्रतीतेरिति भेदविशिष्टान्यत्वाप्रसिद्धिरिति चेत्--अत्रोच्यते । भेदविशिष्टान्यघटकवृत्तित्वस्य स्वरूपसम्बन्धावच्छिन्नस्यैव ग्रहणमिति कालिकसम्बन्धमादाय नाप्रसिद्धिर्नापि घटत्वादेरपि भेदविशिष्टान्यत्वेन विभिन्नघटपरस्य नीलो घट इति वाक्यस्य प्रामाण्यापत्तिः। भेदविशिष्टान्ये विभक्त्यर्थे स्वरूपसम्बन्धावच्छिन्नाधेयत्वस्यैव प्रकृत्यर्थसंसर्गतया भानोपगमात् घटत्वादिरूपभेदविशिष्टान्यस्य विभक्त्यर्थत्वेऽपि निरुक्ताधेयत्वसम्बन्धेन प्रकृत्यर्थान्वयस्य तत्र बाधेन तदादायापत्त्यसम्भवात् । न च घटे यः पटत्वाभावस्तत्र यो घटभेदः स अभावात्मक एव अभावाधिकरणकाभावस्याधिकरणात्मकत्वाभ्युपगमात् । तथा च घटगततद्वयक्तित्वे घटभेदप्रतियोगिवृत्तित्वस्य तद्भे Page #70 -------------------------------------------------------------------------- ________________ ६२ व्युत्पत्तिवादः [ कारके गमर्यादया भासते । तादृशधर्मस्तत्तद्व्यक्तित्वादिरूप एव । दात्मकाधिकरणीभूताभावसामानाधिकरण्यस्य च सत्त्वेन तद्वयक्तित्वस्यापि भेदविशिष्टत्वमेव । एवं स्वस्मिन्नपि पूर्वक्षणवृत्तित्वविशिष्टस्वभेदस्य सत्त्वेन तद्भेदविशिष्टत्वमपि तद्वयक्तित्वे इति भेदविशिष्टान्यत्वमप्रसिद्धमेवेति वाच्यम्। स्वात्मकत्वस्वपर्याप्तावच्छेदकताकप्रतियोगितानिरूपकतावच्छेदकभेदत्वावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयवृत्तित्वाभेदसंबन्धेन धमविशिष्टान्यत्वस्यैव विवक्षितत्वात्। अभावाधिकरणकभेदस्याभावात्मकत्वेऽपि तनिष्ठाभावत्वावच्छिन्नाधेयतानिरूपितैवाधिकरणता घटे न तु घटगततद्वयक्तित्वावच्छिन्नप्रतियोगितानिरूपकतावच्छेदकीभूतभेदत्वावच्छिन्नाधेयतानिरूपिताधिकरणतेति नाद्यरीत्या दोषः । नाप्यन्तरीत्या दोषस्तत्र पूर्वक्षणवृत्तित्वविशिष्टतद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदमादायैव दोषो वाच्यः । स न सम्भवति । पूर्वक्षणादेरपि प्रतियोगितावच्छेदककुक्षौ प्रवेशेन तद्वयक्तित्वपर्याप्तावच्छेदकताया अभावात् । नापि तद्वयक्तिपटोभयन्न सा व्यक्तिरित्युभयभेदमादायापि दोषस्तत्र प्रतियोगितावच्छेदकतायास्तद्वयक्तित्वपर्याप्तत्वाभावात् । अत्र पर्याप्तिनिवेशप्रकारस्सर्वोऽप्यनुसन्ध्येयः। . नच भेदस्तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावः । तादात्म्यञ्च भेदविशिष्टान्यत्वमित्यत्योन्याश्रय इति वाच्यम् । स्वप्रतियोगिसामानाधिकरण्यस्वसामानाधिकरण्योभयसम्बन्धेनाभावविशिष्टान्यत्वस्य विवक्षितत्वात् । तद्वयक्तित्वाभावमादाय लक्षणसमस्ययः । स्वाभावत्वमपि द्रव्यादिषट्कान्योन्याभाववत्वमेव । अन्योन्याभावश्च तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभाव इति तदवस्थ एवान्योन्याश्रय इति वाच्यम् । अभावत्वस्याखण्डोपाधिरूपत्वात् । नाप्यन्यत्वमादायान्योन्याश्रयः भेदत्वस्याप्यखण्डोपाधित्वादिति दिक् । तादृशधर्मस्तत्तद्वयक्तित्वादिरूप एवेति। तादृशो भेदविशिष्टान्यः नीलो Page #71 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः अथर्वव्यक्तिनिष्ठतादृशधर्मस्य विशिष्यज्ञातुमशक्यत्वेऽप्येकमात्रवृत्तिधर्मत्वादिना सामान्यप्रत्यासत्तितः सुग्रहत्वमेव । अभेदस्य संसर्गतामतेऽप्येतादृशानुगताभेदस्यैव तथात्वमुचितम्। तत्तव्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशिष्य तथात्वे घटो न नील घट इत्यादौ तद्व्यकिात्वं विभक्त्यर्थः । तस्मिन् स्वरूपसम्बन्धावच्छिन्नाधेयतासम्बन्धेन नीलरूपप्रकृत्यर्थस्यान्वयः। तस्य च स्वरूपसम्बन्धेन घटेऽन्वयः । तथा च नीलवृत्तितयक्तित्ववान् घट इत्यन्वयबोधः । सुन्दरः पुत्रो भविष्यतीत्यत्र पुत्रगततद्वयक्तित्वे व्यवहारस्यादर्शनेन तत्र विभक्तेः शक्तिग्रहाभावेन कथन्तस्य शाब्दबोधविषयतेत्यत आह-अपूर्वव्यक्तिनिष्ठेत्यादि । विशिव्येति । स्वरूपतस्तादशतद्वयक्तित्वस्येत्यर्थः । एकमात्रवृत्तिधर्मत्वादिनेति । भेदविशिष्टाव्यल्वधर्मणेत्यर्थः । सामान्यप्रत्यासत्तीति । सामान्यधर्मरूपा चक्षुषोऽपूर्वतद्व्यक्तित्वे प्रत्यासत्तिः सन्निकर्ष इत्यर्थः । चक्षुस्सन्निकृष्ट . स्यक्तित्वे यदिदं दविशिष्टान्यदिति ज्ञानं तत्प्रकारीभूतभेदविशिष्टान्यत्वम् । सकलतद्व्यक्तित्वे इति चक्षुषः...स्व्रजन्यज्ञानप्रकारीभूतभेदविशिष्टान्यत्वरूपधर्मवत्वस्य पूर्वतद्वयक्तित्वे सन्निकर्षात्। भेदविशिष्टान्यत्वेन ज्ञायमाने सकलतद्व्यक्तित्वे विभक्तेः शक्तिग्रहात् अपूर्वस्यापि शाब्दबोधविषयतापत्तिरिति बोध्यम् । एतादृशानुगताभेदस्यैवेति। भेदविशिष्टान्यस्यैवेत्यर्थः । तथात्वं संसर्गतात्वमित्यर्थः । विशिष्य तथात्वे इति । तद्व्यक्तित्वावच्छिन्नप्रतियोगिताक भेदाभावत्वेन संसर्गत्वे इत्यर्थः । घटो न नील इत्यादीति । अयं भावः । नीलो घट इत्यत्र यदि तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदाभाव एव नीलस्य घटे संसर्गस्तहि नीलो न घट इत्यत्रापि तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावसम्बन्धावच्छिन्नप्रतियोगिताक नीलाभाव एव घटे ना बोध्येत । न तु तत्र तादात्म्यं विभक्त्यर्थः। नीलस्रा वृत्तित्वसम्बन्धेन तादात्म्येऽन्वयं कृत्वा नीलवृत्तिता Page #72 -------------------------------------------------------------------------- ________________ ६४ व्युत्पत्तिवादः [ कारके इत्यादिवाक्यजन्यबोधे प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमाविति न्यायेन तादृशाननुगतसंबन्धावच्छिन्नप्रतियोगिताकाननुगताभावा एव भासेरन् न तु नीलवृत्तिरेकोऽभावः, तथा सति यत्किंचित्तादृशाभावतात्पर्येण प्रयुक्तस्य नीलेऽपि न नील इत्यादिवाक्यस्य प्रामाण्यं स्यात् । इदन्तु बोध्यम् । विशेषणविभक्तेरभेदार्थक वे घटो न नील इत्यादौ नत्रा नीलाद्यभेदाभाव एव प्रत्याययिष्यते न तु नीलादिभेदः। यादृशसमभिव्याहारस्थले येन संबन्धेन यत्र धर्मिणि येन रूपेण यद्वत्त्वं ननसत्त्वे प्रतीयते तादृस्थले नञा तद्धर्मिणि ताहशसंबन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावबोधस्य व्युत्पत्तिसिद्धत्वात् । प्रतियोग्यभावान्वयौ चेत्यादेरप्ययमेवार्थः। दात्म्याभाववान् घट इत्याकारको बोधो नञोऽसत्त्वे येन सम्बन्धेन येन रूपेण यद्वत्ता यत्र यादृशसमभिव्याहारात्प्रतीयते तादृशसमभिव्य हारेण नघटितेन तत्सम्बन्धावच्छिन्नतद्धावच्छिन्नप्रतियोगिताकाभाव एट तत्र प्रतीयते । इत्यर्थके 'प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमा' वित्यभियुत् तवचनात् । तथा च तद्वयक्तित्वभेदेन तद्व्यक्तित्वघटितसम्बन्धस्यापि भेदात् । तत्तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यापि भेदेन नीलेऽपि घटे स्वेतरनीलगततद्वयक्तित्वघटितोक्तसम्बन्धस्याभावेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावस्य तत्सम्बन्धस्य व्यधिकरणतया तत्सम्बन्धावच्छिन्नप्रतियोगिताकस्वात्मकनीलाभावस्य च सत्त्वेन न नील इति प्रयोगापत्तिः । ताद त्म्यत्वेन संसर्गत्वे स्वकीयसंयोगेन वह्निमति अन्यदीयसंयोगस्याभावेऽपि संयोगेन वह्निर्नास्तीति यथा न भवति तथा तादात्म्येन नीलो नेति न प्रयोग इति। न च तत्तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदकूटत्वावच्छिन्नप्रतियोगिताकर यैकस्यैवाभावस्य संसर्गत्वेन न संसर्गभेदात्तत्सम्बन्धावच्छिन्नप्रतियोगिताका भावभेद इति न नीलेऽपि न नील इति प्रयोगापत्तिः । न च कटत्वमपेक्षाब द्धिविषयत्वमेव । Page #73 -------------------------------------------------------------------------- ________________ एवं च नयो भेदबोधकत्वं न कुत्रापि संभवति अनीलंघटमानयेत्यादौ घटपदसामानाधिकरण्यानुरोधेनानीलपदस्य नीलभिन्नपरतया नञो भेदवत्येव लक्षणाया उपगन्तव्यत्वात् । नच्चापेक्षाबुद्धिभेदेन भिन्नं तदवच्छिन्नप्रतियोगिकाभावोऽपि भिन्न एवेति न संसर्गस्यैक्यमिति वाच्यम् । तत्तत्कूटत्वावच्छिन्नाभावस्य समनियतत्वेन ममनियताभावस्य - क्येन संसर्गभेदाभावात् । संसर्गतावच्छेदकीभूततादशा-। भावत्वस्य तद्व्यवि तत्वभेदभिन्नतया तदवच्छिन्नसंसर्गताभिन्नैव स्यादिति न, स्वरूपत एव ताद शाभावस्य संसर्गत्वोपगमात् । संसर्गघटकतव्यक्तित्वादेरनुपस्थितत्वेऽपि न क्षतिरनुपस्थितस्याऽपि संसर्गतया भानस्वीकारादिति वाच्यम् । बहुषु घटेषु बहुनीलतादात्म्यसत्त्वे बहुघटघटकद्वित्रघटेष म्वान त्मकवहुनीलान्तर्गत द्वित्रनीलतात्पर्येण नीला घटा इत्यापत्तेरित्यलम् । इदन्तु तत्त्वमित् देग्यमाशयः । यदि नीलो घट इत्यादौ विशेषणविभक्तेस्तादात्म्यम प्रस्तहि स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकतादाम्याभाव एव नीलो न घट इत्यादौ नञा बोद्धचेत। प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाविर्वा । व्युत्पत्तेः । तथा च तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपभेद बोधकत्वं नञः सकललोकप्रसिद्धमुच्छिन्नं स्यादिति बोध्यम् । तद्भेदतत्ता आत्म्याभावयोरैक्येऽपि भेदत्वेन भेदबोधकत्वं न स्यादिति तात्पर्य्यम् । न च अनीलं घटा नयेत्यादौ तादात्म्यार्थकविभक्त्यभावेन नजो नीलभेदबोधक त्वमेवेति भेदबधिकत्वन्नोच्छिन्नमित्यत ग्राह-अनीलं घटमानयेत्यादि। घटेन सह सामानाधिकरण्यान्वयानुरोधेनानीलपदस्य नीलभिन्नार्थकत्वं वक्तव्यन्तदर्थञ्च न भेदवति लक्षणा वक्तव्या। ततश्च भेदमुख्य विशेषकोपस्थितिजनकत्वमुछिन्नमेवेति बोध्यम् । अभेदस्य प्रकारत्वे सम्भवत्यपि Page #74 -------------------------------------------------------------------------- ________________ - इदं तु तत्त्वम् । असमस्तनीलो घट इत्यादिस्थलेऽभेदस्य संसगतोपगमेऽपि गौरवविरहात् तत्र विशेषणविभक्तेर्वृत्तिकल्पनमनुचि संसर्गतयैव भानमुचितमित्याह-इदन्तु तत्त्वमित्यादिना। विशेषणविभक्तेवृत्तिकल्पनमिति । संसर्गताभिन्नतन्निष्ठविषयताकशाब्बोधे वृत्तिज्ञानाधीनतद्विषयकोपस्थितेर्हेतुतयाऽभेदस्य प्रकारतया भानोपगमे विशेषणविभक्तेस्तत्र वृत्तिकल्पनमावश्यकन्तदेव गौरवं संसर्गतया तु अ काङ्क्षयैव भानोपपत्तौ संसर्गतामते तत्र वृत्तिकल्पनं नास्तीति लाघवमिति बोध्यम् । न च संसर्गतामते अभेदसंसर्गकशाब्दबोधस्य नीलस्य घट इत्यादिवाक्यादभावायाभेदसंसर्गकशाब्दबोधे प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानस्य कारणत्वं वाच्यम्। प्रकारतामते ८ तादृशकार्यकारणभावानभ्युपगमेन संसर्गतामते तादृशाकार्यकारणभावो मन्मते वृत्तिकल्पनमित्युभयोः साम्येन कथं वृत्तिकल्पनमनुचितमिति वाच्यम् । विरुद्धविभक्त्यन्तघटितात् नीलस्य घट इत्यादिवाक्यादभेदप्रकार बोधवारणाय अभेदप्रकारकबोधवादिनाऽपि तादृशाकाङ्क्षाज्ञानस्य कारण त्वाभ्युपगमेन तदंशे साम्यात् वृत्तिकल्पनस्य गौरवेणानुचितत्वध्रौव्यात् । न च संसर्गतावादिनामपि यत्राभेदे विभक्तेश्शक्तिभ्रमो लक्षणाग्रहो वा तत्राभेदप्रकारक एव बोधस्तैरभ्युपेयः। तथा चान्यत्राभेदसंसर्गकोऽत्रादप्रकारको द्विविधो बोध इष्टस्तेषां तादृशोभयबोधस्य नीलस्य घट इत्यादिवाक्याद्वारणाय तत्तद्बोधे आकाङ्क्षाज्ञानस्य कारणत्वे कार्यकारणभा वद्वयम् । प्रकारतावादे चाभेदसंसर्गकबोधस्याऽभावेन अभेदप्रकारक एवः एव बोध इत्याकाङ्क्षाज्ञानस्याभेदप्रकारकबोधस्य च एक एव कार्यकारणभाव इति तदंशे लाघवेन वृत्तिकल्पनमनाधिक्येन नानुचितम् । किञ्च संसर्गतावादिमते उक्तयोविविधबोधयोर्योग्यताज्ञानमपि भिन्न भिन्नमभेदसंसर्गकबोधे अभेदसंसर्गकनीलप्रकारकम् । अभेदप्रकारकबोधे अभेदनिष्ठस्वरूप Page #75 -------------------------------------------------------------------------- ________________ तम् । न च स्त्राभेदे-विशेषणविभक्तेः शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र सर्वमत एवाभेदप्रकारकबोधस्य नीलो घट इत्यादिवाक्यादुत्पत्त्या तादृशसममिव्याहारज्ञानस्य द्विविधबोधे हेतुताद्वरं कल्पनीयम्, भेदस्य संसर्गतावादिनेति गौरवम् । एवं तादृशसमभिव्याहारज्ञानघटितसामग्र्या भिन्नयोग्यताज्ञानघटितत्वेन द्वैविध्यमिति भिन्नविषयकप्रत्यक्षादिकं प्रति तादृशशाब्दसामग्रीप्रतिबन्धकताया अप्याधिक्यमिति वाच्यम् । अभेदस्य संसर्गतावादिनोक्त सम्बन्धावच्छिन्न प्रकारताकम् । तथा च तद्धटितसामग्रचपि भिन्ना । तयोश्च भिन्नविषयकप्रत्यक्षम्प्रति प्रतिबन्धकताद्वयम् । प्रकारतामते च एक एवाभेदप्रकारको बोध: । योग्यताज्ञानमप्येकमेवाभेदप्रकारकम् । तद्घटिता एकैव सामग्री। तस्या भिन्नविषयकप्रत्यक्षं प्रति एकैव प्रतिबन्धकतेति प्रतिबध्यप्रतिबन्धकभावेऽपि लाघवाद्वृत्तिकल्पनं नानुचितमित्याह-न च यत्रेत्यादिना वाच्यमित्यन्तेन । यदि च नीलो घट: श्यामो घट इति वाक्यद्वयजन्यकाकारकबोयोदयेनाकाङ्क्षाज्ञानस्य द्वैविध्येन च परस्परजन्यबोधे व्यभिचारवारणाय कार्यतावच्छेदककोटौ कारणानन्तर्यनिवेशस्यावश्यकवेन तदेव जन्यतावच्छेदकमस्तु । विषयतानिवेशश्च मास्तु । स्वोत्तरशाब्दबोधे नीलो घट इत्याकाङ्क्षाज्ञानं कारणं स्वोत्तरशाब्दबोधे श्यामो घट इत्याकाङ्क्षाज्ञानं कारणमितिरीत्यैव कार्यकारणभावो वक्तव्य इति बोधस्य द्वैविध्येऽ पे एक एव कार्यकारणभावः । संसर्गतामतेऽपि अत एव( भेदान्वयप्रकरणे पर्यायस्थले व्यभिचारवारणायानयैव रीत्या विषतामनिवेश्य एक एव कार्यकारणभावः स्वीकृत इमि मन्यसे । तथाऽपि प्रतिबन्धकताद्वयं संसर्गतावादिमतेऽवश्यमित्याह-एवमिति । वस्तुतस्तु विषयविशेषविषयकशाब्दबोधे आकाङ्क्षाज्ञानस्य कारणत्वाभावे विषयविशेषविषयकशाब्दबोधार्थिनो वाक्यविशेषोच्चारणे एव प्रवृत्तिरिति नियमानुपपत्त्या कार्यतावच्छेदककोटौ विषयतानिवेश आवश्यक एवेति बोध्यम् । उक्त Page #76 -------------------------------------------------------------------------- ________________ स्थलेऽपि तत्संसर्गकबोधस्यैवोपगमादितिदि। सोकं पचति मृदु पचतीत्यादौ विरुद्धविभक्त्यवरुद्धपदोपस्थापितस्यापि स्तोकमृद्वादेर्धात्वर्थपाकादावभेदान्वयोऽपि व्युत्पत्तिसिद्धः,तदनुरोधेन च द्वितीयान्नपदधातुपदयोः समभिव्याहारस्याप्यभेदान्वयबोधौपयिकाकाङ्क्षात्वमुपगम्यते क्रियाविशेषणस्थले च न द्वितीयातिरिक्तविभक्तिरुत्पद्यते, क्रियाविशेषणानां कर्मत्वमित्यनुशासनेन तत्र कर्म स्थले पीति । शक्तिभ्रमलक्षणाग्रहस्थले पीत्यर्थः । तत्रांसर्गकेति । अभेदसंसर्गकेत्यर्थः । तथा च न कार्यकारणभावद्वयमिति बोध्यम् । न च विभक्तिनिष्ठवृत्तिज्ञानाधीनोपस्थितीयसंसर्गताभिन्नविषयतायाः शाब्दबोधीयप्रकारताविशेष्यतान्यतरविषयताप्रयोजिकायाः सत्त्वे कस्यचिदिच्छामात्रेण विभक्त्यर्थस्य संसर्गतया भानन्नोचितमिति वाच्यम् । शब्दबोधे तात्पर्य्यज्ञानस्याऽपि कारणतया तत्संसर्गकबोधस्यैवानादितात्पर्य कल्पनात् । वस्तुतस्तु अभेदप्रकारकबोधस्यैव भेदान्वयप्रकरणे सिद्धान्तयि यमाणत्वेन प्रकृतग्रन्थस्य धूलीप्रक्षेपमात्रत्वात् । द्वितीयान्तपदधातुपदयोरिति । अभेदान्वयबोधे- द्वितीयान्तस्तोकादिपदसमभिव्याहतपचत्यादिपदत्वरूपाक्राइहाज्ञानं कारणमेवं रीत्या कार्यकारणभावो वक्तव्यः । इदमुमताक्षणम् । यादृशयादशसमभिव्याहारादभेदान्वय इष्यते तादृशतादृशसमभिव्याहारस्य कारणत्वं वक्तव्यम् । यथा वेदाः प्रमाणं सोमेन यजेदित्यादौ । क्रियाविशेषणानामिति । मब स्तोकं पचतीत्यादौ धात्वर्थफलस्य व्यपदे शवद्भावेन फलाश्रयत्वात् । तादात्म्यफलतावच्छेदकसम्बन्धान्यतरसम्बन्धेन फलाश्रयस्य कर्त्तरित्यनेन कर्मत्वमिति स्वीकारेणैवोपपत्तावपर्वस्याति देशवचनस्य स्वीकारो वर्षः। स्तोकं तिष्ठतीत्यादौ फलस्यापि धात्वर्थत्वापगमेन न दोषः । "न च तर्हि सकर्मकत्वापत्तिः । स्वार्थफलजनकव्यापारव चकत्वस्यैव सकर्मकत्वादिति वाच्यम् । स्वार्थफलव्यधिकरणव्यापारवाच रुत्वं तत् । स्था Page #77 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः त्वातिदेशात् । न चैवं स्तोक: पाक इत्यादावपि द्वितीयाप्रसङ्गस्तत्रापि स्तोकादेः क्रियायामेव विशेषणत्वात् । भौवकृतां प्रयोगसाधुत्वमात्रार्थकतया धातुनैव तत्र पाकादिप्रतिपादनादिति वाच्यम्। क्रियापदस्य तत्र सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात् । स्तोकं धात्वर्थयोः फलव्यापारयोस्सामानाधिकरण्यादिति वाच्यम् । गौरवात् स्तोक: पच्यत इति स्तोकरूपे कर्मणि लकारापत्तेश्च । वस्तुतस्तु वचनकल्पनगौरवापेक्षया निरुक्तगौरवस्याल्पत्वम् । लः कर्मणीत्यत्र कत॒साहचर्येण धात्वर्थे भेदायिनि कर्मण्येव लकारो विधीयत इति स्तोकादिकर्मणि लकारापत्तिरपि न, कर्मत्वातिदेशेऽपि लकारापत्तिवारणस्य प्रकान्तरेणाशक्यत्वाच्चेति वैयाकरणमतमेव युक्तम्। क्रियापदस्येत्यादि । पाक इत्यत्र भावानुशिष्टघो निरर्थकत्वेन पाकक्रियायास्सार्थकप्रत्य यान्तधातूपस्थाप्यत्वाभावान्न स्तोकः पाक इत्यादौ स्तोकस्य कर्मत्वम् । ननु शक्तिमत्वञ्चेत्सार्थकत्वं तहि करणाधिकरणयोः रागो रङ्ग इत्यादौ घञा बोधेन घञ्त्वेन करणाधिकरणनिरूपितशक्तताया प्रावश्यकत्वेन घमात्रस्य शक्तिमत्वे न निरर्थकघोप्रसिद्धिः। न चाकर्तरि व कारके संज्ञायामित्यनुशासने संज्ञायामित्युक्त्या संज्ञास्थघञ एव शक्ति त्वन्नासंज्ञास्थस्य पाक इत्यादाविति वाच्यम् । भावे घञ् इत्यनुशासनेन पञ्मात्रस्य भावनिरूपितशक्तिमत्वस्य बोधनात् । संज्ञायामित्यस्य को नाभो लब्ध इत्याद्यनुरोधेन प्रायिकत्वाच्च । न चाबोधकस्य पाकशब्दटकघजो बोधकत्वेन भगवदिच्छाविषयत्वे भगवदिच्छाया अविसम्वादत्वानापत्त्या घमात्रस्य भावबोधकत्वबोधकस्य भावे घञ् इत्यस्याप्राTण्यापत्त्या चाबोधकपा कशब्दघटकघभिन्नस्यैव घनो भगवदिच्छायां वे घञ् इति सूत्रे च प्रवेशान्न तत्रत्यघञः शक्तिमत्वरूपसार्थकत्वमिति च्यम् । तथा सति स्तोकं स्थीयत इत्यादौ वर्तमानत्वाविवक्षास्थले य Page #78 -------------------------------------------------------------------------- ________________ स्थीयत इत्यादौ श्राख्यातस्यापि वर्त्तमानत्वार्थकतया सार्थकत्वात् । 7. न च वर्त्तमानत्वाद्यविवक्षायां द्वितीयानुपपत्तिरिति वाच्यम् । आख्यातस्तस्यापि विसम्वादित्वभयेन वर्तमानबोधकत्वेनाख्यातविषयकभगवदिच्छायां लटो वर्तमानबोधकत्वबोधके वर्तमाने लडिति सूत्रे चाप्रामाण्यभयेनाप्रवेशस्यावश्यकत्वेन शक्तिमत्वरूपसार्थकत्वस्याभावेन क्रियाविशेषणे कर्म्मत्वानापत्तिरिति चेत् - मैवम् । एतदभिप्रायणैवार्थबोधस्वरूपयोग्यताप्रयोजकाकाङ्क्षाशालित्वरूप सार्थकत्वस्य वक्ष्यमाणत्वात् बोधस्वरूपयोग्यतारूपार्थबोधकताया श्राकाङ्क्षाविवक्षाद्यभावस्थलेऽपि सत्त्वेन भगवदिच्छायाः सूत्रस्य च विसम्वादित्वाप्रामाण्ययोरप्रसक्तेः । वर्तमानत्वप्रकारकस्थितिविशेष्यकबोधं प्रति स्थाधातूत्तरवर्त्याख्यातत्वरूपाकाङ्क्षाज्ञानं कारणं तादृश्याश्चाकाङ्क्षाया वर्तमानत्वविवक्षास्थल इवाविवक्षास्थलेऽपि सत्त्वे नोभयत्राख्यातस्य सार्थकत्वात् । क्रियाविशेषणस्य कर्म्मत्वोपपत्तिः । पाक इत्यादौ च घञर्थनिष्ठविषयतानिरूपितधात्वर्थनिष्ठविषयताकबोधस्याभावेन तादृशबोधप्रयोजकाकाङ्क्षाया अप्यभावेनार्थवत्वविरहान्न तत्र कर्म्मत्वम् । न च तादृशार्थबोधप्रयोज काकाङ्क्षाया प्रभावेऽपि एकत्वनिष्ठविषयतानिरूपितपाकत्वावच्छिन्नविषयतानिरूपकबोधप्रयोजिका पचूपदोत्तरघञ्पदोत्तरसुपदत्वरूपाऽऽकाङ्क्षा तच्छालित्वरूपसार्थकत्वं धञो वर्तेत एवेति वाच्यम् । स्वार्थनिष्ठविषयतानिरूपितप्रकृत्यर्थनिष्ठविषयताप्रयोजकाकाङ्क्षाशालित्वमेव प्रत्यये सार्थकत्वमित्यस्य स्वीकारात् । स्वं सार्थकत्वेन विवक्षितः प्रत्ययः प्रकृते घञर्थविषयकबोधस्यैव पाकपदादभावेन निरुक्तसार्थकत्वस्याभावादिति दिक् । ननु स्तोकं स्थीयत इत्यादिभावाख्यातस्थलेऽपि कर्तृकर्म्मभावाबोधकत्वेनाख्यातस्य सार्थकत्वाभावात् । कथं स्तोकस्य कर्म्मत्वमित्यत आहवर्तमानार्थकतयेत्यादि । कर्त्राद्यबोधकत्वेऽपि वर्तमानकालबोधकत्वेनैव सार्थ Page #79 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः ७१ वर्तमानत्वादिविवक्षास्थल इव अर्थबोधस्वरूपयोग्यताप्रयोजिकाकाङ्क्षाशालित्वेनैव तदविवक्षास्थलेऽपि भावाख्यातस्यार्थवत्त्वात् । ___ केनिवासोरिव घान्तस्यापि पाकादौ शक्तिरुपेयते। अन्यथा सुब्विभक्त्यर्थसंख्याकर्मत्वादीनां तत्र पाकादावन्वयानुपपत्तेः । प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तेर्धातूनां च कत्वोपपत्तिरिति भावः । ननु वर्तमानकालस्याप्यविवक्षास्थले बोधात् कथं तत्र कर्मत्वमित्यत आह-वर्तमानत्वादिविवक्षास्थल इवेत्यादि । क्विक्षाया अभाबेन बोधाभावेऽपि बोधप्रयोजकाकाङ्क्षाशालित्वेन सार्थकत्वोपपत्तिरिति भावः । अन्यथेति । अनन्तपाकादिशब्दे शक्त्यभाव इत्यर्थः । कर्मत्वादीनामित्यत्र षष्ठयाः पाकादावित्यत्र सप्तम्याश्च विषयतैवार्थस्तथा संख्या कर्मत्वनिष्ठविषयतानिरूपितपाकनिष्ठविषयतानिरूपकबोधानुपपत्तिरित्यर्थः । न तु प्रतियोगित्वं षष्ठ्यर्थोऽनुयोगित्वं सप्तम्यर्थः । पाकं पश्येत्यादौ कर्मत्वप्रतियोगिकानुयोगिकशाब्दबोधस्यानुदयात् । धातूनाञ्च सुब्विभक्त्यप्रकृतित्वादिति । पाक इत्यत्र घअन्तस्यैव सुब्विभक्तिप्रकृतित्वादिति भावः । सुप्पदं पाकोऽस्तीत्यत्रत्य तिङोऽप्युपलक्षणम् । तदर्थस्यापि प्रथमाविभक्तिप्रकृत्यर्थे एवान्वयात् । तत्प्रकृतित्वञ्च तनिष्ठविधेयतानिरूपितोद्देश्यताश्रयत्वम् । प्रकृत्यर्थत्वञ्च न प्रकृतिनिष्ठवृत्तिनिरूपकत्वं कृदन्तपाठकपाठकादिरूपा या सुब्विभक्तिप्रकृतिस्तत्र वृत्तिविरहेण प्रकृत्यप्रिसिद्धस्तद्घटकप्रत्ययनिष्ठवृत्तिमादाय समन्वये तु धातुनिष्ठवृत्तिनिरूपकधात्वर्थेऽपि प्रकृत्यर्थत्वापत्तेश्च । किन्तु प्रकृतिविशिष्टवृत्तिनिरूपकत्वमेव तत् । वैशिष्ट्यञ्च स्वपर्याप्तत्वस्वचरमावयवपर्याप्तत्वान्यतरसम्बन्धेन । पाचकादिघटकधातुनिष्ठवृत्तौ वैशिट्यविरहान्न दोषः । क्विबन्तस्थले प्रातिपदिकसंज्ञासमये क्विपोऽप्यनुसन्धानेन क्विबन्ते एवोद्देश्यतायास्सत्त्वेन तस्यैव प्रकृतित्वेन धातुनिष्ठवृत्तेस्तत्पर्याप्तत्वाभावेन न धात्वर्थस्य सुष्प्र Page #80 -------------------------------------------------------------------------- ________________ ७२ [ कारके व्युत्पत्तिवादः सुब्विभक्त्यप्रकृतित्वात् प्रकृत्येकदेशार्थेऽपि प्रत्ययार्थान्वयोपगमे पचन्तं पश्यतीत्यादितः पचमानं पश्यतीत्यादितश्च पाकादौ द्वितीयाद्यर्थकर्मत्वाद्यन्वयबोधप्रसङ्गात् । एकत्र विशेषणतयोपस्थितस्या कृत्यर्थत्वम् । न च घान्तपाकादिशब्द इव कृदन्तपाचकादिशब्देऽपि वृत्तिः किन्नोपेयते । कर्तरि कृदितिशास्त्रातिक्रमस्तु भावे घन इति शास्त्रातिक्रमेण तुल्य इति वाच्यम् । पचतीत्याद्यर्थं पचादिधातौ शक्तेः क्लृप्ततया पाचक इत्यत्र एबुल्मात्रे एव शक्तिकल्पनयोपपत्तौ अनन्तपाचकपाठकादिवृत्त्यानुपूर्व्यवच्छिन्ने शक्तिकल्पनायां गौरवात् , कर्तरि कृदित्यनुशासनविरोधाच्च । घजन्तपाकादिशब्दे च भावे धात्वर्थे एव घनो विधानेन भावस्य च धातुत एव लाभादनन्यलभ्यस्यैव शब्दार्थत्वमिति न्यायविरोधात् , धात्व तिरिक्तशाब्दानुभवविरोधाच्च । शास्त्रस्यापूर्वशक्तिग्रहे तात्पर्याभावात् । घत्रि शक्त्यभावेऽपि शास्त्रविरोधाभावात् । ननु प्रकृल्यान्वितस्वार्थबोधकत्वम्प्रत्ययानामिति नियमेन प्रकृत्यर्थपदेन प्रकृत्येकदेशार्थोऽपि गृह्यत इति पाक इत्यादौ धात्वर्थेऽप्यन्वयेन नियमानुपपत्तिरित्याह-प्रकृत्येकदेशार्थेऽपीत्यादि । सिद्धान्ते धात्वर्थस्य सुप्प्रकृत्यर्थत्वाभावेन दोषाभावात् । एकत्र विशेषणतयोपस्थितस्येत्यादि । पचन्तं पश्यति पचमानं पश्यतीत्यादौ लडर्थविशेषणतयोपस्थितस्य पाकस्यान्यत्र विभक्त्यर्थकर्मत्वादौ विशेषतयान्वयो न स्यादिति न प्रकृत्येकदेशार्थान्वये दोष इति भावः । यथा घटो जातिरित्यादौ घटविशेषणतयोपस्थितस्य घटत्वस्य जातावभेदेन नान्वयः । नन्विदं न युक्तम् । पचतृपचमानेति कृदन्ते शक्तिविरहेण न शत्राद्यर्थकर्तविशेषणतया प्रकृत्यर्थपाकस्योपस्थितिः। किन्तु विशेष्यतयैव पाकस्योपस्थितिरिति न तस्य कर्मत्वादावन्वये व्युत्पत्तिविरोधः । घटो जातिरित्यादौ तु घटत्वविशिष्ट घटे शक्तिसद्भावाद्युक्तमेव घटत्वविशेषणतयोपस्थितिरिति चेत्-न । विशेषणतयेत्यत्र विशेषणता शाब्दबोधीयप्रकारता तृतीयार्थः Page #81 -------------------------------------------------------------------------- ________________ . ७३ प्रथमा ] जयाऽलङ्कृतः न्यत्र विशेषणत्वेनान्वयस्याव्युत्पन्नतया तत्र प्रत्ययार्थविशेषणपाकादेर्न कर्मत्वे विशेषणतयान्वय इति चेत्-तथापि पाकादिविशेषणतया सुवर्थसंख्याया अन्वयसम्भवात्। यत्र पाककर्नादेद्वित्वादिकं बाधितं पाकादेव तदबाधितं तत्र पर्चन्तौ पश्यति पचमानौ पश्यतीत्यादिप्रयोगप्रसङ्गस्य दुर्वारत्वात् । धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तत्तद्धातूत्तरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानस्य प्रतिबन्धकतामुपगम्यैतादृशातिप्रसङ्गवारणे च गौरवात् । एवं शोभनं पचनमित्यादौ धातुमात्रेण पाकाद्युपस्थितौ च तत्र प्रयोजकत्वम् । तस्योपस्थितस्येत्यस्यार्थे उपस्थितिविषयत्वेऽन्वयस्तथा चैकनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकोपस्थितिविषयत्ववतोऽन्यनिष्ठविशेष्यतानिरूपितप्रकारताश्रयत्वन्नेत्यर्थः। तथा च शत्राद्यर्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रपोजकोपस्थितिविषयत्ववत: पाकस्य विभक्त्यर्थकर्मत्वनिष्ठविशेष्यतानिरू पतशाब्दबोधीयप्रकारताश्रयत्वन्न स्यादिति तात्पर्यम् । सकृदुच्चरितस्सकृदेवार्थम्बोधयतीति न्यायादिति भावः । उभयत्रान्वयबोधे आकाङ्क्षाविरहाच्च । र्धामपारतन्त्र्येण परं घटो नास्तीत्यादावभावे तथाविधस्य घटत्वस्यान्वयः । तत्र तादृशान्वयबोधप्रयोजकाकाङ्क्षायाः कल्पनात् । तथाऽपोति । विशेषणतयान्यत्रान्वयस्याव्युत्पन्नतया दोषाभावेऽपीत्यर्थः । तत्रान्यस्यान्वये बाधकाभावाद्दोषमाह-पाकादिविशेषणतयेत्यादि । धातूपस्थाप्येत्यादि । राजद्वयसम्बन्ध्येकपुरुषतात्पर्येण राजपदार्थे द्वित्वान्वये राजपरुषाविति प्रयोगापत्तिस्तु न तत्पदार्थधाम्मिकसुबर्थान्वये तत्पदार्थान्वितार्थबोधकतदव्यवहितोत्तरसुप्भिन्नपदम्मिकार्थपरत्वज्ञानम्प्रतिबन्धकमित्यस्य कल्पनात् । घट पटावित्यादिद्वन्द्वस्थले द्वन्द्वघटकसर्वपदार्थे संख्यान्वयसिद्धये तत्पदार्थान्दितार्थबोधकत्वम्पदे विशेषणम । अर्द्धपिप्पल्यावित्यादौ Page #82 -------------------------------------------------------------------------- ________________ शोभनाद्यभेदान्वयबोधानुपपत्तिः विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाप्यत्वात् । कृत्येकदेशसाधारणतादृशविकिप्रकृतित्वस्य प्रयोजकत्वे तत्र ल्युडादेरधिकरणपरत्वेऽपि तथाविधान्वयबोधापत्तेः कस्यचित्प्रतिवन्धकतां कल्पयित्वा तद्वारणे च गौरवात्। न चैवमुपकुम्मा पिप्पल्यादिरूपपूर्वपदार्थप्रधानसमासपदात्कुम्भसमीपपिप्पल्यर्द्धादौ विभक्त्यर्थान्वयस्य प्रातिपदिकान्तरार्थाभेदान्वयस्य चानुपपत्तिः । पूर्वपदस्य समासोत्तर वेभक्त्यप्रकृतित्वादिति वाच्यम् । तदनुरोधेनैव तत्र कुम्भपिप्पल्यादिपदानामेव कुम्भसमीपपिप्पल्य‘दौ लक्षणायाः पूर्वपदस्य तात्पर्य ग्रहमात्रोपयोगितायाश्च स्वीकारात् । है वस्तुतस्तु तत्रोत्तरपदार्थविशेषितपूर्वपदार्थसमीपाोदी प्रत्ययार्थान्वयबोधे तादृशसमस्तपदप्रत्ययपदयोरव्यवहितपूर्वापरी; भावोप्याकाङ्क्षा । एवं तत्र प्रातिपदिकान्तरार्थाऽभेदान्वयबोधे समानविभक्तिकयोस्तादृशसमस्तपदपदान्तरयोश्च समभित्र्याहारोप्याकाङ्क्षा । तथा सत्यतिप्रसङ्गविरहात् । धात्वर्थपाका दौ प्रत्ययार्थान्वयबोधे प्रातिपदिकान्तरार्थाभेदान्वयबोधे च ल्युड्घजा 'पूर्वपदार्थप्रधानसमासे पूर्वपदार्थे संख्यान्वयानुपपत्तिस्तु न तत्रोतरपदस्यैव विशिष्टार्थे लक्षणायाः पूर्वपदस्य तात्पर्य्यग्राहकत्वस्य च कल्पन त् । वस्तु-- तस्त्वित्यादिकल्पे पूर्वपदार्थप्रधानसमासघटकभिन्नत्वस्यापि पदे निवेशनीयत्वाच्च । एवमित्यस्य भावानुशिष्टल्युडन्तसमुदाये शक्त्यकल्प' इत्यर्थः । कस्यचित्प्रतिबन्धकताल्पयित्वेति-धात्वर्थे शोभनाद्यभेदान्वयवाधे धातत्तरवत्ति प्रत्ययम्मिकार्थपरत्वज्ञानस्य प्रतिबन्धकत्वमित्यर्थः न चैवं शोभनम्पचतीत्यादौ पाके शोभनान्वयानापत्तिरिति वाच्यम् । 'द्वतीयान्तभिन्नपदप्रतिपाद्यशोभनेत्यादिनिवेशात् । न चैवमिति । प्रकृत्येकदेशार्थे विभ Page #83 -------------------------------------------------------------------------- ________________ द्यन्तसमुदायप्रत्यययोरव्यवहितपूर्वापरीभावस्य समानविभक्तिकयोस्तादृशसमुदायपदपदान्तरयोः समभिव्याहारस्य चाकाङ्क्षात्वोपगमे दर्शिताधिकरणार्थकल्युट्प्रत्ययस्थलीयातिप्रसङ्गस्य दुरुद्धरतया न तत्सम्भवः । अथ अन्तसमुदायस्य पाकाद्यर्थकत्वे घञन्तसमुदायस्य संयोगविभागत्वादिविशिष्टावाचकत्वं व्युत्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वनिराकरणं दीधितिकृतां विरु द्रमिति चेत्का क्षतिः। न हि कस्य चिद्ग्रन्थकृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धौ बाधकम् । एवं च यत्र धातुमात्रस्यैव पाकादौ तात्पर्य तत्र तद्विशेषणवाचकपदाद्वितीयैव यत्र तु कृदन्तसमुदायस्य पाकादौ तात्पर्य तत्र तादृशपदं तथाविधकृदन्तसमुदायसमानविभक्तिकमेव । सयुक्त कातन्त्रपरिशिष्टकृता "कथं स्तोकः पाकः कृदन्तविशेषणत्वात् । धात्वर्थंकाधिकरण्ये तु क्त्यर्थानन्वये शोभनाबभेदान्वये चेत्यर्थः । नैमित्तिकसंज्ञात्वनिराकरणमिति । जात्यवच्छिन्ननिरूपितशक्तिमती संज्ञा नैमित्तिकसंज्ञेति तद्भावः । विरुद्धमिति । तत्र शक्तेः स्वीकारादिति भावः । एवञ्चेति । घन्तपाकादिशब्दस्यापि पूर्वोक्त युक्त्या पाकादौ शक्तेस्सिद्धौ इत्यर्थः। यत्र धातुमात्रस्यैव पाकादावित्यादि न च धातुमात्रस्य पाकादौ तात्पर्यो सुबर्थसंख्याकर्मत्वादेरन्वयापत्तिः। पाकस्य प्रकृत्यर्थत्वाभावात् । घअन्तस्य पाकादौ तात्पर्यो। विभक्त्यर्थान्वयोपप तावपि द्वितीयान्तत्वानुपपत्तिरुभयोस्तत्र तात्पर्येऽन्वयबोधानुपपत्तिरिति वाच्यम् । यत्र धातुमात्रस्यैव पाकादौ तात्पर्य तत्र' विभक्त्यर्थस्याविवक्षवात एव द्वितीयान्तपदसमभिव्याहारे प्रथमान्त एव पाकशब्दः । यत्र विभक्त्यर्थस्य विवक्षा तत्र घजन्तस्यैव पाकादौ तात्पर्य्यम् । तत्र घअन्तसमानवि भक्तिकमेव स्तोकादिपदमिति व्यवस्था। धात्वर्थंकाधिकरण्ये विति । धातुजन्यबोधविषयत्वेन तात्पर्य्यविषयीभूतक्रियाविशेषणानां Page #84 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके स्तोकमोदनस्य पाक इति स्यादेवेति” कति । तदर्थकपदोत्तरविभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थ कर्मत्वं घबन्तसमुदायजन्यबोधविषयत्वेन तात्पर्य्यविषयीभूतक्रियाविशेषणवाचकपदानां घञन्तसमानवचनत्वमिति सिद्धान्तः । तदर्थकपदोत्तरविभक्त्येति । गीली घटाक्त्यिादौ नीलपदोत्तरविभक्त्या न द्वित्वं नीले प्रतीयते। नीलेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयताया असत्त्वात् । घटपदोत्तरविभक्त्या तु घटे द्वित्वम्प्रतीयत एव घटेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्नायाः घटत्वावच्छिन्नविशेष्यतायास्सत्त्वात् । सजः पुरुषः नीलस्येदमित्यादौ राज्ञि नीले च राजपदोत्तरविभक्त्या नीलपदोत्तरविभक्त्या च संख्या प्रतीयते । तत्रत्यप्रकारताया अभेदसम्बन्धावच्छिन्नत्वाभावात् । ननु नीलो घट इत्यादौ नीलघटयोरभेदात् अभेदसम्बन्धावच्छिन्नप्रकारताभिन्नघटत्वावच्छिन्नविशेष्यताया नीलनिष्ठत्वात् । किञ्च नीलत्वनिष्ठप्रकारतानिरूपितायास्तादृश्या अपि नीले सत्त्वात् कथन्न नीले नीलपदोत्तरसंख्या प्रतीयते। किन्च नीलो घट: नीलस्य रूपमिति वाक्यद्वयजन्यसमूहालम्बनबोधे नीलपदोत्तरसुविभक्त्या नीले संख्याप्रत्ययस्स्यात् । तत्र भेदसम्बन्धावच्छिन्नप्रकारताया अपि सत्त्वादिति चेत्अत्रोच्यते । तद्धविच्छिन्नबोधकतत्पदोत्तरविभक्तिप्रयोज्यसंख्यानिष्ठप्रकारतानिरूपिततद्धविच्छिन्नतनिष्ठविशेष्यताकशाब्दबोधे तद्धर्मावच्छिन्नबोधकतत्पदप्रयोज्याभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयतानिरूपकशाब्दसामग्रीप्रयोजिकेत्युच्यते । नीलनिष्ठाया अपि घटत्वावच्छिन्नविशेष्यताया नीलत्वावच्छिन्नत्वविरहात् । नीलत्वनिष्ठप्रकारतानिरूपिताया अपि तन्निष्ठविशेष्यताया नीलत्वावच्छिन्नत्वविरहात् । समूहालम्बनस्थले षष्ठ्यन्तपदप्रयोज्यायास्तस्याः प्रथमान्तनीलपदप्रयोज्यत्वाभावानोक्तस्थलद्वये दोषः। वेदाः प्रमाणं, सम्पन्नो व्रीहिरित्यादौ प्रमाणत्वे व्रीहित्वे च विशेषणवाचकप Page #85 -------------------------------------------------------------------------- ________________ विषयताशालिशब्दबोधसामग्री अपेक्षिता । तादृशश्च बोधस्तदर्थविशेष्यकस्तदर्थनिरूपितभेदान्वयविपयकश्च नीलौ घटावित्यादौ च विशेष्यवाचकपदोत्तरविभक्त्यैव द्वित्वादिकं प्रत्याय्यते । एवं च क्रियाविशेषण वाचकपदोत्तरविभक्त्या अबाधितयोरपि द्वित्वबहुत्वयोः प्रत्यायनासम्भवात्तादृशपदोत्तरमौत्सर्गिक मेकवचनमेव दोत्तरविभक्त्या ज यमाने संख्याबोधे निरुक्तकार्य्यतावच्छेदकानाक्रान्ततया निरुक्तकारणविरहे पि न क्षतिः । यदि च स्वाश्रयाश्रयत्वसम्बन्धेन प्रमाणत्वावच्छिन्ने व्रीहित्वावच्छिन्ने एवं संख्यान्वयस्सिद्धान्तस्तर्हि कार्य्यतावच्छेदककोटौ प्रकारतायाम्पर्य्याप्तिसम्बन्धावच्छिन्नत्वं तत्र व्यभिचारवारणाय निवेश्यम् । तादृशश्चेति । प्रभेदसम्बन्धावच्छिन्नप्रकारताभिन्नतन्निष्ठविषयतानिरूपकः पूर्वोक्त इति बोध्यम् । प्रत्यायना द्वित्वादिप्रत्यय्यत इति । तद्बोधप्रयोजकनिरुक्तकारणसत्त्वात् । न "तु विशेषणवाचकपदोत्तरं विभक्त्या तद्बोधप्रयोजकनिरुक्तकारणाभावात् । एववेति । निरुवतकार्य्यकारणभावस्यावश्यकत्वे चेत्यर्थः। सम्भवादिति । निरुक्तकारणविरहादिति भावः । श्रौत्सर्गिकमेकवचनमति । संख्याबोधासम्भवेन प्रयोगसाधुत्वस्य तेनाप्युपपत्तेरिति भावः । भावाख्यातस्थलवदिति । तत्र यथा साधुत्वमात्रार्थमेवाख्यातैकवचनप्रयोगस्तद्वत्क्रियाविशेषणवाचक पदोत्तरमपीत्यर्थः । वैयाकरणास्तु 'फलव्यापारयोर्द्धातुरिति भूषणोक्तदिशा धातुमात्रस्य फलविशिष्टव्यापारे शक्तिः । न च सर्वेषां धातूनां तर्हि फलवाचकत्वेन सकर्मकत्वापत्तिरिति वाच्यम् । फलव्यधिकरणव्यापारवाचकत्वं सकर्म्मकत्वं फलसमानाधिकरणव्यापारवाचकत्वकर्म्मकत्वमिति स्वीकारेणादोषात् । तादात्म्यफलतावच्छेदकान्यतरसम्बन्धेन फलाश्रयस्य कर्तुरित्यनेन कर्म्मत्वन्तथा च स्तोकं पचतीत्यादौ विक्लित्यादेस्तादात्म्येन फलाश्रयत्वेन कर्म Page #86 -------------------------------------------------------------------------- ________________ भावाख्यातस्थलवदित्यवधेयम् । अमेदान्वयबोधश्च विरूपोपस्थितयोरेवेति व्युत्पत्तिः घटो घटः, दण्डवान् दण्डवान, पाकं पचतीत्यादौ घटत्वदंडवत्वपाकत्वाद्यवच्छिन्ने तत्तद्रूपावच्छिन्नस्य तथाविधान्वय त्वात्तत्राभेदेन विशेषणवाचकस्तोकादिपदाद्वितीया तत्फलितमेव क्रियाविशेषणानाङ्कर्मत्वम् । तत्र क्रियापदं क्रियते इति व्युत्पन्या फलपरम् । न च कर्तुरिति कर्मत्वे तद्रूपे कर्मणि लकारापत्त्या स्तोकः पच्यत इत्यापत्तिरिति वाच्यम् । कर्तृसाहचर्यात्कर्मणो भेदेन धात्वर्थावितस्यैव लकारादिप्रत्ययविधायकशास्त्रे ग्रहणेनादोषात् । अत एव स्तोक पाक इत्यादौ षष्ठ्यपि न । न च मन्दम्बहति पवन' इत्यादौ व्यापारेऽभेदान्वयिमन्दस्य कर्मत्वानापत्त्या अपूर्वमेव कर्मत्वबोधकम्वचनं क्रियापदञ्च धात्वर्थमात्रपरमिति वाच्यम् । व्यापारे मन्दतायां तज्जन्यफलस्यापि मन्दत्वसत्त्वात्तत्रापि फले एव मन्दान्वयात् न च कर्मपदस्यान्यतरसम्बन्धघटितोक्तार्थकत्वे कर्मणि द्वितीयेत्यस्य गुर्वर्थबोधकत्वापत्तिः । विभक्तिशक्यतावच्छेदके (कत्वे) गौरवापत्तिश्चेति वाच्यम् । कर्मत्वशक्तिमत्त्वेनैव कर्मपदशक्यत्वादिति वदन्ति । पूर्वमभेदान्वये प्रातिपदिकार्थे स्वसमानविभक्तिकेनेत्यादिनियममुक्त्वा तत्प्रयोजिकां प्रथमान्तनीलादिपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपामाकाङ्क्षाञ्चोक्त्वेदानीमपरस्तत्र नियम उच्यते-अभेदान्वयबोधश्चेत्यादिना । विरूपोपस्थितयोरेवेति। ननु एकव्यक्तेरेवाभेदान्वयात् द्विवचनमनुपपन्नमिति चेत्-न। विरूपाभ्यां विभिन्नरूपाभ्यामुपस्थितो याभ्यां तौ विरूपोपस्थितौ तयोविरूपोपस्थितयोरित्यर्थः । इदञ्चाध्याहृतस्य पदयोरित्यस्य विशेषणम् । तत्रत्यषष्ठ्यर्थजन्यत्वस्य बोधेऽन्वयः। तथा च भिन्नरूपेणोपस्थापकपदजन्य एवाभेकान्वयबोध इति नियमाकार इति पदे द्वित्वान्वयेनानुपपत्त्यभावात् । नचैवं नीलो घट: घटो घट इति वाक्यद्वय Page #87 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः ७६ बोधानुदयात् । अथ तत्प्रयोजकसमानविभक्तिकत्वादेः सत्त्वात्कथं न तादृशान्वयबोधः ? अत्राहुः। यादृशं फलं कचित्प्रसिद्धयति तादृशस्यैवापत्तिः सम्भवति क्लृप्तसामग्रीबलात् । यादृशं च सर्वथैवाप्रसिद्धं. तादृशस्य चापादकाप्रसिद्धरापत्तिरशक्यैवेति घटत्वाद्यवच्छिन्नविशेष्यताकाभेदसंसर्गकघटत्वाद्यवच्छिन्नप्रकारकशाब्बोधस्य क्वचिदप्यनुदयात्कथं तदापत्तिः । अथ घटो नीलघट: दण्डवान् रक्तदण्डवा • जन्योऽपि घटत्वांवच्छिन्नप्रकारताविशेष्यतानिरूपिताभेदनिष्ठसंसर्गतानिरूपकस्समूहालम्बनात्मको बोधो नियमाक्रान्तत्वेन साधुस्स्यादिति वाच्यम् । भावे क्तः विरूपे विभिन्नप्रकारिके ये उपस्थिते उपस्थिती इत्यर्थस्तत्प्रयोज्या या प्रकारताविशेष्यतारूपा विषयता तन्निरूपक एव योऽभेदस्तद्विषयकबोध इत्यर्थः । उपस्थितेः प्रयोज्यत्वसम्बन्धेन षष्ठयर्थविषयतायामन्वयस्तस्य निरूपकत्वसम्बन्धेना भेदेऽन्वयः । उपस्थितिविषयताविशिष्टवाभेदनिष्ठा शाब्दबोधीया संसर्गता। वैशिष्ट्यञ्च स्वावच्छेदकधर्मेतरधर्मावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितत्वस्वप्रयोज्यप्रकारतानिरूपितत्वोभयसम्बन्धेन निरुक्तसमूहालम्बनीयाभेदनिष्ठाया निरुक्तसंसर्गताभिन्नत्वेन तद्बोधस्य नियमाक्रान्तत्वेनासाधुत्वात् । तत्प्रयोजकेति । अभेदान्वयबोधप्रयोजकेत्यर्थो न “तु समानधर्मावच्छि नत्रकारताविशेष्यताकाभेदान्वयप्रयोजकेत्यर्थः । तादृशबोधस्याप्रसिद्धत्वेन तत्प्रयोजकस्याप्यप्रसिद्धेः । यादृशं फलमिति । यद्धविच्छिन्नं फलमित्यर्थः । तादृास्यैवेति । तद्धावच्छिन्नस्यवेत्यर्थः । क्वचिदप्यनुदयादिति । तथा च तद्धविच्छिन्नकार्यतानिरूपितकारणताश्रयस्याप्रसिद्धया नापत्तिसम्भवः । कतिपयकारणाधिकरणे कार्याभावप्रयोजकजिज्ञासाया एवापत्तिपदार्थत्वात् । घटो नीलघट इत्यादि । अत्र नीलत्वा Page #88 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके नित्यादौ तादृशशाब्दबोधस्य प्रसिद्धिः । विधेयकोटावधिकावगाहिनः शाब्दबोधस्य नवीनैः स्वीकारादिति चेत्तर्हि घटाद्यंशे विशेषणतावच्छेदकविधया नीलादिभाननियामकनीलाद्युपस्थि देरधिकस्य भानेऽपि घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वस्य सत्त्वात्तदवच्छिन्नकार्यकारणस्य घटत्वावच्छिन्नोपस्थितेः प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षायास्तात्पर्य्यस्य च घटो घट इत्यत्रापि सत्त्वादिति भावः ।। विधेयकोटावधिकावगाहिन इति । विधेयघटकतयाऽखिलोद्देश्यं तदितरञ्चावगाहिन इत्यर्थः । उद्देश्यस्य प्रथमावगतत्वेन तस्यापूर्वबोध्यत्वरूपविधेयत्वासम्भवेन विधेयतयोद्देश्यावगाही शाब्दबोधो न सम्भवतीति प्राचामभिमतम् । __ घटत्वेनावगतेऽपि घटो नीलघटो न वेति सन्देहस्य सर्वानुभवसिद्धतया नीलघटार्थिनस्तत्र प्रवृत्तिन स्यादिति तादृशप्रवृत्तिसिद्धयर्थं प्रकृतसन्देहोच्छेदाय घटो नीलघट इति बोधोऽवश्यमभ्युपेयः । तथा च अगत्या कस्यचिदंशस्यापूर्वत्वे तद्विशिष्ट: पूर्वमवगतोऽप्यपूर्व एवेति वक्तव्य एवेत्युद्देश्यस्यापूर्वधर्मविशिष्टस्य विधेयतयाऽवगाही बोधे स्वीकरणीय एवेति नवीनाभिप्रायः । तथा च नीलघटी घट इत्यादौ घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः प्रसिद्धः । तस्य घटत्वाद्युपस्थित्यादिकारणमपि प्रसिद्धन्तस्य घटो घट इत्यादावपि सत्त्वेन तादृशो बोधः स्यादिति भावः । विशेषणतावच्छेदकविधयेत्यादि। अयम्भावः । तस्य बोधस्य यथा घटत्वोपस्थित्यादिः कारणं तथा नीलाद्युपस्थितिरपि कारणम् । कारणकूटस्यैव च कार्योत्पादकत्वेन घटोपस्थितेस्सत्त्वेऽपि नीलोपस्थित्यादेरसत्त्वान्नापत्तिरिति दिक् । नन्विदं न युक्तम् । प्रसिद्धव्यक्तेस्तु नापत्तिस्सम्भवति । तस्या अन्यत्रोत्पत्त्यसम्भवात् । अपि तु प्रसिद्धो यो धर्मस्तदवच्छिन्नकार्यतानिरूपित Page #89 -------------------------------------------------------------------------- ________________ प्रथमा ] . जयाऽलङ्कृतः तितात्पर्यज्ञानविशेषादिघटितैव सामग्री घटत्वावच्छिन्नविशेष्यकनीलघटत्वाद्यवच्छिन्नाभेदान्वयबोधप्रयोजिका तदभावादेव घटो घट इत्यादिपु न तादृशशाब्दबोधापत्तिरिति केचित्-तिछ। द्रव्यत्वादौ धर्मितावच्छेदेकतासंसर्गेण प्रसिद्धस्य शुद्धघटत्वाद्यवच्छिन्नप्रकारकाभेदान्वयबोधस्य घटत्वादावापत्तिसंभवात् । न च तत्रापादकाभावः, तात्पर्यज्ञानविशेषादिघटिताया धर्मिताव कारणताश्रयबलात् तद्वविच्निकार्य्यस्यापत्तिर्भवति। तथा च घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नं प्रति कारणता नीलोपस्थित्यादेर्व्यभिचारेण न सम्भवति । अपि तु प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाकाङ्क्षाज्ञानादेरेव तबलात् । घटो घट इत्यादौ तादशधर्मावच्छिन्नकार्यापादनेऽकारणीभूताया नीलाधुपस्थितेविरहस्याकिञ्चित्करत्वादिति चेत्-अत्रोच्यते । सामान्यस्य निर्विशेषस्याभावेन सामान्यधर्मावच्छिन्ने कार्यो जननीये विशेषधावच्छिन्नकार्योत्पादकसामग्र्या अपेक्षितत्वमित्यस्य वक्तव्यतया घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वरूपसामान्यध विच्छिन्नकार्योत्पत्तौ नीलघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिनविशेष्यताशालिशाब्दबुद्धित्वरूपविशेषधर्मावच्छिन्नकार्योत्पादिकाया नीलाद्युपस्थितिघटितसामग्या अपेक्षितत्वेन नीलाद्युपस्थितेरवश्यापेक्षणीयत्वान्नानुफ्पतिः । किञ्च शुद्धघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्याभाव एवापि तु नीलघटत्वाद्यवच्छिन्नप्रकारताकनिरूपितघटत्वावच्छिन्नविशेष्यताक एवेति न शुद्धघटत्वावच्छिन्नप्रकारताकनिरुक्तशाब्दबुद्धित्वावच्छिन्नं प्रति कस्यापि कारणता किन्तु नीलघटत्वाद्यवच्छिन्नप्रकारताकनिरुक्तधर्मावच्छिन्नं प्रत्येव । तथा च घटत्वावच्छिन्नप्रकारताघटितोक्तधर्मावच्छिन्नसत्त्वं नीलघटत्वावच्छिन्न Page #90 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके च्छेदकतया द्रव्यत्वादौ तदुत्पादनियामकसामग्य एवापादकत्वात्। न च धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्नविशेष्यकोपस्थितितदवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्येव । धर्मितावच्छेदकतायास्तत्कार्यतावच्छेदकताविरहेऽपि द्रव्यत्वादिनिष्ठायास्तत्कार्यतावच्छेदकधर्मघटकत्वात् तादृशसामग्यश्चात्मनिष्ठप्रत्यासत्त्या द्रव्यत्वाद्यवच्छिन्नविशेष्यकघटत्वाद्यवच्छिन्नाद्यभेदबुद्धित्वरूपस्वीयकार्यतावच्छेदकावच्छिन्नोत्पत्तेरेव व्याप्यत प्रकारताकनिरुक्तकार्य प्रति या नीलाद्युपस्थितिघटिता सामग्री तत्प्रयोज्यमेव वक्तव्यम् । तर्हि नीलाद्युपस्थित्यभावे तत्सत्त्वस्य न प्रसङ्गः । द्रव्यत्वादावित्यादि। अमं भावः । द्रव्यं घट इत्यादौ यो द्रव्यत्वावच्छिन्नविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताक: शाब्दबोधः सोऽभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकः धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे प्रसिद्धश्च । तादृशस्याभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधस्य धम्मितावच्छेदकतासम्बन्धेन घटो घट इत्यादौ घटत्वे आपत्तिस्सम्भवति । अम्पादकोऽपि द्रव्यं घट इत्यादौ द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधोत्पादकं यदभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताक योग्यताज्ञानं घटत्वावच्छिन्नप्रकारताकबोधजननेच्छयोच्चरितत्वरूपतात्पर्य्यज्ञानं घटत्वावच्छिनोपस्थितिरित्येतत्समुदायो यो धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वेऽभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधोत्पादकः स एवेति । अत्र शङ्कते। द्रव्यत्वे निरुक्तसम्बन्धेन निरुक्तशाब्दबोधोत्पादिका द्रव्यत्वावच्छिन्नविशेष्यताकाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोगयताज्ञान -द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यताकोपस्थित्यादिघटितैव सामग्री अन्यथा अन्यधर्मावच्छिन्नविशेष्यताकयोग्यताज्ञानादिनाऽन्यधर्मा Page #91 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः ८३ वच्छिन्न विशेष्यकशाब्दबोधापत्तेः । तथा च तदभावान्न घटों घट इत्यादौ घटत्वे तादृशो बोध इत्याशयः । ननु द्रव्यत्वावच्छिन्न विशेष्यकनिरुक्तयोग्यताज्ञानादिघटिता सामग्री आत्मनिष्ठप्रत्यासत्त्या कारणीभूता तस्याः कार्य्यतावच्छेदकस्समवाय एव न तु धम्मितावच्छेदकस्तर्हि तेन सम्बन्धेन तस्याः कथं द्रव्यत्वे कार्योत्पादकत्वमिति चेत् — प्रत्रोच्यते । ग्रात्मनिष्ठप्रत्यासत्त्या कारणीभूताया द्रव्यत्वावच्छिन्नविशेष्यताकोपस्थितितदवच्छिन्न विशेष्यकघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानादिघटितायास्सामग्र्याः का र्य्यतावच्छेदकं घटत्वावच्छिन्न प्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वम् । तद्धकत्वञ्च द्रव्यत्ववृत्तिर्धाम्मतावच्छेदकतायास्तथा च धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे जायमानाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वं निरुक्तकार्य्यतावच्छेदकसमनियतं समनियतधर्मावच्छिन्ने कार्य्ये जननीये समनियतधर्म्मावच्छिन्नकाय्र्योत्पादकसामग्या अपेक्षा । अत एव कालादौ कालिकादिसम्बन्धेन जायमाऩशाब्दबोधं प्रति कालिकादिसम्बन्धेन काले जायमानशाब्दबुद्धित्वस्य समनियतं समवायेनात्मनि जायमानशादबुद्धित्वं तद्धर्मावच्छिन्नस्य करणीभूता या आत्मनिष्ठोपस्थित्यादिघटिता सामग्री सैवापेक्ष्यते न तु काले सामग्यन्तरापेक्षा । अतो धम्मितावच्छेदकताया कार्य्यतावच्छेदकसम्बन्धताविरहेऽपि तेन सम्बन्धेन कार्य्योत्पत्तावुपस्थित्यादिघटिताया अपेक्षेति युक्तमेव । ननु यथा आत्मनि विद्यमाना द्रव्यत्वावच्छिन्नोपस्थित्यादिघटिता सामग्री स्वीयकार्य्यतानवच्छेदकेनापि धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे शाब्दबोधं जनयति तथैव घटत्वेऽपि तेन सम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधं कथन्नोत्पादयतीति चेत् न । द्रव्यत्वे विद्यमानधम्मितावच्छेदकताया एव तदीयकार्य्यतावच्छेदकधर्म्मघटकत्वं न तु घटत्वे विद्यमानायास्तस्या इति घटत्वे तेन सम्बन्धेन जायमानघटप्रकारकाभेदबुद्धित्वस्य तदीयकार्य्यतावच्छेदकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वसमनियतत्वाभावात् । Page #92 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके या घटत्वादौ धर्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेदबोधापादकत्वं न सम्भवतीति वाच्यम् । योग्यताज्ञानस्य धर्मितावच्छेदकं निवेश्य तद्भेदेनानन्तकारणताकल्पनमपेक्ष्य लाघवाद्धर्मिता'वच्छेदकतासम्बन्धेन शाब्दबुद्धौ तादृशसम्बन्धेन धमितावच्छेदकमनिवेश्य हेतुताकल्पनस्यैव युक्तत्वात् । घटत्वादिध ८४ ननु घटत्वावच्छिन्न विशेष्यता कशाब्दबुद्धित्वमेव द्रव्यत्वावच्छिन्नोपस्थित्यादिघटितसामग्न्याः कार्य्यतावच्छेदकं कुतो न तथा सति घटत्वनिष्ठाया अपि धम्मितावच्छेदकतायाः स्वीयकार्य्यतावच्छेदकधर्म्मघटकत्वं भविष्यतीति चेत् —न । यद्धर्म्मावच्छिन्नं प्रति यस्याः सामग्या व्याप्यत्वं स एव धर्मस्तत्सामग्याः कार्य्यतावच्छेदकमिति नियमात् द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रत्येव द्रव्यत्वावच्छिन्नोपस्थित्यादिघटितायाः सामग्न्या व्याप्यत्वन्न तु घटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रतीतितादृशशाब्दबुद्धित्वस्य तादृशसामग्री कार्य्यतावच्छेदकत्वासम्भवात् ।. तथा च घटत्वे आपादकाभावान्नापत्तिरिति स्थितम् । इदानीं गौरवेणात्मनिष्ठप्रत्यासत्त्या कार्य्यकारणभावं विहाय लाघवाद्धम्मितावच्छेदकमनिवेश्य विषयनिष्ठप्रत्यासत्त्या कार्य्यकारणभावमङ्गीकृत्यापत्तिं स्थापयतियोग्यताज्ञानस्य धम्मितावच्छेदकं निवेश्येत्यादिना । समवायसम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति समवायसम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकयोग्यताज्ञानं कारणमित्यात्मनिष्ठप्रत्यासत्त्या कार्य्यकारणभावे धम्मितावच्छेदकभेदेन केवल 'तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपितेति शेषः । तेन घटे द्रव्यमिति योग्यताज्ञानात् पटप्रकारकशाब्दबोधस्य नापत्तिरिति दिक् । Page #93 -------------------------------------------------------------------------- ________________ प्रथमा ]. जयाऽलङ्कृतः ८५ मिंतावच्छेदकपटत्वाद्यवच्छिन्नप्रकारताकयोग्यताज्ञानबलादेव घट त्वादौ धर्मितावच्छेदकतासम्बन्धेन तदापत्तेः । + न च योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठप्रत्यासत्या हेतुत्वोपगमे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेऽपि द्रव्यत्वादौ तादृशप्रत्यासत्त्या प्रत्यासन्नयोग्यताज्ञानात्तत्र तादृशप्रत्यासत्त्या शाब्दबोधापचिः । आत्मनिष्ठप्रत्यासत्त्या हेतुभूतां द्रव्यत्वाद्यवच्छिनोपस्थितिमन्तरेणापि तादृशप्रमेयत्वाद्यवच्छिन्नोपस्थित्यादिदशा घटत्वावच्छिन्नप्रकारताकशाब्दबोधे कार्य्यकारणभावानन्त्यमिति गौरवम् । धम्मितावच्छेदकतासम्बन्धेन प्रभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वावच्छिन्नं प्रति धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानं कारणमिति धम्मितावच्छेदकनिष्ठप्रत्यासत्त्या कार्य्यकारणभावे प्रभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधमाय निरुक्तकार्य्यतावच्छेदकाक्रान्ततया अभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्न प्रकारताकयोग्यताज्ञानमात्रस्य निरुक्तकारणतावच्छेदकाक्रान्ततया च निरुक्ते नैकविधकार्य्यकारणभावेनैव निर्वाह इति लाघवम् । ततश्च घटत्वे घम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानबलाद्द्रव्यत्व इवाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधापत्तिः । er प्रमेयपदजन्यप्रमेयत्वावच्छिन्नोपस्थितिदशायां द्रव्यत्वावच्छिन्नोपस्थितिमन्तरेणापि धम्मितावच्छेदकतासम्बन्धे, त्वं घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकयोग्यताज्ञानबलात् धम्मितावच्छेदकतासम्बन्धेन प्रभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्न प्रकारता कशाब्दबोधो घटः प्रमेय इत्यादौ यथा भवति तथा द्रव्यपदाद्द्रव्यत्वावच्छिन्नोपस्थित्यभावे उक्तसम्बन्धेनोक्तयोग्यताज्ञानबलात् घटो द्रव्यमिति शाब्दबोधापत्तिरित्याह- --न च योग्यताज्ञानस्येत्यादिना । तथा च . Page #94 -------------------------------------------------------------------------- ________________ ८६ व्युत्पत्तिवादः [ कारके यां प्रमेयत्वादौ धर्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य फलजनकत्वात्तादृशद्रव्यत्वाद्यवच्छिन्नोपस्थितिविरहस्याकिञ्चित्करत्वादिति वाच्यम् । समानप्रकारता' प्रत्यासत्त्या पदार्थोपस्थिते: शाब्दबोधे हेतुत्वोपगमात् । येन सम्बन्धेन यद्धर्मावच्छिन्नकार्यं प्रति येन सम्बन्धेन यद्धर्मावच्छिन्नकार्यस्य व्यापकता तेन स " विषयनिष्ठप्रत्यासत्त्या कार्य्यकारणभावो न वक्तव्य इति भावः । विषयनिष्ठप्रत्यासत्त्या कार्य्यकारणभाववादी समाधत्ते -- समानप्रकार तेत्यादिना । प्रकारतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेनोपस्थितिः कारणमिति कार्य्यकारणभावः । न च धम्मितावच्छेदकतायाः (प्रकारतायाः) प्रकारतानात्मकतया तेन सम्बन्धेन शाब्दबोधे तावतापि किमायातमित्याह — येन सम्बन्धेन यद्धर्मावच्छिन्नकाय्यं प्रतीत्यादि । तथा च धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन शाब्दबोधस्य व्यापकत्वात् । तत्सामग्र्याः प्रकारतासम्बन्धेनोपस्थितिघटितायाः धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधेऽपेक्षणात्तदभावेन नानुपस्थितिदशायां धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधः । न च सुन्दरो घटो नील इत्यादौ सुन्दररूपपदार्थे प्रकारतासम्बन्धेनोपस्थित्यभावात् कथं धम्मितावच्छेदकतासम्बन्धेन शाब्दबोध इति वाच्यम् । निरवच्छिन्नर्धाम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे एव तत्सामग्न्या अपेक्षणात् । प्रकृते च सुन्दरत्वावच्छिन्नायास्तस्यास्सत्वात् । अत्रेदं विचार्य्यते । धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्न 'प्रकारतावच्छेदकस्यैक्यात्प्रकारतयोरप्यैक्यमित्याह -- समानप्रकारतेति । सावच्छिन्नविषयतानामवच्छेदकभेदादेव भेदः निरवच्छिन्नविषयताना.न्तु ग्राश्रयभेदाद्भेदः । ज्ञानभेदात्तु नैव विषयता भिद्यते । येनोपस्थितीयशाब्दबोधी भिद्येतामिति विमर्शः । Page #95 -------------------------------------------------------------------------- ________________ ८७ प्रथमा ] जयाऽलङ्कृतः म्बन्धेन तद्धर्मावच्छिनकार्योत्पादकसामग्य अपि तेन सम्बन्धेन तद्धर्मावच्छिन्नकार्योत्पत्तावपेक्षिततथा प्रकारतासम्बन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थोपस्थित्यसत्त्वे तत्र तद्धर्मितावच्छे घटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वावच्छिन्नं धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानं कारणमिति विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे अन्यसमवेतयोग्यताज्ञानादन्यसमवेतशाब्दबोधापत्तिवारणाय तत्पुरुषीयनिरुक्तशाब्दबोधे तत्पुरुषीयनिरुक्तयोग्यताज्ञानं कारणमित्यस्य वक्तव्यतया पुरुषभेदेन कार्यकारणभावानन्त्यं विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावेऽपि तुल्यमित्यात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावोपेक्षायां न मानमिति चेत् । सुन्दरो घटः सुन्दरः पुरुष इत्यादिशाब्दबोधं प्रति घटत्वाद्यचेतनधर्माणामनन्तानां पुरुषत्वादिचेतनधर्माणामनन्तानां निवेशेन कारणत्वे यावान कार्यकारणभावस्ततोऽर्द्ध एव पुरुषभेदभिन्नः कार्यकारणभावो विषयनिष्ठप्रत्यासत्त्येति लाघवात् । न च द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य प्रकारतासम्बन्धेन द्रव्यपदजन्योपस्थितेश्च सत्त्वात् घटस्य द्रव्यमित्यादावपि द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन घटाभेदान्वयापत्तिः । न च प्रथमान्तघटपदसमभिव्याहृतप्रथमान्तद्रव्यपदत्वादिरूपाकाङ्क्षाज्ञानविरहान्नापत्तिरिति वाच्यम् । घटः प्रमेय इत्यादौ तादृशाकाङ्क्षाज्ञानाभावेऽपि म्मितावच्छेदकताप्रकारतासम्बन्धाभ्यां प्रमेयत्वे योग्यताज्ञानोपस्थितिभ्यां धम्मितावच्छेदकतासम्बन्धेन घटाभेदान्वयोत्पत्त्या तादृशाकाङ्क्षाज्ञानविरहस्य धम्मतावच्छेदकतासम्बन्धेन शाब्दबोधोत्पत्तावकिञ्चित्करत्वादिति वाच्यम् । आकाङ्क्षाज्ञानीयमात्मनिष्ठप्रत्यासत्त्या कार्य्यतावच्छेदकं ...यत् द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वं तद्घटकत्वस्य द्रव्यत्वनिष्ठाया धम्मितावच्छेदकतायास्सत्त्वेन द्रव्यत्ववृत्तिम्मितावच्छेदकतासम्बन्धेन जायमान Page #96 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके दकतासम्बन्धेन शाब्दबोधापत्तेरयोगात् । न च यत्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकवृत्तिज्ञानजन्यप्रमेयत्वाद्यवच्छिन्नविशेष्यको ८८ पस्थितावेव उद्बोधकान्तरात् द्रव्यत्वाद्यवच्छिन्नस्य भानं तत्र द्रव्यत्वाद्यवच्छिन्नविषयकशाब्दापत्तिवारणाय तद्धर्मावच्छिन्नविषयकशाब्दबोधं प्रति तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञानजन्यतद्धर्मप्रकारकोपस्थितित्वेनैव पदार्थोपस्थितेर्हेतुता वाच्या । तथा च प्रकारविशेषनिवेशस्यावश्यकत्वे विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पन शाब्दबुद्धित्वं द्रव्यत्वावच्छिन्नविशेष्यता कशाब्दबुद्धित्वसमनियतन्ततश्च समनियतधर्म्मावच्छिन्ने कार्य्यो जननीये समनियतधर्म्मावच्छिन्न कार्य्योत्पादकसामग्याः पूर्वोक्तरीत्या अपेक्षिततया द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधकारणीभूतनिरुक्ताकाङ्क्षाज्ञानस्यापेक्षिततया तदभावेनापत्त्यभावात् । न चैवं रीत्या आपत्तिवारणे अनुपस्थितिदशायामप्यनयैव रीत्या वारणसम्भवात् । समानप्रकारताप्रत्यासत्त्योपस्थितेः कारणत्वाश्रयणं ग्रन्थकृतामसङ्गतमिति वाच्यम् । आत्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेः कारणत्वापेक्षया विषयनिष्ठप्रत्यासत्त्या कारणत्वे लाघवात् । लघुभूतोपायेनापत्तिवारणसम्भवे गुरुभूतमार्गानुसरणस्यायुक्तत्वात् । विषयनिष्ठप्रत्यासत्त्या आकाङ्क्षाज्ञानस्य कारणत्वन्न सम्भवति । इत्यात्मनिष्ठप्रत्यासत्त्या कार्य्यकारणभावः । उपस्थितेश्च सम्भवतीति तथैवाश्रितः । प्रकारतासम्बन्धेनोपस्थितेः कारणत्वे दोषमाहन च यत्र प्रमेयत्वाद्यवच्छिन्न विशेष्यक वृत्तिज्ञानेत्यादिना । उद्बोधकान्तरात् द्रव्ये चक्षुः सन्निकर्षादेरित्यर्थः । हेतुताकल्पनमयुक्तमिति । अनन्तप्रकारीभूतद्रव्यत्वादीनां कार्य्यतावच्छेदके कारणतावच्छेदके च प्रवेशेन यद्यप्यात्मनिष्ठप्रत्यासत्त्या कार्य्यकारणभावे साम्यमेव तथाऽपि तत्पुरुषीयत्वनिवेशेन गौरवादित्यर्थः । समय कि A Page #97 -------------------------------------------------------------------------- ________________ प्रथमा ] ८६ मयुक्तम् । तथा सति पुरुषभेदेन कार्यकारणभावबाहुल्यप्रसङ्ग इति वाच्यम् । स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यताव च्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थितेर्हेतुतां स्वीकृत्य तादृशा जयाऽलङ्कृतः दोषवारणोपायमाह—–स्वजनकज्ञानीयेत्यादिना । स्वमुपस्थितिस्तज्जनकं ज्ञानं प्रमेयः प्रमेयपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतावानित्याकारकन्तदीया वृत्तिनिष्ठा प्रकारता विशेष्यता निष्ठा तन्नि रूपिता विशेष्यता प्रमेये तदवच्छेदकता प्रमेयत्वे सामानाधिकरण्येन तद्वैशिष्ट्यं प्रमेयत्वनिष्ठायामेवोपस्थितीयप्रकारतायां न तद्बोधकान्तराद्भासम्रानद्रव्यत्वनिष्ठायान्तस्यामिति न तदानीं द्रव्यत्वे शाब्दबोधः प्रकारतासम्बन्धेन, तत्र निरुक्तप्रकारतासम्बन्धेनोपस्थितेरभावादिति भावः । कक प्रमेयत्वादिप्रकारकोपस्थितिजनकानि वृत्तिज्ञानानि प्रमेयः प्रमेयपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतावान् । स्वजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतासम्बन्धेन प्रमेयः प्रमेयपदवान् । प्रमेय पदं प्रमेयत्वावच्छिन्नविषयताकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यताचत् । स्वविषयकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतासम्बन्धेन प्रमेयपदं प्रमेयविशिष्टमित्याकारकम् । एवं वृत्तित्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया शक्तित्वेन लक्षणात्वेन शक्तिलक्षणयोः पृथक् प्रवेश आवश्यकस्तथा च प्रमेयः पटपदशक्यसम्बन्धीत्याकारकं स्वशक्यसम्बन्धित्वसम्बन्धेन प्रमेयः पटपदवान् इत्याकारकं प्रमेयसम्बन्धि शक्तं घटपदं स्वसम्बन्धिशक्तत्वसम्बन्धेन पटपदं प्रमेयविशिष्टमित्याकारकञ्च । तेषु प्रद्यज्ञानजन्योपस्थितीयप्रकारता या प्रमेयत्वनिष्ठा तत्र तदुपस्थितिजनकज्ञानीयनिरुक्तविशेष्यतारूपवृत्तिनिष्ठप्रकारतानिरूपितप्रमेयनिष्ठाविशेष्यतावच्छेद कता वैशिष्ट्यसत्त्वेऽपि ज्ञानान्तरजन्योपस्थितीयप्रमेयत्वनिष्ठप्रकारतायां निरुक्तावच्छेदकतासामानाधिकरम्पविरहात् तत्तज्ज्ञानजन्योपस्थितिदशायां Page #98 -------------------------------------------------------------------------- ________________ ६० व्युत्पत्तिवादः [ कारके शाब्दबोधावापत्तिः । तथा न प्रकारत्वम्सम्बन्धेन - शाब्दबोधं प्रति स्वजनकज्ञानीशक्तिनिष्ठ प्रकारतानिरूपितविशेष्यतावच्छेदकता स्वजनकज्ञानीयशक्तिसम्बन्धावच्छिन्नपदनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेद्रकता स्वजन कज्ञानीयपदनिष्ठ विशेष्यतानिरूपितजनकत्वनिष्ठेच्छीयप्रकारतानिरूपितबोधनिष्ठावच्छेदकता निरूपितविषयत्वनिष्ठावच्छेदकत्व निरूपितावच्छेदकतावच्छेदकलन स्वजनकज्ञानीयशक्तिसम्बन्धावच्छिन्नपदनिष्ठ विशेष्यतानिरूपितप्रकारतावच्छेदकता स्वजनकज्ञानीयलक्षणानिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकला स्वजनकज्ञानीयलक्षणासम्बन्धावच्छिन्नपदप्रकारतानिरूपितविशेष्यतावच्छेदकता स्वजनकज्ञानीयलक्षणासम्बन्धावच्छिन्ना पदनिष्ठविशेष्यतानिरूपिता या प्रकारता तदवच्छेदकता स्वजनकज्ञानीयपदनिष्ठविशेष्यतानिरूपितशक्तत्वनिष्ठप्रकारतानिरूपितसम्बन्धिनिष्ठावच्छेदकतानिरूपितावच्छेदकतावच्छेदकतानां सामानाधिकरण्यं प्रकारतायां पृथक् पृथक् निवेश्योपस्थितीनां कारणत्वं पृथगेव वक्तव्यम् । तथा च परस्परजन्यबोधे व्यभिचारवारणाय कार्य्यतावच्छेदककोटौ तत्तदुपस्थित्यानन्तर्य्यं निवेशनीयम् । तथा च कस्यापि कार्य्यतावच्छेदकस्य धम्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबुद्धित्वं प्रति व्यापकताया अभावेन धम्मितावच्छेदकतासम्बन्धेन तद्धर्मावच्छिन्नकार्ये तत्तद्धर्म्मावच्छिन्नकार्योत्पादकसामग्या अनपेक्षणादनुपस्थितिदशायां द्रव्यत्वे निरुक्तसम्बन्धेन निरुक्तशाब्दबोधापत्ति तादवस्थ्यमेवेति चेत् — प्रत्रोच्यते । प्रकारतासम्बन्धेन शाब्दबुद्धित्वं प्रति तत्तदानन्तर्य्यघटितत्तत्तद्धर्म्मस्य व्याप्यतया व्यापकधर्मावच्छिन्ने कार्यो जननीये व्याप्यधर्म्माविच्छिन्नकाय्र्योत्पादकसामग्र्या अपेक्षणात् । प्रकारतासम्बन्धेन शाब्दबोधे तादृशोपस्थितीनामपेक्षा धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे च व्यापकसामग्रीविधया तादृशोपस्थितीनामपेक्षेति नानुपस्थितिदशायां धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधोपपत्तिरिति दिक् । न च विशेष्यतावच्छेदकतामात्रस्योपस्थितिनिष्ठकारणतावच्छेदकसं Page #99 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः सर्गतोपगमेऽप्युद्धोधकान्तरादुपस्थितद्रव्यत्वे शाब्दापत्तिवारणसम्भवे प्रकारतापर्यंन्तानुधावनं व्यर्थमिति वाच्यम् । द्रव्यं द्रव्यपदशक्यं प्रमेयः प्रमेयपदशक्य इति समूहालम्बनवृत्तिज्ञानात्प्रमेयत्वावच्छिन्नमात्रोपस्थितौ द्रव्यत्वेऽपि विशेष्यतावच्छेदकतासम्बन्धेनोपस्थितेस्सत्त्वाच्छाब्दापत्तेर्वारणाय प्रकारतापर्य्यन्तस्यादरादुद्बोधकान्तरादुपस्थितद्रव्यत्वनिष्ठप्रकारतायां कालिकसम्बन्धेन प्रमेयत्वनिष्ठनिरुक्तविशेष्यतावच्छेदकतावैशिष्ट्यमादायोक्तदोषतादवस्थ्यमिति सामानाधिकरण्यसम्बन्धेन वैशिष्टयं बोध्यम् । घटो घटपदशक्य इति वृत्तिज्ञानाद्घटत्वावच्छिन्नोपस्थितावुद्बोधकान्तरात्प्रमेयत्वावच्छिन्नस्य भाने प्रमेयत्वावच्छिन्नप्रकारतायां निरुक्तविशेष्यतावच्छेदकतावैशिष्ट्यसत्त्वात् प्रमेयत्वावच्छिन्नप्रकारताकशाब्दबोधवारणाय स्वानवच्छेदकधनिवच्छिन्नत्वस्यापि वैशिष्ट्यघटकत्वं बोध्यम् । प्रकृते चावच्छेदकतानवच्छेदकप्रमेयत्वावच्छिन्नत्वस्यैव प्रमेयत्वावच्छिन्नप्रकारतायां सत्त्वेनादोषः । प्रमेयवान् प्रमेयपदशक्य इति वृत्तिज्ञानात्प्रमेयत्वावच्छिन्नप्रकारताकोपस्थितावुद्बोधकान्तराद्घटत्वावच्छिन्नस्य भाने निरवच्छिन्नघटत्वनिष्ठप्रकारतायां वृत्तिज्ञानीयम्मितानिरूपितप्रमेयत्वावच्छिन्नावच्छेदकतावैशिष्टयसत्त्वानिरवच्छिन्नघटत्वनिष्ठप्रकारताकशाब्दबोधापत्त्या स्वानवच्छेदकधानवच्छिन्नत्वसम्बन्धावच्छिन्नस्वनिरूपितवृत्तित्ववत्वमपि वैशिष्टये निवेश्यम् । प्रकृते घटत्वनिष्ठनिरवच्छिन्नप्रकारतायां स्वानवच्छेदकधनिवच्छिन्नत्वसम्बन्धावच्छिन्ना प्रमेत्वावच्छिन्नवृत्तिज्ञानीयम्मितावच्छेदकतानिरूपिता या वृत्तिता तस्या असत्त्वाददोषः । कालिकसम्बन्धेन द्रव्यत्वविशिष्टो द्रव्यपदशक्य इति वृत्तिज्ञानजन्यकालिकसम्बन्धावच्छिन्नद्रव्यत्वनिष्ठप्रकारताकोपस्थितौ समवायसम्बन्धेन घटत्वविशिष्टघटस्योद्बोधकान्तराद्भाने घटत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारतायां धर्मितावच्छेदकतावैशिष्ट्यस्योक्तसम्बन्धत्रयेण सत्त्वात् समवायसम्बन्धावच्छिन्नघटत्वप्रकारकशाब्दबोधवारणाय स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्यापि चतुर्थसम्बन्धस्य वैशिष्टये प्रवेशः । Page #100 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके वस्तुतस्तु उद्बोधकवशादुपस्थितीयप्रकारतासूक्तासूक्तवृत्तिज्ञानीयधम्मितावच्छेदकताप्रयोज्यत्वविरहात् स्वप्रयोज्यत्वमात्रं वैशिष्ट्यनियामकं वक्तव्यं तेनैवोक्तदोषाणां निरासः । किञ्च द्रव्यं द्रव्यपदशक्यं घटो घटपदशक्य इति समूहालम्बनं वृत्तिज्ञानं द्रव्यपदशक्यमित्यंशे अप्रामाण्यज्ञानास्कन्दितं ततो घटत्वावच्छिन्नोपस्थितावुद्वोधकान्तराद्रव्यत्वावच्छिन्नस्य भाने द्रव्यत्वनिष्ठसमवायसम्बन्धावच्छिन्ननिरवच्छिन्नप्रकारतायामुक्तचतुष्टयसम्बन्धेनोपस्थितिजनकसमूहालम्बनात्मकवृत्तिज्ञानीयम्मितावच्छेदकताया वैशिष्टयसत्त्वेन द्रव्यत्वप्रकारकशाब्दबोधवारणं प्रयोज्यत्वनिवेशाधीनमेवेति दिक् । ननु घटत्वादिप्रकारकोपस्थितिजनकशक्तिज्ञानानि नानाविधानि । तथा हि घटो घटपदशक्यत्ववान् शक्तिसम्बन्धेन घटो घटपदविशिष्टः इत्याकारको शक्तिनिष्ठप्रकारताकशक्तिनिष्ठसंसर्गताको घटत्वनिष्ठविशेष्यतावच्छेदकताको घटशक्तं घटपदं शक्तिसम्बन्धेन घटविशिष्ट घटपदमित्याकारको शक्तिनिष्ठप्रकारताकशक्तिसंसर्गकघटत्वरूपानुपर्व्यवच्छिन्नविशेष्यताकौ च । तत्राद्यज्ञानजन्योपस्थितीयघटत्वनिष्ठप्रकारता तु उपस्थितिजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतानिरूपितघटत्वनिष्ठावच्छेदकताविशिष्टाऽस्ति । इतरेषु ज्ञानेष्वाद्यज्ञानीया वृत्तिनिष्ठा संसर्गताऽस्ति । न तु प्रकारताऽग्रिमज्ञानीयविशेष्यतावच्छेदकताघटत्वरूपानुपूर्वीनिष्ठा तद्वैशिष्ट्यमुपस्थितीयघटत्वनिष्ठप्रकारतायां नास्तीत्यन्तिमज्ञानत्रयजन्योपस्थितयः स्वजनकज्ञानीयवत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेन घटत्वे न सन्तीति तत्र प्रकारतासम्बन्धेन शाब्दबोधानापत्तिः । निरुक्तावच्छेदकतानां घटत्वनिष्ठानां स्वजनकज्ञानीयवृत्तिनिष्ठविषयतया परम्परया निरूपितत्वेनानुगमय्य तद्विशिष्टप्रकारताया उपस्थितिकारणतावच्छेदकसम्बन्धत्वे घटो घटपदशक्य इति वृत्तिज्ञानजन्यघटत्वप्रकारकोपस्थितावुद्वोधकान्तराद्घटत्वरूपानुपूर्व्यवच्छिन्नादेर्भाने आनुपूर्वीनिष्ठप्रकारताया अपि निरुक्तविषयतया विशिष्ट Page #101 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः स्वेन तादृशप्रकारतासम्बन्धेन घटत्वरूपानुपूर्व्यां तादृशसमूहालम्बनोपस्थितेस्सत्त्वेन तत्र शाब्दबोधापत्तिरतो घटत्वनिष्ठा वच्छेदकतानां विशिष्य स्वजनकज्ञानीयवृत्तिनिष्ठ प्रकारतानिरूपितविशेष्यतावच्छेदकतात्वेन स्वजनकज्ञानीयवृत्तिनिष्ठ संसर्गतानिरूपितप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वेन ३ स्वजनकज्ञानीयशक्तत्वनिष्ठप्रकारतानिरूपितावच्छेदकतावच्छेदकतात्वेन स्व संसर्गतानिरूपितप्रकारतावच्छेदकतात्वेन प्रवेश्य तत्तदवच्छेदकताविशिष्टप्रकारतात्मकेनासम्बन्धेनोपस्थितीनां पृथक् पृथक् कारणत्वे परस्परजन्यबोधे परस्परव्यभिचारवारणाय स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपित विशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थित्यव्यवहितोत्तरं प्रकारतासम्बन्धेन शाब्दबोधं प्रति स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थितिः कारणम् । एवं क्रमेण चत्वारः कार्य्यकारणभावाः स्युः । एवं वृत्तित्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया समानविषयकशाब्दबोधं प्रति प्रत्यक्षसामग्र्याः प्रतिबन्धकतया समानविषयकप्रत्यक्षसामग्न्यभावोऽपि शाब्दसामग्न्यां प्रवेश्यः । शाब्देच्छायां समानविषयकप्रत्यक्षसामग्री सत्त्वेऽपि शाब्दबोधोत्पत्त्या शाब्देच्छाविरहविशिष्टप्रत्यक्ष सामग्यभावः शाब्दसामग्यां प्रवेशनीयः । तथा च शक्तिज्ञानाधीनः शाब्दबोधो जायतामितिच्छासत्त्वे प्रत्यक्षसामग्रीसत्त्वे लक्षणाज्ञानाधीनोपस्थितिघटितशाब्दसामग्रीसत्त्वे शाब्दबोधवारणाय शक्तिज्ञानाधीनोपस्थितिजन्यशाब्देच्छाविरहविशिष्टप्रत्यक्षसामप्रभावविशिष्टा शक्तिज्ञानाधीनोपस्थितिः कारणं लक्षणाज्ञानाधीनोपस्थितिजन्यशाब्देच्छाविरहविशिष्टप्रत्यक्षसामग्रयभावविशिष्टा लक्षणाज्ञानाधीनोपस्थितिः कारणमित्येव शक्तित्वेन लक्षणात्वेन शक्तिलक्षणे प्रवेश्य कार्य्यकारणभावो वक्तव्य इति शक्तिलक्षणान्यतरत्वेनापि तयोरनुगमासम्भवेन घटः पटपदशक्यसम्बन्धी, घटः स्वशक्यसम्बन्धित्वरूपलक्षणात्मकसम्बन्धेन पटपदविशिष्टः, घटसम्बन्धिशक्तं पटपदं, स्वसम्बन्धिशक्तत्वसम्बन्धेन घटविशिष्टं पटपदमिति चतुर्विधलक्षणाज्ञानाधीनोपस्थितीनाम जनकज्ञानीयशक्तत्वसंसर्गनिष्ठ Page #102 -------------------------------------------------------------------------- ________________ ६४ व्युत्पत्तिवादः [ कारके पत्तेकात् । न च पदार्थेऽपि प्रकारतासम्बन्धेन शाब्दबोधोत्पत्त्या तत्र निरुक्तप्रकारतासम्बन्धेन पदार्थोपस्थितेरभावात्प्रकार - प्येकरूपेण कारणत्वासम्भवात् पृथक् पृथक् कारणत्वमुक्त्वा परस्परजन्यबोधे व्यभिचारवारणायाव्यवहितोत्तरत्वं कार्य्यतावच्छेदककोटौ निवेश्य चत्वारः कार्य्यकारणभावाः स्युः । एवञ्चैकस्यापि कार्य्यस्य धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति व्यापकताया प्रभावेन धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधोत्पत्तौ तत्कारणीभूतोपस्थित्यनपेक्षणादनुपस्थितदशायां द्रव्यत्वादौ धम्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानबलात् धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधो दुर्वार एवेति चेत् — प्रत्रोच्यते । निरुक्तकार्य्यतावच्छेदकधर्माणां प्रकारतासम्बन्धेन जायमानशाब्दबोधत्वव्याप्यतया व्याप्यधर्मावच्छिन्ने कार्य्यं जननीये व्यापकधर्म्मावच्छिन्नसामग्रया अपेक्षणात् । अव्यवहितोत्तरत्वनिवेशे निरुक्तसम्बन्धेनोपस्थित्यनुत्तरं शुद्धप्रकारतासम्बन्धेनोद्बोधकवशादुपस्थितद्रव्यत्वे शाब्दबोधापत्तिवारणाय व्यापकधर्मावच्छिन्ने कार्ये व्याप्यधर्मावच्छिन्नकार्य्यसामग्रया अपेक्षा वक्तव्या । तथा च तदन्तर्गता या विशिष्टप्रकारतासम्बन्धेनोपस्थितिस्तस्या अभावान्नापत्तिः । धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन शाब्दबोधस्य व्यापकतया येन सम्बन्धेन यद्धर्मावच्छिन्नकाय्र्यं प्रति येन सम्बन्धेन यद्धर्म्मावच्छिन्न कार्य्यस्य व्यापकतेत्यादिमूलोक्तरीत्या धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति व्यापकसामग्रयन्तर्गताया विशिष्टप्रकारतासम्बन्धेनोपस्थितेरपेक्षणान्नानुपस्थितिदशायां धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधापत्तिरिति । बीलो घट इत्यादौ नीले प्रकारतासम्बन्धेन शाब्दबोधो भवति प्रकारतासम्बन्धेनोपस्थितिर्नास्तीति व्यभिचार इत्याह-न च पदार्थेऽपीत्यादि । प्रकारनिष्ठ प्रत्यासत्येति । प्रकारतासम्बन्धेनेत्यर्थः । न च निरुक्तधम्मिता Page #103 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः । निष्ठप्रत्यासत्त्या पदार्थोपस्थितेहेतुता व्यभिचारेण कल्पयितुमशक्येति वाच्यम् । पसमर्शकारणताविचारदर्शितदिशा व्यभिचारस्य वच्छेदकताविशिष्टविषयतैवोपस्थितिनिष्ठकारणतावच्छेदकस्सम्बन्धोऽस्तु । वैशिष्ट्यञ्च स्वप्रयोज्यत्वस्वनिरूपितम्मिताप्रयोज्यत्वैतदन्यतरसम्बन्धेन । ततश्च न व्यभिचार इति वाच्यम् । नीलो घट इत्यादौ मुख्यविशेष्ये घटेऽपि तादशसम्बन्धेनोपस्थितेस्सत्त्वेन प्रकारतासम्बन्धेन शाब्दबोधाभावे नान्वयव्यभिचारस्य तावतापि सत्त्वात । विषयतामात्रस्य कार्यतावच्छेदकत्वे तत्र विषयतासम्बन्धेन शाब्दबोधस्यापि सत्त्वान्न व्यभिचार इति तु न संसर्गे व्यतिरेकव्यभिचारापत्तेः । संसर्गताभिन्नविषयतायाः प्रवेशे सामान्यलक्षणानभ्युपगन्तृमते शक्तिग्रहाविषयस्यापूर्वव्यक्तेरपि योग्यताबलेन शाब्दबोधोत्पत्त्या तत्र व्यभिचारापत्तेः । परामर्शकारणताविचारदर्शितेत्यादि। समवायसम्बन्धेन धूमहेतुकानुमितौ समवायसम्बन्धेन धूमहेतुकपरामर्शज्ञानस्यात्मनिष्ठप्रत्यासत्त्या कारणत्वोपगमे पक्षतावच्छेदकानन्त्यात् कार्यकारणभावानन्त्यापत्त्या धम्मितावच्छेदकतासम्बन्धेन धमहेतुवह्नित्वावच्छिन्नप्रकारताकानुमितौ धम्मितावच्छेदकतासम्बन्धेन वह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकपरामर्शज्ञानस्य लाघवात् धम्मितावच्छेदकनिष्ठप्रत्यासत्त्या कारणत्वे स्वीकृते भाविज्ञानमप्रमेत्यप्रामाण्यज्ञानानन्तरं वह्निव्याप्यधूमवान् पर्वत इति परामर्शस्ततो वह्निव्याप्यालोकवद्रव्यमिति परामर्शः। तस्मिन् क्षणेऽप्रामाण्यज्ञानस्य नाशादप्रामाण्यज्ञानानास्कन्दितस्य परामर्शद्वयस्य सत्त्वेन तदनन्तरं समूहालम्बनात्मकं पर्वतो वह्निमान् द्रव्यं वह्निमदित्याकारकमुभयलिङ्गकानुमित्यात्मक ज्ञानं जायते । तत्र कारणीभूतस्य वह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकपरामर्शस्य धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे विरहात् धूमलिङ्गकानुमितेश्च भत्त्वादेवं कारणीभूतस्य वह्निव्याप्यालोकत्वावच्छिन्न Page #104 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके वारणीयत्वादिति चेत्तर्हि तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्यापि हेतुतायाः स्वीकरणीयतया घटो घट इत्यादि प्रकारकपरामर्शज्ञानस्य धम्मितावच्छेदकतासम्बन्धेन पर्वतत्वे विरहाद्धम्मितावच्छेदकतासम्बन्धेनालोकहेतुकानुमितेश्च सत्त्वात्प्राप्तव्यभिचारवारणाय म्मितावच्छेदकतासम्बन्धेन वह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकपरामर्शज्ञानं स्वीयम्मितावच्छेदकताविशिष्टम्मितावच्छेदकतासम्बन्धेन धूमहेतुकवह्नित्वावच्छिन्नप्रकारताकानुमिति प्रति कारणमित्येवं रीत्या कार्यकारणभावः कारणतावच्छेदकसम्बन्धस्य वैशिष्ट्यं कार्य्यतावच्छेदकसम्बन्धे निवेश्य स्वीकृतोऽस्ति। प्रकृते द्रव्यत्ववृत्त्यनुमितीयम्मितावच्छेदकतायां धूमहेतुकपरामर्शीयम्मितावच्छेदकतावैशिष्ट्यविरहात् पर्वतत्ववृत्त्यालोकहेतुकानुमितीयम्मितावच्छेदकतायामालोकलिङ्गकपरामर्शीयम्मितावच्छेदकतावैशिष्टयविरहान व्यभिचारः । तथैव प्रकृतेऽपि स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थितिः स्वजनकज्ञानीयवृत्तिनिष्टप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टस्वीयप्रकारताविशिष्टप्रकारतासम्बन्धेन शाब्दबोधं प्रति कारणमित्येव कारणतावच्छेदकसम्बन्धवैशिष्ट्यं कार्य्यतावच्छेदकसम्बन्धे निवेश्य कार्यकारणभावः स्वीक्रियते। नीलो घट इत्यादौ प्रकारे नीले या शाब्दबोधीया प्रकारता तत्र स्वजनकेत्यादिप्रकारतान्तकारणतावच्छेदकसम्बन्धवैशिष्ट्यविरहेण न व्यभिचार इत्याशयः। अक्षरार्थस्तु परामर्शकारणताया यो विचारस्तत्र दर्शिताया दिक तया तद्रीत्या व्यभिचारो वारणीय इति । एतत्पर्य्यन्तग्रन्थेनापत्ति दृढीकृत्य समाधत्ते--तद्धर्मावच्छिन्नाभेदसंसवच्छिन्नेत्यादिना । प्रकारतावच्छेदकभेदो विशेष्यतावच्छेदके अभेदान्वये Page #105 -------------------------------------------------------------------------- ________________ स्थले न शाब्दबोधापत्तिः । स चट इत्यादिवाक्याज्जातित्वादिना घटत्वादिधर्मितावच्छेदककस्य स्वरूपतो घटत्वादिप्रकारतावच्छेदककस्य घट: स इत्यादिवाक्यात्स्वरूपतो घटत्वादिधम्मितावच्छेदककस्य जातित्वादिविशिष्ट घटत्वावच्छिन्नप्रकारताकस्य च शाब्दबोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेन विशेषणीये । घटो नीलघट इत्याद्यन्वयबोधस्य प्रामाणिकत्वेऽन्यत्र अपेक्ष्यत इति भावः । न शाब्दबोधापत्तिरिति । घटत्वे घटत्वभेदाभावादिति भावः। जातित्वादिनेति । स घट इत्यत्र जातिमान् तत्पदार्थस्तत्र जातिघटत्वं विशेष्यतावच्छेदकमवच्छेदकता जातित्वावच्छिन्नेति घटो घट इत्यतो विशेषः । घटस्स इत्यत्र जातिमान् तत्पदार्थस्तत्र प्रकारतावच्छेदकं घटत्वं जातिः प्रकारतावच्छेदकता च जातित्वावच्छिन्नेति पूर्वस्माद्विशेषः । उभयत्र शाब्दबोध इष्यते । स इदानीं न स्यात् प्रकारतावच्छेदकविशेष्यतावच्छेदकयोरैक्यादिति भावः । विशेष्यत्वप्रकारत्वयोरवच्छेदकत्व इति । विशेष्यतावच्छेदकताप्रकारतावच्छेदकतानिरवच्छिन्ना कार्य्यतावच्छेदके प्रवेश्या इति भावः । तथा च तद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति तद्धर्मभेदः कारणमिति पर्यवसितम् । निरुक्तप्रयोगद्वये जायमानशाब्दबोधौ च न निरवच्छिन्नप्रकारतादिविशेष्यतावच्छेदकतांविशेष्यतावच्छेदकताकाविति न तत्र प्रकारतावच्छेदकविशेष्यतावच्छेदकयोर्भेदापेक्षेति प्रकारतावच्छेदकविशेष्यतावच्छेदकयोरभेदेऽपि शाब्दबोधोपपत्तिः । घटो नोलघट इत्याद्यन्वयबोधस्य प्रामाणिकत्वे अन्यत्रेति । तत्र हि घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन घटत्वे शाब्दबोधस्तत्र च घटत्वभेदाभावाद्वयभिचारः प्राप्तस्तद्वा Page #106 -------------------------------------------------------------------------- ________________ ६८ व्युत्पत्तिवादः [ कारके रणार्थमन्यत्र दर्शिता पर्याप्तिनिवेशरूपा दिक् आश्रयितव्येत्यर्थस्तथा च तद्धर्मपर्याप्तावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितेत्यादिरूपः कार्यतावच्छेदकस्सम्बन्धः । प्रकृते च नीलघटत्वोभयपप्तिा अवच्छेदकता न घटत्वपर्याप्तेति घटत्वभेदाभावेऽपि न दोषः । ननु नीलघटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेप्यतावच्छेदकतासम्बन्धेन शाब्दबोधे यदि नीलभेदघटत्वभेदयोः कारणत्वं तर्हि विधेयकोटावधिकावगाहिनोऽपि घटो नीलघट इति बोधस्यानापत्तिघटत्वे उक्तभेदद्वयस्यासत्त्वात् । यदि नीलघटत्वोभयभेदस्य तत्त्वं घटत्वे तस्य सत्त्वेन न दोषस्तर्हि तस्य केवलान्वयित्वेन समानोद्देश्यविधेयकस्य नीलघटो नीलघट इत्याकारकस्यापि शाब्दस्यापतिः। घटत्वे नीले वा विशेष्यतावच्छेदके नीलघटत्वोभयभेदस्य सत्त्वादिति चेत् न। तदपावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबोधं प्रति तद्भेदस्य कारणत्वाङ्गीकारात् घटो नीलघट इत्यादौ विधेयांशेऽधिकावगाहिनः शाब्दबोधस्य घटत्वनीलोभयगतद्वित्वरूपावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वगतैकत्वे सत्वेन तत्र घटत्वनीलोभयगतद्वित्वभेदस्यापि सत्त्वेनादोषात् । न. चोभयपर्याप्ताया अपि प्रकारतावच्छेदकताया वस्तुत्वेन घटत्वे एव पर्याप्तिस्तदनुयोगितावच्छेदकञ्च घटत्वगतैकत्वमेव। तथा च तदवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वगतैकत्वे शाब्दबोधस्तत्र घटत्वगतैकत्वभेदाभावाद्वयभिचार एवेति वाच्यम् । स्वनिरूपितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन तद्रूपवृत्त्यभेदसम्बन्धा Page #107 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः ६६ वच्छिन्नप्रकारताघटितसम्बन्धस्य विवक्षणात् तेन सम्बन्धेनोक्तप्रकारताया द्वित्व एव वृत्तेः। ननु जातित्वावच्छिन्नघटत्वनिष्ठप्रकारतावच्छेदकताको यो घटस्स इत्यत्राभेदान्वयबोधस्तदीयप्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपाप्त्यनुयोगितावच्छेदकं घटत्वगतमेकत्वमेव तद्भेदस्य घटत्वगतैकत्वेऽभावाद्व्यभिचारः। न चावच्छेदकताया निरवच्छिन्नाया एव निवेशेन प्रकृते घटत्वगतावच्छेदकताया जातित्वावच्छिन्नत्वान्न दोष इति वाच्यम् । तर्हि नीलघटत्वावच्छिन्नप्रकारताया अपि निरवच्छिन्नावच्छेदकताया घटत्वे एव सत्त्वे न नीले ततश्च स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकप र्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वनीलोभयावच्छिन्नप्रकारताया अपि घटत्वगतैकत्ववृत्तित्वात् तद्भेदस्य घटत्वगतैकत्वेऽभावात् घटो नीलघट इति विधेयांशेऽधिकावगाहिशाब्दबोधो न स्यादिति चेत्-अत्रोच्यते।स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन स्वविशिष्टधावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिभूतावच्छेदकतानिरूपिता पच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेप्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबोधं प्रति स्वनिरूपितावच्छेदकतावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपभेदः कारणम् । ततश्च विधेयांशेऽधिकावगाहिनो घटो नीलघट इति बोधस्य घटत्वगतैकत्वे नीलघटत्वोभयगतद्वित्वभेदस्य सत्त्वानानुपपत्तिः । न वा नीलघटो नीलघट इति बोधस्यापत्तिः। नीलघटत्वोभयगतद्वित्वे नीलघटत्वोभयगतद्वित्वभेदाभावात् । __ननूद्देश्यांशेऽधिकावगाहिनो नीलघटो घट इति बोधस्यापत्तिस्तत्र विशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदके नीलघटत्वोभयगतद्वित्वे प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकघटत्वगतैकत्वभेदस्य सत्त्वादिति चेन्मैवम् । स्वनिरूपिताभेदसम्बन्धावच्छिन्नविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति स्ववि Page #108 -------------------------------------------------------------------------- ________________ १०० व्युत्पत्तिवादः [ कारके शिष्टो भेदः कारणम् । वैशिष्ट्यं स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वस्वनिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिनानुयोगिताकत्वोभयसम्बन्धेन । ततश्च घटत्वगतैकत्वावच्छेदेन नीलघटत्वोभयगतद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य सत्त्वात् । नीलघटत्वोभयगतद्वित्वावच्छेदेन नीलघटत्वोभयगतद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य घटत्वगतैकत्वावच्छिन्नप्रतियोगिताकभेदस्य चासत्त्वात् । विधेयांशेऽधिकावगाहिनः शाब्दबोधस्योपपत्तिरुभयांशे समानावगाहिनः उद्देश्यांशे अधिकावगाहिनश्च नीलघटो घट इत्यस्य नीलघटो नीलघट इत्यस्य चानापत्तिः। वस्तुतस्तु स घट: घटस्स इत्यनयोः पूर्वोक्तयोर्जातित्वावच्छिन्नावच्छेदकताकप्रकारताविशेष्यताकबोधयोरनुपपत्तिः । तत्रैकत्वावच्छेदेनैकत्वावच्छिन्नप्रतियोगिताकघटत्वभेदाभावात् । तदर्थं निरवच्छिन्नावच्छेदकतायाः प्रवेशे विधेयांशेऽधिकावगाहिनोऽप्यनुपपत्तिस्तत्र निरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वस्य घटत्वगतैकत्वे एव सत्त्वात् ।। __-इदमत्रावधेयम् । स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन किञ्चिन्निष्ठाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितोक्तनिरवच्छिन्नावच्छेदकताघटितसम्बन्धेन किञ्चिनिष्ठविशेष्यता तदवच्छेदकतासम्बन्धः कार्य्यतावच्छेदको वक्तव्यः । कारणञ्च पूर्वोक्त एव । ततश्च न दोष इति । यदि च प्रकारदलमेवोद्देश्य विशेष्यदलञ्च विधेयं विधेयतोद्देश्यतयोः प्रकारताविशेष्यत्वनियतत्वासिद्धेस्तहि अधिकावगाहिविशेष्यकस्यापि शाब्दबोधस्येष्टव्यतया कार्यकारणभावे प्रकारताविशेष्यतास्थाने विधेयतोद्देश्यते निवेशनीये। विधेयतावच्छेदकतोद्देश्यतावच्छेदकते समानसम्बन्धावच्छिन्ने ग्राह्ये । तेन कालिकसम्बन्धेन घटत्वविशिष्टपरतच्छब्दघटितात् स घट इति वाक्यान्न शाब्दबोधापत्तिरिति द्रिक । Page #109 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १०१ दर्शितरीत्या सोऽप्युपपादनीयः। एवं स स इत्यादिवाक्याजातित्वाद्यवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिन्नप्रकारतावच्छेदकताकाभेदान्वयबोधस्य वारणाय तद्धर्मावच्छिन्नाक्च्छेकताकप्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकत्वप्रत्यासत्त्या शाब्दबोधं प्रति तद्धर्मभेदस्यापि पृथक्कारणत्वं कल्पनीयम्। एवं दण्डवान् दण्डवानित्यादिवाक्यादण्डसंयोगत्वाद्यवच्छिन्नवति तदवच्छिन्नवदभेदान्वयबोधस्य वारणाय दण्डसंयोगत्वाद्यवच्छिनावच्छेदकताकप्रकारतानिरूपितविशेष्यतानिरूपितसंयोगत्वाद्यव निरवच्छिन्नघटत्वादिनिष्ठावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारताकविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबोधं प्रत्येव घटत्वादिभेदस्य कारणत्वोक्तेर्जातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकार तानिरूपितविशेष्यतानिरूपितजातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकशादबोधस्य प्राप्तामापत्ति परिहर्तुमाह-सं स इत्यादिवाक्यादिति । निरवच्छिन्नप्रकारतावच्छेदकत्वविशेष्यतावच्छेदकत्वकाभेदान्वयबोधे यथा प्रकारतावच्छेदकविशेष्यतावच्छेदकयोर्भेदापेक्षा तथाऽवच्छिनतादृशावच्छेदकताकाभेदान्वये प्रकारतावच्छेदकतावच्छेदकविशेष्यतावच्छेदकतावच्छेदकयोर्भेदस्य कारणत्वमिति भावः । एवमपि प्रकारतानिरूपितसंयोगनिष्ठावच्छेद तावच्छेदकदण्डस्य विशेष्यतावच्छेदकतावच्छेदकदण्डाद्भेदस्य सत्त्वेन दण्डवान् दण्डवानिति वाक्यात्प्राप्तां शाब्दापत्ति परिहर्तुमाह--दण्डवान् दण्डवानित्यादि । प्रकारतावच्छेदकतावच्छेदकतावच्छेदके विशेष्यतावच्छेदकतावच्छेदकतावच्छेदके भेदस्यापि हेतुत्वं बोध्यम् । प्रमेयत्वेन दण्डत्वस्य यत्र प्रकारतावच्छेदकतावच्छेदकतावच्छेदकत्वं तादृशः दण्डत्वनिष्ठनिरवच्छिन्नस्य विशेष्यतानिरूपितसंय्योगत्वावच्छिन्नावच्छेदकानिरूपितदण्डनिष्ठावच्छेदकतानिरूपितदण्डत्वनिष्ठ Page #110 -------------------------------------------------------------------------- ________________ १०२ व्युत्पत्तिवादः [ कारके च्छिन्नावच्छेदकतानिरूपितावच्छेदकतावच्छेदकत्वसम्बन्धेन शाब्दबोधे दण्डत्वादिभेदस्यापि पृथक्कारणत्वं कल्पनीयम् । अवच्छेदकतायां निरवच्छिन्नत्वनिवेशोऽपि पूर्ववद्बोध्यः । .. वस्तुतस्तु तद्धर्मान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तद्धर्मभेदत्वेन हेतुता कल्प्यते लाघवात्। एवं च घटत्वाद्यवच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति घटत्वाद्यन्यवृत्तिविषयतासम्बन्धेन ज्ञानत्वाद्यवच्छिन्नस्य व्यापकतया घटत्वादौ तादृशविषयतासम्बन्धेन ज्ञानत्वावच्छिनोत्पादकसामग्रीविरहेण न तत्र तादृशविशेष्यतावच्छेकतासम्बन्धेन शाब्दबोधापत्तिः। एवं च षटवान् घट्वानित्यादि वाक्यस्थलीयशाब्दबोधवारणानुरोधेन धम्मितावच्छेदकतावच्छेदकादिनिष्ठप्रत्यास स्यावच्छेदकत्वस्य निरूपकः शाब्दबोधः प्रमेयवद्वान् दण्डवानितिवाक्यान्न स्याद्दण्डत्वे दण्डत्वभेदाभावादत आह-प्रवच्छेदकतायां निरवच्छिनत्वमित्यादि । प्रथमावच्छेदकतायां चरमावच्छेदकतायाञ्चेत्यर्थः । अनेककार्यकारणभावकल्पनायां गौरवादाह-वस्तुतस्विति। घटत्वभिन्नवृत्तिविषयतासम्बन्धेन ज्ञानं घटत्वभिन्ने एव भवति । तत्र घटत्वभेदोऽप्यस्तीति घटत्वभेदस्य तादशसम्बन्धेन ज्ञानं प्रति कारणत्वं नानुपपन्नमेवं पटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति पटत्वभेदः कारणम् । तच्च ज्ञानं घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति व्यापकं यतो घटो द्रव्यमित्यादिवाक्याद्रव्यत्वादौ घटत्वभिन्ने एव स बोधो भवति तत्र घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं वर्त्तत एव । ततश्च व्याप्यकार्ये व्यापकस्य कारणमपेध्यत इति निपमात् तादृशशाब्दबोधे घटत्वभेदस्यापेक्षणान्न घटो घट इति वाक्याद्घटत्वे स बोधः । न च जातिमान् घट इति वाक्यात् घटत्वेऽपि जातित्वेन घटत्वनिष्ठा Page #111 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १०३ त्या करणत्वान्तरमपि न कल्प्यते । एवमुद्देश्यतावच्छेदकविधेययोरैक्येन एको द्वावित्यादिवाक्यादेकत्वद्वित्वाद्यवच्छिन्ने एकत्वद्वित्वादीनां भेदान्वयबोधानुदयात, एकद्वित्वत्वाद्यवच्छिन्नसमवायादिसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितसमवायादिसंसर्गावच्छिन्नावच्छेदकतावच्छेदकत्वादिसम्बन्धेन शाब्दबुद्धौ एकत्वत्वादिभेदस्य । एवं कर्म गच्छतीत्यादौ च कर्मत्वत्वाद्यवच्छिन्ने आधेयतासम्बन्धेन तद्वतोऽन्वयबोधवारणाय कर्म वच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधोत्पत्तेन घटत्वावच्छिन्नप्रकारताकोक्तशाब्दबोधो घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानव्याप्यमिति वाच्यम् । व्याप्यशरीरे निरवच्छिच्छिन्नावच्छेदकतायाः प्रवेशे नादोषात् । एवं व्याप्यशरीरे घटत्वेतरधर्मानवच्छिन्नत्वमपि प्रकारतायां देयं तेन नीलघटो घट इति वाक्याद्घटत्वे जायमानशाब्दबोधीयघटत्व नेष्ठावच्छेदकतायां निरवच्छिन्नत्वेऽपि न क्षतिः । प्रकारतायां घटत्वेतरनीलत्वेनावच्छेदात् । एवमेव जातित्वावच्छिन्नावच्छेदकताकप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतासम्बन्धेन शाब्दबोधः जातित्वाभिन्ने एव भवति । एवं दण्डत्वावच्छिन्नदण्डनिष्ठावच्छेदकतानिरूपितसंय्योगनिष्टावच्छेदकतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतावच्छेदकतासम्बन्धेन दण्डत्वभिन्ने एव शाब्दबोधो भवतीति तयोरपि व्यापके जातित्वान्यवत्तिविषयतासम्बन्धेन दण्डत्वान्यवृत्तिविषयतासम्बन्धेन वर्तमाने ज्ञाने इति तयोरपि शाब्दबोधयोर्जातित्वभेददण्डत्वभेदयोः कारणत्वात् जातित्वे दण्डत्वे च न तौ शाब्द 'अनुमितिवारणाय धर्मितावच्छेदकतासम्बन्धनानुमितौ विधेयभेदस्येत्यधिकः पाठो प्राचीनहस्तलिखितपुस्तके । Page #112 -------------------------------------------------------------------------- ________________ त्वत्वाद्यवच्छिन्नावच्छेदकताकाधेयतासम्बन्धावच्छिन्नप्रकारतानि- ' रूपितधर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे कर्मत्वत्वादिभेदस्य घटो न, घट इत्याद्यनुमितेः शाब्दबोधस्य च वारणाय घटत्वावच्छिन्नभेदप्रकारतानिरूपितधम्मितावच्छेदकतासम्बन्धेनानुमितौ शाब्दबोधे च घटत्वादिभेदस्य हेतुत्वान्तरकल्पनमनादेयमेव । तद्धमभेदस्यैकैककारणतयैव सकलातिप्रसङ्गवारणसंभवादिति कृतं पल्लवितेन। बोधौ जातिमान् जातिमान् दण्डवान् दण्डडवानिति वाक्याभ्यामिति बोध्यम् । एवमेव एकः द्वौ घटो न घटः इत्यतोऽपि एकत्वावच्छिन्ने एकत्वस्य द्वित्वावच्छिन्ने द्वित्वस्य घटत्वावच्छिन्ने। घटभेदस्य चान्वयविषयकावनुमितिशाब्दबोधौ न यतः एकत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतासम्बन्धेन एवं द्वित्वत्वावच्छिन्नप्रकारताघटितोक्तसम्बन्धेन घटत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावानुयोगितावच्छेदकतासम्बन्धेन शाब्दबोधोऽनुमितिर्वा एकत्वत्वद्वित्वत्वघटत्वेभ्यो भिन्नष्वेव भवति । तयोरपि एकत्वत्वाद्यन्यवृत्तिविषयतासम्बन्धेन ज्ञानं व्यापकमिति तत्कारणस्यैकत्वत्वादिभेदस्य तत्रापेक्षितत्वेन तदभावादेवैकत्वत्वादिषु तयोरभावोपपत्तावेकत्वत्वादिभेदस्य पृथक् कारणत्वाकल्पनेन लाघवम् । न च नमोऽभावे येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता यद्वाक्येन प्रतीयते नघटितेन तेन वाक्येन तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताकाभावस्तद्धविच्छेदेन प्रत्याय्यत इति नियमात् घटो घट इति वाक्यात् स्वरूपसम्बन्धेन घटाभेदवत्ताया घटत्वावच्छेदनाप्रतीतेस्तदवच्छेदेन घटाभेदाभावप्रतीत्यप्रसक्तेः कथं तत्कारणकल्पनं लाघवमिति वाच्यम् । येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता प्रीतौ साकाङ्क्ष यद्वाक्यं तेन वाक्येन नघटितेन तेन सम्बन्धेन तदवच्छेदेन तदभावः प्रत्याय्यत इत्येव नियमेन Page #113 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १०५ घटो घट इति वाक्यस्य तादृशबोधाजनकत्वेऽपि तादृशबोधे साकाङ्क्षत्वेनादोषात् । नीलघटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य जातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकता काभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य च नीलघटो घट: स घट इत्यादिवाक्याद्घटत्वेऽप्युदयेन घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रत्यव्याप्यत्वेन तत्र घटत्वभेदानपेक्षणात्तयोस्तत्रोत्पत्तौ न बाधकमिति दिक् । न चोक्तबोधौ यदि न व्याप्यौ तहि नीलघटो नीलघट स स इति वाक्याभ्यां घटत्वे तयोरापत्तिस्तत्र घटत्वभेदानपेक्षणादिति वाच्यम् । नीलत्वानवच्छिन्नविशेष्यतानिरूपितजातित्वावच्छिन्नावच्छेदकतासम्बन्धेन नीलघटत्वावच्छिन्नप्रकारताकस्य जातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकशाब्दबोधस्य च तत्रासम्भवात् विशेष्यदले नीलत्वस्य जातित्वस्य चोपस्थित्या भानस्यावश्यकत्वात् । कथञ्चित्तयोरभाने शाब्दबोधस्येप्टत्वात् । न च नीलघटो नीलं द्रव्यमित्यादौ द्रव्यत्वे प्रसिद्धस्य नीलघटत्वावच्छिन्नप्रकारतानिरूपितनीलत्वावच्छिन्नविशेष्यतानिरूपितानवच्छिन्नावच्छेद कतासम्बन्धेन शाब्दबोधस्य घटत्वत्वेन घटत्वोपस्थापकेन जातित्वेन घटत्वोपस्थापकेन च तत्पदेन घटिते स स इत्यादौ च प्रसिद्धस्य शाब्दबोधस्य घटत्वे जातित्वे च नीलघटो नीलघट: स स इत्यादौ शाब्दबोधापत्तिरिति वाच्यं तयोरप्युक्तज्ञानव्याप्यत्वेन तादृशभेदापेक्षणात् । न च कालिकसम्बन्धेन घटत्वविशिष्ट समवायसम्बन्धेन घटत्वविशिष्टस्याभेदान्वयोऽनुभवसिद्धस्तत्र घटत्वनिष्ठनिरवच्छिन्नावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य घटत्वेऽपि सत्त्वान्न घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानव्यापकस्स बोध इति वाच्यं घटत्वनिष्ठनिरवच्छन्नावच्छेदकताविशिष्टावच्छेदकतासम्बन्धेन शाब्दबोधस्य व्याप्यत्वात् । वैशिष्टयं स्वनिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितत्वस्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन उद्देश्य य यत्र प्रकारता विधेयस्य विशेष्यता तत्र विशेष्यां Page #114 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके .. भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन क्वचिनिपातार्थेन च सममेव जायते न त्वन्येन । सत्यपि पदार्थोपस्थितियोग्यताज्ञानादिरूपकारणकलापे राजा पुरुष: भूतलं घट इत्यादौ पुरुषाद्यंशे राजभूतलादेः स्वत्वाधेयतासम्बन्धेन तण्डुलः पचति चैत्रः पच्यते इत्यादौ कर्मत्वकर्तृत्वादिसम्बधेन तण्डुलचैत्रादौ पाकादेः स्वकर्मकत्वस्वकर्तृकत्वादिसम्बन्धेन पाकाद्यंशे वा शेऽधिकावगाहिशाब्दबोधस्येष्टतया तत्र दोषवारणाय व्याप्यदले प्रकारताविशेष्यतयोः स्थाने विधेयतोद्देश्यतयोः प्रवेशः कार्य । ___ अभेदान्वयविचारं समाप्य भेदान्वयविचारः प्रारभ्यते-भेदान्वयबोधश्चेत्यादिना। भेदान्वयेत्यस्याभेदभिन्नसम्बन्धबोध इत्यर्थः । प्रातिपदिकार्थस्य धात्वर्थस्य च प्रत्ययार्थे निपातार्थे एवाभेदभिन्नसम्बन्धेनान्वय इत्यर्थः। प्रातिपदिकपदप्रयोज्यधातुपदप्रयोज्ययोरभेदातिरिक्तसम्बन्धावच्छिनप्रकारतयोः प्रत्ययनिपातान्यतरपदप्रयोज्यविशेष्यतानिरूपितत्वनियम इति पर्य्यवसितोऽर्थः । नियमस्वीकारे हेतुमाह--राजा पुरुष इत्यादि । राजा पुरुषः भूतलं घट इति वाक्यात् स्वत्वसम्बन्धेन राजविशिष्टः पुरुषः आधेयत्वसम्बन्धेन भूतलविशिष्टो घट इति बोधाभावः । उक्तनियमे हेतुरिति भावः । प्रातिपदिकार्थस्य प्रातिपदिकार्थेऽभेदभिन्नसम्बन्धेनान्वये दोषमुक्त्वा धात्वर्थस्य प्रातिपदिकस्य तेन सम्बन्धेनान्वये दोष उच्यते। तण्डुलः पचतोत्यादि। न च तण्डुलगतकर्मत्वस्य चैत्रगतकर्तृत्वस्यानुक्तत्वात् तण्डुलपदचैत्रपदाद्द्वितीयातृतीययोरनुशासनादयं प्रयोगो न प्रसक्त इति वाच्यम् । प्रातिपदिकार्थं प्रति कर्मत्वकर्तृत्वयोविशेष्यतयाऽन्वयबोधतात्पर्ये एव' कर्मणि द्वितीयेत्यादिना प्रातिपदिकात् द्वितीयादेरनुशासनात् । प्रकृते च कर्मत्वकर्तृत्वयोस्संसर्गतया भानस्य प्रातिपदिकार्थस्य धात्वर्थे भेदसम्बन्धेनान्वये दोष उच्यते। स्वकर्मकत्वेत्यादिना। विभक्त्यर्थमन्तराकृत्येति । उक्तनियमः साक्षात्स Page #115 -------------------------------------------------------------------------- ________________ तण्डुलचैत्रादेरन्वयायोधाग्निपातातिरिक्तप्रातिपदिकार्थयोः क्रियातादृशप्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वात् । विभक्त्यर्थमन्तराकृत्य तयोरप्यन्वयबोधात्साक्षादिति निपातातिरिक्तत्वादिविशेपरसात् भूतले न घट: घटो न पट इत्यादौ घटादेर्नर्थाभावेन मुखं चन्द्र इवेत्यादौ मुखचन्द्रादीनामिवार्थसादृश्यादिना न कलशं भदायेदित्यादौ नैयायिकमते नअपस्थाप्येन बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वादिरूपविध्यर्थाभावेन धात्वर्थ म्बन्धविषयक एव । रा३: पुरुष इत्यादौ विभक्त्यर्थस्वत्वद्वारा राजरूपप्रातिपदिकार्थस्य पुरुषरूपप्रातिपदिकार्थेऽन्वयस्येष्टत्वादिति भावः। निपातार्थे प्रातिपदिकार्थान्वयस्थलमाह --भूतले न घट इत्यादि । नअर्थो भावे घटस्य स्वप्रतियोगिकत्वसम्बन्धनान्वयस्तथा च घटाभावो भूतलवृत्तिरिति बोधः । यदि च प्रतियोग्यभावा वय इति न्यायेन नोऽसत्त्वे यत्र येन यद्वत्ता प्रतीयते यादृश्यवाक्येन तादृशवाक्येन नघटितेन तत्र तेन तदभावस्यैव प्रत्यायनादुक्तबोधो न युक्तः कि तु भूतलवृत्तित्वाभाववान् घट इत्येव युक्तः । भूतले घट इत्यतो भूतलवृत्तित्ववान् घट इत्येव बोधात् तथाऽपि निपातार्थप्रातिपदिकार्थयोरन्वयो जात एवेति बोध्यम् । घटो न पट इत्यादाविति--नार्थे भेदे घटस्य स्वप्रतियोगिकत्वसम्बन्धेन भेदस्य च पटे स्वरूपसम्बन्धेनान्वयः । मुखं चन्द्र इवेत्यादाविति । इवार्थसादृश्ये स्वप्रतियोगिकत्वसम्बन्धेन चन्द्रस्य मुखे स्वरूपसम्बन्धेन सादृश्यान्वयः । निपात तिरिक्तत्वनिवेशाभावे नञि वयोरपि नामत्वात्तदर्थे तदर्थस्य वा भेदान्वयर चन्द्रादेन स्यादिति भावः । न कलज भक्षयेदित्यादादिति । नबर्थोऽभावः तस्मिन् लिङर्थस्य बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वरूपस्य स्वप्रतियोगिकत्वसम्बन्धेनान्वयेऽभावस्य च स्वरूपसम्बन्धेन भक्षणेऽन्वयः । तथा च बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वप्रतियो Page #116 -------------------------------------------------------------------------- ________________ भक्षणादेरनुयोगितया, गुरुमते तु विध्यर्थापूर्वांशे विशेषणतयान्वितेन नअपस्थाप्याभावेन धात्वर्थभक्षणादेः प्रतियोगितयाऽन्वयेऽपि न क्षतिः । राजपुरुष इत्यादिसमासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किन्तु तेन समं विभक्त्यन्तार्थविशिष्टलाक्षणिकराजादिपदोपस्थाप्यराजसम्बन्ध्यादेरभेदान्व गिकाभावविशिष्टं कलञ्जभक्षणमिति बोधः । बलवदनिष्टाननुबन्धित्वं बलवदनिष्टाजनकत्वम् । अत्र विशेषणस्य बलवदनिष्टा जनकत्वस्य विशेष्यस्येष्टसाधनत्वस्य चाभावप्रयुक्तो विशिष्टाभावस्तेन बलवदनिष्टजनकत्वं भक्षणे प्रतीयते नैयायिकमते अत्र धात्वर्थे नपनामार्थस्यान्वयः । गुरुमते चेति । प्रभाकरमीमांसकमते भक्षणस्य स्वप्रतियोगिकत्वसम्बन्धेन नअर्थाभावेऽन्वयो भावस्य च प्रयोज्यत्वसम्बन्धेन लिङर्थेऽपर्वे अन्वयोऽपूर्वञ्च पुण्यं तथा च कलञ्जभक्षणप्रतियोगि काभावप्रयोज्यमपूर्वमिति बोधः । नैयायिकमने कलञ्जभक्षणमनिष्टजनकं न तु तद्भक्षणाभावः पुण्यजनकः । गुरुमते कलञ्जभक्षणाभावजन्यं पुण्यं न तु कलजभक्षणमनिष्टजनकमिति प्रतीयत इति भेदः । ननु तर्हि कलञ्जभक्षणे कस्मान्न प्रवर्तते गुरुमत इति चेत्-पुण्यप्रयोजकाभावप्रतियोगित्वरूपस्य 'पुण्यप्रतिबन्धकत्वस्य भक्षणे शब्दात्प्रतीतौ पुण्यकामस्य पुण्यप्रतिबन्धके कलञ्जभक्षणे प्रवृत्त्यनुपपत्तेः । समासस्थले विशेषणवाचकपदप्रकृतिकलुप्तविभक्तेरनुसन्धानं विनैव शाब्दबोधोत्पत्त्या स्वत्वसम्बन्धेन राजरूपनामार्थस्यैव पुरुषरूपनामार्थेऽन्वयो वाच्यः । स चोक्तनियमविरुद्ध इत्यत आह--राजपुरुष इत्यादिसमासस्थले स्विति । तत्र राजादिपदस्य विशेषण वाचकस्य षष्ठयर्थस्वत्वादिविशिष्टे लक्षणा । तस्य चाभेदेनैव पुरुषाद्युत्तरपदार्थेऽन्वय इति नोक्तव्युत्पत्तिविरोधः । एतदेवाह-किन्त्वित्यादिना। Page #117 -------------------------------------------------------------------------- ________________ बोध एवेति न दोषः । एवं मुखं चन्द्र इत्यादिरूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशलक्षणया मुखादौ चन्द्रादिसदृशाभेदान्वयबोध एव, न तु सादृश्यादिसम्बन्धेन चन्द्रादेर्मुखादावन्वय इति न तत्र व्यभिचारः । केचित्तु रूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशे न लक्षणा किं तु तत्र मुख्यार्थचन्द्रादेरेवाभेद भ्रमो मुखादौ । मुखं न चन्द्र इत्यादिविशेषदर्शनदशायां च न तत्र शाब्दोऽभेदप्रत्ययः अपि तु शब्दजन्यविशकलितपदार्थोपस्थितिमूलको मानस एवाहार्थ्याभेद भ्रम इत्याहुः । एवं मुखं चन्द्र इति । अत्रापि चन्द्रपदार्थस्य मुखेऽभेदान्वयस्य बाधेन स्वप्रतियोगिकसादृश्यवत्वस्य च भेदसम्बन्धत्वेन तेन सम्बन्धेनान्वये पूर्वोक्तव्युत्पत्तिविरोधेन च चन्द्राद्युपमानवाचकपदस्य चन्द्रसदृशे लक्षणया चन्द्रसदृशाभिन्नं मुखं इति बोध इति न व्युत्पत्तिविरोधः । ननु रूपकस्थलेऽपि लक्षणया सादृश्यप्रत तावुपमालङ्काराद्रूपकालङ्कार श्रालङ्कारिकसिद्धान्तसिद्धं चमत्कारवैलक्षण्यन्नोपपद्येत । विषयवैलक्षण्यस्यैव चमत्कारवैलक्षण्यप्रयोजकत्वादिति चेत्तदाह-- केचित्वित्यादि । तथा च चन्द्राभिन्नं मुखमित्यभेदान्वयबोध एवंति न व्यभिचारो न वा चमत्कारवैलक्षण्यानुपपत्तिर्विषयवैलक्षण्यस्य सत्त्वात् । ननु बाधान्नाभेदश्चन्द्रादेर्मुखादाविति ं चेत्तदाह--प्रभेदभ्रमो मुखादाविति । ननु मुखन्न चन्द्र इति विशेषदर्शने न भ्रमस्यापि सम्भव इति चेत्तदाह--न तत्र शाब्दोऽभेदभ्रम इति । समानविभक्तिकमुखचन्द्रपदजन्योपस्थितिविषययोर्मुखचन्द्रयोर्म्मानसोऽभेदभ्रमः । मानसञ्च ज्ञानं विरोधिज्ञानाप्रतिबद्ध्यमेवेति भावः । ननु मुखञ्चन्द्र इति वाक्यजन्यप्रतीतौ श्रुतोऽयमर्थश्चेतश्चमत्करोतीत्यनुभवः प्रामाणिकः । श्रुधातोश्च शाब्दबोध एवार्थस्तदनुरोधेन शाब्दाभेदप्रत्यय एव मुखञ्चन्द्र इति Page #118 -------------------------------------------------------------------------- ________________ . ११० . व्युत्पत्तिवादः [ कारके ___परे तुतादात्म्यातिरिक्तसम्बन्धेन नामार्थयोर्नान्वयबोधः । तादात्म्यं च प्रकृते तद्वृत्तिधर्मवत्त्वम् । एवं च नीलो घट इत्यादौ स्ववृत्तिनीलत्वादिमत्त्वसम्बन्धेन घटाद्यंशे नीलपदार्थस्येव मुखं चन्द्र इत्यादौ स्ववृत्त्याह्लादकत्वादिमत्त्वसम्बन्धेन मुखादौ चन्द्रादेरन्वयबोधः तादृशार्थान्वयबोधेऽपि समानविभक्तिकत्वं तन्त्रमित्यतो नातिप्रसङ्ग इति वदन्ति । वाक्यादभ्युपेयो न मानस इत्यत आह--परे विति। नामार्थयो न्वयबोध इति । एतदुत्तरं नामार्थयोरभेदान्वयबोध इत्यस्यार्थ इति शेषः । एवञ्च मुखन्न चन्द्र इति विशेषदर्शनदशायामपि स्ववृत्त्याह्लादकत्ववत्वसम्बन्धेन चन्द्रविशिष्टं मुखमिति बोधोऽप्रतिबद्ध एवेति भावः । नातिप्रसङ्ग इति । नीलस्य घट इत्यादाविति शेषः । नन्वेवं चन्द्रो मुखं पद्मं मुखमित्यादौ स्ववृत्तिधर्मवत्वसम्बन्धेन चन्द्रपद्मादेर्मुखादावन्वयोपगमे प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमावित्यनुरोधेन न चन्द्रो न पद्म मुखमेवेदमित्यादौ तत्सम्बन्धावच्छिन्नप्रतियोगिताकचन्द्राद्यभाव एव ना प्रतीयत स च बाधित इति तत्र बोधो न स्यादतोऽसम्मतोऽयं पक्षो भट्टाचार्य्यस्येति परे त्वित्यनेन सूचयति । स्वमते तु चन्द्रपदस्य चन्द्रसदशे लक्षणैव । उपमातो रूपके चमत्कारवैलक्षण्यन्तु यथा गङ्गातीरे घोष इत्यतो न शैत्यपावनत्वातिशयप्रतीतिरपि तु गङ्गातीरलाक्षणिकगङ्गापदाद्गङ्गातीरबोधे एव शैत्यपावनत्वातिशयप्रतीतिस्तथैवात्रापि विषयावैलक्षण्येऽपि कारणान्तरगम्यमेवेति सहृदयमात्रगम्यमिति दिक् । 'परे त्विति–वस्तुतो न युक्तमिदमन्यथा घटवृत्तिद्रव्यत्वस्य घटेऽप्यबाधात् तेन सम्बन्धेन घटस्य पटेऽन्वयबलात् घट: पट इत्यपि प्रयोगापत्तिः । एवञ्च केचिदित्यादिमतमेव युक्तमिति गुरुचरणाः । Page #119 -------------------------------------------------------------------------- ________________ 1067 अथ राजा पुरुष इत्यादी पदार्थोपस्थित्यादिसत्त्वेन कथन्न भेदान्वयबोधः, सामग्रया कार्यजनने उक्त नियमभङ्गरूपायाः प्रयोजनक्षतैर किंचित्करत्वात्, सामग्रीसत्त्वे अवश्यं कार्यमिति नियमात् । न च तंत्र भेदान्वर बोधौपयिकाकाङ्क्षाविरहाच्छाव्दसामग्रयेवासिद्वेति वाच्यम् । समभिव्याहाररूपाकाङ्क्षायास्तत्रापि सत्त्वात् । न च तादृशाकाङ्क्षायास्तत्र सत्त्वेऽपि राजादिपदार्थप्रकारकभेदान्वयबोधे (राजादिपद प्रकारको राजादिपदाव्यवहितोत्तरङस्पदत्वादिरूपानुपूर्वीविशेषरू पाया आकाङ्क्षाया अपि प्रयोजकत्वात् । तदभावादेव न तत्र शाब्दसामग्रीति वाच्यम् । सम्बन्धादिविशेष्यक नियममूलभूतं कार्य्यकारणभावं शङ्कासमाधानाभ्यामाह -- श्रथ राजा पुरुष इत्यादाविति । ननु नामार्थयोरभेदान्वय एवेति नियमभङ्ग इति चंदा- -- सामग्रया काय्येत्यादि । नियमः प्रयोजनं क्षतिर्हानिः । श्रकिकिरत्वात् काय बाधकत्वादित्यर्थः । सामग्रीसत्त्वे इत्यादि । सामग्रचाः कार्य्य व्याप्यत्वादित्यः । न च तत्र भेदान्वये बोधौपयिकाकाङ्क्षाविरहादिति । राजानं राज्ञा राज्ञे राज्ञ इत्यादी राजनिष्ठ कर्म्मत्वराजनिष्ठकरणत्वादीत्याकारकभेदान्वये राजानमित्याद्यानुपूर्वीज्ञानाकारणत्वाद्राजा पुरुष इत्यादौ तादृशानुपूर्व रूपाकाङ्क्षाविरहान्न शाब्दसामग्रीति भावः । समभिव्याहाररूपाकाङ्क्षाया इति । भेदान्वयबुद्धिं प्रत्यानुपूर्वीज्ञानानां परस्पराव्यभिचरितत्वे नाना कारणत्वात् प्रकारविशेष्यवाचकपदयोस्समभिव्याहाररूपाकाङ्क्षाज्ञानस्यैव कारणत्वेन तस्य च राजा पुरुष इत्यत्रापि सत्त्वादिति भावः । न च तादृशा काङ्क्षायास्तत्र सत्त्वेऽपीति । राजा कर्मत्वं राजा स्वत्व - मित्यादौ समभिव्याहाररूपाया श्राकाङ्क्षायास्सत्त्वेऽपि शाब्दबोधानुदयेन भेदान्वये आनुपूर्व्या अपि कारणत्वस्य वक्तव्यत्वेन राजपदाव्यवहितङस् - पदत्वादिरूपानुपूर्वीनाकाङ्क्षाया प्रभावान्न शाब्दबोध इति भावः । सम्बन्धा Page #120 -------------------------------------------------------------------------- ________________ ११२ . . व्युत्पत्तिवादः [ कारके राजादिप्रकारकान्वयबोध एव तादृशाकाङ्क्षाज्ञानस्य हेतुतया पुरुषादौ राजादिपदार्थप्रकारकान्वयबोधोत्पत्तौ तादृशाकाङ्क्षाज्ञानरूपकारणविरहस्याकिंचित्करत्वात् । - अत्र क्रेचित् नामार्थप्रकारकभेदान्वयबोधं प्रति समानविशेष्यताप्रत्यासत्त्या प्रत्ययजन्योपस्थितेर्हेतुत्वकल्पनात् नामार्थप्रकार दिविशेष्यकेत्यादि । अानुपुर्वीरूपाकाङ्क्षायाः कारणत्वस्यावश्यकत्वेऽपि भेदान्वयबुद्धित्वं न कार्य्यतावच्छेदकन्तथा सति कार्य्यतावच्छेदकस्यैक्याद्राजपदाव्यवहितोत्तरङस्पदत्वराजपदाव्यवहितोत्तराम्पदत्वादिरूपानुपूर्वीज्ञानानां नानात्वात्परस्परजन्यबोधे व्यभिचारप्रसक्त्या तद्वारणार्थं राजनिष्ठभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितस्वत्वनिष्ठविशेष्यताकशाब्दबोधं प्रति राजपदाव्यवहितोत्तरङस्पदत्वरूपानुपूर्वीरूपाकाङ्क्षाज्ञानं कारणमित्येवं क्रमेणैव विशेष्यतावच्छेदकं कार्य्यतावच्छेदके निवेश्य तत्तदानुपूर्वीणां कारणत्वस्य वक्तव्यतया राजनिष्ठस्वत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितपुरुषनिष्ठविशेष्यताकशाब्दबोधं प्रति कस्यचिदानुपूर्वीज्ञानस्य कारणत्वाकल्पनात्तादृशबोधे आनुपूर्वीज्ञानविरहस्याकिञ्चित्करत्वादिति भावः । ___ अन्न केचिदिति । राज्ञः राजानमित्यादौ निरूपितत्ववृत्तिसम्बन्धावच्छिनराजनिष्ठप्रकारतानिरूपितस्वत्वकर्मत्वादिनिष्ठविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति ङस्प्रत्ययजन्यस्वत्वोपस्थितिरम्प्रत्ययजन्यकर्मत्वोपस्थितिः कारणमित्यादिक्रमेण विशेष्यस्य कार्यकारणकोटौ निवेशेनात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावस्वीकारे गौरवात् । लाघवेन विशेष्यतासम्बन्धेन नामार्थनिष्ठभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणमित्येव विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावो वक्तव्यः । तथा च न राजा पुरुष इति वाक्यात् स्वत्वसम्बन्धावच्छिन्नराजनिष्ठप्रकारतानिरूपितपुरुषनिष्ठविशेष्यताकः शाब्दबोधः विशेष्यता Page #121 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः कभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तु नामार्थान्तरस्य । तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरसत्त्वात्। न च सम्बन्धादेरपि नामार्थतया तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेष्यतया मानानुपपत्तिः, तत्तन्नामपदजन्यतत्तन्नामार्थप्रकारकशाब्दबोधत्वावच्छिन्नं प्रति प्रत्ययजन्योपस्थितित्वेन हेतुत्वेऽपि राजसम्बन्धः प्रमेयः राज्ञः पुरुष इत्येतादृशवाक्यद्वयजन्यवाक्यार्थद्वयान्वयबोधे पुरुषस्य राजसम्बन्धविशेष्यतया भानानुपपत्तिरिति वाच्यम् । प्रत्ययाधीनतत्तत्पदार्थोपस्थित्यजन्यतत्तत्पदार्थप्रकारकशाब्दत्वावच्छिन्नं प्रत्येव प्रत्ययजन्योपस्थितेः समानविशेष्यताप्र सम्बन्धेन पुरुपे प्रत्ययजन्योपस्थितेरभावात् । न च सम्बन्धादेरपीति । अयम्भावः । राज्ञः पुरुष इत्यादौ राजनिरूपितस्वत्वप्रकारकपुरुषविशेष्यकशाब्दबोधो न स्यात् । स्वत्वस्यापि सम्बन्धरूपनामार्थत्वं ततश्च तनिष्ठस्वरूपसम्बन्धावच्छिपप्रकारताको विशेष्यतासम्बन्धेन पुरुषे शाब्दबोधो न स्यात्तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरभावादिति । तत्तन्नामपदजन्येत्यादि । यन्नामार्थनिष्ठप्रकारताकः शाब्दबोधस्तन्नामपदजन्यस्य शाब्दबोधोऽपेक्षितः । प्रकृते सम्बन्धरूपनामार्थस्वत्वनिष्ठप्रकारताकत्वेऽपि सम्बन्धरूपनामपदजन्यत्वाभ वान्न तत्र बोधे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरपेक्षा। राजसम्बन्धः प्रमेयः राज्ञः पुरुष इत्येतादृशवाक्यद्वयजन्येति-अयं यः समहालम्बनात्मको वाक्यद्वयजन्यो बोधः सम्बन्धपदजन्यः सम्बन्धपदार्थस्वत्वप्रकारकश्चेति नत्र बोधे विशेष्यतया पुरुषस्य भानं न स्यात्तत्र प्रत्ययपदजन्योपस्थितेरभावात् । प्रत्यंयाधीनेति । तन्नामपदजन्यत्वं न देयं किन्तु प्रत्ययाधीनतदर्थोपरिपत्यजन्यो यस्तन्नामार्थप्रकारकः शाब्दबोधो विशेष्यतासम्बन्धेन तदुत्पत्तौ विशेष्यतासम्बन्धन प्रत्ययपदजन्योपस्थितिः कारणमुक्तसमूहालम्बनबोधस्य सम्बन्धरूपनामार्थस्वत्वनिष्ठप्रकारताकत्वेऽपि डस् Page #122 -------------------------------------------------------------------------- ________________ त्यासत्त्या हेतुत्वोपगमात् । अथैवमपि यत्र राजा पुरुष इत्यत्र पुरुषपदाधीनपुरुषोपस्थितौ प्रत्ययवशात्कश्चित्प्रत्ययार्थोऽपि विषयीभूतः तत्र प्रत्ययजन्यतथाविधसमूहालम्बनोपस्थितेर्विशेष्यतासम्बन्धेन पुरुषेऽपि सत्त्वात्तस्य राजप्रकारकान्वयबोधे विशेष्यतया भानापत्तिदुर्वारैव। न च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासम्बन्धेनोपस्थितेर्हेतुत्वोपगमान्नानुपपत्तिः। तादृशसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यताया नाम्न एव जन्यतावच्छेदकत्वादिति वाच्यम् । ज्ञानभेदेन विशेष्यताभेदे मानाभावात् । एवं च यत्र प्रत्ययाधीनस्वत्वोपस्थितिजन्यत्वस्यैव सत्त्वेन कार्य्यतावच्छेदकानाक्रान्तत्वान्न तत्र पुरुषभानानुपपत्तिः ।। ___ कार्यतावच्छेदकं विचार्य कारणकोटि विचारयति । अथैवमपोति । पुरुषेऽपि यत्र प्रत्ययजन्योपस्थितिविशेष्यतासम्बन्धेन वर्तते तत्र राजा पुरुष इति वाक्यात् पुरुषे भेदान्वयापत्तिः । पुरुषपदजन्यपुरुषोपस्थितौ प्रत्ययस्य कस्यचिच्छवणात्प्रत्ययार्थोऽपि विषयीभूतस्तादशसमूहालम्बनोपस्थितिय॑था पुरुषपदे जन्या तथा प्रत्ययपदजन्याऽपि तस्याश्च विशेष्यतासम्बन्धेन पुरुषे सत्त्वात् । यद्यपि समूहालम्बनात्मिका योपस्थितिस्तस्यां प्रत्ययपदजन्यत्वं पुरुषपदजन्यत्वञ्च तथापि प्रत्ययदजन्यतावच्छेदिका प्रत्ययार्थनिष्ठविषयतैव पुरुषपदजन्यतावच्छेदिका च पुरुषनिष्ठविषयतैव कारणतावच्छेदकसम्बन्धश्च न विशेष्यतामात्रमपि तु प्रत्ययपदजन्यतावच्छेदकीभूतविशेष्यता। एवञ्च प्रत्ययपदजन्यतावच्छेदकविशेष्यतासम्बन्धेन प्रत्ययपदजन्या सा समूहालम्बनोपस्थितिः प्रत्ययार्थे एव न पुरुषार्थ इति न तत्र राजभेदान्वय इति भावः । नाम्न एव जन्यतावच्छेदकत्वादिति । समहालम्बनोपस्थितीयपुरुषनिष्ठविषयतायाः पुरुषपदजन्यतावच्छेदकत्वमित्यर्थः । पुनरप्यापत्ति स्थापयति--ज्ञानभेदेन विशेष्यताभेद इति । अयं भाव:--- Page #123 -------------------------------------------------------------------------- ________________ कुत्र चित्प्रत्ययादव लक्षणादिना पुरुषाद्युपस्थितिस्तत्र तादृशोपस्थितिनिरूपितप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतात: पुरुषादिपदजन्यपुरुषाद्युपस्थितिविशेष्यताया अभिन्नतया तावताप्युक्तातिप्रसङ्गवारणासम्भवादिति चेत्-न । स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धेनैवोपस्थितेहेतुतयोक्तसमूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतायाश्च तादृशोपस्थितिजनकज्ञानीयात्ययवृत्तिप्रकारतानिरूपितविशेष्यतासामानाधिकरएयविरहान्नातिप्रसङ्ग इति वदन्ति । तदसत् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य दुर्वचतया उक्तकार्य कुत्रचित् लक्षणादिना प्रत्ययादेव पुरुषत्वावच्छिन्नोपस्थितिस्तत्र प्रत्ययपदजन्यतावच्छेदकीभूता पुरुषत्वावच्छिन्ना विशेष्यता सा निरुक्तसमूहालम्बनोपस्थितीयपुरुषत्वावच्छिन्ना विशेष्यताऽवच्छेदकैक्यादेकैव तन्निरूपकोपस्थित्यो देऽपि विषयत भेदे मानाभावात् । ततश्च प्रत्ययपदजन्यतावच्छेदकीभूता पुरुषत्वावच्छिन्ना तेन सम्बन्धेन प्रत्ययपदजन्यनिरुक्तसमूहालम्बनोपस्थितेः पुरुष सत्त्वाद्राजभेदान्वयापत्तिः । आपत्तिम्वारयति-स्वजनकज्ञानीयेत्यादिना । स्वं समूहालम्बनोपस्थितिस्तज्जनकं वृत्तिज्ञानं वाच्यत्वसम्बन्धेन पुरुषः पुरुषपदवानिति ज्ञानं प्रत्ययार्थः । वाच्यत्वसम्बन्धेन प्रत्ययवानित्याकारकञ्च तज्ज्ञानी पप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यता प्रत्ययार्थनिष्ठा तद्वैशिष्ट्यं सामान धिकरण्यसम्बन्धेन पुरुषनिष्ठविशेष्यतायामभावात् । स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेन पुरुषे प्रत्ययजन्योपस्थिति स्तीति न पुरुषे राजान्क्य-इति बोध्यम् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्येति । इदमग्रे स्पष्टम् । न च प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य ज्ञातुमशक्यत्वेऽपि वस्तुतो या प्रत्ययवृत्तिप्रकारता तन्निरू Page #124 -------------------------------------------------------------------------- ________________ 'कारणाभविकल्पनाया असम्भवात् । राजसम्बन्धः पुरुष इत्यादौ सम्बन्धादिपदे ङस्पदत्वादिभ्रमदशायां सम्बन्धादिविशेष्यकराजादिपदार्थप्रकारकान्वयबोधानुपपत्तेः । राज्ञः पुरुष इत्यादौ ङस्पदादिषु सम्बन्धादिपदत्वभ्रमदशायां सम्बन्धांशे राजादिपदार्थप्रकारकान्वयबोधापत्तेश्च । न च प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः, कारणात्वादेतदोषद्वयस्य नावकाश इति वाच्यम् । राज्ञः पुरुष इत्यादौ षष्ठयादेः प्रत्ययत्वाद्यनुपस्थितिद S पितविशेष्यतासम्बन्धेनेत्येवमुच्यमाने दोषमाह-राजसम्बन्धः पुरुष इत्यादि । सम्बन्धपदे ङस्त्वभ्रमेऽपि तदृत्तिप्रकारतायां प्रत्ययवृत्तित्वविरहात्। ङस्पदादिषु सम्बन्धादिपदत्वभ्रमदशायामिति । तत्रं वस्तुतः प्रत्ययवृत्तिप्रकारतायास्सत्त्वादिति भावः । न च प्रत्ययत्वेन ज्ञातमिति । सम्बन्धपदे प्रत्ययत्वेन ज्ञाते तद्वृत्तिप्रकारतायाः प्रत्ययत्वेन ज्ञातवृत्तित्वात्। ङस्पदे सम्बन्धत्वेन ज्ञातेऽपि तद्वृत्तिप्रकारतायाः प्रत्ययत्वेन न ज्ञातवृत्तित्वाविरहादुक्तदोषव्याभाव इति बोध्यम्। प्रत्ययत्वाद्यनुपस्थितिदशायामिति । ङसादौ प्रत्ययत्वाज्ञानदशायामपि शाब्दबोधस्येष्टस्य न स्यादिति बोध्यम् । न च प्रत्ययत्वव्याप्यधर्मेण राजसम्बन्ध इत्यादि । इदञ्चाभ्युपेत्योच्यते प्रत्ययत्वस्यानुगमेऽपि इदं दूषणद्वयं दुरुद्धरमेति भावः । वस्तुत इदं तुच्छमनुगतं भवेच्चेत् प्रत्ययत्वम् । वस्तुतो य प्रत्ययः तद्वृत्तिर्या आनुपूर्वी तत्प्रकारेण ज्ञातं यत्तज्जन्योपस्थितेः कारणत्वकल्पने यत्र तु सपदस्यैव सम्बन्धपदत्वेन ज्ञानं तत्र प्रत्ययवृत्त्यानुपूर्वीप्रकारेण ज्ञानाभावात् । यत्र च सम्बन्धपदस्य ङस्त्वेन ज्ञानन्तत्र तेन रूपेण ज्ञानात् । अतिव्याप्त्यव्याप्त्योरभावात् प्रत्ययत्वेन ज्ञानस्य चानुपयोगात् । तस्मादननुगतत्वमेव दोषो युक्त इति । Page #125 -------------------------------------------------------------------------- ________________ शायामपि आनुपूर्वीविशेषप्रकारकज्ञानाधीनतदर्थोपस्थितिसत्त्वे शाब्दबोधोत्पत्त्या प्रत्ययत्वप्रकारकज्ञाननिवेशासंभवात् । इदं पुनरत्र तत्त्वम् । राजा पुरुष इत्यादौ पुरुषादिविशेष्यकराजादिप्रकारकभेदान्वयबोधस्याऽप्रसिद्धयैव नापत्तिसंभवः। यत्र पष्ठयादिविभक्तेरेव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषाधुपस्थितिस्तत्र तद्विशेष्यकराजादिपदार्थप्रकारकभेदान्वयबोधःप्रसिद्ध एवेति चेत्तर्हि ताशबोधे तथाविधप्रकृतिप्रत्ययानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानसहकृततत्तद्विभक्तिजन्यपुरुषाद्युपस्थितिघटितसामग्रथा एव तादृशवोधोत्पत्तिनियामकतया तुदभावादेव न तदापत्तिः ।, अल एच स्वत्वादिसम्बन्धन राजादिविशिष्टपुरुषादितात्पयकतदादिपघटितात् स सुन्दर इत्यादि वाक्यात्पुरुषादिविशेष्यकस्वत्वादिसंसर्गकराजादिप्रकारकशाब्दबोधस्य च प्रसिद्धया राजा पुरुषः सुन्दर इत्यादी पदार्थोपस्थितियोग्यताज्ञानादिबलात्तादृशशाब्दबोधापत्तिरित्यपि निस्तम् । स सुन्दर इत्यादिवाक्याधीनशाब्दबोधसामग्यास्तत्पदत्वादावच्छिन्नविशेष्यकसुन्दरादिपदसमभिव्याहारज्ञानसहकृततदादिपदजन्यतादृशविशिष्टार्थोपस्थितियोग्यताज्ञानादिघटिततया तदभावादेवापत्त्यभावात् । अथैत्तादृशरीत्यापत्तिवारणे राज्ञः पुरुष इत्यादौ स्वत्वादिसम्बन्धेन पुरुषादौ 4निन"" ज्ञात इत्युक्तौ न दोष इति वाच्यम् । ङस्त्वाद्यानुपूर्वीतितद्वयक्तित्वप्रकारेण ज्ञातेऽपि शाब्दबोधापनेः प्रत्ययत्वव्याप्यत्वयोरज्ञाने शाब्दबोधानापत्तेश्च । 'इत्थं काशीविश्वेश्वरसायुज्यलाभादेकादशदिनपूर्वं यावत् जयां विरचयन्त एव सन्निप तज्वराभिभूताः पितृचरणाः फाल्गुनकृष्णदशम्यां चन्द्रे नेत्रवसूरत्नभमिते (१९८२) वैक्रमाब्देऽत्रैव निवत्ताः । -...---- -- Page #126 -------------------------------------------------------------------------- ________________ ११८ व्युत्पत्तिवादः . [ कारके राजाद्यन्वयबोधस्वीकारेऽपि क्षतिविरहादुक्तव्युत्पत्तिनियुक्तिका। विभक्तीनां सम्बन्धादिवाचकत्वमपि नियुक्तिकम्। नीलो घट इत्यादौ विशेषणवाचकपदसमभिव्याहृतविभक्तेरिव सर्वविभक्तीनां साधुत्वमात्रार्थकत्वस्यैवोचितत्वात् । न हि तत्र तथाविधान्वयबोधोपगमे तत्स्थलीयसामग्रीवलाद्राजा पुरुष इत्यादिष्वपि तथाविधान्वयबोधप्रसङ्गः संभवति । तत्स्थलीयसामग्यः षष्ठयन्तराज पदत्वाद्यवच्छिन्नधर्मिकपुरुषादिपदसमभिव्याहाररूपाकाङ्क्षाज्ञानघटिततया तदभावादेव तत्र तादृशसामग्ऱ्या अभावात् । एवं च राजपुरुष इत्यादिसमासे राजादिपदस्य राजसम्बन्ध्यादौ लक्षणास्वीकारोऽपि व्यर्थः। तत्र भेदान्वयबोधस्वीकारेऽपि क्षतिविरहात् । नच-तत्र भेदान्वयबोधाभ्युपगमे तत्स्थलीयसामग्रीबलाद्राजा पुरुष इत्यादावपि तादृशान्वयबोधापत्तिरिति वाच्यम् । तत्स्थलीयशाब्दबोधे राजादिपदाव्यवहितोत्तरपुरुषादिपदत्वरूपानुपूर्वीविशेषज्ञानस्य हेतुतयाऽसमासस्थले पुरुषादिपदस्य विभत्त्या राजादिपदव्यवहितत्वात्तादृशानुपूर्वीविशेषज्ञानासंभवेन तत्र तादृशबोधसामग्या अप्रसिद्धः । न च प्रकृतिप्रत्यययोरानुपूर्वीविशेषरूपस्याकाङ्क्षात्वात्प्रातिपदिकद्वयाव्यवधानघटितोक्तानुपूर्वीविशेषज्ञानस्य हेतुत्वमेव निष्प्रामाणिकमिति काच्यम्। ____ भवन्मतेऽपि राजपुरुष इत्यादौ यादृशसामग्रीबलाद्राजपदार्थराजसम्बन्धिपुरुषपदार्थयोरभेदान्वयबोधस्तादृशसामग्रीवलाद्राज्ञः पुरुषः इत्यादावपि राजादिपदरय राजसम्बन्ध्यादौ लक्षणाग्रहसत्त्वे तादृशाभेदान्वयबोधप्रसङ्गवारणाय तथाविधानुपूर्वीविशेषज्ञानस्य समासजन्यबोधे हेतुताकल्पनस्यावश्यकत्वात् ।। अस्माभिर्भेदान्वयबोध एव तादृशानुपूर्वीवि रोपज्ञानस्य हेतुतायाः कल्पनीयत्वात् । न चोभयमत एव राजसम्बन्धिनि राजपदस्य स्वारसिकलक्षणाग्रहेण राजपुरुष इत्यत्र राजसम्बन्धिपुरुष Page #127 -------------------------------------------------------------------------- ________________ योरभेदान्वयबोधी भवति । इयांस्तु विशेषो यदस्मन्मतेऽसौ समासः पष्ठीतत्पुरुषो' भवन्मते कर्मधारय' इति । एवं च पुरुषविशेष्यकाभेदसंसर्गकराजसम्बन्धिप्रकारकबोधे राजपदाव्यवहितोत्तरवर्तिपुरुषपदत्वप्रकारकज्ञानत्वेन हेतुत्वमुभयवादिसिद्धमेव । भेदान्वयवोधे तादृशानुपूर्वीज्ञानहेतुताकुल्पनमधिकमिति वाच्यम् । उक्ताभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्दान्तटितानुपूर्वीज्ञानजन्यतथाविधाभेदान्वयबोधे व्यभिचारवारणाय तादृशानुपूर्वीज्ञानानन्तर्यस्य कार्यतावच्छेदककोटाववश्यं निवेशनीयतया तत्र' विषयनिवेशे प्रयोजनाभावेन तादृशकार्यतावच्छेद नकाराकलाप उक्ताभदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्देत्यादोति। ननु विषयमनिवेश्य राजपुरुष इत्याद्याकांक्षाज्ञानाव्यवहितोत्तरजायमानशाब्दत्वावच्छिन्नं प्रति राजपुरुष इत्याद्याकांक्षाज्ञानस्य कारणत्वोपगमे राज्ञः पुरुष इत्यादौ राजपदस्य राजसम्बन्धिनि स्वारसिकलक्षणाग्रहदशायामभेदसम्बन्धावच्छिन्नराजसम्बन्धित्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिनविशेष्यताकस्य राजपुरुष इत्यादौ प्रसिद्धस्य तात्पर्य्यज्ञानादिघटितसामग्रीबलादापादने तद्धविच्छिन्नकार्यानुत्पादकस्य राजपदाव्यवहितोत्तरत्वविशिष्टपुरुषपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानशाब्दत्वावच्छिन्नकायं प्रति कारणस्य राजपुरुष इत्याकारकाकाङ्क्षाज्ञानस्य विरहोकिञ्चित्कर इति तात्पर्य्यज्ञानोपस्थित्यादिघटितसामग्रीबलात्तादृशका-पत्तिर्दुर्वारा । न च तादृशकायं प्रति राजपुरुष इत्याकारकाकाङ्क्षाज्ञानोत्तरशाब्दत्वा 'षष्ठयर्थविशिष्टार्थलाक्षणिकपूर्वपदकसमासत्वमेव तत्त्वमिति भावः । २ विभिन्नधर्मेण एकम्मिबोधकपदघटितसमासत्वमेव तत्त्वमिति भावः। तत्रेति-भेदविषयकत्वाभेदविषयकत्वनिवेशे शाब्दबोध इति भावः। Page #128 -------------------------------------------------------------------------- ________________ १२० व्युत्पत्तिवादः [ कारके कस्यैव भेदान्वयबोधसाधारण्येनानुपूर्वीज्ञानस्य भेदान्वयबोधे हेतुतायाममाभिनयात् । एवं तण्डुलं पचतीत्यादावपि पाकादिरूपधात्वर्थे कर्मत्वादिसम्बन्धेन तण्डुलादेरन्वयबोधः स्वीकर्तुमुचितः । कर्मत्वस्य पाकाद्यंशे प्रकारत्वे तत्र तत्र द्वितीयादेः शक्तिकल्पने ताशवाक्यजन्यशाब्दबोधे कर्मत्वादिसंसर्गस्याधिकस्य विषयताकल्पने च गौरवात् । तम्बुलं पचतीत्यादिवाक्यजन्यशाब्दबोधसामग्रीबलात्तण्डुलः पचतीत्यादावपि तथाविधान्वयबोधापत्तिस्तु न संभवति । तादृशान्वयबोधे द्वितीयान्ततण्डुलपदत्वाद्यबच्छिन्नधर्मिकपचतीत्यादिसमभिव्याहारज्ञानस्य हेतुतया तण्डुलः पचतीत्यादौ तादृशसामग्ऱ्या अप्रसिद्धेः । एवं पञ्चति चैत्र इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यंशेऽन्वयबोधस्वीकार उजितः। अन्यथोक्तरीत्या गौरवात्। तत्र तादृशान्वयबोधस्वीकारे तत्स्थलीयसामग्रीबलात् पच्यते चैत्रः पाकश्चैत्र इत्यादौ तथाविधान्वयवोधापत्तेरप्युक्तरीत्या वारणसंभवादिति। ___ मैवम् राज्ञः पुरुष इत्यादौ षष्ठयादेः स्वत्वादिवाचकत्वमावश्यकम् । अन्यथा पुरुषोन राज्ञ इत्यादौ पुरुषे राजस्वत्वाद्यभावबोधानुपपत्तेः। न हि तत्र स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजा वच्छिन्नस्य कार्य्यस्य व्यापकता येन व्यापकसामग्रीविधया राजपुरुष इत्याकाङ्क्षाज्ञानस्यापेक्षा तदापादने स्यात् । नृपपुरुष इत्यादावपि तादृशशाब्दबोधस्य सत्त्वात् इति चेत्-उच्यते । यादृशान्यतमसमनैयत्यं यस्य कार्यस्य तादृशकार्योत्पत्तौ तादृशान्यतमस्य सामग्री अपेक्ष्यते । प्रकृते च राजपुरुषः नृपपुरुष इत्याद्याकाङ्क्षाघटितप्रदर्शितका-न्यतमसमनै यत्यस्यापाद्यमानकार्ये सत्त्वात्तदुत्पत्तौ तदन्यतमस्य राजपुरुष इत्याद्याकाङ्क्षान्यतमस्यापेक्षणात्तद्विरहान्नापत्तिरिति बोध्यम् । अत्रेदं बोध्यं-विषयनिवेशो युक्तः । Page #129 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १२१ द्यभाव एव प्रतीयते न तु राजस्वत्वाद्यभाव इति संभवति । स्वत्वादिसंबन्धस्यवृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धः। अत एक-स्वामित्वादिकं परित्यज्य स्वत्वादेः षष्ठ्यर्थत्वं नवीनाः स्वीकुर्वन्ति । स्वामित्वादेःषष्ठ्यर्थत्वे तस्य निरूपकतासम्बन्धेन धनांशेऽन्वयसम्भवेऽपि तादृशसम्बन्धस्य वृत्तयनियामकतया संसर्गाभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नाभावस्य नत्रा प्रत्यायनासम्भवात्। प्राचलासंबन्धाद्यवच्छिन्नाभावबोधस्यैतादृशसमभिव्याहारस्थलेऽभ्युपगमे चैत्रादिसंबन्धिनि धनेऽपि आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकचैत्रवृत्तिस्वामित्वाभावसत्त्वान्नेदं चैत्रस्येति प्रयोगशापत्तिः । नाम नब्समभिव्याहारस्थलान्वयबोधानुरोधेन षष्ठयादेः स्वत्वादिवाचकत्वेऽपि राज्ञः पुरुष इत्यादौ षष्ठ्याद्यर्थस्य संसर्गमर्यादयाभानमुचितम् । तस्य-प्रकारत्वोपगमे तत्सम्बन्धस्याधिकस्य भानकल्पने गौरवात् । नङ्समभिव्याहारस्यैव तत्प्रकारकबोधनियामकत्वाभ्युपगमेन सामग्रीबलात् तत्प्रकारकबोधस्य तदसमभिव्याहारस्थलेऽ तृणारणिमणिन्यायस्थले परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वनिवेशे तृणाव्यवहितोत्तरवह्नित्वापेक्षया लाघवात्तृणाव्यवहितोत्तरप्रमेयत्वतदव्यवहितोत्तरत्वादेः कार्य्यतावच्छेदकत्ववारणाय विशेषधर्मावच्छिन्नं प्रति कारणत्वसम्भवे सामान्यधर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वमवश्यं वक्तव्यम् । एवं स्थिते अभेदसम्बन्धावच्छिन्नराजसम्बन्धित्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नत्वे का यंत्वे सम्भवति प्रदर्शितसामान्यधर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वमिति स्यात् । तस्मादेतद्ग्रन्थ एतदप-लोचनयैव बोद्धयः । Page #130 -------------------------------------------------------------------------- ________________ संभवादिति कायम् । एवं सतिं नजपदं विना यादृशसमभिव्याहारस्थले यत्र धर्मिणि येन सम्बन्धेन यस्य विशेषणतया भानं तत्र नसमभिव्याहारस्थले तद्धर्मिणि तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावः प्रतीयते इति सर्वजनसिद्वानुभवस्यापलापापत्तेः । एवं सर्वजनसिद्धानुभवस्यापलापापत्तेरिति । वस्तुतोऽत्र नैतत् व्युत्पत्तिविषयता अन्यथा भूतले घट इत्यत्र घटे भूतलवृत्तित्ववता प्रतीयते । नञ् प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमावित्यनुभवार्थ प्रकाशयति-नञ्पदं विनेत्यादिना । अस्य फलन्तु पचत्यपि चैत्रे न याचतीति प्रयोगवारणम् । अन्यथा समवायसम्बन्धेन पाकानुकूलकृतिमत्यपि चैत्रे संयोगेन पाकानुकूलकृत्यभावबोधनं सम्भवेत् । नन्वेवं भूतले घट इत्यादौ भूतलनिरूपितवृत्तित्ववान् घट इत्यर्थात् नञ्पदं विना एतादृशसमभिहारस्थले घटरूपर्मिणि स्वरूपसम्बन्धेन न वृत्तिताया विशेषणता तत्र नसमभिव्याहारे स्वरूपसम्बन्धावच्छिन्नवृत्तित्वावच्छिन्नाभाव एव प्रतीयतां 'पटे कथं घटाभावो भूतलवृत्तिरिति प्रतीयते इति चेत्सत्यम् । नञ्समभिव्याहारे यद्धविच्छिनयत्सम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वं सम्भवति तस्य नसमभिव्याहारे नअर्थाभावनिष्ठविशेष्यतानिरूपितप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वेन यदि सजिघृक्षितः तदा तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजक एव भवतीत्यर्थः। अत एव घटो न घट इत्यादौ शब्दानुमितिवारणार्थयत्नः सार्थकः । एवञ्च भूतलवृत्तिता न तादृशप्रकारताप्रयोजकत्वेनाभिमता यदि चेदभिमता तदा नियमविषयता स्यात् । इत्थं सति प्रकृते यदि राजप्रतियोगिताकोऽभावो बुबोधयिषितश्चेत्तदा नियमस्य विषयः स्यात् । बुबोधयिषितश्च राजस्वत्वप्रतियोगिताकाभाव इत्येवं नियमाविषये को दोष इत्यरुचेराह Page #131 -------------------------------------------------------------------------- ________________ राज्ञः पुरुष इत्यादिवाक्यजन्याप्रामाण्यज्ञानानास्कन्दितबोधदशायां समभिव्याहारे च नअर्थाभावे घटस्य प्रतियोगितयान्वयः । भूतलवृत्तित्वस्य चाश्रयतया अन्वयस्था च घटाभावो भूतलवृत्तिरिति प्रतीयते । एवं घटो न घट इत्यत्र घटत्वावच्छेदेन घटत्वावच्छिन्नप्रतियोगिताकाभावप्रकारकानुमितिशाब्दयोर्वारणाय कारणान्तरं न कल्पनीयमिति फलत्वेनोपन्यस्तम् । तत्रापि नञोऽसमभि व्याहारे घटत्वावच्छेदेन तादात्म्येन घटवत्ताप्रतीतेरभावात्तदवच्छेदेन तदभावस्य नञा प्रत्याययितुमशक्यतया तादृशानुमितिशाब्दयोरप्रसङ्गात्तदु केतश्चासङ्गतैव स्यात् । तस्मात् यत्र धर्मे यत्सम्बन्धावच्छिन्नयद्धविच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दत्वावच्छिन्नं प्रति साकाङ्क्ष यद्वाक्यं तेन वाक्येन नघटितेन तद्धर्मावच्छिन्ने तद्धविच्छिन्नप्रतियोगिताकाभावश्चेद्बोधनीयस्तदा तत्सम्बन्धावच्छिन्नप्रतियोगिताक एवाभावो बोध्यते । इत्येव प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमावित्यस्यार्थः । प्रतियोगितायां तद्धविच्छिन्नत्वन्तु अभावावगाहिबोधस्य विशिष्टवैशिष्ट्यावगाहित्वेन लभ्यते । तथा च घटो न घट इत्यादौ तादृशबोधो न भवति तद्धर्मभेदस्य कारणत्वात् । परं तादृशबोधं प्रत्याकाङ्क्षाऽस्त्येवेति न दोषः। मतले न घट इत्यत्र घटत्वावच्छेदेनाभावो बोधनीय एव नास्तीति न दोषः । एवं प्रकृतेऽपि यदि पुरुषत्वावच्छेदेन राजत्वावच्छिन्नाभावबोधरचेदभिप्रेतस्तदैवानेन नियमेन स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकत्वमभावस्य स्यात्त देव नेति इत एवारुचेराह--अप्रामाण्यज्ञानेत्यादि । राज्ञः पुरुष इत्या देति । अप्रामाण्यज्ञानानास्कन्दितराजत्वावच्छिन्नस्वत्वसंसर्गावच्छिन्नप्रकारताकपरुषत्वावच्छिन्नविशेष्यताकशाब्दबद्धित्वावच्छिन्नं प्रति अप्रामाण्यज्ञानागास्कन्दितराजत्वावच्छिन्नस्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्ना भावीयविशेषणतासम्बन्धावच्छिन्नाभावनिष्ठप्रका Page #132 -------------------------------------------------------------------------- ________________ १२४. व्युत्पत्तिवादः [ कारके पुरुषो न राज्ञ इत्यादिवाक्यादपि शाब्दबोधापत्तेः स्वत्वाभावबुद्धौ तेन सम्बन्धेन तद्वत्ताबद्धि प्रति तेन सम्बन्धेन तदभाववत्ताबुद्धिरेव प्रतिबन्धिका न तु तत्प्रतियोगिकतत्सम्बन्धाभाववत्तापीति तदभावव्याप्यवत्तामुद्रया च तत्र तदभावव्याप्यत्वनिश्चये एव प्रतिबन्धकता । यस्य च व्याप्यत्वनिश्चयो नास्ति तस्य च भवत्येव ज्ञानद्वयम् । इति राजस्वत्वाभावे स्वत्वेन राजा भावव्याप्यत्वनिश्चयाभावेऽपि राज्ञः पुरुष इत्यतो ज्ञानदशायां राज्ञो न पुरुष इति वाक्याबोधो नेष्यते । स च स्यादिति भावः । रतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धित्वेनैव प्रतिबन्धकता भवितुमर्हति । न तु तादृशबुद्धित्वावच्छिन्नं प्रति स्वरूपसंसर्गावच्छिन्नराजस्वत्वत्वावच्छिन्नप्रतियोगिताकाभावीयविशेषणतासम्बन्धावच्छिन्नाभावत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताबुद्धित्वेन प्रतिवन्धकता भवति मानाभावात् । ननु पुरुषो न राज्ञ इत्यादावपि स्वत्वादिसंसर्गावच्छिन्नाभावस्यैव प्रतीत्या प्रतिबन्धकता भवतु भवदभिलषिता इति चेत् वृत्तिनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वाभ्युपगमे वृत्त्यनियामकश्चाधारतानवच्छेदक इति यावत् । राज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्रीसमये राजस्वत्वाभाववान् पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षः प्राप्तः नहि राजस्वत्वाभाववान् पुरुषत्वप्रकारकनिश्चयस्य तादृशसामग्रीबाधनिश्चयत्वं तस्य बाधाभावात् । एवञ्च विशेष्यतावच्छेदकादिप्रकारकनिश्चयादिकारणकलापात् प्राप्ततादृशप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्येतादृशशाब्दसामग्रयाः प्रतिबन्धकताकल्पनेन भवतां गौरवम् । न च प्रकारतावादिमते तादृशप्रतिबन्धकताप्रयोजनं तस्य राजस्वत्ववान् पुरुष इत्येतदर्थकराज्ञः पुरुष इत्येतादृशशाब्दसामग्रीकाले राजस्वत्वाभाववान् Page #133 -------------------------------------------------------------------------- ________________ स्वत्वसंसर्गकज्ञानस्य विरोधित्वे मानाभावात्। किञ्च वृत्त्यनियाम वृत्यनियामक सम्बन्धस्याभावीयप्रतियोगितानवच्छेदकत्वादिति । अयम्भावः । स्वत्वनिरूकत्वादिनानासम्बन्धावच्छिन्नप्रतियोगिकाभावकल्पनायां गौरवमिति । न च स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावकल्पनायां भवता मपि सत्त्वेनोभयोः साम्यमिति वाच्यम् । राजनिरूपितस्वत्वन्नास्तीत्यादौ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकराजनिरूपितस्वत्वाभावकल्पनाया भवतामप्यावश्यकत्वेन दंशे साम्येन निरूपकत्वस्वत्वादिसम्बन्धावच्छिन्नाभावकल्पना भवतामधिकति न वृत्त्यनियामकस्य प्रतियोगितावच्छेदकत्वमिति । यद्यपि स्वत्वर म्बन्धेन राजाभावस्य स्वरूपसम्बन्धेन राजनिरूपितस्वत्वाभावस्य चैकदेशवृत्तितयाऽतिरिक्तपदार्थानिवेशान्न गौरवं समनियतवस्तुन ऐक्यात् तथाऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताकल्पनायां गौरवस्य तदवस्थत्वात् तत्कलनया निःफलत्वाच्च । किञ्च येन सम्बन्धेन यद्वत्ताबुद्धिः यत्र प्रवृत्तिप्रयोजिका भवति तत्सम्बन्धावच्छिन्नावच्छिन्नप्रतियोगिताकतदभावस्य तदप्रवृत्त्युप मोगितया कल्पनमावश्यकं भवति । स्वत्वादिसम्बन्धेन तद्वत्ताबुद्धिस्तु न तत्र तत्प्रवृत्तिप्रयोजिकेति । तत्सम्बन्धेन तदभावस्य तत्र तदप्रवृत्त्यनुपयोगितया तत्कल्पनन्नावश्यकमिति बोध्यम् । ननु वृत्त्यनिया मकस्य प्रतियोगितानवच्छेदकत्वे अणुपरिमाणान्न घट: गुणन्न गच्छतीत्यादौ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाणुपरिमाणाभाववज्जन्यत्ववान् घट इति वृत्तित्वसम्बन्धाप्रतियोगिताकगुणाभाववत्सं पुरुषत्वादिविशेष्यता बच्छेदकनिश्चयाभावेन विशिष्टबुद्धौ विशेषणबुद्धे :कारणत्वम् । विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति विशेष्यतावच्छेदकादिप्रकारकनिश्चयस्य कारणत्वात् । तदभावादेव एकसमये तदुभयोरसत्त्वान्न प्रतिबन्धकताप्रयोजनं न च संसर्गतावादिमतेऽप्येकविधप्रतिबध्यप्रतिबन्धकभावेनैव Page #134 -------------------------------------------------------------------------- ________________ १२६ व्युत्पत्तिवादः [ कारके योगानुकूलव्यापारवानिति बोधद्वयोरनापत्तिरिति चेन्न। तत्राणुपरिमाणस्याणुपरिमाणनिरूपितत्वे गुणस्य गुणवृत्तित्वे च लक्षणया स्वरूपसम्बन्धेनाणुपरिमाणनिरूपितत्वाभाववज्जन्यत्ववान् घट इति बोधस्य स्वरूपसम्बन्धेन गुणवृत्तित्वाभाववत्संयोगानुकूलव्यापारवानिति बोधस्य च वक्तुं शक्यत्वेनादोषात् । न चाणुपरिमाणान्न गगनमित्यादौ दोषः। जन्यत्ववत्वस्य गगनेऽसत्त्वादिति वाच्यम् । नअर्थाभावस्य द्विधाभानेनादोषात् । स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाणुपरिमाणनिरूपितत्वाभाववज्जन्यत्वाभाववद्गगनमिति बोधः। न च नअर्थस्य द्विधा भानमेव गौरवमिति वा गणो गुणन्न गच्छतीत्यादौ भवतामपि तथा कल्पनाया आवश्यकत्वात । अन्यथा गुणवृत्तित्वाभाववत्संयोगानुकूलव्यापारवत्वस्य गुणेऽप्रसिद्धतया बोधानापत्तेः । गुणादीनां येन सम्बन्धेन यद्धर्मिणोति । नन्वेवं नियमो यदि स्यातहि संसर्गतावादिनां दोषः स्यात् तदेव न भूतले न घट इत्यादौ तात्पर्य्यसत्त्वे घटनिष्ठप्रतियोगिताकाभावो भूतलवृत्तिरित्येवमपि बोधदर्शनादन्यथा नोऽसत्त्वे भूतलवृत्तित्ववान् घट इत्यस्यैव प्रतीत्या नञः सत्त्वे भूतलवृत्तित्वाभाववान् इत्येवं रूपेणैव बोधः स्यान्न तु घटत्वावच्छिन्नप्रतियोगिताकाभावो भूतलवृत्तिरेवमिति । किञ्च घटो न घट इत्यादौ तादात्म्यसम्बन्धावच्छिन्नघटत्वावच्छिनप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताकघटत्वावच्छिन्नविशेष्यताकशाब्दबोधवारणाय तत्सम्बन्धावच्छिन्नतद्धविच्छिन्नप्रतियोगिताकाभावत्वाप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति प्रतियोगितावच्छेदकविशेष्यतावच्छेदकयोर्भेदः कारणमिति ग्रन्थकारेणैव निर्वाहः । तथा हि घटवद्भूतलमित्येतादृशप्रत्यक्षत्वावच्छिन्नं प्रति तादृशशाब्दसामग्रयाः प्रतिबन्धकतायास्तवापि अवश्यं कथनीयत्वात् । एवञ्च विभिन्नविषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्येतादृशवाक्यजन्यशाब्दसामग्री प्रतिबन्धकेति चेन्न । शाब्दसामग्री प्रत्यक्षप्रतिबन्धिका भवति । Page #135 -------------------------------------------------------------------------- ________________ १२७ कसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि राज्ञः पुरुष इत्यादौ प्रथमा ] जयाऽलङ्कृतः स्वीकृतमस्ति । निरुक्तनियमासत्त्वे तु तादात्म्यसम्बन्धेन घटे घटवत्ता नञोऽसत्त्वेन प्रतीयते इति नञः सत्त्वेऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावप्रकारकबोधो न स्यादेवेति तादृशशाब्दबोधवारणाय ग्रन्थकारप्रयासोऽपि व्यर्थतामेव व्रजेत्तस्मान्नञोऽसत्त्वे तत्सम्बन्धावच्छिन्नतद्धर्म्मावच्छिन्नप्रकारताकशाब्दबोधं प्रति साकाङ्क्ष यद्वाक्यन्तेन नञ्घटितेन तद्धर्म्मावच्छिन्नप्रतियोगिताकाभावश्चेद्बुबोधयिषतस्तर्हि तत्सम्बन्धावच्छिन्नप्रतियोगिताक एवेत्येव नियमस्तथा च यत्र द्रव्यस्य घटपदेन ग्रहणन्तत्र तादात्म्यसम्बन्धावच्छिन्नप्रकारताकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधो घटो घट इत्यादिवाक्यादपि भवतीति तादृशशाब्दबोधं प्रति साकाङ्क्षेन नञ्घटितेन वाक्ये घटत्वावच्छिन्नप्रतियोगिताकाभावोऽपि विवक्षित इति तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकस्तादृशाभावत्वावच्छिन्नप्रकारताकशाब्दबोधवारणाय तादृशकार्य्यकारणभावोऽवश्यकः । एवं नञोऽसत्त्वे स्वरूपसम्बन्धेन भूतलवृत्तित्ववान् घट इति प्रतीयते । इति तादृशशाब्दबोधं प्रति साकाङ्क्षेन भूतले घट इति वाक्येन नघटितेन न भूतलवृत्तित्वावच्छिन्नप्रतियोगिताकाभावो विवक्षितः किन्तु घटत्वावच्छिन्नप्रतियोगिताक इति नियमाना - क्रान्ततया न तत्रापि शाब्दबोधानापत्तिरिति । एवञ्च स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इति शाब्दबोधं प्रति साकाङ्क्षन नञ्घटितेन राज्ञो न पुरुष इति वाक्येन राजत्वावच्छिन्नप्रतियोगिताकाभावो विवक्ष्यते । अपि तु राजस्वत्वत्वावच्छिन्नप्रतियोगिताक इति नियमानाक्रान्ततया न नियमतो विरोध इत्यरुचेराह —- राज्ञः पुरुष इत्यादि । तत्सम्बन्धावच्छिन्न यदि तु प्रत्यक्षेच्छाऽस्ति शाब्देच्छा च नास्ति तत्र प्रत्यक्षं भवति । यत्र चोभयोरिच्छाऽस्ति तत्र शाब्दसामग्री प्रतिबन्धिका भवतीति वस्तुस्थितिः । Page #136 -------------------------------------------------------------------------- ________________ राजस्वत्वादेः प्रकारताभ्युपगमः समुचितः। अन्यथा तांहशसमभिव्याहारज्ञानघटितशाब्दसामग्रीकाले राज बत्वाभाववान्पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षवारणाय तत्र तादृशसामग्र्याः प्रतिबन्धकताकल्पनाधिक्येन गौरवात्। 'तद्धविच्छिन्नप्रकारतानिरूपिततद्धविच्छिन्नविशेष्ाताकशाब्दबुद्धित्वावच्छिन्नं प्रति तेन सम्बन्धेन तद्धर्मावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताकतद्धविच्छिन्नविशेष्यताकबुद्धेरेव प्रतिबन्धकत्वादिति भावः । यद्यपि राजभावव्याप्यवत्तामुद्रया राजस्वत्वाभाववा पुरुष इति बुद्धेरपि स्वत्वसम्बन्धेन राजवान् पुरुष इति बुद्धि प्रति प्रतिबन्ध कत्वमस्त्येव तथाऽपि व्याप्यत्वाग्रहदशायामपि प्रतिबन्धकत्वमिष्टन्तन्न स्या दित्याशयेन ग्रन्थप्रवृत्तिरिति न ग्रन्थासङ्गतिः । शाब्देच्छाविरहविशिष्टप्रत्यक्षेच्छाविरहविशिष्टराज्ञः परुप इत्येतादृशवाक्यजन्यशाब्दसामग्रथा विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नं :राति प्रतिवन्धकत्वेऽपि यत्र घटवद्भूतलमिति प्रत्यक्षेच्छाऽस्ति घटवन्न भूतल मिति प्रत्यक्षसामग्री चास्ति तत्रापि घटवन्न भूतलमिति प्रत्यक्षं स्यात् । शाब्दसामग्रथाः शाब्देच्छाविरहविशिष्टप्रत्यक्षेच्छावत्वेन तद्विरहाभावेनाप्रति न्धकत्वात् । एवञ्च घटवन्न भूतलमिति प्रत्यक्षो मे जायतामित्येतादृशेच्छाविरहविशिष्टराज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्री घटवन्न भूतलमित्येता दृशप्रत्यक्षत्वावच्छिन्न प्रति प्रतिबन्धिकेति । इच्छाविषयतायाः प्रतविन्धक तावच्छेदकत्वोपगमेन एकरूपेण वक्तुमशक्यत्वात् । न च प्रत्यक्षविशिष्टेच्छाविरहविशिष्टशाब्दसामग्रयाः प्रतिबन्धकत्वम् । वैशिष्ट्यञ्च स्वविपय त्वस्वसामग्रीसमानकालिकत्वैतदुभयसम्बन्धेन । एवञ्चान्यादृशप्रत्यक्षस मग्रीसद्भावे अन्यादशप्रत्यक्षेच्छायाः प्रत्यक्षवैशिष्ट्याभावात् न दोष इत्युक्त्यैकरूपेणोच्यता Page #137 -------------------------------------------------------------------------- ________________ अस्मन्मते तादृशसमभिव्याहारघटितसामग्य राजस्वत्वाभाववान पुरुष इत्यादिवाधाभावघटिततया तत्सत्त्वे विशेष्यतावच्छेदकादिप्रकार कनिश्चयरूपकारणविरहादेव तथाविधविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षोत्पत्त्यसंभवेन तादृशसामग्यास्तत्र प्रतिवन्धकत्वस्याकल्पनात् । अन्याशप्रत्यक्षस्थलीयप्रतिबन्धकतया च न त्वन्मते निवहः। अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकतया . __ न त्वन्मते निवह इति । संसर्गतावादिमते इत्यर्थः । न च विभिन्नविषयकप्रत्यक्षत्वावचिदन्नं प्रति राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वं घटवद्भूतलमित्यादिप्रत्यक्षत्वावच्छिन्नं प्रति कल्पनमभयोरावश्यकमिति तादृश् प्रतिबन्धकतामादायैव निर्वाहे किं गौरवमिति चेत्सत्यम् । तथा सति समानविषयकप्रत्यक्षस्य यत्किञ्चिदपेक्षविभिन्नविषयकतादृगमामग्रया अपि प्रबिध्यत्वापत्तेः । एवञ्च नामोच्चारणपूर्वकं प्रतिबन्धकलानमावश्यकमिति पादृशविशिष्टबुद्धि प्रति प्रतिबन्धकत्वं भवतामधिकमिति दिक् । स्वजन्य शब्दबोधाविषयविषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वं घटवद्भूतले पटवद्भूतलमित्यादिनाना प्रत्यक्षत्वावच्छिन्नं प्रति अनगतरीत्या प्रतिबन्धकत्व- । कल्पनमस्माकं भवताः चावश्यकमेवेति राजनिरूपितस्वत्वाभाववान् पुरुषः सुन्दर इत्यादिप्रत्यक्षस्य पि प्रतिबद्धयतावच्छेदकाक्रान्ततया तादृशप्रतिबद्धयप्रतिबन्धकभावेनैवेष्टसिद्धिरिति कथन्न निर्वाह इति वाच्यम् । यतो हि विभिन्नविषयकशाब्दसामग्रयाः प्रत्यक्षसामग्रयाश्च सत्त्वे प्रत्यक्षं जायता मिति वक्तव्यम् । घटव भूतलमित्येतादृशप्रत्यक्षसामग्रीसद्भावे तादृशप्रत्यक्षेच्छायाञ्च सत्यां पटवद भूतलमित्येतादृशप्रत्यक्षसामग्रचाश्चावस्थानम् । न तु तादृशप्रत्यक्षेच्छा चास्ति । तत्र घटवद्भूतलं पटवद्भूतलमित्येतादृशसमूहाल- . Page #138 -------------------------------------------------------------------------- ________________ मितीच्छायाञ्च सत्यां प्रत्यक्षमेव भवति प्रत्यक्षं विना इच्छाविषयासिद्धेः । उक्तानुगतरूपेण शाब्दसामग्रयाः प्रतिबन्धकताकल्पनायान्तु प्रत्यक्षं दुरुपपादमेव स्यादिति घटवद्भूतलमित्यादिप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्री घटवद्भूतलमित्यादिप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति विशिष्यैव प्रतिबध्यप्रतिबन्धकभावः कल्पनीय इति राजनिरूपितस्वत्वाभाववान् पुरुष इत्यादि प्रत्यक्ष प्रति प्रतिबन्धकताकल्पनं संसर्गतावादिनां गौरवमिति । यत्तु घटवद्भूतलमितिप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्री विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति अन्यदीयप्रत्यक्षस्थलीयप्रतिबन्धकतामादाय निरुक्तप्रत्यक्षस्यापि प्रतिबध्यत्वमिति तदपि न । पटवद्भुतलमित्यादिप्रत्यक्षसामग्री राज्ञः पुरुष इति शाब्दसामग्री च यत्रास्ति तत्र पटवद्भूतलमिति प्रत्यक्षं जायतामितीच्छायां प्रत्यक्षं जायते । इदानीं हि घटवद्भूतलमित्यादिप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाश्च सत्त्वेन प्रतिबन्धकसद्भावात् प्रत्यक्षत्वानापत्तेः । सामान्यन प्रत्यक्षेच्छाविरहविशिष्टशाब्दसामग्रयाः प्रतिबन्धकत्वमित्यपि न वक्तुं शक्यते, यद्विषयकप्रत्यक्षसामग्री तदन्यविषयकप्रत्यक्षेच्छायामपि प्रत्यक्षापत्तेरिति नान्यदीयप्रत्यक्षस्थलीयप्रतिबन्धकतामादाय संसर्गतावादिनां निर्वाह इति विशिष्य प्रतिबध्यप्रतिबन्धकभावकल्पनोयां गौरवमिति बोध्यम् । यदप्याहुः-स्वजन्यशाब्दबोधाविषयविषयकत्वस्वसमानाधिकरणेच्छाविषयत्वाभाववत्त्वोभयसम्बन्धेन स्वविशिष्टप्रत्यक्षत्वावच्छिन्नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिवन्धकत्वमित्यनुगमसम्भवस्तथा च यत्र विभिन्नविषयकप्रत्यक्षसामग्री शाब्दसामग्री चास्ति तत्र चासत्यां प्रत्यक्षेच्छायां शाब्दबोध एव, न प्रत्यक्षं तस्य म्बनात्मकप्रत्यक्षन्न भवति। राज्ञः पुरुप इत्येतद्वाक्यजन्यशाब्दसामग्रीकाले पटवद्भूतलमित्येतादृशप्रत्यक्षस्य बाधात् । किन्तु घटवद्भूतलमित्येतादृशप्रत्यक्ष Page #139 -------------------------------------------------------------------------- ________________ निरुक्तसम्बन्धेन, शाब्दसामग्रीविशिष्टत्वेन तं प्रति तस्याः प्रतिबन्धकत्वात् । यत्र च प्रत्यक्षेच्छ तत्र स्वसमानाधिकरणेच्छाविषयत्वमेव प्रत्यक्षस्यति न तत्र तं प्रति ताशसामग्रयाः प्रतिबन्धकत्वमिति प्रत्यक्षमेव न शाब्दबोधः । एवञ्च राजनिरूपितस्वत्वाभाववान् पुरुष इति प्रत्यक्षस्यापि निरुक्तद्वयसम्बन्धेन शाब्दसामग्री विशिष्टत्वात् तम्प्रत्यपि शाब्दसामग्रयाः प्रतिवन्धकत्वेन प्रत्यक्षवारणसम्भवान्न विशिष्य तादृशप्रत्यक्षम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनमिति न संसर्गतावादिनामपि गौरवमिति तदपि न। यत्र निरुक्तशाब्दसामग्री प्रत्यक्षसामग्रीचास्ति चैत्रस्य मयि प्रत्यक्षं जायतामितीच्छास्ति तत्र चैत्रवृत्तीच्छाया अपि स्वाधिकरणकालवृत्तित्वेन शाब्दसामग्रीसमाना धेकरणतादृशेच्छाविषयत्वमेव प्रत्यक्षस्येति इच्छाविषयत्वाभाववत्वरूपसम्बन्धासंघटनात् सामग्रीविशिष्टत्वाभावेन निरुक्तप्रतिबध्यप्रतिबन्धकभावानाक्रान्ततया तादृशेच्छाया अप्युत्तेजकत्वापत्तेः । इष्टन्तु नोत्तेजकत्वं प्रत्यक्षेऽपि तस्येच्छायाविषयासिद्धेः । भूतकालिकेच्छाया अप्युक्तरीत्या उत्तेजकत्वापत्तेश्च यद्यपि स्वाधिकरणकालवत्तित्वस्वाधिकरणदेशवृत्तित्वोभय सम्बन्धेन सामग्रीविशिष्टत्वस्यैव स्वसमानाधिकरणत्वेनादोषस्तथापि यत्र विभिन्नविषयकप्रत्यक्षसामग्रीशाब्दसामग्रीज्ञानञ्जायतामितीच्छा चास्ति तत इच्छायाः प्रत्यक्षोत्तेजकत्वं नास्ति तं विनाऽपि विषयसिद्धेः । इदानीञ्च सामग्रीविशिष्टतादृशेच्छाविषयत्वमेव प्रत्यक्षस्येति इच्छाविषयत्वाभाववत्वाभावात् तादृशप्रत्यक्षम्प्रति प्रतिबन्धकत्वाभावात् प्रत्यक्षापत्त्या तादृशेच्छाया अप्युत्तेजकत्वापत्तेस्तादृशरीत्यानानुगमसम्भवः । न च स्वविशिष्टेच्छाविषयत्वाभाववत्वस्य स्थाने स्वविशिष्टेच्छानिरूपितप्रत्यक्षत्वावच्छिन्नविपयत्वाभाववत्वस्य निवेशेनादोषः । ज्ञानञ्जायतामिती मेव भवति । तत्राधना प्रत्यक्षेच्छाविरहविशिष्टाभावेन तादृशशाब्दसामग्रयाः प्रतिबन्धकत्वा भावात् पटवद्भूतलमित्येतादृशप्रत्यक्षमपि स्यात् । न च राज्ञः पुरुष इत्येत् द्वाक्यजन्यशाब्दसामग्री स्ववृत्तिविरहप्रतियोगिनीच्छा Page #140 -------------------------------------------------------------------------- ________________ च्छोयज्ञानत्वावच्छिन्नविषयतायाः प्रत्यक्षे सत्त्वेऽपि प्रत्यक्षत्वावच्छिन्नविषयता नास्तीति सम्बन्धघटनात् निरुक्तप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वात् । नन्वेवमपि यत्र राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्री घटवद्भूतलमित्यादिप्रत्यक्षसामग्री चारित तत्र शाब्देतरज्ञानजायतामितीच्छायां प्रत्यक्षमेव जायत इतीच्छाया उत्तेजकत्वात् । साम्प्रतञ्च शाब्दसामग्रीविशिष्टेच्छानिरूपितशाब्देतरत्वावच्छिन्नैव विषयता न तु प्रत्यक्षत्वावच्छिन्नेति प्रत्यक्षत्वावच्छिन्नविषयत्वाभाववत्वस्य प्रत्यक्ष सत्त्वात् । तादृशप्रत्यक्षत्वावच्छिन्नं प्रत्यपि राज्ञः पुरुा- इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वापत्तिरिति चेन्न । प्वजन्यशाब्दबोधाविषयविषयकत्वस्वजन्यशाब्दबोधावृत्तित्व-स्वविशिष्टेच्छा निरूपितत्वोभयसम्बन्धेन स्वविशिष्टविषयत्वाभाववत्वोभयसम्बन्धेन स्मविशिष्टप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनेन शब्देतरज्ञानञ्जायतामितीच्छीयविषयताया निरुक्तोभयसम्बन्धेन सामग्री वैशिष्टत्वेन तादृशविषयतावत्वस्यैव प्रत्यक्षे सत्त्वेन निरुक्तोभयसम्बन्धेन सामग्रीविशिष्टत्वाभावात् तादृशप्रत्यक्षम्प्रत्यप्रतिबन्धकत्वेनादोषात् । न च यत्र शाब्दसामग्री प्रत्यक्षसामग्री च तत्र प्रत्यक्षाभावो जायतामितीच् छायामपि शाब्दबोध एव न प्रत्यक्षमिति सिद्धान्तः । स चेदानीमनुपपन्नस्तादृशेच्छीयप्रत्यक्षवृत्तिविषयतायां राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रीजन्यशाब्दबोधवृत्तित्वस्वविशिष्टेच्छानिरूपितत्वयोस्सत्त्वात् स्वविशिष्टत्वे न स्वविशिष्टविषयत्वाभाववत्वरूपसंबन्धाघटनात् स्वविशिष्टत्वाभावात्तादृटाप्रत्यक्षम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वानापत्त्या प्रत्यक्षस्य दुर्वान्त्वादिति वाच्यम् । स्वविशिष्टमुख्य विशेष्यत्वाभाववत्वस्य सम्बन्धत्वेनाद षात् । प्रकृतविपय विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिका स्वविष पत्वस्वसमानकालीनसामग्रीनिरूपकत्वैतदुभयसबन्धेनेति वाच्यम् । प्रत्यक्षस्य प्रतिबध्यत्वात् । .इच्छाविशिष्टतादृशप्रत्यक्षाभावात् । एवञ्च घटवद्गतलमित्येतादृशप्रत्य Page #141 -------------------------------------------------------------------------- ________________ ताया अभावनिष्ठविशेष्यतानिरूपितप्रकारतासामानाधिकरण्येन मुख्यत्वाभावात् । नन्वेवमपि प्रतियोगितासम्बन्धेनाभावविशिष्टं प्रत्यक्षञ्जायतामितीच्छायां शाब्दसामग्रयाः प्रतिबन्धकत्वानापत्त्या प्रत्यक्ष दुर्वारमिति चेन्न । अभावनिष्ठविषयतानिरूपितप्रतियोगित्वनिष्ठविषयतानिरूपितत्वाभाववती या स्वविशिष्टाविषयता तद्भाववत्वस्यैव प्रवेशेनादोषात् । यत्तु अन्यस्य प्रत्यक्षसामग्री शाब्दसामग्री चास्ति अन्यस्य प्रत्यक्षजायतामितीच्छा तादृशेच्छीयविषयतायाः सामग्रीविशिष्टत्वात् तदभावस्वत्वाभावात् प्रत्यक्षं प्रति प्रतिबन्धकत्वानापत्तिः। एवं मासादूर्ध्वं प्रत्यक्षञ्जायतामितीच्छायामपीति वदन्ति--तन्न युक्तम् । अन्यवृत्तित्वविशिष्टे मासोत्तरत्वविशिष्टे च प्रत्यक्षे तादृशविषयता च यस्य प्रत्यक्षसामग्री तदीयप्रत्यक्षस्य तत्कालिकस्य तादृशविषयत्वाभाववत्वमेवेति स्वविशिष्टत्वात् तादृशप्रत्यक्षप्रतिबन्धकत्वसिद्धेः । वस्तुतस्तु यत्र घटवद्भूतलमिति प्रत्यक्षसामग्री अनुमितिसामग्री राज्ञः पुरुष इतिवाक्यजन्यशाब्दसामग्री चास्ति शाब्देतरज्ञानञ्जायतामितीच्छायामनुमित्याऽपीच्छाया विषयसिद्धया इच्छाया अनुत्तेजकतया शाब्दबोध एव, न प्रत्यक्ष दिक, तच्चेदानीमनुपपन्नन्तादशप्रत्यक्षस्य स्वविशिष्टविषयतावत्वेन सम्बन्धासंघटनात् तत्प्रत्यक्षम्प्रति प्रतिबन्धकत्वानापत्तेरिति नानुगमसम्भवः । तथा च राजनिरूपितस्वत्वाभाववान् पुरुषः सुन्दर इति प्रत्यक्षत्वावच्छिन्नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनं संसर्गतावादिनां गौरवमिति सुधियो विभावयन्तु । प्रकारतावादिनान्तु नेति मूल एवोपपादितमिति तत्रैव द्रष्टव्यम्। स्वोत्तरत्वसम्बन्धेन स्वसमानाधिकरणेच्छाविशिष्टान्यस्वजन्यशाब्दबोधाविषयकप्रत्यक्षत्वावच्छिनम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वमित्यनु क्षत्वावच्छिन्नं प्रति स्वत्वसंसर्गावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्टताकशाब्दसामग्रीत्वेनैव प्रतिबन्धकताकल्पनात्। एकः प्रतिबध्यप्रबन्धकभावः संसर्गातावादिमतेऽधिकं इत्यवधेयम् । Page #142 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः १३४ [ कारके गतरीत्या प्रतिबध्यप्रतिबन्धकभावकल्पनायान्तु अन्यप्रत्यक्षस्थलीयप्रतिबन्धकतामादायैव निर्वाह इति मूलञ्चिन्त्यमेवेति तत्त्वम् । यत्तु स्वत्वसम्बन्धेन राजाभाववान् पुरुषः सुन्दर इति प्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनं प्रकारतावादिनामप्यावश्यकमित्युभयं समानमेवेति - तन्न । तत्प्रतिदाने निरूपितत्वसम्बन्धेन राजाभाववत्स्वत्वं प्रमेयमित्यादिप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनायाः संसर्गतावादिनामावश्यकतयोपदर्शितविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षत्वावच्छिन्नम्प्रति प्रतिबन्धकत्वकल्पनाधिक्येन संसर्गतावादिनामेव गौरवात् । यदप्याहुः स्वत्वप्रकारक बोधोपगमे शाब्दसामग्रीकुक्षौ निरूपितत्वसम्बन्धेन राजाभाववत्स्वत्वमिति बाघनिश्चयाभावस्य राजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावस्य च प्रवेशः संसर्गतावादिनां स्वत्व - सम्बन्धेन राजाभाववान् पुरुष इत्येकबाधनिश्चयाभावस्यैवेति विभिन्नविषयकप्रत्यक्षम्प्रति सामग्रयां प्रतिबन्धकत्वे प्रतिबन्धकतावच्छेदककोटौ प्रत्ययजन्यस्वत्वाद्युपस्थितेः उभयबाधनिश्चयाभावस्य च प्रकारतावादिनां प्रवेशः । संसर्गतावादिनां चैकबाधनिश्चयाभावस्यैवेति प्रकारतावादिनामेव गौरवमिति तदपि न । स्वत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावस्य प्रकारतावादिनां राजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावप्रवेशेनैव गतार्थतया स्वत्वसम्बन्धेन राजाभावव्याप्यराज निरूपितस्वत्वाभाववान् पुरुष इति निश्चयकाले शाब्दबोधानुपपत्त्या संसर्गतावादिनां च तदभावस्यापि गुरुधर्म्मकस्य निवेशनीयतया लाघवानवकाशात् । न च राजनिरूपितस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन ननु योग्यताज्ञानादिघटितशाब्दसामग्री शाब्दजननी भवति । जनकता च न तत्र समुदायत्वेन वक्तुं शक्या समुदायत्वस्यापेक्षा बुद्धिविशेषविषयत्वरूपत्वेन तादृशापेक्षा बुद्धिमन्तराऽपि कार्य्योत्पत्तेरिष्टत्वात् । एवञ्च योग्य Page #143 -------------------------------------------------------------------------- ________________ प्रथमा ]. जयाऽलङ्कृतः १३५ राजाभाववान् पुरुष इति निश्चयस्य व्याप्यवत्तानिश्चयमुद्रया प्रकारतावादिनां मते प्रतिबन्धकत्वेन तदभावस्यापि शाब्दसामग्रीकोटौ निवेशनीयतया गौरवम् । संसर्गतावादिनां स्वत्वसम्बन्धेन राजाभाववान् पुरुष इति बाधनिश्चयाभावनिवेशेनैवात्रापि निर्वाहादिति वाच्यम् । यतो हि व्यापकसामानाधिकरण्यं व्याप्तिः व्यापकत्वं च यस्य व्याप्यत्वं विवक्षितन्तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वन्तथा च स्वत्वसंसर्गकराजप्रकारकपुरुषत्वावच्छिन्नविशेष्यकबुद्धौ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकराजस्वत्वाभावसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यत्स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावत्वन्तद्वत्समानाधिकरणराजनिरूपितत्वाभावत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयः प्रतिबन्धक इति तादृशनिश्चयत्वावच्छिन्नप्रतियोगिताकाभावः शाब्दसामग्रयां प्रवेशनीयः संसर्गतावादिनेति । विभिन्नविषयकप्रत्यक्षत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदककोटौ राजस्वत्वाभावत्वरूपस्वत्वघटितगुरुधर्मस्य द्विधा प्रवेश: । राजस्वत्वप्रकारकबुद्धौ तु स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकराजस्वत्वाभावत्ववत् समानाधिकरणस्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयस्य प्रतिबन्धकत्वेन तदभावस्यैव शाब्दसामग्रयां प्रवेश इति विभिन्न विषयकप्रत्यक्षप्रतिबन्धकतावच्छेदककोटौ राजाभावत्वरूपलघुधर्मस्य द्विधा भानमिति महल ताज्ञानादिविशिष्टाकाङ्क्षाज्ञानत्वेन कारणताऽऽकाङ्क्षाज्ञानादिविशिष्टयोग्यताज्ञानत्वेन वा कारणता । एवञ्च विनिगमनाविरहात् सामग्रीघटकयावतामपि पर्यायेण कारणतावच्छेदकत्वं सिद्धयति । एवं स्थिते प्रकारतावादिमते योग्यताज्ञानमेव द्विविधम् । निरूपितत्वसम्बन्धावच्छिन्नराजाद्यभाववत्तानिश्चयरूपवाधाभावो योग्यतास्वरूपसंसर्गावच्छिन्नस्वत्वत्वाद्यवच्छिन्नस्वत्वाद्यभाववत्तानिश्चयरूपबाधाभावो यो Page #144 -------------------------------------------------------------------------- ________________ १३६ व्युत्पत्तिवादः [ कारके लाघवं प्रकारतावादिनाम् । न च स्वत्वप्रकारकबुद्धौ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत् स्वत्वमित्यपि प्रतिबन्धकम् । एवं तदभावव्याप्यवत्तानिश्चयमुद्रया निरूपितत्वसम्बन्धावच्छिन्नराजाभावव्याप्यराजनिरूपितत्वाभाववत्स्वत्वमिति तादृशाभावव्याप्यघटवत्स्वत्वम् । एवं तादृशाभावव्याप्यपटवत् स्वत्वमित्याद्यनन्तानन्तज्ञानम्प्रतिबन्धकमिति सर्वेषामभावस्य शाब्दसामग्रयां प्रवेशः । एवं राजनिरूपितस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुष इति तादृशाभावव्याप्यघटवान् पटवान् इत्याद्यनन्तानन्तज्ञानं प्रतिबन्धकमित्येतेषामप्यभावः शाब्दसामग्रयां प्रवेशनीयइति द्विविधानन्तानन्तानामभावानां शाब्दसामग्रयां प्रवेश आवश्यकः प्रकारतावादिनामिति विभिन्नविषयकप्रत्यक्षप्रतिबन्धकतावच्छेदककोटौ सर्वेषामेवानन्तानन्ताभावानां प्रवेशः । स्वत्वसंसर्गकबोधे च स्वत्वसम्बन्धेन राजाभावव्याप्यराजस्वत्वाभाववान् पुरुषः एवं तादृशाभावव्याप्यघटवान् पटवानित्येकविधमेवानन्तानन्तज्ञानं प्रतिबन्धकमित्येकविधानामेवानन्तानन्ताभावानां शाब्दसामग्रयां प्रवेशः, विभिन्नविषयकप्रत्यक्षप्रतिबन्धकतावच्छेदककोटौ प्रवेशश्चेति लाघवेन प्रकारतावादिनां महद्गौरवम् । यद्यपि निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यत्वावच्छिन्नप्रकार ताकस्वत्वत्वावच्छिन्नविशेष्यताकनिश्चयाभावस्य स्वरूपसम्बन्धावच्छिन्न प्रतियोगिताकराजस्वत्वाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयाभावस्य च प्रवेशेन सर्वेषामेवाभावानामनन्तानामनुगमसम्भवेनोभयविधानामेव भावानां शाब्दसामग्रयां प्रवेशः प्रकारतावादिमते तथापि संसर्गमतापेक्षयाऽस्य गुरुत्वम् । संसर्गतावादिनामपि स्वत्वसम्बन्ध - ग्यता एवं योग्यताया द्वैविध्यं ज्ञानस्य द्वैविध्यं सुतराम् । संसर्गतावादिमते तु स्वत्वसंसर्गावच्छिन्नराजाद्यभाववत्तानिश्चयरूपबाधाभावयोग्यता ज्ञानस्यैव कारणत्वेनेति एकं लाघवं किञ्च उपस्थिते कारणत्वात् । सा च प्रकारतावादिमते राजपदजन्यराजत्वावच्छिन्ना ङस्पदजन्यस्वत्वत्वावच्छिन्ना पुरुष Page #145 -------------------------------------------------------------------------- ________________ १३७ प्रथमा ] जयाऽलङ्कृतः त्त्वावच्छिन्नप्रतियोगिताकराजाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयाभावप्रवेशेनैवोक्तानन्तानन्ताभावानामनुगमसम्भवेन तन्मते एकविधाभावस्यैव प्रवेशः । वस्तुत एवमपि नानुगमसम्भवः । व्यापकत्वस्य व्यापकसामानाधिकरण्यरूपतया सर्वेषां पदार्थानां प्रवेशस्यावश्यकत्वेन गौरवस्य तदवस्थत्वात् । तस्माद्राजसुत्वप्रकारकशाब्दबुद्धित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकताश्रयसामान्याभावत्वेन सर्वेषामेवाभावानां प्रवेशसम्भवादेकरूपेण सम्भवत्यनुगम इति विचारणीयम्। प्रकारतावादिमते चोक्तरीत्या द्विविधाभावस्येति लाघवानवकाशादिति वाच्यम् । यतो हि संसर्गतावादिमते निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्स्वत्वं प्रमेयम् । निरूपितत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितत्वाभाववत्स्वत्वं प्रमेयम् । तादृशाभावव्याप्यघटवत्स्वत्वं प्रमेयम् । एवं तादृशाभावव्याप्यपटवत्स्वत्वं प्रमेयम् । एवं राजस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुषः सुन्दरः । राजस्वत्वाभावव्याप्यघटवान् पुरुषः सुन्दरः । एवन्तादृशाभावव्याप्यपटवान् पुरुषः सुन्दर इत्यादि द्विविधानन्तानन्तविभिन्नविषयकप्रत्यक्षज्ञानम्प्रति राज्ञः पुरुष एतद्वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनमावश्यकम् । प्रकारतावादिमते च उक्तानन्तानन्तप्रत्यक्षकारणीभूतस्य विशेष्यतावच्छेदकप्रकारकज्ञानस्य निरूपितत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितत्वाभाववत् स्वत्वमित्याद्यनन्तानन्तरूपस्य राजस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुष इत्याद्यनन्तानन्तरूपस्य निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकनिश्चयरूपबाधघटिततया राजस्वत्वाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयरूपबाधघ पदजन्यपुरुषत्वावच्छिन्नेति गौरवम् । संसर्गतावादिमते तु राजपदजन्यराजत्वावच्छिन्ना पुरुषपदजन्यपुरुषत्वावच्छिन्ना चेति द्वितीयं लाघवम् । किं बहुना योग्यताज्ञानोपस्थित्याकाङ्क्षारूपकारणस्य प्रकारतावादिमते कारणतावच्छेदकभेदात् षड्विधत्वे सामग्रयाश्च तादृशकारणविशिष्टरू Page #146 -------------------------------------------------------------------------- ________________ १३८ व्युत्पत्तिवादः [ कारके ताशेच्छायामसत्यां चोपदर्शितविशिष्टवैशिष्टयबोधत्वप्रकारेच्छावलादुपदर्शितविशिष्टवैशिष्ट्यबोधोपपत्तये अन्यादृशविषयताया एव प्रतिबध्यतावच्छेदकत्वोपगमावश्यकत्वात् । न च स्वत्वादे: प्रकारतामतेऽपि स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभावविशिष्टपुरुषादिवैशिष्ट्यबोधे तथाविधसामग्याः प्रतिबन्धकताधिक्येन गौरवम् । तत्संसर्गतामते तादृशसामग्यः स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभाववत्तानिश्चयाभावघटिततया तत्सत्त्वे कारणविरहादेव तथाविधप्रत्यक्षवारणसंभवादिति टिततया तादृशबोधाभावघटितशाब्दसामग्रीकाले निरुक्तानन्तानन्तप्रत्यक्षकारणीभूतनिरुक्ततत्तद्रूपविशेष्यतावच्छेदकप्रकारकज्ञानस्याभावात् कारणाभावादेव तादृशानन्तानन्तप्रत्यक्षानापत्त्या द्विविधतादृशानन्तानन्तप्रत्यक्षम्प्रति प्रतिबन्धकत्वकल्पनन्नावश्यकम् , किन्तु स्वत्वसम्बन्धेन राजाभावव्याप्यराजस्वत्वाभाववान् पुरुषः सुन्दर एवं तादृशाभावव्याप्यघटवान् पुरुषः सुन्दरः पटवान् पुरुषः सुन्दर इत्याद्येकविधानन्तानन्तप्रत्यक्षं प्रत्येवेति महल्लाघवमित्याहुः। संसर्गतावादिनां च नैतत्प्रतिबन्धकत्वकल्पनमावश्यकमेतत्प्रत्यक्षकारणीभूतविशेष्यतावच्छेदकप्रकारकज्ञानस्य स्वत्वसम्बन्धेन राजाभावव्याप्यराजस्वत्वाभाववान् पुरुष इत्यादिरूपस्य वाधनिश्चयघटिततया तादृशबाधाभावघटितशाब्दसामग्रीकाले कारणाभावादेव प्रत्यक्षासम्भवेन शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनाया अनावश्यकत्वादित्यपि बोध्यम् । पत्वात् तेषां गणनया विंशत्यधिकसप्तशतसंख्याककारणानि भविष्यन्ति । संसर्गतावादिमते तु चतुर्विंशति कारणानि भवन्तीतिमहल्लाघवं किम्पनः कारणान्तरविशिष्टेन तेन सह गणनयेत्येतदेव संसर्गतावादिमतमुपपादयतिन चेत्यादिना। Page #147 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः .१३६ वाच्यम् । मन्मते तादृशप्रत्यक्ष प्रति तथाविधसामग्याः प्रतिबन्धकताधिक्येऽपि निरूपितत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभावविशिष्ट स्वत्वादिवैशिष्ट्यबोधे तथाविधसामग्यः प्रतिबन्धकताऽकल्पनेन तदंशे साम्यात् । तथा च पूर्वोक्तराजस्वत्वाभाववान् पुरुषः सुन्दर इत्यादिविशिष्टवैशिष्ट्यप्रत्यक्ष प्रति राज्ञः पुरुषः इत्यादिसामग्ऱ्या प्रतिबन्धकत्वकल्पनं संसर्गतावादिनां मतेऽधिकमिति । न च स्वत्वादेः प्रकारतामते घटप्रत्यक्षादिकं प्रति तादशसामग्रीप्रतिबन्धकतायां विभक्तिजन्यस्वत्वाद्युपस्थितिनिवेशाधिक्येन राजस्वत्वाभाववान्पुरुष इत्यादिबाधाद्यभावनिवेशाधिक्येन च गौरवम् । अस्मन्मते तादृशोपस्थितितथाविधवाधाभावादीनां तथाविधवाक्यजन्यशाब्दबोधं प्रत्यहेतुतया तादृशवाक्यघटितसामग्रीप्रतिबन्धकतायां तेषामनिवेशादिति वाच्यम्। भवन्मतेऽपि स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यराजस्वत्वाभाववान्पुरुष इत्यादिनिश्चयस्य तदभावब्याप्यवत्तानिश्चयमुद्रया तादृशवाक्यजन्यशाब्दधीविरोधितया तादृशनिश्चयाभावस्य तथाविधसामग्रीप्रतिबन्धकतायां निवेशनस्याधिक्येन लाघवानवकाशात् । मन्मते राजस्वत्वाभाववान् पुरुष इत्यादिवाधकाभावनिवेशेनैव तादृशनिश्चयकाले प्रत्यक्षाभ्युपपत्तेस्तदभावानिवेशात् । यत्तु राज्ञः संसर्गतावादिमतं खण्डयन् प्रकारतावादिमतमुपपादयति--भवन्मते पोत्यादिना । अस्यायं भावः । बाधाभावो योग्यताबाधश्च तद्वत्ताबुद्धि प्रति तदभाववत्ता निश्चयः तदभावप्याप्यवत्तानिश्चयश्चेति प्रकारतावादिमते स्वरूपसम्बन्धावच्छिन्न राजनिरूपितस्वत्वत्वाद्यवच्छिन्नप्रकारतानिरूपितपुरुष Page #148 -------------------------------------------------------------------------- ________________ १४० व्युत्पत्तिवादः [ कारके पुरुष इत्यादौ राजस्वत्ववान् पुरुष इत्याद्यन्वयबोधोपगमे राजकीयं स्वत्वं राजस्वत्ववान पुरुष इत्याकारकद्विविधानुमितेरेव तदतिरिताविषयकत्वेन तादृशानुमितिं प्रति प्रत्येकं तादृशवाक्यघटितसामग्ऱ्याः प्रतिबन्धकत्वद्वयम् । अस्मन्मते' च तादृशानुमित्योस्तथाविधवाक्यजन्याद्राजकीयः पुरुष इत्येतादृशबोधादतिरिक्तविषयकतया तत्र तादृशसामग्ऱ्याः त्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नं प्रति स्वरूपसम्बन्धावच्छिन्नराजनिरूपितस्वत्वत्वाद्यवच्छिन्नप्रतियोगिताकाभाववत्तानिश्चयः । तादृशाभावव्याप्यस्वत्वसंसर्गावच्छिन्नराजाद्यभाववत्तानिश्चयश्च बाधस्तदभावो योग्यता । एवञ्चात्र तदभावव्याप्यवत्तामुद्रया स्वत्वसंसर्गावच्छिन्नराजाद्यभावस्य 'अनुमितौ शाब्दसमानविषयकत्वं शाब्दीयविषयतानवच्छेदकधर्मावच्छिन्नविषयताया अनिरूपकत्वम् । वस्तुतस्तु शाब्दीयविषयतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपकविषयतानिरूपकत्वमिति । अस्मन्मतेऽपोति । अत्रेदं तत्त्वं-समानविषयकानुमितित्वावच्छिन्नं प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिकेत्यत्र समानविषयकत्वस्य यद्यतिरिक्तविषयकत्वाभावत्वरूपत्वं चेत् तदा राज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्रयाः राजकीयं स्वत्वं राजस्वत्ववान् पुरुष. इत्याकारकद्विविधानुमितेः प्रतिबन्धकता भवति समानविषयकत्वात् । यदि तु समानविषयकत्वं नाम अन्यूनानतिरिक्तविषयकत्वमित्युच्यते तदा न राजकीयं स्वत्वं इत्याकारिका न वा राजस्वत्ववान् पुरुष इत्याकारिका वा अनुमितिः प्रतिबन्धिका। अनुमितेः न्यूनविषयताकत्वात् । एवञ्च तादृशानुमितिद्वयं प्रकारतावादिमतेऽपि भवत्येवेति गम्यते गदाधरभट्टाचार्याभिप्रायो रमणीयो मया । Page #149 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १४१ प्रतिबन्धकत्वकल्पनं नास्ति, तथाविधानुमितितथाविधशाब्दसामग्योश्च सत्त्योरनुमितेरेवोत्पत्तेः, अपि तु राजकीयः पुरुष इत्याकारकस्वत्वसंसर्गकैकविधानुमितिं प्रत्येव तादृशसामग्यः प्रतिवन्धकत्वमेकं कल्पनीयमिति लाघवमिति । तदप्यकिचित्करम् । भवन्मते यत्र यादृशानुमिति: स्वीक्रियते अरमन्मतेऽपि तत्र तादृशानुमितेः स्वीकरणीयेत्यनुमितौ शाब्दसामग्यः प्रतिबन्धकत्वसाम्यात, उपदर्शितस्थले भवद्भिरनुमितिः स्वीक्रियते अस्माभिरपि स्वीक्रियते, कुतः प्रतिबन्धकताद्वयकल्पनमिति भवतापि तादृशशाब्दं प्रति तादृशानुमितिद्वयसामग्रीद्वयस्य प्रतिप्रबन्धकताया वाच्यतया साम्याच्च । एवं राजपुरुष इत्यादिसमासवाक्यात्स्वत्वसंसर्गकशाब्दबोधस्वीकारे तादृशशाब्दबोधसामग्यःस्वत्वसंसर्गेण राजविशिष्टपुरुषतात्पर्यज्ञानादिघटिताया भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकत्वाधिक्येन गौरवात् । तत्र राजसम्बन्धिप्रकारकाभेदान्वयबोधस्वीकार एवोचितः। न च भवन्मतेऽपि तादृशाभेदान्वयबोधसामन्यः प्रतिबन्धकताधिक्येन गौरवमिति वाच्यम्। राजसम्बन्धिनि भ्वारसिकलक्षणाग्रहदशायामभेदसम्बन्धेन राजसम्बन्धिविशिष्टपुरुषे तात्पर्यग्रहसत्त्वे भवन्मतेऽपि कर्मधारयत्वेनाभिमतात्तथाविधसमासवाक्यात्तादृशशाब्दबोधस्वीकारस्यावश्यकतया तादृशसामग्रीप्रतिबन्धकताया उभयमतसिद्धत्वात् । यत्तु दधि पश्य इत्यादौ लुप्तद्वितीयाविभक्तिस्मरणेन दधिकर्मकदर्शनबोधवद्राजपुरुष इत्यादावपि लुप्तषष्ठीविभक्तिस्मरणेन राज बाधत्वं स्थितम् । संसर्गतावादिमते तु स्वत्वसंसर्गावच्छिन्नराजाद्यभावव्याप्यवत्तानिश्चयमुद्रया राजनिरूपितस्वत्वभावस्य बाधकत्वे स्वत्वसंसर्गेण राजाद्यभावापेक्षया राजनिरूपितस्वत्वाद्यभावस्य गौरवग्रस्तत्वं Page #150 -------------------------------------------------------------------------- ________________ १४२ व्युत्पत्तिवादः [ कारके सम्बन्धप्रकारकभेदान्वयबोधनिर्वाहे राजसम्बन्धिनि निरूढलक्षणां स्वीकृत्याभेदान्वयवोधोपगमो निरर्थकः । न च षष्ठीतत्पुरुषादिस्थलेऽपि लुप्तविभक्तिस्मरण एव चेदन्वयबोधस्तदा ऋद्धस्य राजमातङ्गा इत्यादिप्रयोगापत्तिस्तत्र मातङ्गादौ राजादीनामन्वयबोधोपपत्तये राजादिपदोत्तरषष्ठयादिविभक्त्यनुसंधानस्यावश्यकत्वेन समानविभक्तिकतया राजादौ ऋद्धादिपदार्थस्याभेदान्वयबोधसम्भवादिति वाच्यम् । यतस्तत्र ऋद्धराजादीनामभेदान्वयबोधानुपपत्त्या नाभियुक्तानामप्रयोगः, अपि तु समासाघटकपदसापेक्षतया राजपदस्यासामर्थ्यातिदेशात्समासासाधुत्वेन । तत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वं, स्वार्थश्च स्वीयवृत्तिग्रहविशेष्यः । अत एव शरैः शातितपत्रोऽयं चैत्रस्य दासभार्येत्यादौ न समस्यमानशातितदासपदादेः सापेक्षता। तदर्थैकदेशशातनदासत्वादावेव शरकरणकत्वचैत्रनिरूपितत्वादीनामन्वयात् । तदर्थान्वितेत्यत्राभेदान्वयो' वा निवेशनीय इति । तदसत्। स्वारसिकलक्षणाग्रहस्थलानुरोधेन' तादृशसमभिव्याहारज्ञानादेस्तथाविध'बोधजनकतायाः क्लृप्तत्वात्तत्र निरूढलक्षणास्वीकारे गौरवाभावात् । यत्र राजपदस्य तत्राधिकपदार्थप्रवेशात् । न च प्रकारतावादिमते किं लाघवं संसर्गतावादिमते तु तदभाववत्तानिश्चयमुद्रायां लघीयानभावः । तत्र तु तदभावव्याप्यव 'इदन्तु न युक्तम् । पुरुषपुत्रैकदेशपुरुषादौ राजादीनां स्वत्वसम्बन्धेनान्वयतात्पर्ये राज्ञः पुरुषपुत्र इत्यस्य साधुतापत्तेः । २ यत्र राजपदस्य राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयवादिसिद्धतयेति पाठभेदः । राजसम्बन्ध्यभिन्न पुरुषेत्यधिकः पाठः क्वचित् । Page #151 -------------------------------------------------------------------------- ________________ प्रथमा ] राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयमतसिद्धतया तादृशसमभिव्याहारज्ञानस्य राजसन्बन्ध्यभिन्नपुरुषबोधे कारणतायाः क्लृप्तत्वात्, तयैव निर्वाहेण सर्वत्र लुप्तविभक्तिस्मरणकल्पने मानाभावात् । न च स्वारसिकलक्षणाग्रहस्थले तत्र तादृशान्वयबोधस्योभयवादिसिद्धत्वेऽपि निरूढलक्षणामते सम्बन्धितात्पर्यस्यानादित्वकल्पनागौरवम् । अनादितात्पर्यविषयीभूतार्थनिष्टलक्षणाया एव निरूढलक्षणात्वादिति वाच्यम् । राजपुरुष इत्यादिवाक्यजन्यशाब्दबोधात्पूर्वं नियमतो लुप्तविभक्तिस्मरणकल्पनापेक्षया तात्पर्यस्यानादित्वकल्पनायां गौरवविरहादिति । न चैवं दधि पश्यतीत्यादावपि दध्यादिपदस्य दधिकर्मकादौ लक्षणां स्वीकृत्य धात्वर्थेन समं तस्याभेदान्वयबोधोपपादनसम्भवात्तत्रापि लुप्तविभक्तिस्मरणकल्पनमनुचितमिति वाच्यम् । दध्यादिपदस्य दधिकर्मकादौ लक्षणाग्रहदशायामपि तस्य द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायां दधिकर्मकः पश्यति, दधिकर्मकेण पश्यतीत्यादाविव उक्तस्थलेऽपि दधिकर्मकदर्शनान्वयबोधानुदयात् । भवन्मते दधिकर्मकः पश्यतीत्यत्र दधि पश्यतीतिस्थलीय - दधिपदोत्तरपश्यतिपदत्वरूपाकाङ्क्षाज्ञानादिघटितसामग्रीसत्त्वाद्द जयाऽलङ्कृतः १४३ धिकर्मकदर्शनान्वयस्य बोधापत्तेर्द्वितीयान्तदध्यादिपदत्वावच्छिन्नधर्मिकतादृशधात्वादिसमभिव्याहारज्ञानस्य तादृशान्वयबोधे हेतुताया आवश्यकत्वात् । दधि पश्यतीत्यादौ लुप्त द्वितीयानुसंधानस्यावश्यकत्वात्। राजसम्बन्धिपुरुषाद्यन्वयबोधे च राजपदाव्यव त्तानिश्चयमुद्रायामिति चेन्न । व्याप्यत्वस्य स्वसमानाधिकरणात्यन्ताभावीयप्रतियोगितानवच्छेदकधर्म्मवत्सामानाधिकरण्यरूपत्वात् । व्याप्यस्य द्विवारभानात् । व्याप्यगौरवे गौरवं स्पष्टमेवेति चेन्न । प्रकारतावादिमतेऽपि Page #152 -------------------------------------------------------------------------- ________________ १४४ व्युत्पत्तिवादः [ कारके हितोत्तरपुरुषादित्वप्रकारकज्ञानस्य हेतुतायाः स्वारसिकलक्षणाग्रहस्थलानुरोधेनावश्यकल्पनीयतया राजपुरुष इत्यादौ राजादिपदस्य तृतीयाद्यन्तत्वभ्रमदशायां राजसम्बन्धिपुरुषाद्यन्वयवोधापत्त्यसम्भवात् । तृतीयादिविभक्तया व्यवधानात् । दधि पश्यतीत्यादौ दधिपदाव्यवहितोत्तरत्वप्रकारकधातुपदज्ञानस्य हेतुताया अक्लृतत्वात् । पश्यति दधि इव पश्यति चैत्रो दधि इत्यादावपि दधिकर्मकदर्शनान्वयबोधात् तादृशज्ञानहेतुताया अशक्यकल्पनीयत्वाच्चेति । तण्डुलं पचतीत्यादौ तण्डुलादिपदस्यैव तण्डुलादिकमके लक्षणा विभक्तिस्तु साधुत्वार्था । एवं राज्ञः पुरुष इत्यादावपि राजादिपदस्य सम्बन्ध्यादौ लक्षणा विभक्तिः साधुत्वार्था । तत्तद्विभक्तयन्तसमभिव्याहारस्य तत्तल्लाक्षणिकार्थबोधनियामकत्वान्नातिप्रसङ्गः । विभक्तरेव प्रकृत्यर्थविशेषितस्वार्थे लक्षणेति तु न सम्भवति । विभक्तेः कुत्रापि शक्तरक्लृप्ततया तत्र शक्यसम्बन्धरूपलक्षणाया असम्भवात् । तण्डुलः प्रमेय इत्यादौ विभक्त्यर्थामिश्रितस्यैव प्रकृत्यर्थस्य भानात् । प्रकृतिशक्तः स्वार्थे क्लृप्ततया तत्र लक्षणासम्भवादिति तु चिन्तनीयम् । राजादिपदस्य राजसम्बन्ध्यादौ शक्तत्वभ्रमदशामिव तदर्थलक्षणाग्रहदशायामपि राजसम्बन्धिनः पुरुष इत्यादाविव राजसम्बन्धिसम्बन्धीपुरुष इत्याद्यन्वयबोधस्य सर्वजनानामनुभवसिद्धत्वात्। पचति चैत्र इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यंशे विशेषणत्वोपगमे चैत्रो न पचतीत्यादावन्वयबोधानुपपत्तिद्रष्टव्या कृतिसम्बन्धस्यापि तदभाववत्तामुद्रायां भावस्य गुरुभूतत्वमस्त्येव तदभावव्याप्यवत्तामुद्रायामपि व्याप्याभावलाघवे द्विवारप्रवेशे लाघवोऽस्तु परन्तु तद्व्याप्यत्वलक्षणे व्यापकाभावप्रवेशे न तत्राप्यकाभावस्य गौरवात् । एवञ्चाभावद्वये लाघ Page #153 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १४५ वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिकाभावस्याप्रसिद्धया तद्बोधनासम्भवात् । ___ अथैवमपि चैत्रो जानातीत्यादौ चैत्रायंशे ज्ञानादेराश्रयतासम्बन्धेनान्वयबोधोपगमे क्षतिविरहः। श्राश्रयतासम्बन्धस्याभावप्रतियोगितावच्छेदकतया न जानातीत्यादौ आश्रयतासम्बन्धावच्छिन्नप्रतियोगिताकज्ञानाद्यभावस्यैव भानसम्भवात् । तथा च तत्राख्यातस्याश्रयत्वार्थकत्वं नियुक्तिकम् । न च धात्वर्थज्ञानादेराश्रयतासम्बन्धेन चैत्रादिरूपप्रातिपदिकार्थे साक्षात्प्रकारकत्वोपगमे ज्ञानं चैत्र इत्यादावपि तथान्वयबोधापत्तिरिति वाच्यम् । तादृशान्वयबोधे आख्यातान्तधातुसमभिव्याहारज्ञानस्य हेतुत्वात् । भवन्मतेऽप्याश्रयताप्रकारकबोधे तादृशसमभिव्याहारज्ञानस्य हेतुताया आवश्वकत्वात् । यत्तु पचति चैत्र इत्यादौ पाककृतिमांश्चैत्र इत्याकारकाख्यातार्थप्रकारकशाब्दबोधोत्पत्त्या तत्राख्यातजन्यकृत्युपस्थितेर्हेतुत्वकल्पनमावश्यकम् । तथा च तत्तदर्थविशेषाग्निवेश्यात्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेर्हेतुत्वकल्पने शक्यलक्ष्यसहस्रार्थभेदेनाख्यातजन्योपस्थिते: कारणताबाहुल्यमित्यर्थविशेषाननिवेश्य धात्वर्थप्रकारकान्वयबोधं प्रति प्रत्ययजन्योपस्थिते: समानविशेष्यताप्रत्यासत्त्यैव हेतुत्वमुपेयते । तथा च तादृशकारणबाधेन चैत्रा वम् । द्वये च गौरवं प्रकारतावादिमतेऽप्यस्ति संसर्गतावादिमतेऽपि तदेवास्तीति चेन्न । राजनिरूपितस्वत्वाद्यभावसामानाधिकरण्यात्यन्ताभावीयप्रतियोगितावच्छेदकधर्मापेक्षया गुरुशरीरत्वात् तद्धाभावीयप्रतियोगितावच्छेदकधर्मस्य गौरवात् । गौरवं संसर्गतावादिमते स्फुटते । स्यादेतत् 'ज्ञानाश्रयत्वे लाक्षणिकज्ञानपदघटितज्ञानं चैत्र इत्यादिवाक्ये । १० Page #154 -------------------------------------------------------------------------- ________________ १४६ व्युत्पत्तिवादः [ कारके देर्धात्वर्थज्ञानविशेष्यताया भानं न सम्भवति। यदि च धातुत्वप्रत्ययत्वादीनामनुगतानां दुर्निर्वचतया नैतादशानुगतकार्यकारणभावकल्पनं सम्भवतीति मन्यते तदापि तत्र ज्ञाधातोरेव पाकादौ लक्षणा' तत्र जानातीत्यादिवाक्यात्पाककृत्यादिप्रकारकान्वयबोधोत्पत्त्या ज्ञाधात्वर्थप्रकारकान्वयबोधे तदव्यवहितोत्तरतिप्त्वादिप्रकारकज्ञानजन्योपस्थिते: समानविशेष्यत्वप्रत्यासत्त्या हेतुतायास्तत्र कल्पनीयतया तादृशकारणबाधाच्चैत्रो जानातीत्यादौ चैत्रादेनिविशेष्यतया मानानुपपत्तिर्दुर्वारैवेति। तदप्यसत् । प्रत्ययान्तरार्थविशेष्यकशाब्दवोधे व्यभिचारवारणाय तादृशोपस्थितिवैशिष्ट्यस्य तादृशोपस्थितिजन्यतावच्छेदककोटौ अवश्यं निवेशनीयतया तदनुत्तरशाब्दबोधे चैत्रादेानादिविशेष्यतया भाने तादृशकारणबाधस्याकिश्चित्करत्वात् । तादृशानुपूर्वीघटकज्ञादिधातुजन्यज्ञानाद्युपस्थितिचैत्रादिरूपविशेष्योपस्थितियोग्यताज्ञानादिघटितसामग्ऱ्या आश्रयतासंसर्गकशाब्दबोधजनने बाधकामावात्। न चैतन्मते आश्रयतासम्बन्धेन ज्ञानादिप्रकारकशाब्दबोधे तादृशयोग्यताज्ञानहेतुत्वान्तरकल्पनाधिक्यम् । आश्रयतासम्बन्धेन ज्ञानविशिष्टचैत्रादितात्पर्यकात्सर्वनाम्नः साङ्केतिकशब्दान्तराद्वा तादृशसम्बन्धेन ज्ञानादिप्रकारकचैत्रादिविशेष्यकशाब्दबोधस्य सर्वमत एव प्रसिद्धावपि तादृशशाब्दबांधे पदार्थान्तरभाननैयत्येन तन्मिश्रितयोग्यताज्ञानस्य तत्र हेतुताया आवश्यकत्वात् । ज्ञानादिविशिष्टचैत्रादिमात्रविषयकयोग्यताज्ञानभ्य ज्ञानादिविशिष्ट संसर्गतावादिमते प्रतियोगितावच्छेदकधर्मस्य गौरऽपि प्रकारतावादिमतोपदर्शितमहद्गौरवस्य सत्त्वात् । अत्रेदं वक्तव्यम् । प्रथमं योग्यताज्ञानद्वैविध्येन गौरवं दत्तं तन्न संसर्गतावादिमतेऽपि राज्ञः स्वत्वं इत्यादौ निरूपित Page #155 -------------------------------------------------------------------------- ________________ १४७ प्रथमा ] जयाऽलङ्कृतः चैत्रादिविषयकशाब्दबोधे हेतुतायाः कुत्राप्यक्तृप्तत्वादिति वाच्यम् । ___ भवन्मतेऽपि ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकशाब्दबोधे तथाविधयोग्यताज्ञानहेतुताया आधिक्यात्। आश्रयतासंसर्गकज्ञानीयकारणतावच्छेदकस्य तदीयसंसर्गविषयताघटिततत्प्रकारकज्ञानकारणतावच्छेदकापेक्षया लघुशरीरतया आश्रयतायाः संसर्गतामतस्यैव लघुत्वात् । न च यत्राश्रयत्वे ज्ञाधातुसमभिव्याहृताख्यातस्य शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र ज्ञानाश्रयताप्रकारकशाब्दबोधस्योभयमतसिद्धतया तत्र तादृशयोग्यताज्ञानहेतुत्वमुभयमतसिद्धमेवेति वाच्यम्। आश्रयतायाः संसर्गतावादिना तत्राप्याश्रयताप्रकारकबोधस्यानभ्युपगन्तव्यत्वादिति चेत्-सत्यम् । एतदभिप्रायेणैव जानातीत्यादावाख्यातस्य निरर्थकतां मणिकार ऊरीचकार । ___ तत्राश्रयत्वे निरूढलक्षणामभ्युपगच्छतां दीधितिकाराणां पुनरेष प्राशयः । यत्र ज्ञाधातोर्ज्ञानाश्रयत्वे शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र चैत्राद्यंशे धात्वथैकदेशस्य ज्ञानादेरन्वयानुपपत्त्या स्वरूपसम्बन्धेन ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकान्वयबोध एव तत्र मणिकृता स्वीकरणीयः। तथा च तत्र ज्ञानाश्रयताप्रकारकशाब्दबोधे तत्प्रकारकयोग्यताज्ञानहेतुतायाः क्लुप्तत्वादाश्रयतासंसर्गकशाब्दबोधे तादृशयोग्यताज्ञानहेतुताकल्पनमधिकमेव मणिकृन्मते । न च दीधितिकृन्मते तादृशयोग्यताज्ञानहेतुत्वाकल्पनलाघवेऽपि जानातीत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुशक्तिज्ञानजन्यज्ञानोपस्थितिघटितशाब्दसामग्ऱ्या भिन्नविषयकप्रत्यक्षं त्वसंसर्गावच्छिन्नराजाद्यभावरूपवाधाभावयोग्यतास्वीकारेण योग्यताज्ञानस्य द्वैविध्यात् तदंशे साम्यात् । यदप्युपस्थितौ गौरवं प्रदर्शितं तदपि न राज Page #156 -------------------------------------------------------------------------- ________________ १४८ व्युत्पत्तिवादः ... [ कारके प्रति प्रतिबन्धकतायां आख्यातजन्याश्रयत्वोपस्थितेनिवेशनस्याधिक्याद्गौरवमिति वाच्यम् । ___ भवन्मतेऽपि ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दर इत्यादिविशिष्टवैशिष्टयावगाहिप्रत्यक्षे जानाति चैत्र इत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुजन्यज्ञानोपस्थितिघटितसामग्ऱ्याः प्रतिबन्धकताधिक्येन गौरवात् । मन्मते च तादृशसामग्रथा विरोधिज्ञानाश्रयत्वाभाववत्तानिश्चयाभावघटिततया' तथाविधविशिष्टवैशिष्टयबोधसामग्यस्ताहशशाब्दबोधसामग्ऱ्या समं युगपदवस्थानासंभवेन तादृशप्रतिबन्धकत्वकल्पनाविरहादित्यधिकं दर्शितदिशावसेयम् । । ' अथैवं रीत्या भूतले न घट इत्यादौ घटादिपदस्य घटप्रतियोगिकादौ तदुत्तरसुब्विभक्तरेव वा प्रतियोगितायां लक्षणामभ्युपेत्य तत्र घटप्रतियोगिकाभावो भूतलवृत्तिरित्याद्याकारकप्रतियोगिताप्रकारकशाब्दबोधोपगम एव समुचितः । तथा सति तथाविधसमभिव्याहारज्ञानघटितसामग्य घटप्रतियोगिकत्वाभाववानभावः प्रमेय इत्यादिविशिष्टवैशिष्टयबोधं प्रति प्रतिबन्धकत्वाकल्पने लाघवादित्युक्तनियमे निपातातिरिक्तत्वविशेषणवैयर्थ्यमिति चेत्-न।भूतले न घट इत्यादौ घटाद्यभावे भूतलाद्यन्वितसप्तम्याधेयत्वस्येव तात्पर्यवशाद्धटादौ सप्तम्यन्तार्थभूतलादिवृत्तित्वा पुरप्रवेशन्यायन राज्ञः पदजन्यराजनिरूपितस्वत्वत्वाद्यवच्छिन्नोपस्थितिरेका पुरुषपदजन्यपुरुषत्वावच्छिन्नोपस्थितिद्वितीया इत्येवमुपस्थितावपि साम्यम् । संसर्गतावादिमते उपदर्शितप्रतिबध्यप्रतिबन्धकभावकल्पनं व्याप्यलक्षणीय 'निश्चयघटिततयेति गूढार्थतत्त्वालोके । Page #157 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १४६ भावस्यान्वयबोधोऽप्यनुभवसिद्धः। अन्यथा तादृशवाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घट इत्यादिवाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधितायाः सर्वानुभवसिद्धाया अनुपपत्तेः । नञ्पदं विना यत्र धर्मिणि यस्य विशेपणतया भानं यादृशसमभिव्याहाराद्भवति तादृशसमभिव्याहारस्थले नसत्त्वे तत्र धर्मिणि तदभावः प्रतीयते इत्यनुभवापलापप्रसङ्गाच्च । एवं च नञर्थाभावेऽनुयोगितया घटाद्यन्वयबोधोपपत्तये निपातातिरिक्तत्वविशेषणमावश्यकम् । एवं न पचति चैत्रः, चैत्रस्य न धनमित्यादौ पाककृतिचैत्रस्वत्वाद्यभावस्य नबर्थस्य चैत्रधनादावन्वयबोधोपपत्तये घटो न पट इत्यादौ नबर्थघटादिभेदस्यान्वयबोधोपपत्तये च तदावश्यकम् । न चोक्तस्थलेषु नञोऽभाववल्लाक्षणिकतयाऽभाववता सममनुयोगिनामभेदान्वयबोध एव तत्रोपेयते इति वाच्यम् । तथा सति सर्वत्राभाववत एव नबर्थतया मुख्यार्थपरनयो दुर्लभत्वापत्तेः अभावस्य भेदान्वयबोधोपगमेऽपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति लक्षणा नौचित्यात् , अभाववतोऽभेदान्वयबोधोपगमे भूतले घट इत्यादिवाक्यजन्यबोधे भूतले न घट इत्यादिवाक्यजन्यबोधस्याविरोधितापत्तेश्च लाघवात् स्वरूपसम्बन्धेन ग्राह्याभावप्रकारकनिश्चयस्यैव विशिष्टबुद्धिविरोधित्वान्न त्वभेदसंसर्गकग्राह्याभावाश्रयकारकनिश्चयस्येति । नीलो घट इत्यादौ विशेषणविभक्तरभेदार्थकत्वमतेऽपि यद्यप्युक्तरीत्या लाघवं सम्भवति तथापि तत्रापि न नो विद्वेष इति दिक् । प्रतियोगितावच्छेदकगुरुधर्मस्य च स्वीकार इत्येतद्गौरवद्वयं सर्वथा अस्त्येवेत्यलं पल्लवितेन । Page #158 -------------------------------------------------------------------------- ________________ 47UNEnj है प्रत्ययाश्च विभक्तिकृत्तद्धितादिभेदेन नानाविध :। विभक्ति च । सुप्तिभेदेन द्विविधा । सुब्बिभक्तयः प्रथमाद्वितीया 'यः सप्त । तत्र प्रथमार्थः प्रकृत्यर्थे विशेषणविधयान्वयिनो संख्यैव । अत एव यत्र विशेष्यवाचकसमानविभक्तिकपदं निपातपदं वा नास्ति तत्र प्रथमा- . न्तार्थस्य विशेष्यमासकसामग्न्यभावादसौ मुरव्यविशेष्यतयैव . भासते । संख्यावाचकानां च एकवचन द्विवचनबहुवचनानामेकत्वस्वद्वित्वत्ववहुत्वत्वावच्छिन्नेषु शक्तिः । शक्तता च शुत्व-ौत्वजस्त्वादिना न तु स्वादितिबादिसाधारणैकवचनत्यादि ना। एकवचनत्विादेदुवंचत्वात् । न चैकत्वादिवाचकत्वं तत् । वानकतायाः शक्ततावच्छेदकत्वे आत्माश्रयात्। वोधकतारूपत्वे शक्ति भ्रमेण द्विवच-. मादीनामपि एकत्वबोधकतया अतिप्रसक्तत्वात् । न चैकवचनत्वा- । दिकं जातिविशेषः सुप्त्वादिना सांकर्यात् । न च शक्तिसम्बन्धन एकवचनादिपदवत्त्वं तत् । तदिशाज्ञानविरहदाय च सुत्वादिना 'शक्तिभ्रमादेव शाब्दबोधः । एकवचनादिशब्दस्य पदद्वयात्मकतया तादृशसमुदायशक्तेरेवाप्रसिद्धिरिति तु नाशङ्कनीयम् । एक वक्ती-. त्यादिव्युत्पत्त्या एकवचनादिशब्दस्य स्वादिबोधकत्वे एकादिशब्देऽपि तादृशव्यवहारापत्तेः । एकवचनादिशब्दस्व स्वादौ रूढिस्वीकारस्यावश्यकत्वादिति वाच्यम् । ग्रन्थकारीयसङ्केतेनैवोपपत्ती एकवचनादिपदे शक्तेरप्रामाणिकत्वात् । तान्येक वचन द्विवचने'त्यादिपाणिनिसूत्रस्य तदीयसङ्केतग्रहपरतयाप्युपपनेः। न हि यू स्त्र्याख्यौ नदीत्यनुशासनात् स्न्याख्येदृदन्तादिशब्द नद्यादिपदस्य शक्तिः सिद्धयति । किन्तु तदीयसङ्केत एव । अत एव नद्यादिसंज्ञा आधुनिकसङ्केतशालित्वात्पारिभापिक्येव न त्वौपाभिकी। ऋक्षेत्रमपि पाणिनिसङ्केतसम्बन्धेन ताशपदवत्त्वमेव सत्यादिशक्ततावच्छेदकमस्त्विति चेत्-न। तादृशसङ्केतस्य केन रूपेण सम्बन्धता सङ्केतंत्वेनेति चेत्तर्हि कस्य चित्पुंस एकवचनपढ़ात सुऔजसादि Page #159 -------------------------------------------------------------------------- ________________ प्रथमा ] १५१ अन्यथा बोद्धव्य इत्याकारक सङ्केतस्थापि सम्भवादतिप्रसक्तिर्दुर्वारैव । पाणिनि सङ्केतत्वेन तथेति चेत्तर्हि व्याकरणप्रणेतुः पुरुषान्तरस्यापि तादृशसङ्केतस्य सम्भवात् + तदीयसङ्केतसम्बन्धेन तत्पदवत्त्वस्य डित्थादिपदात् सुजसादिर्वोद्धव्य इत्याकारकपुरुषसङ्केतसम्बन्धेन डित्यादिपदवत्त्वस्य वा विनिगमनाविरहेण शक्ततावच्छेदकताप्रसङ्गः। तथा चागत्या आनुपूर्वीविशेष एव शक्ततावच्छेदक इति । १ यन्तु संख्यापि प्रकृतेरर्थः । एकवचनादिकं च एकत्वाद्यर्थे तात्पर्यग्राहकमेव वचैव मेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वये आकाङ्क्षाविरहाद्घटादावेकत्वाद्यन्वयानुपपत्तिः । हर्यादिपदादुपस्थितयोरश्वसूर्ययोराधाराधेयभावेनान्वयापत्तिः घटादिपदस्य एकत्वादिविशिष्टस्य घटादौ च न शक्तिसम्भवः । घटरूपं पश्येत्यादौ संख्यानवच्छिन्नघटादेरेवान्वयबोधादिति वाच्यम् । आकाङ्क्षावैचित्र्यादेकप्रकृत्युपस्थाप्ययोरपि घटैकत्वयोः परम्परमन्वयसम्भवात् । अत एव खण्डशक्त्यैवकाराद्युपस्थाप्ययोरन्ययोगव्यवच्छेदाद्योः परस्परमन्वयबोधः । न चैवं कर्मत्वादिकमपि प्रकृत्यर्थ एवास्तु, किं तत्र द्वितीयादिशक्त्येति वाच्यम् । नामार्थधात्वर्थयोः साक्षाद्भेदान्वयबोधस्याव्युत्पन्नतया कर्मत्वादेर्नामार्थत्वे तेन समं धात्वर्थान्वयासम्भवात् । च च संख्यायाः प्रातिपदिकार्थत्वे सति तात्पर्यज्ञाने विनैव शक्तिभ्रमं लक्षणाग्रहं वा द्विवचनाद्यन्तपदादेकत्वादिवोधसम्भवात् । एकत्वादितात्पर्येण एकवचनान्तस्येव द्विवचनान्तस्यापि पदस्य स्वारसिकप्रयोगापत्तिरिति वाच्यम् । अनादितात्पर्यस्यैव स्वारसिकप्रयोगमूलत्वादेकवचनाद्यन्तपदस्यैव एकत्वादावनादितात्पर्योपगमेनातिप्रसङ्गविहरात् । द्वयेकयोद्विवचनैकवचने इत्याद्यनुशासनं च तादृशतात्पर्यग्राहक मेवेति वैयाकरणमतम् । तक्सत् । अनन्तानां प्रकृत्यानुपूर्वीणां शक्ततावच्छेदकत्वापेक्षया अल्पतरविभक्त्याद्यानुपूर्वीणामेकत्वा जयाऽलङ्कृतः Page #160 -------------------------------------------------------------------------- ________________ दिशक्ततावच्छेदकत्वस्यैवोचितत्वात् । नच प्रातिपदिकत्वमेव शक्ततावच्छेदकं न तु घटपदत्वादिकमिति न शक्यानन्त्यमिति वाच्यम् । प्रातिपदिकत्वस्य दुर्निर्वचत्वात् । तदज्ञानेऽ पि एकत्वादिज्ञानस्यानुभविकत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे विभक्तेरपि तद्वाचकतासिद्धिः । एकत्वादिशाब्दबोधात्पूर्वं वर्णवाद्युपस्थितेरप्यनावश्यकत्वाच्च । फलानुरोधेन तत्कल्पने च कल्पनागौरवात् । एवमानुपूर्वीभिन्नधर्मस्य वाचकतावच्छेदकत्वे घटपदं सुपदं च न संख्यावाचकमिति विपरीतनिश्चयकालेऽपि तादृशधर्माविच्छिन्नस्य वाचकताग्रहसम्भवाद्घट इत्यादौ संख्या बोधापत्तिः । अथ विभक्तीनां संख्यार्थकतामते प्रकृतिविभक्त्योरेकवाक्यताविरहनिश्चयदशायां विभक्त्युपस्थाप्यैकत्वादेः प्रकृत्यर्थेऽन्वयबोधवारणाय तयोः समभिव्याहारज्ञानस्य घटादिविशेष्यकैकत्वान्वयबोधं प्रति कारणत्वमधिकं कल्पनीयम् । एकपदो नस्थापितयोः घटैकत्वाद्योरन्वयबोधोपगमे च न समभिव्याहार ज्ञानस्य तत्र हेतुता कल्प्यते इति लाघवात्, प्रकृत्याद्यानुपूर्वीणां संख्यावाचकतावच्छेदकत्वमुपेयत इति चेत् न । आकाङ्क्षाविचारे समभिव्याहाराकाङ्क्षाज्ञानस्य हेतुताया निराकृतत्वात् । अथैवमपि विभक्तेः संख्यार्थकत्वे विनिगमनाविरहेण प्रकृतिधर्मिकस्य विभक्तिधर्मिकस्य च संख्याप्रकारकान्वयबोध परत्वज्ञानस्य हेतुताकल्पनया | विभक्ति: संको पं. बोपजनयवित्योंकर की विभक्तेद्यतकत्वमते (अबोधकत्वमते ?) तु विभक्तितात्पर्यविरहेण प्रकृतिधर्मिकमेव तात्पर्यज्ञानं तादृशान्वयधीहेतुरिति लाघवमिति चेतना विभक्तेः संख्यावाचकताविरहेऽपि प्रकृतिविभक्त्योरानुपूर्वीज्ञानस्य तादृशान्वयबोधहेतुताया श्रनिर्विभक्तकादिपदज्ञानादन्वयबोधवारणायावश्यकल्पनीयतया संख्यावाचक प्रकृतेरिव तद्वाचकविभक्तेरपि संख्यान्वयबोधकत्वप्रकारकेच्छाविषयत्वरूप Page #161 -------------------------------------------------------------------------- ________________ प्रथना ] तान् शवोधपरत्व भवेन विभक्तिधमिकतज्ज्ञानहेतुताया विनिगमनाविरहेणावश्यक त । अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया प्रकृतेस्तत्र लक्षवाचिता। शक्यलक्ष्ययोः परस्परमन्वयोपगमे नलिविरहात। प्रथमाविभक्तः कुत्रापि शक्तरक्तृप्ततया तस्याः शवयसम्बन्धरूपा लक्षणा न संभवति । द्वितीयादेः कर्मत्वादौ शक्तत्वेऽपि त दशविभक्तस्तत्समभिव्याहृतप्रकृतेर्वा संख्यायां लक्षणा इत्यत्र विनिगमकं दुर्लभम् । न चैकत्वाद्यन्वयबोधे घटपदादिज्ञानजन्याप थितित्वेनानन्तहेतुताकल्पनामपेक्ष्य स्वादिपदबानजन्यतदुपम्पितित्वेन कतिपयतुताकल्पनायां लाघवात्कतिपयशक्तिकल्पने गौरवमकिंचित्करम् । सामान्यतः पदवृत्तिज्ञानजन्यतदुपस्थितित्वेनैक कारणताकल्पनन्तु न सम्यक् । निर्विभक्तिककुम्भपदादितः संख्यापस्थितौ तदगृहीतवृत्तिकघटादिपदे तत्तद्विभक्यान्तत्वज्ञानवर : पुंसो घटादौ संख्यामान्वयबोधप्रसङ्गात्। घटपसारज्ञानजन्यैक वायुपस्थितित्वेनैकत्वादिविपयूकशाव्दवोधहेतुतां कल्पयित्वा विरक्तिघटादिपदानुपूर्वाज्ञानतादशीपस्थित्योः परस्परमाकारेण फ जनकताया अवश्याभ्युपेयत्वादिति ...वाच्यम् । घदादिपदस्यैकत्व दो लक्षणाग्रहसत्त्वे घट: प्रमेय इत्यादिवाक्यादेक वं प्रमेयमित्र द्यन्वयवोधस्य सर्वसंमततया तदनुरोधेनैकत्वादिविपयकशाब्द धेि घटादिपदजन्यैकत्वाद्युपस्थितित्वेन हेतुतायाः सर्वसंमतत्वात् । मैवम् । यादृशयादशपदानां लक्षणया एकत्वादिशव धीजनकत्वं नोभयवादिसिद्धं ताशानन्तपदज्ञानजन्यैकत्वाद्युपस्थितीनां ताब्दहेतुत्वकल्पनं प्रकृतेः संख्यावाचकतावादि: नामधिकमिति किल्पनापेक्षया चाल्पतरस्वादिपदजन्यैकत्वाद्युपस्थितिहेतुनाकलानमेव नाघवम् । एतेन संख्याविशेषावच्छिन्नघटादिलक्षणया : कृतरर्थः। न तु संख्याविभक्त्यर्थः । शाब्दबोधे विभक्तिजन्यसंख्यापस्थितिहेतुताकल्पनाधिक्येन गौरवात् । घटादि Page #162 -------------------------------------------------------------------------- ________________ १५४ व्युत्पत्तिवादः [ कारके पदस्यैकत्वादिविशिष्टघटादौ लक्षणाग्रहदशायां सर्वमत एव तज्जन्यविशिष्टविषयकोपस्थित्या विशिष्टविषयकशाब्दधीज ननात्तथाविधोपस्थितिहेतुतायाः सर्वानुमतत्वात् । पदान्तरासमभिव्याहृताद्घट इत्यादिपदादेकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव। तद्विपयकस्मरणस्य तत्रोपगमात् । तथाचोक्तं सर्वं हि वाक्यं क्रियया परिसमाप्यते इत्यपि निस्स्तम् । यादृशपदानां लक्षण्या एकत्वादिविशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्यविशिष्टोपस्थितीनां शाब्दधीहेतुताकल्पनमपेक्ष्य विभक्तिजन्यसंख्योपस्थितीनामल्पानां तत्कल्पने लाघवात् । इदं पुनरिहविधेयम् । विभक्तेः संख्याबोधकत्वे समानविषयकानुमित्यादिकं प्रति शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिकजन्या घटाद्युपस्थितियां च विभक्तिजन्या संख्योपस्थिति: प्रवेश्या तयोश्च मिथो विशेष्यविशेषणभावे विनिगमनाविरहात्प्रतिबन्धकताबाहुल्यम् । प्रकृतेर्विशिष्टलाक्षणिकत्वे तु तदुभयग्थलीयविशिष्टविषयकोपस्थितिरेकैव सामग्यमन्तर्भवति इति लाघवम् । न च विशिष्टविषयकोपस्थितेरपि एकत्वादिप्रकारतानिरूपितघटादिविशेष्यताशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिविषयता (प्रकारता) शालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् । भवन्मते १ योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावषट्कम् । मन्मते तत्र योग्यताज्ञाने विशिष्टविषयकोपस्थिते: प्रत्येकं दर्शितोभयरूपेण वैशिष्ट्यं निवेश्य तदुभयं प्रत्येक ताशरूपद्वयावच्छिन्नायामुपस्थितौ योग्यताज्ञानम्य वैशिष्ट्यं निवेश्य द्वयमिति 2 बच्चतुष्टयमात्रमितिरीत्याऽस्माकमल्पतरतत्कल्पने महल्लाघवम् । तारसरीत्यैव च प्रणमतीत्यादौ प्रकर्षविशिष्टनतिर्कीतूनामेवार्थः । प्रादयो द्योतका एव न तु प्रकर्षादिवाचका Page #163 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १५५ इति सर्वानुमतः पन्थाः परिष्कर्तुं शक्यते । अन्यथाऽनन्तधातुजन्यप्रकर्षादिविशिष्टतत्तत्स्वार्थोपस्थितीनां शाब्दधीजनकतामपेक्ष्य कतिपयोपसर्गाधीनप्रकर्षाद्युपस्थितीनां तज्जनकताकल्पने लाघवात्। स्वादीनामिव प्रादीनामपि वाचकता निराबाधा सिद्धयोति । संख्यायाम प्रकव्यर्थे पर्याप्तिसम्बन्धेनैव' विशेषणत्वं न तु समवायादिना। तथा सति एकव्यक्तिमात्रबोधपरादाकाशशब्दादपि द्विवचनबहुवचनाद्यापत्तेः। तत्तदर्थयोर्द्वित्वबहुत्वयोः समवायादिना आकाशाद्यन्वययोग्यत्वात् । नच पर्याप्तः संसर्गत्वेऽपि तदोषतादवस्थ्यम् । घटाकाशादौ द्वित्वादेः पर्याप्तिसत्त्वे प्रत्येकमाकाशादौ तत्पर्याप्तिर्नास्तीति वक्तुमशक्यत्वात् । प्रत्येकस्योभयानतिरिक्तत्वादिति' वाच्यम् । उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव' 'पर्याप्तिसम्बन्धेनापि विशेषणत्वं न तु समवायादिनैवेत्यन्वयः । तेन समवायावच्छिन्सपर्याप्तिसम्बन्धेनान्वय इत्यर्थः फलितः। अन्यथा रूपवानाकाश इत्यादावपि पर्याप्तिसम्बन्धेनान्वयबोधापत्तिः स्यादिति विवेकः । २ उभयानतिरिक्तत्वादिति । उभयमनतिरिक्तं यस्मादिति व्युत्पत्तिः । उभयन्न तु प्रत्येकान्निं किन्तु तत्स्वरूपमित्यर्थः । अन्यथा प्रत्येकमुभयानतिरिक्तत्वप्रतिपादनं सर्वतो विरुद्धमेव प्रतीयेत । ननूभयस्य प्रत्येकादभिन्नत्वात् प्रत्येकवृत्तिधर्मवद्भवतूभयं प्रत्येकन्तूभयस्मादभिन्नत्वात् + कथं समुदायवृत्तिधर्मवानवयवो भविष्यतीति चेत् सत्यम् । यद्वृत्तिभेदप्रतियोगितावच्छेदकधर्मशून्यो यश्च भवति स तद्वृत्तिधर्मवान् भवतीति नियमात् उभयस्मिन् प्रत्येक भेदास्वीकारात् तद्वृत्तिभेदप्रतियोगितावच्छेदकधर्मशून्यत्वात् प्रत्येकं समुदायवृत्तिधर्मवत्वात् समुदायवृत्तिपर्याप्तेरवयवेऽपि निर्बाध एवेति भाव । ३ समवायस्पैक्ट ादुद्देश्यतावच्छेदकव्याप्यत्वस्य तत्र बाधादाह-पर्याप्तेरेवेति । Page #164 -------------------------------------------------------------------------- ________________ संसर्गतोपगमात् । आकाशत्वादिव्याप्यताया द्वित्वादिप्रर्याप्तावसत्त्वेनातिप्रसङ्गविरहात् । वैशिष्टय" च वैज्ञानिकं न तु वास्तवम् । तेन यत्र योग्यताभ्रमजन्यः अत्राकाशावित्यादिवाक्यजन्यद्वित्वादिप्रकारकाकाशबोधस्तत्र विशिष्टसंसर्गाप्रसिद्धावपि न क्षतिः । द्वित्वादिपर्याप्तावन्यत्र प्रसिद्धस्याकाशत्वादिव्याप्यत्वस्य भ्रान्तेस्तत्रोपगमात् । सम्बन्धताच्छेदकांशे पुकारतायां भ्रमस्य सर्वानुभवसिद्धत्वेऽपि व्याप्यत्वांशे) भ्रमत्वस्यान्यत्रोपपादितत्वात् । नच प्रकृत्यर्थतावच्छेदक एव व्यापकतासम्बन्धेन द्वित्वान्वयधीः किं नोपेयते इति वाच्यम् । घटोवित्यादौ घटत्वादीनां स्वरूपत एवोपस्थिततया तत्रोक्तान्वयबोधस्यासम्भवात् । स्क्व्यापकीभूतोद्देश्यतावच्छेदकवत्त्वरूपपरम्पराया एव प्रकृत्यर्थे द्वित्वादेः सम्बन्धतास्वीकारे च व्यापकतारूपसम्बन्धतावच्छेदकांशे' भ्रमत्वस्यावश्यकतया उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेः सम्बन्धतोपेक्षायां नि:जत्वात् । 'वैशिष्टयमिति सक्योजायमानशाब्दबोधायाँ "याँ"पी" प्तिनिष्ठा सांसर्गिकी विशेष्यताख्या विषयता सा उद्देश्यतावच्छेदकव्याप्यत्वनिष्ठविशेषणताख्यविषयतानिरूपितापेक्षितेति भावः। एतेन भ्रान्तपुरुषीयवैज्ञानिकवैशिष्ट्यमादायाभ्रान्तस्य न शाब्दबोधापत्तिः जायमानशाब्दबोधनिरूपितसांसर्गिकी विषयतायास्तादृशविषयता नरूपितत्वाभावादिति विमर्शः। सम्बन्धतावच्छेदकांश इत्यादि । सम्बन्चतावच्छेदकांशस्य प्रकारतयोपस्थितत्वाभावेऽपि तद्व्यापकीभूतविशेषणत्वेनोपस्थितेः अतद्वति तत्प्रकारकरूपज्ञानस्याभावेऽपि अतद्वति तद्विशेषणकज्ञानस्य सत्त्वात् तस्यापि भ्रमत्वाङ्गीकारादिति भावः । एतच्च विषयतावादेऽप्युपपादितमिति । Page #165 -------------------------------------------------------------------------- ________________ अथात्र व्याप्तियापकसामानाधिकरण्यरूपैव वाच्या न तु तद्वदन्यावृत्तित्वरूपा, केवलान्वयिधर्मस्य प्रकृत्यर्थतावच्छेदकता यत्र तत्राप्रसिद्धेः । एवं चोद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्त्यपेक्षया लघोः स्वव्यापकतादृशधर्मवत्त्वस्यैव सम्बन्धत्वमुचितमिति चेत्तर्हि आकाशो न द्वावित्यादिवाक्यजन्यशाब्दबोधदशायामपि आकाशावित्यादिवाक्याद्वित्वबोधापत्तिः । तथा हि आकाशो न द्वावित्यादितो द्वित्वावच्छिन्नभेदः प्रतीयते । स च न स्वव्यापकाकाशत्ववत्त्वादिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकः । तादृशसम्बन्धेन द्वित्वक्तोऽप्रसिद्धेः । अपि तु पर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताक एव । तत्काले च पर्याप्तिसम्बन्धेन द्वित्वविशिष्टबुद्धिरेव प्रतिबध्यते न तूक्तपरंपरासम्बन्धेन तद्विशिष्टबुद्धिरपीति । अथाकाशो न द्वावित्यादौ केवलपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगिताकछेदकताकभेदो (यत्र नबा बोधयितुं न शक्यते । आकाशेऽप्युक्तरयुक्तथा द्वित्वपर्याप्तेः सत्त्वेन तत्र तेन सम्बन्धेन तद्वद्भेदस्य वक्तुमशक्यत्वात्। आकाशत्वव्याप्यपर्याप्तिसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकताकद्वित्वादिमद्भेदश्वाप्रसिद्ध एवेति चेत्-न । द्वित्वादिपर्याप्तेरुभयादिवृत्तिधर्मेणैवावच्छेदात। तदनवच्छेदकैकमात्रवृत्तिधर्मावच्छेदेन तद्वद्भदेस्य तेन सम्बन्धन द्वित्वादिमद्भेदस्य? च तद्वति वृत्तौ बांधकाभावात्। न चैवं घटपटौ न द्वाविति प्रयोग आपद्येत । घटपटयोरपि प्रत्येकं द्वित्वावच्छिन्नभेदसत्त्वादिति वाच्यम्। द्विवचनाद्युपस्थापितद्वित्वावच्छेदेनैव द्वित्वावच्छिन्नभेदस्य बाधेन तादृशप्रयोगाभावोपपत्तेः। नया व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताको दृश्योद्देश्यतावच्छेदकावच्छेद्वेनैव, बोध्यत इति व्युत्पत्तेद्वित्वसामानाधिकरण्येन तंदवाधस्याकिचित्करत्वात् । न च. १ घटत्वादेरतिप्रसक्ततया द्वित्वादिपर्याप्तेरनवच्छेदकत्वात्तदवच्छेदेन 41AMITA. Page #166 -------------------------------------------------------------------------- ________________ 17 १५८ व्युत्पत्तिवादः [ कारके द्वित्ववद्भेदस्य भवतामप्यनुमतत्वात् प्रकृत्यर्थगतैकत्वाविवक्षायां' घटो न द्वावित्यादिप्रयोगापत्तिरिति वाच्यम् । तादृशप्रयोगाभावे 'घटत्वादेर्द्वित्वपर्याप्तेरिव द्वित्वादिमन्दस्याप्यनुयागितावच्छेडकताया अप्रामाणिकत्वात् , प्रतियोगितावच्छेदकति या भेदावच्छेदकतानियतत्वासिद्धेः। ____ अस्तु घातिप्रसक्तोऽपि घटत्वादिर्द्वित्वपर्याप्तेर पच्छेदकः घटावित्यादिप्रतीतिबलात्। वस्तुतस्तु घटत्वादेः प्रत्ये-द्वित्वपर्याप्तयनवच्छेदकत्वेऽपि द्वित्वपर्याप्तित्वावच्छिन्नानतिप्र सक्ततया तदवच्छिन्नावच्छेदकत्वमव्याहतमेव । अथ पयोख्यिविलक्षणसम्बन्धं एवाप्रामाणिकः तत्कथं तत्सम्बन्धता। आकाशो न द्वावितिप्रतीतिस्तु समवायसम्ब'न्धावच्छिनप्रतियोगितावच्छेदकताकद्वित्वावच्छिन्नभेदविपयिकैवास्ताम्। आकाशादौ द्वित्वसमवायसत्त्वेपि द्वित्वादें वोभयादिवृत्तिधामावावच्छिावोपगमात्तदनवच्छेदकाकाशत्वाद वच्छेदेन समवायसंबन्धेन तद्वतो भेदस्य वृत्तौ बाधकाभावा इति चेब-न । 'एकत्वाविवक्षायामिति । एकत्वविवक्षायामाकाशो न द्वाविति वदिष्ट एवेति भावः । २ उद्देश्यतावच्छेदकावच्छिन्नपर्याप्तिसम्बन्धेर्दैवान्वयमुरीकृत्याह-प्रतातिबलादिति । __'अव्याहतमेवेत्यादि। तत्पदप्रतिपाद्यघटाद्यर्थान्वयिद्वित पर्याप्त्यपेक्षागी घटत्वादेन्यूनवृत्तित्वाभावादाह-अव्याहतमिति । अन्यथा द्रित्वपर्याप्तित्वावच्छिन्नस्य पटादावपि सत्त्वेन घटादावपि सत्त्वेन घरत्वादेरतदपेक्षया न्यूनवृत्तित्वात् । अन्यनानतिप्रसक्तधर्मस्यैव प्रतियो तावच्छेदकता व्याधकरात्पलायमानहरिणस्य वागुरापातः स्यादिति दिव । Page #167 -------------------------------------------------------------------------- ________________ आकाशावित्यादिवाक्यूजन्यशाब्दबोधस्याप्रमात्वानुपपत्त्यैव ताहशसंबन्धसिद्धेः । तादृशबुद्धेः समवायविषयकत्वे प्रमात्वनिराकरणस्य कर्तुमशक्यत्वात् । उद्देश्यतावच्छेदकव्याप्तिविशिष्टसमवायस्य संसर्गतापगमे घटावित्यादिवाक्यस्याप्यप्रमाणतापत्तिः । ल्वे प्यरन्तु समधूम দেते ६ समवायस्यैकेन घटादिनिष्ठस्य द्वित्वादिसमवायस्य पटादावपि सत्त्वन घटत्वाद्यव्याप्यत्वात् । न चोद्देश्यतावच्छेदकव्याप्यद्वित्वादिसमवायत्वेनैव संबन्धतास्तु । द्वित्वादिसमवायस्य घटत्वाद्यव्याप्य - त्वेपि द्वित्वादेस्तचाप्यतया न घटावित्यादेरप्रमाणतेति वाच्यम् ।। एवं सति तथाविवद्वित्वादेरेव लाघवेन द्वित्वादिसंबन्धतौचित्यात् । अथास्त्वेवमेव तावतापि पर्याप्तिसंबन्धस्य विलयादिति घेत्-न । द्वित्वादिस्वरूपस्यैव द्वित्वादिपर्याप्तित्याभिमतसिद्धेः । उक्तं च दीधितिकृता- 'पर्याप्तिश्चायमेको घट इमौ द्वावित्यादिप्रती - तिसाक्षिकः स्वरूपसंवन्धविशेष' इति । समवायस्य नानात्वमते च द्वित्वादिसमवाय एव तत्पयाप्तिर्न तु स्वरूपमतिरिक्तपदार्थों वेत्यन्यदेतत् । पते आकाशं न द्वे इत्यादिप्रतीतिवदाकाशं न द्वित्ववदिति प्रतीतेः प्रमात्वस्य वारणाय समवायेन द्वित्वादिमद आकाशत्वावच्छेदेन न स्वीकर्त्तव्यः । तथा च पर्याप्तरविलक्षणत्व आकाशं न हे इत्यादिप्रतीतेरप्यप्रमात्वापत्तिरिति “लन्न । आकाशं न द्विवदिति प्रतीतौ द्वित्वसमवायावच्छिन्नभेद एव विषयः मतुपा संवन्ध्युल्लेखात् । न तु द्वित्वाद्यवच्छिन्नभेदः । एवं चाकाशत्वाद्यवच्छेदेन द्वित्वाद्यवच्छिन्नभेद एव स्वीकर्त्तव्यः । न तु तत्संबन्धावच्छिन्नभेद इत्याकाशं न द्वे इति प्रतीतेरप्रमात्वस्याकाशं न द्वित्ववदिति प्रतीतेर्वा प्रमात्वस्य न प्रसङ्ग इति । अथोद्देश्यतावच्छेदकव्याप्यपर्याप्तेर्द्वित्व संबन्धत्वे धवखदिरौ छिनत्तीत्यादौ उद्देश्यतावच्छेदकी भूतधवत्वखदिरत्वव्याप्यं द्वित्वादिद्वयमेव प्रत्येतव्यम् । न तु धवखदिरादिपर्याप्तद्वित्वादिकम् । तथा Page #168 -------------------------------------------------------------------------- ________________ चैकैकधवखदिरादितात्पर्येण तथा प्रयोगानुपपनिरिति द्वित्वान्वयितावच्छेदकमपेक्षाबुद्धिविशेषविषयत्वादिरूपमुभयादिनिष्ठं साहित्यं द्वन्द्वसमासार्थो वाच्यः। तथा च मीमांसकमतप्रवेश इति चेव--- । यत्रैकधर्मस्य द्वित्वाद्युद्देश्यतावच्छेदकता' तत्रैवोद्देश्यतावच्छेदकव्याप्तिविशिष्ट पर्याप्तेः संसर्गतानियमः। यत्र धर्मद्वयादे 'यत्रैकधर्मस्य द्वित्वाद्युद्देश्यतावच्छदकतेति । आकाशाविल्यादेरप्रामा., ण्याय उद्देश्यतावच्छेदकव्याप्यपर्याप्तेःसंसर्गताधवखदिरावित्यादेः प्रामाण्याय नानाधर्मावच्छिन्नोद्देश्यताकद्वित्वाद्यन्वयबोधे शुद्धपर्याप्तेः संसर्गता उक्ता। एवं सति कालाकाशसमवायगतबहुत्वपर्याप्तेः कालाक शेऽपि सत्त्वात्तत्र नानाधर्मस्यानुयोगितावच्छेदकत्वेन शुद्धपर्याप्तेः संसर्गतोपगमात् कालाकाश इत्यस्यापि प्रामाण्यं स्यात् । उभयधविच्छिन्नोद्देश्यताकबहुत्वान्वयबोधेऽपि उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः सम्बन्धतोपगमे घटाश्च पटाश्च घटपटा इत्यादेरप्रामाण्यापत्तेः । न च तद्वारणायोभयावृत्तिधर्मद्वयावच्छिन्नोद्देश्यताकेत्यादि युज्यते वक्तुम् । कालाकाशसमवाया इत्यादावपि उभयावृत्तिकालत्वाकाशत्वधर्मद्वयावच्छिन्नत्वं धर्मत्रयावच्छिन्नोद्देश्यताया अक्षतमेवेति प्रामाण्यापत्तेरनिस्तारात् । उभयधर्ममात्रावच्छिन्नत्वनिवेशे निरुक्तस्थले दोषलेशाभावेऽपि घटपटमठगतबहुत्वपर्याप्तेः घटपटे सत्त्वेन तस्मिन् बहुत्वान्वयतात्पर्येण घटपटा इत्यादीनां प्रामाण्यापत्तेरनिवार्यत्वात् अत्र-मैथिलाः उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः संसर्गता यत्रोद्देश्यतावच्छेदकता पर्याप्तिवृत्तिस्तत्रैव । यत्र च न पर्याप्तेरुद्देश्यतावच्छेदकताधिकरणत्वं तत्र केवलपर्याप्तेरेव संसर्गता । वृत्तित्वं च स्वनिरूपकोद्देश्यतावच्छेदकताक्षयवदन्यवृत्तित्वसम्बन्धेन । एवञ्चाकाशावित्यत्र द्वित्वपर्याप्तेरुद्देश्यतावच्छेदकतानिरूपकोद्देश्यता आकाशवृत्तिस्तदवच्छेद-ताश्रयवदन्यो घटादिस्तवृत्तित्वेन विशेषपर्याप्तेस्संसर्गतया नाभ्रान्तस्य ताक्याद्वित्वान्वय Page #169 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः स्तथात्वं तत्र केवला पर्याप्तिः समवाय एव वा संसर्ग इत्युपगमात् विनैव साहित्यस्यान्वयितावच्छेदकतां एकैकतात्पर्येण धवखदिरा बोधः। एवं कालाकाशा इत्यादावपि बोध्यम् । धवखदिरावित्यादौ तु धर्मद्वयावच्छिन्नाप्युद्देश्यता एकैवेति शक्तिवादे स्पष्टीकृतत्वात् धवत्वखदिरत्वनिष्ठा या निरुक्तावच्छेदकता तन्निरूपकोद्देश्यता चोभयवृत्तिरेकैव तदवच्छेदकताश्रयवदन्यो न धवो न खदिरः किन्त्वेतदन्य एव । तवृत्तित्वाभावेन पर्याप्तेः केवलाया एव सम्बन्धतया नापत्तिः । उद्देश्यतावच्छेदकभेदादुद्देश्यता भिद्यत एवेत्याग्रहे तु स्वनिरूपकोद्देश्यतानिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदकताश्रयवदन्यवृत्तित्वसम्बन्धेनावच्छेदकतायाः पर्याप्तौ वृत्तित्वं ज्ञेयम् । एवञ्च विधेयताया ऐक्येन धवो न खदिरत्ववृत्त्यवच्छेदकतानिरूपकोद्देश्यतानिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदकताश्रयवानित्यादिप्रतीतेरभावानापत्तिलेश इत्याहुः । केचित् केवलपर्याप्तेरेव संसर्गता। आस्ताम् आकाशावित्यादेर्न प्रमात्वम् । तच्च तत्प्रकारकज्ञाने तदधिकरणतावच्छेदकव्यापिका या तन्निष्ठप्रकारतानिरूपिताविशेष्यता तच्छालित्वमेव । आकाशावित्यादौ द्वित्वनिष्ठप्रकारतानिरूपिता या आकाशनिष्ठा विशेष्यता सा च स्वाधिकरणतावच्छेदकं यद्वित्वं तत्समानाधिकरणो यो घटवृत्तितादृशविशेष्यताभावस्तत्प्रतियोगितावच्छेदकधर्मवत्वेन न तद्व्यापिका इति तदवगाहिनो ज्ञानस्य न तत्त्वम् । द्वित्वादेरपेक्षाबुद्धिजन्यत्वेन अपेक्षाबुद्धेर्व्यक्तिभेदेन भेदात् पदार्थद्वयेऽपि द्वित्वन्नानाविधमिति द्वित्वाधिकरणतावच्छेदकत्वं द्वित्वे नानुपपन्नम् । एवं कालाकाशा इत्यादेरपि। धवखदिरावित्यादौ तु द्वित्वस्य धवखदिरोभयातिरिक्तावृत्तित्वेन तत्समानाधिकरणाभावो न विशेष्यताप्रतियोगिक इति तादृशाभावप्रतियोगितावच्छेदकताशून्यत्वेन विशेष्यताया व्यापकत्वेन तदवगाहिनः प्रमात्वम । विशेष्यताभेदेन धववृत्तिविशेष्यताभावः खदिरवृत्तिः Page #170 -------------------------------------------------------------------------- ________________ ताबराकरकमी वित्यादिप्रयोगोपपत्तेः। न चैवमेकैकधवखदिर दितात्पर्येण धवौ खदिरावित्यादिप्रयोगापत्तिः । तादृशवाक्यूद्वयविषयकसमूहानम्बनजन्यसमूहालम्बनशाब्दबाँधस्य नानाधविच्छिन्नावश्यताकतया शुद्धपर्याप्तेरपि संसर्गतयाऽवगाहनसंभवादिति वाच्यम् । यत्र नानाधर्मावच्छिन्नविशेष्यता निरूपिता एकद्वित्वादिप्रकारता तत्रैव खदिरगतविशेष्यताभावो धववृत्तिरिति न व्यापकत्वमि ते तु नाशङ्कनीयम् । द्वित्वनिष्ठव्याप्यतानिरूपिता व्यापकता च द्वित्वनि ठप्रकारतानिरूपितविशेष्यतात्वावच्छिन्नाया विवक्षितत्वात् । न द्वित्वनि ठप्रकारतानिरूपितविशेष्यतात्वावच्छिन्नप्रतियोगिताकाभावो धववृत्तिः सदिरवृत्तिर्वेत्याहुः । उच्छृङ्खलास्तु उद्देश्यतावदन्यावृत्तित्ववत् पर्याप्लेरेव सर्वत्र संसर्गतां स्वीकृत्याव्याप्त्यतिव्याप्ती परिहरन्ति । उद्देश्यतावच्छेदकत्वावच्छिन्नत्वोपलक्षितनिष्ठव्यापकतानिरूपितव्याप्यतावत्त्याः पर्याप्तेर संसर्गतेत्यपि केचित् । कालाकाशा इति प्रयोगवारणाय स्वविशिष्टापाप्तिः स्वसंसर्गतया भासते सर्वत्रैकरूपेणैवोच्यते । वैशिष्ट्यं च स्वप्रतियोगिकत्वस्वविशिष्टधर्मसामानाधिकरण्योभयसम्बन्धेन । धर्मे वैशिष्ट्य च स्वीयोद्देश्यतावच्छेदकत्वेन तात्पर्य्यविषयत्वस्वाभाववत्वोभयसम्बन्धेन । अभावीयप्रतियोगितावच्छेदकश्च स्वविशिष्टाभावप्रतियोगित्वरूपर सम्बन्धः । अभावे वैशिष्ट्यञ्च स्वाधिकरणवृत्तित्वस्वीयोद्देश्यतावच्छेदकत्वावच्छिन्नप्रतियोगिताकत्वोभयसम्बन्धेन समन्वयः स्वयं ऊहनीयः । ___ यद्वा स्वविशिष्टा या पर्याप्तिः सा उद्देश्यतावच्छे कव्याप्यत्वविशिष्टा सती संसर्गतया भासते । अन्या तु शुद्धव । वैशिष्टयःच स्वतादात्म्यस्वीयोद्देश्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यन् योगितावच्छेदकीभूतसंख्याधिकसंख्याप्रतियोगिकत्वोभयसम्बन्धेन समन्वय ऊहनीय इति दिक् । प्रर्याप्तिविचारेऽन्ततो गत्वा नानाधविच्छिन्नटिशेष्यतानिरूपितद्वि- . Page #171 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १६३ शुद्धायाः पर्याप्तेः समवायस्य वा संसर्गतया भानात् । धवौ खदिरावित्यादिनानावाक्यजन्यसमूहालम्बनशाब्दबोधे विशेष्यताभेदेन त्वादिनिष्ठैकाप्रकारता यत्रास्ति तत्र द्वित्वादिपर्याप्तेः शुद्धाया एव संसर्गता । यत्र च द्वित्वादिनिष्ठेकप्रकारतानिरूपितविशेष्यतावच्छेदकता एकस्मिन् धर्मे तिष्ठति तत्रोद्देश्यतावच्छेदकव्याप्यत्वविशिष्टद्वित्वादिपर्याप्तेः संसर्गतेति व्यवस्थाप्य धवखदिरावाकाशावित्यादीनां प्रामाण्याप्रामाण्ये उपपादितकान् । तनाथमायाकाशघटादिगतबहुत्वपर्याप्तेः कालाकाशेऽपि भवदुक्तयुक्त्या सत्त्वात् तत्र च नानान्वयितावच्छेदकस्य सत्त्वेन शुद्धपर्याप्तेरेव संसर्गतया धवखदिरावित्यादिवत् कालाकाशा इति प्रयोगस्यापि प्रामाण्यापत्तिः। एवं धवखदिरपलाशार्कप्रत्येकगतप्रत्येकद्वित्वबोधेन तात्पर्याण धवखदिरपलाशार्काविति प्रयोग प्रापद्यतेति तन्न। अस्तु उद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्तेरेव संसर्गताऽविशेषेण व्याप्यत्वं च व्यापकसामानाधिकरण्यमेव व्यापकत्वं च व्याप्यसामानाधिकरण्यात्यन्ताभावप्रतियोगितानवच्छेदकत्वम् । एवञ्च प्रकृते द्वित्वादिपर्याप्तिसमानाधिकरणो योऽभावः स च स्वान्वयितावच्छेदकत्वेन तात्पर्य्याश्रयविशेष्यताश्रयव्यधिकरणो विवक्षित इति प्रकृते कालाकाशगतबहुत्वपर्याप्तिसमानाधिकरणो यो घंटवृत्तिः कालत्वाभावः स च बहुत्वपर्याप्त्यनुयोगितावच्छेदकत्वेन तात्पर्य्यविशेष्यीभूतं यत् कालत्वमाकाशत्वञ्च तद्व्यधिकरण इति तत्प्रतियोगितावच्छेदकधर्मवत्वमेव कालत्वादीनामिति न तस्य व्यापकत्वमिति कृत्वा पर्याप्तेर्व्यापकसामानाधिकरण्याभावेनादोषात् । धवखदिरावित्यादावपि द्वित्वपर्याप्तिसमानाधिकरणो योऽभावस्स च न धवत्वखदिरत्वाद्यभावोऽपि तु घटत्वाद्यभाव इति तत्प्रतियोगितावच्छेदकधर्मवद्धवत्वादिसामानाधिकरण्यस्य पर्याप्तेः सत्त्वेनाव्याप्तिविरहात् । ननु धवखदिरगतद्वित्वपर्याप्तिसमानाधिकरणो यः स्वान्वयितावच्छेदकत्वेन तात्पीयविशेष्यधवत्वादिव्यधिकरणोऽभावस्त Page #172 -------------------------------------------------------------------------- ________________ १६४ प्रकारताभेदेन चोद्देश्यतावच्छेदकघवत्वादिव्याप्तिविशिष्टपर्याप्तेः संसर्गतानियमेन एकैकधवखदिरादितात्पर्येण तथा प्रयोगासम्भ व्युत्पत्तिवादः [ कारके 1 स्याप्रसिद्धतयाऽव्याप्तिर्दुर्बारेति चेन्न । समानाधिकरणो पोऽभावः स च स्ववि'शिष्ट ग्राह्य इत्यदोषात् । तत्र वैशिष्ट्यं स्वतादात्म्यस्वाभाववत्वोभयाभ्याम् । तत्राभावीयप्रतियोगितावच्छेदकः सम्बन्धः स्वप्रतियोगिद्वित्वान्वयितावच्छेदकत्वेन तात्पर्य्यविषयीभूतधर्म्मवद्वृत्तित्वरूपः । तथा च द्वित्वपर्य्याप्तिसमानाधिकरणो यः धवखदिरादिवृत्तिघटत्वाद्यभावस्तस्य स्वतादात्म्यमस्ति स्वप्रतियोगिघटत्वादि तस्य निरुक्ततात्पर्य्यविशेष्यत्वाभावः यच्च तादृशविशेष्यतावत् न स प्रतियोगि इति तद्वद्वृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावस्य सत्त्वेन स्वविशिष्टतत्प्रतियोगितानवच्छेदकवत्वं धवत्वादावव्याहतम्। तादृशसम्बन्धस्यान्यत्र प्रसिद्धत्वान्नाप्रसिद्धत्वशङ्का कालाकाशा इत्यादयोऽपि न घटे निरुक्ताभावस्तत्प्रतियोगितावच्छेदकमेव कालत्वादेर्य्यतः न चैवं सति पुनरपि धवखदिरावित्यादावव्याप्तिः । तथा हि खदिरवृत्तिर्य्यो धवत्वाभावस्तस्य द्वित्वसामानाधिकरण्यमस्ति स्ववैशिष्ट्यं चास्ति स्वप्रतियोगिनिरुक्तविशेष्यताशयधवत्ववद्वृत्तित्वसम्बन्धावच्छिन्नप्रतियोगि - ताकस्वाभावस्य स्वतादात्म्यस्यापि सत्त्वात् तत्प्रतियोगितावच्छेदकवद्धवत्ववत्वसामानाधिकरण्यमेव पर्याप्तरिति वाच्यम् । स्वाभाववन्निरुक्तविशेष्यताश्रयधवत्वादिसमानाधिकरणपय्र्याप्तेरेव संसर्गतयाभिमतत्वात् । प्रभावीयप्रतियोगितावच्छेदकसंसर्गश्च स्वविशिष्टाभावप्रतियोगितावच्छेदकवत्वरूपः । प्रभावे वैशिष्ट्यञ्च स्वसामानाधिकरण्यस्वान्वयितावच्छेदकत्वेन तात्पर्य्यविशेष्यीभूतधर्म्मसामानाधिकरण्यसम्बन्धाभ्याम् । एवञ्च धवादिवृत्तिरभावो न स्वविशिष्टः धवत्वादेस्सत्त्वात् न वा घटादिवृत्तिरभावः स्वसामानाधिकरण्यस्यासत्त्वात् इति न स्वविशिष्टाभावप्रतियोगितावच्छेदकत्ववत्वं धवत्वादेरिति तेन सम्बन्धेन स्वाभावस्य तत्र सत्त्वाल्लक्षणसमन्वयः Page #173 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १६५ वात्। धक्खदिरावित्यादिसमासोत्तरद्विवचनेन धवत्वखदिरत्वाद्यवच्छिन्ननानाविशेष्यतानिरूपितैकद्वित्वादिप्रकारताशालिज्ञानमेव संबन्धस्य तु आकाशत्वादौ प्रसिद्धिः। कालाकाशा इत्यादीनां तु न साधुता। तत्र स्वविशिष्टाभावकालत्वप्रतियोगिको घटवृत्तिस्तत्प्रतियोगितावच्छेदकवत्वस्यैव कालत्वादौ सत्त्वात् । अथवा स्वविशिष्टा या विशेष्यता तद्वत्सामानाधिकरण्यमेव पर्याप्तेस्संसर्गता नियामकतयाभिमताम् । विशेष्यतायां स्वान्वयितावच्छेदकत्वप्रकारकतात्पर्य्यनिरूपितत्वस्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकताकत्वसम्बन्धाभ्याम् । वैशिष्ट्यं द्वित्वपर्याप्त्यनुयोगितावच्छेदकत्वप्रकारकतात्पर्य्यविशेष्यन्नास्तीत्याकारकाभावो न धवे खदिरे वा सम्भवति तादृशविशेष्यधवत्वादेस्सत्त्वात् । घटादौ सम्भवत्यपि न प्रकृतार्थोपयोगी पर्याप्तिसामानाधिकरण्यस्यासत्त्वादिति न स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकतावती विशेष्यतेति तद्वत्सामानाधिकरण्यस्य पर्याप्तौ सत्त्वाल्लक्षणसमन्वयः। कालाकाशा इत्यादयो न साधवः। तादृशाभावस्य घटे सत्त्वेन तादृशाभावप्रतियोगितावच्छेदिकैव तादृशी विशेष्यता इति तद्वत्सामानाधिकरण्येन लक्षणसमन्वयाभावात् । अथ वा नोद्देश्यतावच्छेदकव्याप्यत्वमपेक्षितमपि तु उद्देश्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकसंख्याव्याप्यत्वं तत्र व्यापकतावच्छेदकसंसर्गश्च स्वाश्रयधर्मवत्वरूपः। धवखदिरावित्यादावुद्देश्यतावच्छेदकतापर्याप्तिर्द्धवत्वखदिरत्वोभयस्मिन् तदनुयोगितावच्छेदिका संख्या द्वित्वं तद्व्याप्यत्वस्य पर्याप्तौ सत्त्वाल्लक्षणसमन्वयः । कालाकाशाश्च न प्रयोगः। तत्रोद्देश्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदिका संख्या द्वित्वं तद्व्याप्यत्वं न बहुत्वपर्याप्तेः स्वाश्रयवत्वसम्बन्धेन तद्वतोऽन्यघटवृत्तित्वादिति सुगमः पन्थाः। अथ वा यथा भवद्भिः कुत्रचिच्छुद्धपर्याप्तेः संसर्गता कुत्रचित् विशेषपर्याप्तेः संसर्गता इत्युच्यते तद्वदस्माभिर्यत्रान्वयितावच्छेदकमेकं तत्र व्यापकसामानाधिकरण्यमेव Page #174 -------------------------------------------------------------------------- ________________ जन्यते। तादृशवाक्यजन्यबोधस्य समूहालम्बनानात्मकतया विशेष्यताभेदेन प्रकारताभेदाभावात् । यथा हि समूहालम्बनानात्मके खड्गी चैत्रः कुण्डलीत्याकारकनानाविशेषणकैकविशेष्यकज्ञाने नानाप्रकारतानिरूपितैका विशेष्यता तथा तथाविधे धवखदिरावित्याद्याकारके नानाविशेष्यकैकविशेषणकज्ञाने विशेष्यताभेदेऽप्यभिन्नैव द्वित्वादिप्रकारता अन्यथा समूहालम्बनतस्तद्वैलक्षण्यानुपपत्तेः । साँसघटकधवखदिरादिपदानामेकवाक्यतानुपपत्तंश्च । तत्प्रयोज्ष्-' विषयतया साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोजकत्वस्यैव तदेकवाक्यतापदार्थत्वात्। न चैतादृशैकवाक्यताविरहेऽपि क्षतिविरहः। तथा सति समासस्यैवानुपपत्तेः । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राजपुरुषपदादीनां समासवारणाय समर्थपदानामेव समासानुशासनात् । सामर्थ्यस्य च निरुक्तैकवाक्यतारूपत्वात् । अलपृथिव्योः स्नेहगन्धावित्यादितोऽपि न जले स्नेहः पृथिव्यां गन्ध इत्याकारकसमूहालम्बनबोधः। किन्तु तद्वित्नक्षणो द्वित्वादिनिष्ठैकप्रकारतानिरूपितजलत्वपृथिवीत्वाद्यवच्छिन्न व्याप्तिः, यत्र नानाधर्मेष्वनुयोगितावच्छेदकता तत्र तद्वदन्यावृत्तित्वरूपैवेति। उच्यते--केवलान्वयिशब्दस्य तु न केनापि शब्देन द्वन्द्वसम्भवः, सर्वत्र कर्मधारययोग्यत्वात् । इति न क्वाप्यव्याप्त्यतिव्याप्तीत्यतमति विस्तरेण । __ अपरे तु पर्याप्तिविशिष्टायाः पर्याप्तेस्सम्बन्धता। वैशिष्ट्यं स्वतादात्म्यस्वविशिष्टाभावाधिकरणवृत्तित्वोभयसम्बन्धेन । अभावे वैशिष्ट्यञ्च स्वानुयोगितावच्छेदकत्वेन तात्पर्य विषयीभूतधर्मप्रतियोगिकत्वप्रदर्शितधर्मासामानाधिकरण्योभयसम्बन्धेनाव्याप्त्यतिव्याप्तीति प्राहुः । अत्र सर्वतो लघुवचनरचनाबलम्बिनः स्वविशिष्टप्रतियोगितानवच्छेदक धर्मवत्सामानाधिकरण्यविशिष्टपर्याप्तरेव संसर्गताम्वदन्ति । स्वस्य वैशिष्ट्यञ्च स्वसमा Page #175 -------------------------------------------------------------------------- ________________ विशेष्यतात्मकप्रकारतोंद्वयनिरुपितधियत्वप्रंकारतानिरूपितं यद्धमिंतावच्छेदकद्वित्वादिनिष्ठकप्रकारतानिरूपकं स्नेहत्वगन्धत्वाद्यवच्छिन्नविशेष्यताद्वयं तद्वानिति । अतो न कुत्राप्येकवाक्यताभङ्गः। चैत्रो मैत्रश्च गच्छत इत्यादावाख्यातार्थद्वित्वादिप्रकारेण भासमाने चैत्रमैत्रोभयादौ गमनाश्रयत्वाद्यन्वयेन निरुक्तैकवाक्यतासंभवेऽपि समासविधेविभाषाधिकारीयत्वादसमासः। तत्र विशेष्यताभेदभिन्नद्वित्वनिष्ठप्रकारताद्वयप्रतियोगी समूहालम्बनात्मकबोध इति तु न सम्यक् । तथा सत्युक्तरीक्त्या एकैकचैत्रमैत्रादितात्पर्येण तथाप्रयोगानुपपत्तेः । आख्यातोपस्थापितत्विादिकं चोभ नाधिकरणात्यन्ताभावीयविवक्षितस्वानुयोगितावच्छेदकतात्वावच्छिन्नत्वोभयसंसर्गेणेति ऊहनीयम् । द्वित्वन्तु स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकमेव गृह्यते । साजात्यं च पूर्ववत् इति न द्वितीयशङ्काया अवकाशः । तत्र हि धवो द्वित्ववत्खदिनो नेतिभेदीयप्रतियोगितावच्छेदकमेव खदिरगतं द्वित्वमेव क्रमेण किमपि द्वित्वन्न तद्रूपम् । धवखदिरावित्यादौ द्वित्वस्यैक्येन भेदस्य प्रतियोगितावच्छेदकेन विरोधात् । न खदिरे तद्वित्ववद्धवभेदो नापि धवे तभेद इति नाव्याप्तिः । न चैवं खदिरो न धवखदिरोभयमिति प्रतीतेर्मूर्द्धाभिषिक्ततया तत्रापि भेदीयप्रतियोगितावच्छेदकमेव द्वित्वमिति वाच्यम् । भेदे प्रतियोग्यवृत्तित्वस्य निवेशनीयत्वात् । यदि च प्रतियोग्यवृत्तित्वमप्रसिद्धं प्रतियोग्यवृत्तित्वस्य वृत्तिमदवृत्तित्वादित्युच्यते तदा स्वसजातीयविशिष्टभेदप्रतियोगितानवच्छेदकमेव द्वित्वं द्विवचनार्थमिति बोध्यम् । साजात्यं पूर्ववत्। भेदे वैशिष्टयं च स्ववृत्तित्वस्ववृत्तिधर्मावच्छिन्नप्रतियोगिताकत्वाभावत्वोभयसम्बन्धेन । तथा चोभयभेदस्य स्ववृत्तित्वेऽपि स्ववृत्तियद्वित्वं तदवच्छिन्न प्रतियोगिताकत्वेन तस्याग्रहणान्न दोषः।। उक्तरीत्येति (उक्तयुक्त्येति वा पाठः) । एकैकधवखदिरादितात्पर्येण धवौ खदिरावितिप्रयोगवारणाय नानाधर्मावच्छिन्नविशेष्यतानिरूपितद्वित्व Page #176 -------------------------------------------------------------------------- ________________ मल्कादिरूपान्यायित्ता चच्छेदकावच्छिन्न एवान्वेताति व्युत्पत्तिः । तेनोक्तप्रयोगदर्शनात् क्रियापदस्य विशेष्यवाचकपदसमानवचनकत्वानियमेऽपि घटद्वयादितात्पर्येण घटस्ति यत इत्यादयो न प्रयोगाः। एकवचनान्तक्रियापदं च तादृशविशेष्यवाचकपदप्रयोग एव साधुः । अतो घटास्तिष्ठतीत्यादयो न प्रयोगाः। अवैकघटादिव्यक्तरेतदेशवृत्तितादशायामत्र घटौ स्त: घटाः सन्तीति कथं न प्रयोगाः। घटादौ घटत्वादिव्याप्तिविशिष्टपर्याप्तिसम्बन्धन द्वित्वादेः स्वरूपादिसम्बन्धेन तद्देशवृत्तित्वाश्रयत्वादेश्च सत्त्वात् । न-च-द्वित्वेनोपस्थितयोर्द्वयोरेव व्यक्तयोरेवं बहुत्वेनोपस्थितासु बहुपु व्यक्तिषु विधेयान्वयात् व्यक्त्यन्तरेष्वेत्तद्देशवृत्तित्वाश्रयत्व डिबाधान्न तादृशप्रयोग इति वाच्यम्। ठयक्त्यन्तरेऽयोग्यतया तादृशविधेयानवगाहिन एकघटे तदवगाहिनो बोधस्योत्पत्तौ बाधकाभावात्। तथा तात्पर्येण तथा प्रयोगस्य दुर्वारत्वात् । मच व्यासज्यवृत्तिधर्मो यत्रान्वयितावच्छेदकस्तत्र यावत्सु अन्वयितावच्छेदकस्य पर्याप्तिस्तावतामेव पदार्थान्तरेणान्वय इति व्युत्पतिस्तन्निर्वाहाय च तादृशधर्मावच्छिन्ने इतरान्वयबोधजनकसामग्य उभयादिविषयकपदार्थान्तरान्वयबुद्धित्वमेव जन्यतावच्छेदकं वृक्तव्यमिति द्वित्वा निष्ठनानाप्रकारतादशायामुद्देश्यतावच्छेदकव्याप्यपर्याप रेव संसर्गतोक्त्या अत्रापि शुद्धपर्याप्तिभानन्न स्यादिति भावः । चैत्रो मैत्रश्चेत्यादौ चार्थोभयत्वावच्छिन्ने एव द्वित्ान्वयं इति भावः । २ द्वित्वादिविशिष्ट विशेष्यतानिरूपितैतद्देशवृत्तित्व नष्ठप्रकारताकबोधं प्रत्येव अत्र पदसमभिव्याहृतद्वितीयान्तादिपदत्वरूपाक ङ्क्षाज्ञानस्य कारणत्वमिति भावः । Page #177 -------------------------------------------------------------------------- ________________ 'दिनैकघटादिमात्रविषयकैतदेशवृत्तित्वाद्यन्वयबोधो न सम्भवतीति न तादृशयोधतात्पर्येण तादृशप्रयोगापत्तिरिति वाच्यम् । योग्यताभ्रमेणाकाशावः स्त इत्यादिवाक्याद्वित्वादिनैकव्यक्तिमात्रविषयकपदार्थान्तरान्वयबोधात्ताशव्युत्पत्तेस्तनिर्वाहककार्यकारणभा - वग्य च कल्पना सम्भवात् । मनुः द्वित्याद्यवच्छिन्नोद्देश्यताकबुद्धावुद्देश्यतावच्छेदकव्यापकता नियमतो विधेयसंसर्गे भासते इति व्युत्पत्तिः यत्र चोद्देश्यतावच्छेदकपिशिष्टाधिकरणाप्रसिद्ध्या तद्वयापकत्वमप्रसिद्ध तत्रापि खण्डशः प्रसिद्धानां तत्तघटकपदार्थानां विशेष्यविशेषण भावापन्नानां भा नसम्भवान्न पीतशङ्खावत्रेत्यादौ तादृशव्युत्पत्तिभङ्गः। एवं चैकघटादिव्यक्तिमात्राधिकरणपरस्यात्र घटौ स्त इत्यादिवाक्यस्याप्रामाण्यं सुघटमेवोदेश्यतावच्छेदकीभूतघटमात्रवृत्तिद्वित्वव्यापकतायास्तादृश वाक्यप्रतिपाद्याया विधेयसंसर्गे बाधादिति । तदपि तुच्छम 'अत्र घटौ रत इत्यादौ द्वित्वसमानाधिकरणाभावप्रतियोगित नवच्छेदकत्वस्य द्वित्ववद्धटनिष्ठाभावप्रतियोगितानवच्छेदकत्व य च तदधिकरणावृत्तिघटादिनिष्ठाभावप्रतियोगितावच्छेदकीभूते तत्तद्विधेयसंसर्गतावच्छेदके बाधाद्घटद्वयाधिकररणपरतादृशवाक्यस्याप्रामाण्यापत्तेः । तत्तद्वित्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य तत्तद्विधेयसंसर्गाशे भानोपगमस्तु न सम्भवति। तत्तद्वित्वत्वेनानुपस्थितेः। न च तदवच्छिन्नस्य। संसर्गतया माने तेन रूपेणोपस्थिति पेक्ष्येति वाच्यम्। तत्संसर्गा 'अत्रेति । नु विधेयसंसर्गे यत्किञ्चित् द्वित्वव्यापकत्वं घनिष्ठद्वित्वव्यापकत्वम्वा विवक्षिामिति विकल्प्य यत्त्वितिमतं दूषयति--- अत्र घटौ स्त इतमादिना । Page #178 -------------------------------------------------------------------------- ________________ १७० व्युत्पत्तिवादः [ कारके वच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिशाब्दबोधपरमित्याकारकतात्पर्यज्ञाने संसर्गस्य विशेषणतया तद्भाननिहाय संसर्गघटकोपस्थितेरपि शाब्दबोधात्प्रागावश्यकत्वात् प्रकृतसंसर्गेण एकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य' प्रकृतवाक्यार्थविषयकतया प्रागसम्भवेनोपदर्शिततात्पर्यज्ञानस्यैव शाब्दधीहेतुत्वोपगमात् । एवं वाक्यार्थघटकसंसर्गस्याननुगमेनात्र घटौ स्त इत्यादौ वाक्यभेदप्रसंगाच्च । __ अत्रोच्यते। व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यताकशाब्दबुद्धौ स्वव्याप्यतादृशधर्मवत्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः । व्याप्यत्वं च तद्वदन्यावृत्तित्वम् । व्यतिरेकिविधेयस्थले तादृशधर्मवत्वं चोद्देश्यतावच्छेदकताघटकसम्बन्धेन बोध्यम्। अत्र घटौ स्त इत्यादौ एतद्देशवर्त्तमानत्वादिरूपविधेयस्य तद्वदन्यावृत्तित्वरूपव्याप्तिमच्चैतद्देशस्यैकघटादिव्यक्तिमात्राधिकरणत्वे घटपटादिनिष्ठद्वित्वमेव घटत्वव्याप्तपर्याप्तिरूपोद्देश्यतावच्छेदकताघटक 'प्रकृतसंसर्गेणैकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्याथेत्यादि। वस्तुत इदन्न सम्यक् । विशिष्टवाक्यार्थस्य विशिष्टवाक्यप्रतिपाद्यत्वेन शाब्दबोधात् प्राक् ज्ञानासंभवेऽपि तद्वित्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकस्वरूपादिसम्बन्धेनैतद्देशवृत्तित्वविशिष्टबोधपरमेतत् वाक्यम् । एवं घटविषयकबोधपरमित्यादेविशिष्टवाक्याप्रतिपाद्यत्वेन ततः प्रागपि सम्भवात् । ननु कथन्न तदा तस्य संसर्गतोपेयेति चेन्न । प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाविति स्मरणात्। संसर्गभेदेन तत्तदभावा एव भासेरन्। तथा सति अभेदान्वयप्रकरणोक्तरीत्याऽत्र घटौ न स्त इति वाक्यजन्यप्रमात्मकबोधदशायामपि अत्र घटौ स्त इत्यतोऽभ्रान्तस्यापि बोधापत्तेरिति । घटपटादीति । एतद्देशस्य एकघटव्यक्ति--एक्पटव्यक्तिमात्राधिकरणत्वे । Page #179 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १७१ सम्बन्धावच्छिन्नं तद्वत्वं च घटादौ बाधितमिति न तादृशवाक्यस्य प्रामाण्यम् । अधिकरणस्य घटद्वयादिमत्वे च घटत्वादिव्याप्यं द्वित्वमेव तथेति घटत्वादिव्याप्यपर्याप्तिसम्बन्धेन तद्वत्त्वं घटादावबाधितमिति तादृशवाक्यस्य प्रामाण्यं निर्वहति । केवलान्वयि' विधेयकस्थले च द्वित्वत्वाद्यवच्छिन्नव्यापकत्वमेव संसर्गघटकम् । केवलान्वयिनि तादृशव्यापकताया अक्षतत्वात् । न तु तत्तद्वित्वत्वावच्छिन्नव्यापकत्यमिति न पूर्वोक्त दोपावकाशः । घटवानयति चैत्र इत्यादौ चैत्रकर्तकानयनकर्मत्वादिव्याप्यद्वित्वादिमन्निष्ठनिरूपकताकाधेयत्वादिसम्बन्धेन कर्मत्वादौ घटादेरन्वयो व्युत्पन्नः । तेन चैत्रादेः एकघटादिव्यक्तिमात्रानयनकर्तृत्वे न तादृशप्रयोगः । द्वित्यादिमत्त्वं च प्रकारतावच्छेदकीभूतघटत्वादिव्याप्यपर्याप्तिसम्बन्धेन बोध्यम् । तेन चैत्रस्य पटादि - सहितैकघटादिव्यक्त्यानयनकर्तृत्वेऽपि न तादृशप्रयोगः । एवंमन्यत्राप्यूह्नीयम् । यत्राने वृत्तिधर्मो द्वित्वान्वयितावच्छेदकतया भासते तत्रोपदर्शितरीत्योभयादिनैव समं पदार्थान्तरस्यान्वयः । यत्र त्वेकमात्र - वृत्तिधर्मस्तथा तत्रैकेनापि व्युत्पत्तिभेदावलम्बनात्कार्यकारणभाववैचित्र्योपगमाच्च सर्वं समञ्जसमित्यपि वदन्ति । अथ घटादिव्यक्तिभेदेनानयनकर्मता भिन्नैवेति प्रतिसन्धा १ ' केवलान्वयोति । इदन्तु काकदन्तविचारवत् केवलान्वयिनः सर्वत्र वृत्तित्वात् । २ घटावानयतीत्यत्रैव प्रकारान्तरमाह — यत्रेति । अत्रानेकवृत्तिघटत्या - दिद्वित्वान्वयितावच्छेदकतया भासते । एकमात्रेति । श्राकाशावत्र स्त इत्यादावाकाशादिरूपो धर्मः । ३ Page #180 -------------------------------------------------------------------------- ________________ वाझदिलनि नस्य पुंसो घटावानयतीति वाक्याच्छाब्दबोधानुपातिः । तस्य . कर्मतात्वावच्छेदेनाधेयतासंसर्गावच्छिन्नप्रतियोगिताकस्य द्वित्वाद्यवच्छिन्नघटाद्यभावस्य निश्चयसम्भवात् । तस्य द्वित्युदिना ताहशसंसर्गकघटादिविशिष्टधीविरोधित्वादिति चेत् न । उभयत्वाद्यव च्छिन्नाभाववत्ताज्ञानमुभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहिज्ञानमेव प्रतिबध्नाति न तु केवलं विशेष्ये विशेषणमिति रीत्या जायमानमुभयत्वादिविशिष्टज्ञानम् । अतो विशेपदशिनां तादृशवाक्यादोषायत्तमाधेयत्वांशे उभयत्वाद्यवच्छिन्ननिरूपि तत्वावगाहिभ्रमात्मकज्ञानं न भवत्वेव । अपि तु तदंशे तनवगाहिग्रमात्मकं. ज्ञानमित्युभयत्वावच्छिन्ननिरूपिताधेयत्वं चोभयादिवृत्ताकस्मिन्धर्मे एव न तु प्रत्येकमात्रवृत्ताविति कर्मत्वांशे तदिशाधयत्वावगाहिज्ञानस्य भ्रमत्वमित्यवधेयम् । संख्याश्च... प्रकृत्यर्थतात्वच्छेदकगताः कचित्प्रती पन्ते। यथा संपन्नौ व्रीहियवावित्यादौ । एतत्तत्वं प्रागेवाभिहित । विरुद्धसंख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्य संख्या प्रकृत्यर्थतावच्छेदकसंख्यायामेवान्वेति । यथा शतमेकं हूँ शो त्रीणि शतानीत्यत्र शतत्वादौ एकत्वद्वित्ववहुत्वानामन्धयः। अत्त एक-च एकशतद्विशतादितात्पर्येण न शतानीति प्रयोगः। तत्र प्रकृत्यर्थस्य शतस्य बहुत्वाद्यन्वययोग्यत्वेऽपि प्रकृत्यर्थतावच्छेदकशतत्वांशे बहुत्वाद्यन्वय एव बहुवचनस्य साकांक्षत्वात्। तत्र योग्यताविरहात् । न चैकशतेऽपि नानापुरुपीयापेक्षाबुद्धिजन्यन नाशतत्वसम्भवादेकशतनिष्ठशतत्वेऽपि बहुत्वान्वययोग्यताऽक्षतैवेति वाच्यम्। परस्परसमानाधिकरणद्वयावृत्तिबहुत्यस्यैव शतादिपत्तिरबहुवचनार्थत्वात् । तादृशबहुत्वस्य चैकशतानिवृत्तिनानाशतत्यादौ वाधात् । अथ वा तत्रापि बहुत्वमेव बहुवचनार्थः। परस्परसमानाधिकरणद्वयावृत्तिपर्याप्तिरेवाकाक्षानिरूपकः सम्बन्धः । Page #181 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १७३ यत्त द्वे शते त्रीणि शतानीत्यादौ संख्यैव शतादिशब्दार्थः, न तु संख्येयं, संख्येयस्य तदर्थत्वे “त्रिंशत्याद्याः सदैकत्वे सर्वाः 'संख्येयसंख्ययोः संख्यार्थे द्वित्ववहुत्वे" इत्यनुशासनविरोधात् द्विवचनादिसाधुतानुपपत्तेः । गवां शतानीत्यादौ पष्ठ्यर्थान्वयानुपपत्तेश्च । न चाभेदः षष्ठ्यर्थः । तथा सति ब्राह्मणा दश इत्यत्र ब्राह्मणानां दशेत्यपि स्यात् । अस्माकं चादशेभ्यः संख्या: संख्येये वर्त्तन्ते 1 अतः परं संख्या संख्येये चेत्यनुशासनाद्दशादिशब्दानां शतादिशब्दवत्संख्यानाकित्वाभावाद्दशत्वादिसंख्यायाः पदार्थतावच्छेदकत्वेन तत्र पष्ठ्यर्थसम्बन्धान्वयासम्भवेन न तथा प्रयोग इति । २ तदसत् । गवां शतं शतानीत्यादौ संख्यायाः प्राधान्येन शतादिशब्दवाच्यत्वे गवां शतं दद्यादित्यादौ शतादिपदार्थस्य संख्याया दानादिकर्मत्वान्वयायोग्यतया प्रामाण्यानुपपत्तिः । गवां शतं शुक्लमित्यादौ संख्यायां शुक्लाद्यभेदान्वययोग्यताविरहात्तदनुपपत्तिश्र । तस्मादशादिशब्दा इव विंशतिशतसहस्रादिशब्दा अपि संख्यावच्छिन्नवाचका एव । न तु धर्मिविशेषणतानापन्नसंख्यावाचकाः । 1 विशत्याद्याः सदैकत्वे सर्वा इति । विंशत्याद्याः सर्वाः संख्यावाचकशब्दाः संख्येय संख्ययार्वर्त्तन्ते । 'संख्यार्थे द्वित्वबहुत्वे स्तस्तासु चानरतेः स्त्रियः' इत्युत्तरार्द्ध संख्यारूपेऽर्थे द्वे त्रीणि शतानीति द्विबहुत्वे भवतः इत्युक्तेरवशिष्टसंख्यार्थकत्वे विंशत्याद्याः सर्वाः संख्याशब्दा एकत्वे वर्त्तन्ते इत्यर्थो लभ्यते । तथा च संख्यार्थवत्वे एकवचनमेव साध्विति दिक् । १ 1 २ प्रदशेभ्यः । प्रदशतो वा पाठः) इति । एकादारभ्याष्टादशपर्य्यन्ताः संख्यावाचकाः शब्दाः संख्येये वर्त्तन्ते । संख्येये ह्यादश त्रिष्वित्यनुशासनात् । अतः परा विंशत्या शब्दाः संख्याने संख्येये चेत्यर्थः । विंशति ब्राह्मणा इति संख्येये ब्राह्मणानां विशतिरित्यादि संख्याने इति । Page #182 -------------------------------------------------------------------------- ________________ वाइशोभय नरेकै स्वार्थैकदेशेऽपि संख्यायां स्वप्रकृतिकविभक्त्यर्थ संख्यान्वयसाकाङ्क्षतयाऽन्यप्रकृतिकषष्ठ्यर्थ सम्बन्धान्वयसाकाङ्क्षतया च तेपां संख्यानार्थकताप्रवादः, न तु दशादिशब्दानां तथात्वं दशादिब्राह्मणतात्पर्येण ब्राह्मणानां दशेत्यादिप्रयोगविरहादिति तेपां संख्येयमात्रवाचिताप्रवाद इति “विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः। संख्यार्थे द्विवहुत्वे स्त" इत्यनुशासनमप्युक्तार्थे दर्शितव्युत्पत्तिग्राहकमित्यवध्येयम् । एकद्विबहुशब्दो त रैकवचनद्विवचनबहुवचनानि च न संख्याबोधकानि । उद्देश्यतावच्छेदकविधेययोरैक्येनैकत्वादिविशष्टे एकत्वाद्यन्वये आकाक्षाविरहादिति तदुत्तरं प्रथमाविभक्ति: प्रयोगसाधुतामात्राय नित्यबहुवचनान्तंभ्योऽबादिशब्देभ्यः परं प्रथमाबहुवचनमपि क्वचिन्निरर्थकमेव । यत्रै व्यक्तिमात्र तात्पर्येण तादृशशब्दः प्रयुज्यते तत्र बहुत्वान्वये योग्यताविरहात् । गुण व्यक्तम शत मिलिक I एका जल योंकि निशक्ति नातं जन माप तक बहुत्व म जलन्य साथ विका यत्तु तद्गतगुणादिसाधारणबहुत्वस्य तत्रान्वय इति-न शोभनम् । प्रकृत्यर्थतावच्छेदकव्याप्यपर्याप्तिसम्बन्धेनैवाने कवृत्तिसंख्यान्वयस्य व्युत्पन्नतया तादृशसम्बन्धन तथाविधबहुत्वान्वय- ' योग्यताविरहात् । अन्यथोदासीनघटपटादिसाधार बहुत्वस्याप्यन्वयसम्भवेन तद्गतगुणादिसाधारणबहुत्वानुधावन स्याकिश्चित्करत्वात् । श्रथ 4 तत्राजहत्स्वार्थ लक्षणया गुणादिसाधारणधर्मावच्छिन्न एव प्रकृत्यर्थ इति चेत्तर्हि बहुत्वेन भासमानषु गुणादिष्वपि पदार्थान्तरान्वयः स्यात् + तथा चापो द्रव्याणि दारा अत्र गृहे सन्तीत्यादिवाक्यानामप्रमारणतापत्तिः । गुणादिषु द्रव्याभेदे गृहवृत्तितादेर्वाधात् मुख्यार्थमात्र परतादृशशब्दानां बहुवचनान्ततानुपपत्तेश्चेति न किंचिदेतत् । अवादिपदार्थे एकत्वद्वित्वान्वययोग्यतासत्त्वेऽप्यसाधुत्वादेव तदुत्तरमेकवचनद्विवचने न प्रयुज्येते इति ध्येयम् । Page #183 -------------------------------------------------------------------------- ________________ प्रख्यातेकवचनस्य संख्यार्थकत्वे विवदन्त निष्कर्षांनुसारिणः।" घटोऽस्तीत्यादौ सुबेकवचनादेव संख्याबोध कत्वसम्भवात् । चैत्रेण दृष्टो घट इत्यादिस्थलानुरोधेन तस्य तद्बोधकताया आवश्यकत्वात् । न चैकवचनत्वेनानुगतेनैकत्वशक्तत्वात्तिकवचनस्याप्येकत्ववाचकत्वम क्षतमिति वाच्यम् । एकवचनत्वस्यैकत्वशक्ततावच्छेदकतायाः प्रागेव निराकृतत्वात् । अस्तु वा तेन रूपेण तिङ्कवचनस्या'येकत्वे शक्तिस्तथापि तज्जन्यैकत्वोपस्थितेः शाब्दबोधोपयोगित्वे नानाभावः । न हि सामान्यत एकवचनज्ञानजन्यैकत्वोपस्थितित्वेन तच्छाब्दबोधहेतुता सम्भवति। तथा सत्येकत्वेऽगृहीतसुपदवृत्तिकस्य पुंसः सुपदप्रकृतिघटादिपदोपस्थाप्यघटादौ पटादिपदोत्तरामादिपदोपस्थाप्यैकत्वाद्यन्वयबोधप्रसङ्गः, किन्तु सुपदत्वादिप्रकारकज्ञानजन्यतदुपस्थितित्वादिनैव । तथा सति घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वीविशेषरूपाकाङ्क्षाज्ञानघटितायां घटादावेकत्वान्वयबोधस्य सामग्यां सुपदत्वादिप्रकारकधीजन्योपस्थितेरन्तर्भावात्तादृशापत्तेरनवकाशात् । एवं च तिबादिसमभिव्याहारप्रकारकज्ञानजन्योपस्थितित्वेन तच्छाब्दवोधहेतुत्वे मानाभाव इति । यत्तु तिवादेः संख्यानभिधायकत्वे चैत्रः पचति तण्डुलं चैत्रेण पच्यते तण्डुल इत्यादौ कर्तृकर्मवाचकपदात्तृतीयाद्वितीययोरापत्तिः कर्तृकर्मगतसंख्याया अनभिधाने 'कर्तृकरणयोस्तृतीयेति "कर्मणि द्वितीये"तिसूत्राभ्यां तयोरनुशासनात्में--- - नैयायिकमते. लकारस्य कर्तृकर्मावाचकतया तदनभिधानस्य द्वितीयातृतीयानियामकत्वासम्भवात् । न च.. कादिगतसंख्यानभिधानमेव कथं कादिवाचकपदोत्तरतृतीयादिनियामकं, चैत्रेण पच्यते तण्डुल इत्यादिस्थलेऽपि लकारस्य चैत्रादिगतसंख्याभिधायकत्वादेकत्वादिना एकत्वादिसामान्यस्यैवैकवचनाद्यभिधेयत्वादिति वाच्यम् । यतस्तद्गतसंख्यानभिधायकत्वं प्रकृते न - - Page #184 -------------------------------------------------------------------------- ________________ तद्गतसंख्यानिष्ठवृत्त्यं निरूपकत्वमपि तु तद्विशेव्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वमेव । तथाच कर्त्रादिविनायकसंख्यान्वयबोधाजनकलकारादिसमभिव्याहृतकत्रादिवाचकपदात् तृतीयाइयो भवन्तीत्यत्र तदनुशासनतात्पर्यम् । चैत्रेण तल इत्यादी चैत्रादिविशेष्यकं संख्यान्वयबोधकत्वं नाख्यातस्य । आख्यातार्थआवनाया यत्रान्वयस्तद्विशेष्यकसंख्यान्वयबोधस्यैवाख्यातेन जननात्तादृशभावनान्वयबोधे विशेष्यश्च प्रथमान्तप दोपस्थाप्य एव । चैत्रः पचति तण्डुलमित्यादौ चैत्रादिः साक्षादेव भावनावि शेष्यस्वम् । चैत्रेण पच्यते तण्डुल इत्यादौ तु परम्परया चैत्रादिनिष्टभावनाजन्यपाकजन्यफलशाली तण्डुल इतकारकवोधस्यैव तत्रोदयात् । तस्मात्तिवादेरपि संख्याबोधकत्वमावश्यकमिति तन्न विचारसहम् । तथाहि कर्त्रादिनिष्ठसंख्यान्व यवोधाननुकूलत्वं यदि तादृशबोधफलोपधायकज्ञानविषयत्वाभाववचं तदा याहशतिबादिज्ञानेन सहकार्यन्तरविरहात्तादृशबोधो न जनितस्तयोगे तृतीयाद्यापत्तेः । यदि च तादृशवोधस्वरूपयोग्यज्ञानविपयत्वाभावस्तदा यगादिसमभिव्याहृतात्मनेपद्वादिज्ञानस्यापि तादृशवोधत्ररूपयोग्यत्वात्तत्स्वरूपयोग्यज्ञानाविधैयतिवाख्य तस्यैवाप्रसिद्धेः । कर्त्रादिविशेष्यक संख्यान्वयबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकतावच्छेदकविपयित्वानिरूपकत्वमेव ताहशबोधाननुकूल त्वम् । चैत्रः पचतीत्यादिवाक्यघटकतिवादिविधता चैत्रादिदिशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच् दिका तादृशान्यबुद्धित्वावच्छित्रं प्रति चैत्रासमभिव्याहृततिवादिपदज्ञानत्वेनाकांक्षाज्ञानस्य हेतुल्यात् । चैत्रेण वच्यते तण्डुल इत्यादिवाक्यघटकतयादिपद्विषयिता च न तादृशी + चैत्रादिपदसमभिव्याहततादृशपदज्ञानत्वेन तादृशान्वयबुद्धित्वा वच्छिन्नं प्रत्यहेतुत्वात् । न च चैत्रः पचते इत्यादी चैत्रविशेष्य Page #185 -------------------------------------------------------------------------- ________________ काख्यातार्थसंख्यान्वयबोधोत्पत्त्या चैत्रादिपदसमभिव्याहृततयादिपदज्ञानत्वेनापि तादृशान्वयबुद्धित्वावच्छिन्नहेतुताऽक्षतैवेति चैत्रेण पच्यते इत्यादि वाक्यघटकीभूततयादिपदविषयितापि तादृश्येवेति वाच्यम्। चैत्रेण - पचते चैत्रः पच्यते इत्यादिवाक्याच्चैत्रादिविशेष्यकस्य भावनायाः संख्यायाश्चान्वयवोधस्यानुदयात्+ तद्विशेष्यकतदुभयान्वयबोधे प्रथमान्तचैत्रादिपदसमभिव्याहृतशबादिविकरणोत्तरतत्तदाख्यातपदज्ञानत्वेन हेतुत्वाच्चैत्रेण पच्यते तण्डुल इत्यादिवाक्यघट कतयादीनां तादृशसमभिव्याहारादिशून्यतया तद्विपयिताया अताहशत्वात् । चैत्रः पक्ष्यते इत्यादितस्तस्डुलः पक्ष्यत इत्यादितश्चैत्रतण्डुलादिविशेष्यकसंख्यान्वयबोधोत्पत्त्या चैत्रः पक्ष्यते तण्डुल इत्यत्रोभयविशेष्यकसंख्यान्वयबोधौपयिकसमभिव्याहारज्ञानविषयितायाः तयादिपदे सत्त्वेन कर्तृकर्मणोस्तृतीयाद्वितीययोरप्रसक्तावपि न तादृशवाक्यं व्युत्पन्नाः प्रयुञ्जते । कर्तरि साक्षात् कर्मणि च दर्शितपरंपरया युगपद्भावनाविशेपरणकान्वयवोध जनकताया आख्यातस्याव्युत्पन्नतया तादृशवाक्याटुभयविशेषणकान्वयबोधासम्भवात् । न चाकाङ्क्षायोग्यतादिज्ञानसत्वात्कथन्न तादृशान्वयबोध इति वाच्यम् । अगत्या एकविधान्वयवीधऽन्यविधीन्वयबोधसामाग्यस्तद्घटकतात्पर्यज्ञानस्य वा प्रतिबन्धकत्वोपगमात् । न-च चैत्रेण तण्डुलः पक्ष्यते चैत्रस्तण्डुलं पक्ष्यते इत्यादिवाक्यद्वयविषयकसमूहालम्बनदशायामपि उभयविधान्वयवोधानुपपत्तिरिति वाच्यम् । तादृशैकविधान्वयवोधे' तादृशान्यविधान्वयबोधपरत्वेनागृह्यमाणतथावि तादृशेकविधान्वयबोध इति । तद्विशेष्यकसंख्यान्वयबोधे अन्यविशेष्यकसंख्यान्वयबोधपरताप्रकारकतात्पीयविशेष्यतानवच्छेकदधर्मावच्छिन्नधम्मिताकतद्विशेष्यकतादृशान्वयबोधपरज्ञानं कारणमिति । १२ Page #186 -------------------------------------------------------------------------- ________________ धाख्यातधर्मिकप्रकृतान्वयबोधपरत्वज्ञानस्य हेतुनया चैत्रः पक्ष्यते तण्डुल इत्यादिवाक्यात्तादृशद्विविधान्वयबोधवारणस्य दर्शितवाक्यद्वयात्तदुपपादनस्य शक्यत्वात् । न च निरुक्त संख्यानभिधानस्य तृतीयाद्वितीयानियामकत्वे चैत्रेण स्वं दृश्यते, चैत्रः स्वं पश्यतीत्यादी तृतीयाद्वितीययोरनुपपत्तिः । कादिविशेष्यकसंड्याप्रकारकान्वयबोधौपयिकाकाङ्क्षाज्ञानीयविषयत्वानिरूपकत्वस्य तत्राख्यातेऽसत्त्वादिति वाच्यम् । कादिपरयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबोधत्वावच्छिन्नप्रयोजकविषयित्वानिरूपकस्तत्पदोत्तरं तृतीयाविभक्तिरित्येवं नियमोपगमेन प्रथमस्थले पत्रपरवपदाख्यातपदयोर्द्वितीये च तत्परचैत्रपदाख्यातपदयोः स्मभिव्याहारस्यैव तद्विशेष्यकसंख्यान्वयबोधप्रयोजकतया क्रमेण चैत्रपदस्वपदाभ्यां तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति चेत्-न। अनभिहित इत्यधिकारे कर्तृकरणयोस्तृतीयेत्याद्यनुशासनस्य कि प्रयोजनमिति वक्तव्यम् । चैत्रः पचति तण्डुलः पच्यते इत्यादौ त्रतण्डुलपदाभ्यां द्वितीयातृतीययोरप्रयोग इति चेत्तत्किं मा गमन्त्रादिन्यायेन तादृशानुशासनस्य तथाविधप्रयोगविरोधिता येन तदभावस्तत्प्रयुक्तः स्यात्। न चैवं सम्भवति पचति पच्यते इत्यादिक्रियायोगे कर्तकर्मवाचकपदानन्तरं तृतीयाद्वितीययोरसाधुलस्य तत्कर्तृत्वतकर्मकत्वादिवोधौपयिकाकाङ्क्षादिरहितत्वादिरूपस्य प्रतिपत्तिः प्रयोजनं तस्येति चेतहि उक्तनियमपरतयापि न ततस्तल्लाभः । प्रथमान्तचैत्रतण्डुलपदतत्तदाख्यातपदयोः समभिव्याहारस्यैव चैत्रतण्डुलादिविशेष्यकतत्तदाख्यातार्थसंख्यान्वयवोधप्रयोजकतया चैत्रेण पचति तण्डुलं पच्यते इत्यादिवाक्यघटकतृतीयान्तद्वितीयान्तचैत्रतण्डुलादिपदतिबादिपदयोः समभिव्य हारस्यातथात्वेन तख़ुटकतृतीयाद्वितीययोः साधुत्वस्योक्तनियमात् यवच्छेद्यत्वात् । तस्मान्मुख्यभाक्तसाधारणकर्तृत्वकर्मत्वयोः कर्तृकर्मवाचकपदसम Page #187 -------------------------------------------------------------------------- ________________ प्रथमा ] जयाऽलङ्कृतः १७६ भिव्याहृतलकारकृत्तद्धितसमासैरनभिधानमेव तृतीयाद्वितीयादिनियामकं शिरोमणिभिरचैव निर्भरमभिहितः । कटेक खादीनां तदनभिधायकत्वं च न तद्वाचकत्वं तन्निष्ठवृत्त्य निरूपकत्वं वा आख्यातसामान्यस्यापि (आत्मनेपदस्यापि ?) आख्यातत्वेन तेत्यादिना वा कर्तृत्वादिनिष्ठ शुक्तिलक्षणानिरूपकत्वात् । कर्तृत्वाभिधायकाख्यातस्यैवाप्रसिद्धेः । तच्छाब्दबोधौपयिकाकाङ्क्षाश-: न्यत्वमेव तत् । चेत्रेण पच्यते तण्डुल इत्यादावाख्यातस्य कर्तत्वादिवाचकत्वेऽपि तच्छाब्दबोधौपयिकाकाङ्क्षाराहित्यं तत्राक्षतमेव । चैत्रादिपदोत्तर तृतीययैव कर्तत्वबोधनसम्भवात् + तत्र तादृशाकाङ्क्षाया अकल्पनात् इत्यपि न । चैत्रेण पक्ष्यते इत्यादौ तृतीयानुपपत्तेः । पक्ष्यते चैत्र इत्यादितश्चैत्रादौ पाककृतेः केवलात्पक्ष्यत इत्या -: दितच मुख्यविशेष्यतया तुझ्या बोधनात्तादृशाख्यातधात्वोरानुपूर्वीविशेषाकाङ्क्षायाः कृर्तिवाधापयिकत्वात् ॥ नेच समभिव्याहाररूपाकाचैव विवक्षणीया + प्रकृते तु प्रकृतिप्रत्यययोरानुपूर्वीरूपाकाङ्क्षा न तु समभिव्याहार इति नोक्तानुपपत्तिरिति वाच्यम् । तथा सति चैत्रेण पचतीत्यादावपि तृतीयायाः साधुतापत्तेः । ताहशचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् चैत्रेण विजेष्यते मैत्र इत्यादौ तृतीयानुपपत्तेश्च । विजेष्यते मैत्र इत्या-1 दितो मैत्रादिकृतिबोधात्तादृशाख्यातमैत्रपदयोः समभिव्याहारस्य कृतिवोधौपयिकत्वात् । किं तु तत्तात्पर्यशून्यत्वमेव । तथा च चैत्रेण पक्ष्यत इत्यादावाख्यातस्य कर्त्तृत्वादितात्पर्यकत्वे तृतीया असा -. धुरेव । तथा च चैत्रेण पचतीत्यादावाख्यातस्यार्थाविवक्षायां तृतीयायाः साधुवेऽपि परस्मैपदस्यासाधुत्वान्न तादृशः प्रयोग: • 'वृतीति । वृतिपदेन लक्षणाया अपि ग्रहणात्पूर्वतो वैलक्षण्यं बोध्यम् । Page #188 -------------------------------------------------------------------------- ________________ १८० व्युत्पत्तिवादः [ कारके परस्मैपदस्यासाधुत्वं च+ धात्वर्थविशेष्यस्य प्रत्ययेनाधिवृक्षणे भावकर्मणोरिति सूत्रेणात्मनेपदनियमात् । अख्यातार्थविवक्षाया, न चैत्रेण पचते इत्यादिप्रयोगः, शवादिविक णस्यासाधुत्वात् । कर्तृत्वतात्पर्यकसार्वधातुकप्रसोग एव तत्साधुत्वात्। कर्तृत्वकर्मत्वोभयतात्पर्येण चैत्र: पंक्ष्यते तण्डुल इत्यादयस्तु न प्रयोगाः । तदेकतरबोधेऽन्यपरत्वेनागृह्यमाणाख्यातधर्मिक कृतान्वयवोधपरत्वज्ञानस्य हेतुत्वात् । चैत्रेण पक्ष्यते तण्डुल इत्पादौ कर्तृत्वादावाख्यातस्य तात्पर्यग्रहे कर्मत्वाद्यन्वयबोधोऽपि न भवत्येव । अथ पक्कानि भुङ्क्ते चैत्रः ओदनः पक्त्वा भुज्यते इत्पादौ कृतां क्रमेण कर्तृत्वकर्मत्वानभिधानाच्चैत्रपदौदनपदाद्युत्तरं तृतीयाद्वितीये कथन्न स्याताम् । न च कृतानभिधानेऽपि आख्यातेन तदभिधानान्नानभिहितत्वं समभिव्याहृतपदाभिहितत्वसामान्याभावस्यैवानभिहितपदेन विवक्षणात् । समभिव्याहृते तिकथनाच्च त्रेण गम्यते ग्रामस्तं मैत्रो गच्छतीत्यादौ न तृतीयाद्वितीययोरनुपपत्तिः । गच्छति गम्यत इत्याद्याख्यातस्य तत्तत्पदासमभिव्याहृतादिति वाच्यम् । तथा सति भुञ्जानेन चैत्रेण पच्यते अोदनो भोत्तव्यमोदनं पचतीत्यादौ तृतीयाद्वितीययोरनुपपत्तिः। कृता कतल कर्मत्वयोरभिधानात्। कृता तत्र भोजनकर्तृत्वतत्कर्मत्वयोरभिधानेऽपि पाककर्तत्वं तत्कर्मत्वं चानभिहितमेवेति चेत्तहिं प्रकृतेऽपि त नभिहितमेव । न च प्रधानक्रियानिरूपिततत्तत्कर्तृत्वाद्यनभिधाने तृतीयादेः साधु १ समरियाहनेति । समभिव्याहृतत्वञ्चकवाक्य कात्यमिति । प्रकृतेऽपोति । पक्वानि भुको चैत्रः मोदनः पा चा सुलात इस हादी पाककर्तृत्वयाककर्मत्वयोरनभिधानात्तबोधिके द्वितीया ये कथन स्थालानित्याशङ्कायाः जनावानमाह--न घेत्यादिना । Page #189 -------------------------------------------------------------------------- ________________ भानमनि04 तेति । तदुक्तम् । प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत्प्रकाशते इति शक्तिः कर्तृ वादिकमिति वाच्यम् । तथापि चैत्रेण दृश्यमानं घटं मैत्रः पश्यत त्यादौ ज्ञानभेदेन विषयताया भेदाभावात्। चैत्रदर्शनमैत्रदर्शनोभयनिरूपितविषयत्वरूपकर्मतायाः कृताभिधानाद्वितीयानुपपत्तिरिति चेत्-न। तत्तत्प्रातिपदिकार्थविशेषणत्वमात्रेण कर्तृत्वकर्मत्वाद्यविवक्षाया एव तदनभिधानपदार्थत्वात् तत्तत्प्रातिपदिकार्थविशेष्यतया कर्तृत्वकर्मत्वादिविवक्षायां द्वितीयाविभक्तेः साधुल मित्यर्थे तात्पर्यस्य पर्यवसितत्वात्। शेषमाख्यातार्थविचारावसरे विवेचयिष्यत इत्यलमत्राधिक्येन । ____ आख्यातद्विवचनबहुवचनयोस्तु संखयाबोधकत्वमावश्यकम्। चैत्रो मैत्रश्च गच्छतः चैत्रो मैत्रो देवदत्तश्च गच्छन्तीत्यादौ "चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मी: कमलेषु चञ्चला। मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्” इत्यादौ च द्वित्वबहुत्ववोधकसुपोऽभावात् । न च तत्र सुबेकवचनस्यैव द्वित्वबहुत्वादी लक्षणास्त्विति वाच्यम्। आनुशासनिकातिरिक्तार्थे सुव्वि-। भक्तर्लक्षणाया अनभ्युपगमात् । अन्यथा चैत्रो मैत्रश्च गच्छत इत्यादाविव छन्दसि लक्षणयैव स्वादिना द्वित्वादिवोधनसम्भवात्। औजसादिरूपादेशस्मृतिद्वारा द्वित्वादिबोधनिर्वाहाय छन्दसि सुपां सुलुगित्यादिसूत्रेण औजसादिस्थाने स्वाद्यादेशविधानस्य वैययात्। चैत्रादिपदोत्तरैकवचनस्य द्वित्वादिलाक्षणिकत्वे तदप्रकृत्यर्थमैत्रादिसाधार गद्वित्वादिबोधस्योक्तव्युत्पत्तिविरोधेनानुपपत्तेश्च । द्वित्वायाख्याता सङ्घयान्वयबोधे च स्वसमानविशेष्यकतदर्थभार 'गच्छन्तोत्याहाविति। एतादृशप्रयोगस्य प्रामाणिकत्वं दर्शयति--चन्द्र । कलङ्क इत्यादिना श्रीहर्षइलोकेन । Page #190 -------------------------------------------------------------------------- ________________ "वना विषय भगरकोभनिन नान्वयबुद्धिसामग्री अपेक्षिता । "भावनाया बाधादिग्रहकाले' तंत्र तात्पर्य ग्रहादिशून्यकाले चोक्तस्थले द्वित्वान्वयाबोधात् । विशेष्ये धात्वर्थादौ सङ्ख्यान्वयाबोधाच्च तादृशसामन्याः सङ्ख्यान्वयबुद्धित्वावच्छिन्नं प्रति न स्वातन्त्र्येण' हेतुता । तदकल्पनेsपि खयातजन्यसंख चोपस्थितियोग्यताज्ञानविशेषादिघटितसामग्य्या भावनानवगाहि संख चान्वयबोधस्य कदाप्यजननात् । संखचान्वयबोध साधारणभावनान्वयबोधत्वावच्छिन्नहेतूनामपि तादृशसामग्रीघटकत्वेनानुपपत्त्यभावात् । न च तादृशकारणानां भावनान्वयबुद्धित्वं संखयान्वयबुद्धित्वं वा जन्यतावच्छेदकमुपेयते इत्यत्र विनिगमनाविरहः । सङ्ख्यामविपयीकृत्यापि भावनान्वयबोधस्यानुभवसिद्धत्वात् । द्वितीये जन्यतावच्छेदकत्वासभ्भव' इति दिकू । 'स्वातन्त्र्येणेति । किन्तु व्यापकसामग्री विधेयेति शेषः । संख्यान्वयबुद्धित्वव्यापकत्वाद्भावनान्वयबुद्धित्वस्येतिभावस्तदेवोपपादय व्यग्रिमग्रन्थेनेति । तादृशकारणानामिति । भावनान्वयकारणानामित्यर्थः । १ जन्यतावच्छेदकत्वासम्भव इति । संख्यान्वयबुद्धित्वस्य न्यूनवृत्तित्वादिति भावः । ४ * प्रथमाविवरणसमाप्तौ दिगितिप्रतीकमुपादाय श्रीमद्गुरुचरणाः । दिगिति । दिगर्थस्तु सन्तीत्यध्याहारस्त्रयः काला इत्यत्र वक्तुं शक्य एव । न च त्रयाणां कालानां युगपद्वर्त्तमानत्वानन्वयो वर्तमाने लडित्यादौ वर्तमानत्वादेः प्रयोगकालिकस्यैव ग्रहणादन्यथा प्रतिप्रसङ्गापत्तिरिति वाच्यम् । सन्तोत्यत्र लडुपात्तवर्तमानत्वस्याविवक्षितत्वात् । प्रायोपात्तवर्त्तमानत्वं हि न सर्वत्र विवक्षितं भवति । अत एव ग्रामं गमिष्यति ग्राममगमदित्यादौ ग्रामादेः कर्मत्वं सिद्धयति । अन्यथेप्सिततमत्वविरहात्तदनापत्तिः । ईप्सित Page #191 -------------------------------------------------------------------------- ________________ अथ गुणादिवाचकंपदोत्तरद्विवचनबहुवचनयोः कथं द्वित्वबहुत्वबोधकता संखयागुणत्वेन गुणादी बाधात् । न च तत्र स्वाश्रयसमवेतत्वादिसम्बन्धेन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम्। एकव्यक्तावपि तादृशसम्बन्धेन द्वित्वादेः परिसमाप्ततया एकमात्रतात्पर्येणापि द्विवचनाद्यापत्तिरिति चेत् अपेक्षाबुद्धिविषयत्वमेव तदुत्तरद्विवचनादिना बोध्यते । तच्चैकमात्रवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकस्थले प्रकृत्यर्थतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तिसम्बन्धेन प्रकृत्यर्थेऽन्वेति । अन्यत्र तु शुद्धपर्याप्तिसम्बन्धेनेति न द्वित्वादिस्थलोक्त दोष इति विदुषां परामर्शः। इति व्युत्पत्तिवादे प्रथमाविवरणम् । अथ द्वितीयाविवरणम् कर्मणि द्वितीयेत्यनुशासनात्कर्मत्वं द्वितीयार्थः। तत्र कर्मपदस्य धर्ममात्रपरत्वात । सप्तम्या वाचकतार्थकत्वात्। कर्मणश्च न पदे हि मतिबुद्धीतिसूत्रेण वर्तमाने क्तः । अत एव कर्तुरिति षष्ठी सङ्गच्छते । अन्यथा न लोकेति निषेधापत्तेः । न च निष्ठेतिसामान्यसूत्रविरहितोऽयं क्तः षष्ठी तु शेषत्वविवक्षयेति वाच्यमेवमपि ग्रामं गच्छति गमिष्यतीत्यत्र कर्मत्वानापत्तेरनुद्धारात् । निष्ठेतिसूत्रेऽपि भूते इत्यधिकारात् । वर्तमानत्वविवक्षायां ज्ञापकन्तु भूते इत्यधिकारे कर्मणि हन इति णिनिविधायक तच्च सामान्यापेक्षकं तच्च लडुपात्तमपि वर्तमानत्वं क्वचिदविवक्षितं तेन प्रकृतेऽप्यदोषात् । अत एव मौद्गश्चरुर्भवतीत्यनेन सार्वकालिकयागीयचरुनियमः संगच्छते इति दिगिति ब्रूमः । इति व्यत्पत्तिवादजयायां प्रथमाविवरणम् । Page #192 -------------------------------------------------------------------------- ________________ तथात्वम् । कर्मणि नामार्थस्य ग्रामादेरभेदान्वयसम्भवेऽपि धात्वर्थगमनादिना तदन्वयासम्भवात् गौरवाच्च । कर्मस्वं च क्रियाजन्यफलशालित्वम् । तत्र च क्रिया.धातुत एव लभ्यते । जन्यजनकभावस्य च विनैव पदार्थत्वं संसर्गमर्यादया भानं सम्भवतीति फलमात्रं' कर्मप्रस्थयार्थः। नव संयोगविभागरूपफलमपि धातुलभ्यमेव । गमित्यजिप्रभृतीनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वादिति काव्यम् । व्यापारमात्रस्य धात्वर्थत्वात् । फलविशेषान्वयबोधे च धातुविशेषजन्यव्यापारोपस्थितेर्हेतुतया ग्रामं त्यजतीत्यादौ (च धात्वर्थे स्पन्दे ग्रामनिष्ठविभागजनकत्वमेव ग्राम् गच्छतीत्यादौ च ग्रामनिष्ठसंयोगजनकत्वमेव प्रतीयते न तु विपरीतम्। ग्राम गच्छतीत्यादिवञ्च वोमं स्पन्दते इत्यादयो न प्रयोगाः। द्वितीयादेर्गम्याद्युपस्थापितस्पन्दादावेव फलान्वयबोधकत्वात् । 'स्पन्दिप्रभृत्युपस्थापिते तस्मिन् द्वितीयादिना फलान्वयबोधजननासम्भवात् । न...हि येन केन चिदुपस्थापितयोरेवार्थयोः परस्परमन्वयः प्रतीयते। तथा सति घटकर्मत्वादिपद पस्थापितयोरपि घटकर्मत्वाद्योः परस्परमन्वयबोधप्रसङ्गात्। कृयादिसमानार्थकयतधातूपस्थाप्ययत्ने विषयितार्थकद्वितीयार्थान्वयसंभवेन घटं करोतीतिवद् घटं यतते इत्यादिप्रयोगप्रसङ्गाच्च । अपि तु. मयोर्याह " 'अन्वयासम्भवादिति । ग्रामवृत्तिसंयोगानुकूलत्वसम्बन्धेन कर्मणः संयोगावच्छिन्नव्यापारेऽन्वयहि गौरवात्संयोगस्य द्विधा भानादिति । २ स्वाश्रयबलजनकत्वसम्बन्धेन यथाकथञ्चित्तत्सम्भवादाह-गौरवादिति । आश्रयत्वस्यापि संसर्गमर्यादयैव भानसम्भवादाह-फलमात्रमिति । * गूढार्थतत्त्वालोके न तु स्पन्दीत्यादिपाठः । Page #193 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः १८५ शान्वयबोधे आकाङ्ला तदुपस्थापितयोरेव तादृशान्वयवोधः । आकाङ्क्षा च द्वितीयादेर्गम्यादिना कृयादिना च कल्प्यते न तु तत्समानार्थकेनापि स्पन्दियतिप्रभृतिनेति । न चाकांक्षात्र समभिव्याहारः स च गम्यादिनेव स्पन्दादिनापि समान एवेति वाच्यम् । यतो द्वितीयादेर्गम्यादिसमभिव्याहारस्यैव फलबलादन्वयवोधौपयिकत्वमुपगम्यते न तु स्पन्दिप्रभृतिसमभिव्याहारस्येति न तस्याकाङ्क्षात्वमन्वयवोधौपयिकसमभिव्याहारस्यैव तथात्वात् । अत एव समानार्थकत्वेऽपि गम्यादेरिव न स्पन्दादेरपि सकर्मकत्वव्यवहारः। फलान्वितव्यापारबोधकधातुत्वस्यैव लन्नियामकत्वात्। अथ धातोर्व्यापारमात्रवाचित्वे त्यजति गच्छति त्यागो गमनमित्यादिवाक्यादविलक्षणबोधप्रसङ्गः। नहि शक्तिभ्रमाद्यजन्ययोस्तादृशवाक्यजन्यबोधयोरवैलक्षण्यं कश्चिद युपैति । तथा सति त्यागादितात्पर्येण गमनादिपदं व्युत्पन्ना अपि प्रयुञ्जीरन् । न च तत्र फलविशेपावच्छिन्नव्यापारे लक्षणा स्वीक्रियते इति विलक्षणबोधोपपत्तरिति वाच्यम् । लमण्या विलक्षणबोधजननेऽपि शक्तयाऽविलक्षणबोधजननसम्भवेन दर्शितातिप्रसङ्गस्य दुर्वारत्वात् । न च गम्यादिशक्तिज्ञानजन्यार्थोपस्थित्या फलाविषयबोधस्य कुत्राप्यजननात् तादृशोपस्थितिघटितसामग्रीशरीरे फलविशेषबोधकसामग्री निवेश्यते। तथा च त्यागगमनादिपदयोः शक्त्या नाविलक्षणबोधजनकतेति वाच्यम् । त्यजिगम्योरेकार्थवाचकतारूपपर्याचतां विपर्यस्यतो गमनादिपदात् त्यागादिपदजन्यबोधसमानाकारकबोधस्य सर्वानुभवसिद्धतया गम्यादिशक्तिज्ञानात्फलाविपयकबोधस्यापि पदजन्यबोधनियामकताया वक्तुमशक्यत्वात् । तथा चाभ्रान्तस्यापि भवन्मते ततोऽविलक्षणबोधसम्भवेन एकविधबोधतात्पर्येण व्युत्पन्नानां तादृशप्रयोगप्रसङ्गो Page #194 -------------------------------------------------------------------------- ________________ दुर्वार इति चेत्-मैवम् । कर्मप्रत्ययासमभिव्या हतत्यागगमनादिपदस्य तत्तत्फलावच्छिन्नव्यापारेऽनादितात्पर्य क प्यते न तु केवलव्यापारे। अनादितात्पर्यमेव च स्वारसिकप्रयोगनियामकमिति एकार्थतात्पर्येण प्रामाणिकानां स्वारसिको न त्याग् गमनादिप्रयोगः। एवं त्यजिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्यापि फलविशेष एव नियतं तादृशं तात्पर्यमिति न विभागादितात्पर्येण ग्रामं गच्छतीत्यादिप्रयोगः । तदर्थबोधकत्वमानं तु न तदर्थतात्पर्येण स्वारसिकप्रयोगनियामकम् । तथा सति शक्तिभ्रमादिना घट पदस्यापि पटादिबोधकतया पटेऽपि घटादिपदप्रयोगापत्तिः। नापि शक्त्या बोधकत्वं तथा । निरूढलक्षणयापि स्वारसिकपदप्रयोगात् । शक्तिभ्रमं लक्षणाज्ञानं चान्तरेण गम्यादेविभागादिरूपफलविशेषितरुपन्दादिबोधकत्वाभावनियमोऽसिद्ध एवेति तात्पर्य नमसहकृतशक्तिप्रमया तादृशबोधजननेऽपि न क्षतिः । विमा लक्षणाग्रहं भ्रमानधीनतादृशबोधो गमिप्रभृतितो न सम्भवतीत्येव नियमः । स च तात्पर्यभ्रमेणैव निर्वहतीति विभागाद्यर्थे पूर्वपूर्वे पामनादितात्पर्यभ्रमवतो वक्तुः स्वकीयतात्पर्येण ग्रामं गच्छतीत्यादिप्रयोगो यत्र तकोतुस्तात्पर्यभ्रमासम्भवेऽपि वक्तृतात्पर्यान दित्वभ्रम एव प्रयोगसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न तादृशनियमक्षतिरिति प्राचीनपथपरिष्कारप्रकारः । मनिपमा मnt नव्यास्तु संयोगादिरूपफलविशेषावच्छिन्नस्पन्दो गम्याद्यर्थः ।* तद्धात्वर्थतावच्छेदकफलशामित्वमेव तद्धातुकर्मत्वम् । नातो गम्यादिकर्मत्वस्य पूर्वदेशादौ प्रसङ्गः। - वा स्पन्दे: सकर्मकत्वम् । तत्र फलस्य धात्वर्थतानवच्छेदकत्वात्। एवं च धातोरेव फलविशेषलाभात् फलान्वयिनी वृत्तिरेव द्वितीयार्थः। न च-कर्मणि द्वितीयेत्यनुशासनविरोधः। तस्य कर्मणि फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्य तदुत्तरं द्वितीयेत्यर्थकत्वात् । न चैव तस्य , Page #195 -------------------------------------------------------------------------- ________________ शक्तिग्राहकत्वानुपपत्तिः। अनादितात्पर्यग्रहसंपादकत्वेन परंपरया शक्तिग्राहकत्वसम्भवात् । न च फलस्य पदार्थैकदेशतया तत्र द्वितीयार्थवृत्तेरन्वयाससम्भवः। व्युत्पत्तिवैचित्र्येण प्रकृते एकदेशान्वयस्वीकारात् । अथ गमनं न स्पन्द इत्यादितो धात्वर्थतावच्छेदकफले स्पन्दभेदान्वयबोधसम्भवेन तत्रैतादृशप्रयोगस्य वारणाय फलविशेष्यकान्धयवोधे तद्विशेष्यकवृत्तिज्ञानजन्यफलोपस्थितित्वेन हेतुत्वकल्पनस्यावश्यकत्वात् तादृशकारणबाधन धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयासम्भूवः। .. न च याः:शपदसमभिव्याहारज्ञानात् फलविशेष्यकस्पेन्दभेदान्वयबोधः प्रसिद्धः तादृशपदज्ञानजन्यफलाद्यपस्थितिघटितसामग्यास्तादृशान्वबोधोत्पादप्रयोजिकाया असत्त्वेनोक्तस्थले तदापत्त्यसम्भव इति वाच्यम् । यत्र गमनादिपदादेव लक्षणया शक्तिभ्रमेण वा स्वातन्त्र्येण फलोपस्थितिस्तत्र फलविशेष्यकस्पन्दभेदान्वयबोधसिद्धथा गमनपदसमभिव्याहारतज्जन्यफलोपस्थितिघटितसामग्रा फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वयबोधप्रयोजकताया आवश्यकत्वात् । तद्बलेन शक्तिप्रमाधीनबोधेऽपि फलांशे स्पन्दभेद दिभानप्रसङ्गः। एवं च फलव्यापारयोः पृथक्शक्ति'स्वीकारपक्षेऽपि न निस्तारः। तथात्वेऽपि हि गमनं न स्पन्द इत्यादौ फले शक्तिप्रमया स्पन्दभेदान्वयबोधसम्भवेन तादृशप्रयोगापत्तेर्दुरित्वादिति चेत्-न । तद्विशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिजन्यतावच्छेदक कोटौ तादृशोपस्थित्यव्यवहितोत्तरत्वनिवेशनमावश्यकम्। विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैकविधबोधे 'तादंगपदसर भिव्याहारज्ञानेत्यधिकः पाठः क्वचित्युस्तकेऽत्र । पृथक्शक्तीति । खण्डशक्तिरित्यर्थः । । Page #196 -------------------------------------------------------------------------- ________________ १८८ व्युत्पत्तिवादः [ कारके नानाहेतुताया व्यवस्थापितत्वात् । एकपदाधीनत द्वेपयकवृत्तिज्ञानजन्यशाब्दबोधे पदान्तरवृत्तिज्ञानजन्यतदुपस्थितेवभिचारस्य प्रका रान्तरेण वारणासम्भवात् । एवं च धात्वर्थतावच्छेदकफले द्वितीयार्थान्वयवोधेऽपि क्षतिविरहः । तत्रैतादृशकारणस्य व्यभिचाराप्रसक्तेरिति वदन्ति । १ वियते । व्यापारमात्रस्य धात्वर्थनायामपि सर्वानुपपत्तीनामुद्धृतत्वात् फलावच्छिन्नव्यापारस्य गुरुतया तथात्वमनुचितम् । फले द्वितीयादेः शक्तयन्तरकल्पनामपेक्ष्य धातोविशिष्ट शक्तिकल्पनमेवोचितम् । न च भवन्मतेऽव्याधेयत्वे द्वितीयादेः शक्त्यन्तरस्य कल्पनीयत्वात्तदंशे साम्यमिति वाच्यम् । ग्राममध्यास्ते ग्राममधिशेते ग्रामं संयुनक्तीत्यादौ द्वितीयायाः सर्वमत एवाधेयत्वबोधकतया द्वितीयादेः फलवाचकत्वमपि आधेयत्ववाचकताया श्रावश्यकत्वात् । नच द्वितीयायाः संयोगादिवाचकत्वमते आधेयत्वे तस्या लक्षणैव न तु शक्ति' रेति वाच्यम् । आधेयतात्वस्याखण्डतया संयोगत्यादिसमशरीरलात् संयोगत्लाद्यच्छिन्ने तदवच्छिन्ने वा शक्तिः कल्प्यत इत्यत्र विनिगमकासम्भवात् । अस्तुखा ममाप्याधेयत्वे लक्षणैव शक्तिस्तु संख्यायामेवे | यदि च द्वितीयादेः फलबोधकतामते फलेऽपि तस्या लक्षणैव न तु शक्ति: शक्तिस्तु संख्यायामेव संयोगविभागादिरूपकप्रत्येकफलापेक्षया संख्यायां तत्प्रयोगप्राचुर्यस्य विनिगमकत्वादियुच्यते तवापि तन्मते धातुजन्यशुद्धव्यापारोपस्थितेः शाब्दबोध हेतुताकल्पनभधिकम् । द्वितीयाद्यसमभिव्याहारस्थलानुरोधेन फलविशेषाव 'द्वितीयादेरित्यादिग्रन्थस्थाने तत्र शक्तिकल्पनस्यं भयसाम्यादित्येव पाठः क्वचिद्धस्तलिखित पुस्तके | Page #197 -------------------------------------------------------------------------- ________________ जमार छिमव्यापारे धातोर्लक्षणया भवतामप्यावश्यकत्वाद्धातुजन्यताटशव्यापारो स्थितिहेतुताया उभयसिद्धत्वात् । यदि च स्पन्दत इत्यादित इत्र शक्तिभ्रमाद्च्छतीत्यादितोऽपि १शुद्धव्यापारबोध आनुभविक इति मन्यते तथापि तन्मते शाब्दबुद्धौ द्वितीयादिजन्यफलीपस्थि ते: कारणतायाः कुल्पनाधिक्यं तज्जन्याधेयत्वोपस्थितिहेतुत्वकल्पनस्य चोक्तस्थलानुरोधन उभयमत एवावश्यकत्वादिति चेत्--अस्तु तन्मते ताटशकारणताया आधिक्यम्। तव्यमते न ग्रामं गच्दतीत्यादिवाक्यज्ञानघटितशाव्दसामायः सम नविषयकानुमित्यादिप्रतिबन्धकतायां फलप्रकारतानिरूपितव्या पारविशेष्यताशालित्वेन धातुजन्योपस्थितेर्निवेशनीयतया तस्य स्तादृशेविशेष्यताशालित्वेन व्यापारविशेष्यतानिरूपितफलप्रकार ताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहात् सामगीप्रतिवन्धकताधिक्यमवच्छेदकगौरवं च । प्राचीनमते द्वितीयाजन्यफलीपस्थिते: सासऱ्यान्तनिवेशस्तु न यमतसिद्धत अन्याधेयत्वोपस्थितिनिवेशस्थलीय एव इति । नव्यमत ताशस्थत शाब्दबोधस्याधिकविषयकतया तात्पर्यज्ञानादिकमप्यधिकविप रकमेव शाब्धीहेतुभविष्यति, प्रतिवन्धकसामग्र्याम यन्तर्भविष्यतीति च गौरवम् । अथ-फलस्य द्वितीयार्थत्वे भूमि गछति न म हीराहमित्यादौ महील्हवृत्तिसंयोगादेर्जनकतासम्ब-. धावच्छिन्नाभाव एक नबर्थी वाच्यः। सच वृत्त्यनियामकसम्बम्हन्याभापति गोगितानच्छेदकतया अप्रसिद्धः। नव्यमले तु द्वितीयार्थस्यायेयत्वस्व फलनिष्ठोऽभाव एव तथेति। नानुपातिः। च भूमिकर्मकगमनकर्तादौ महीरहकर्मकगमनकतत्वायनाकः प्रतीयते इति वाच्यम् । कर्तृवाचकपदासमभिव्याहारस्थले त सम्मान । न च तत्राप्याख्यातार्थान्जयबोधानुरोवेन कर्तवाच कपाध्याहारस्यावश्यकतया अध्याहतपदोपस्था Page #198 -------------------------------------------------------------------------- ________________ प्यकर्तर्येव तादृशाभावो नया बोधयिष्यत इति वाच्यम् । श्राख्यातार्थविशेष्यकस्याप्यन्वयबोधस्य सम्भवेनाध्याहारस्यानावश्यकत्वाद्भूमेर्गमनं न महीरुहस्येत्यादौ द्वितीयासमानार्थकपष्ठयाभावबोधकतया आवश्यकत्वाच्च । न हि तत्राप्याश्रयतासम्बन्धावच्छिन्नप्रतियोगिताकगमनाभावः प्रतीयत इति सम्यक । अदुयोन्चनुपस्थितेनञोऽनुयोगिविनिर्मीकेनाभावबोधकताया अव्युत्पन्नत्वोदिति चेत्-न । वृत्त्यनियामकसम्बन्ध स्याभावप्रतियोगितावच्छेदकत्वे दोषः कः। अथ जनकतादि सम्बन्धावच्छिनप्रतियोगिताकसंयोगाद्यभावस्यातिरिक्तस्य कलाने गौरवमिति चेत्-न । तादृशाभावस्य संयोगजनकत्वाद्यभावसनियतत्वेन तत्स्वरूपत्वात्तस्य चोभयवादिसिद्धत्वादतिरिक्तप्रतियोगिताकल्पने गौरवमिति चेत्-अस्त्वेतद्गौरवम् । उपदर्शितबहुविध नाघवेन ईदृशगौरवस्याकिंचित्करत्वात् । अय फलस्य द्वितीयार्थत्वे वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि द्रव्यं गच्छति न गुणमित्यादौ गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसि'द्धया नर्थान्वयबोधानुपत्तिरिति चेत्-न । बाधेयतासम्बन्धावच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावस्यैव द्वितीयार्थे 'फले नया बोधनोपगमात् । गुणो न गुणं गच्छतीत्यादिवाक्यस्योभयमत एवाप्रमाणता । अस्तु कम् तत्राभावस्य द्विधा भानोपगमेन गुणाभाववत्फलानुकूलस्पन्दाश्रयत्वाभाववान् गुण इत्याकारकव्यापारम्य एवान्वयबोधः । marrianलाधिrsarkar, 'परे तु वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदक 'परे स्विति । वस्तुतो न युक्तमिदम् । वृत्त्यनियामक सम्बन्धस्याभावप्रतियोगितावच्छेदकत्वमभ्युपगच्छतामपि प्राचान्न निर्वाः । यतस्तैरान Page #199 -------------------------------------------------------------------------- ________________ त्वे नव्यमतेऽपि द्रव्यं गच्छति नाभाव मित्यादौ गतिविरहः। तथा हि समवायसम्बन्धावच्छिन्नाधेयतैव द्वितीयार्थो वाच्यः । अन्यथा कालिकादिसम्बन्धावच्छिन्नग्रामादिवृत्तिसंयोगादिकमादायातिप्रसङ्गात । तथा चाभावादिनिरूपिततथाविधाधेयत्वाद्यप्रसिद्धथा तदभावबोधासम्भवः । निरूपितत्वसम्बन्धस्य च वृत्यनियामकतया समवायसम्बन्धावच्छिन्नाधेयतायां तत्सम्बन्धावच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभाववोधो न सम्भवत्येवेत्याहुरिति । ___ अत्रोच्यते । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिता वच्छेदकत्वे आधेयत्वं संसर्गः विभक्तेः संख्यामात्रमर्थः फलावच्छिन्नो व्यापारो धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवैचित्र्येण नामार्थधात्वर्थयोरपि साक्षादन्वयबोधस्तथा सत्यतिप्रसङ्गस्य प्रागुपदर्शित्रप्रकारेण वारणसम्भवात् । न चैतत्कल्पे लाघवानवकाशः । फले स्वतन्त्रशत्तयकल्पने सामग्रीप्रतिबन्धकतायां द्वितीयादिजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिरिति उभयनिवेशस्थाने (उपस्थित्यपेक्षयेति वा पाठः) धातुजन्यविशिटविषयकोपस्थिनेरेकस्या निवेशेन लाघवात् । वस्तुतस्तु शाब्दबुद्धरधिकविषयत्वे राज्ञः पुरुष इत्यादौ स्वत्वादेः संसर्गतानिराकरणावसरे सामग्रीप्रतिबन्धकतायां लाघवस्य दर्शितत्वात् ।। द्वितीयादेराधेयत्वमर्थः, फलावच्छिन्नव्या Ahire द्वितीयार्थ प्रकृत्यर्थस्य कालिकादिसम्बन्धमादांयातिप्रसङ्गोपेत्यभावाय समवायसम्बन्धावच्छि बाधेयत्वस्यैव संसर्गत्वेनाभ्युपगन्तव्यतया तेन सम्बन्धेन चाभावरूपप्रकृत्यर्थस्याप्रसिद्धया तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावो Page #200 -------------------------------------------------------------------------- ________________ पारश्च धातोरित्येव युक्तम। कमोख्यातस्य लमथः । अन्यथा ग्रामो गम्यते इत्यादी ग्रामादेयापारजन्यफला श्रयत्वरूपकर्मत्वप्रतीत्यनुपपत्तेः । याटशविशेष्यविशेषणभावापन्न योः पवाच्यता तादृशविशेषणविशेष्यभावापन्नयोरेव शाब्दबोधे भानसम्भवान न तु तद्विपरीतविशेषणविशेष्यभावापन्नयोः । तु फले धातोः पृथक् शक्त्युपगमात् व्युत्पत्तिवैचित्र्येण कत्र ख्यातसमभिव्याहारस्थले व्यापारविशेपणतया भासमानस्य फ नस्य कर्माख्यातस्थले तद्विशेष्यतया भानमिति तन्न। पृथक् र्शा तस्वीकारे शाब्दसामग्ऱ्याः प्रतिबन्धकतायां विशिष्टविपयकोपरि तिस्थले उपस्थितिद्वयकल्पने गौरवात् । गम्यादेः सम्पूर्वयुजिप्रभृतिसमानार्थकताभ्रमवतामिव विशेषदर्शिनामपि गमनं न स्पन्द इत्यादिवाक्यात्संयोगादौ स्पन्दभेदान्वयबोधापत्तेर्दर्शिताया दुरित्वाच्च । संयोगादिविशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिघटितायास्तथाविधान्वयबोधसमाग्ऱ्या अक्षतत्वात् । तत्तद्धातूपस्थाप्यव्यापारांशे तत्तद्विशेषणकबोधतात्पर्यज्ञानस्य तादृशान्यवोधे प्रतिवन्धकताकल्पने गौरवादिति फलस्य द्विधा भानं चेदनुभवविरुद्धं तदा पुनरनायत्या फलव्यापारयोः खण्डशक्तिद्वयमेव धातोः रखीकरणीयम् । प्राण्यातस्याश्रयत्वसेव स्त्रार्थः। अधिकमग्रे वक्ष्यते।। ___ अथ द्वितीयाया आधेयतार्थकचे व्यापार तदन्वयतात्पर्येण सप्तम्या इव द्वितीयाया अपि प्रयोगापत्तिः। नहि हे पचतीत्यादिवद्गृहं पचतीति कश्चित्प्रयुके । भैवम् । धात्वर्थच्छेदकफलांश आवेयत्वान्बय एव तादृशद्वितीयायाः साकाङ्क्षत्य कल्पनाव्या गारे तदुपस्थापितावेयत्वान्यासम्भवात् । सप्तम्यधीनाधेयमापस्थितिसप्तमीसमभिव्याहारज्ञानघाटिताया एत्र सामग्य ताहशान्वयाव नियामकत्वात् । द्वितीयासप्तम्योः सामानार्थकत्वेऽसे व्युत्पत्तिमदज्ञापनायैव पृथक् पृथक् सूत्रेण तयोविधानात् । अथाधःसंयोगा Page #201 -------------------------------------------------------------------------- ________________ वच्छिन्नस्पन्दस्य पतधात्वर्थत्वात् धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्येण भूमि पततीति प्रयोगापत्तिः । न च द्वितीयोपस्थापनाधेयत्वप्रकारकफलविशेष्यकान्वयबोधे गम्यादिजन्यफलोपस्थितितत्समभिव्याहारज्ञान वटितसामय्येव प्रयोजिका, न तु पतधातुजन्यतदुपस्थितिघटितासामग्रीति नातिप्रसङ्ग इति वाच्यम् । पतधातुनैव यत्र संयोगावच्छिन्नं गमनं लक्षणादिनोपस्थापितं तत्र स्योगे द्वितीयार्थाधेयत्वान्वयात् । अबाहुः । धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितेः शाब्दबोधकारणताया नवच्छेदकघटक संयोगविषयतायामधिकरणानवच्छिन्नत्वं विशेषणं देयम् । तथा च तादृशविषयताशालिसंयोगावच्छिन्नोपस्थित्यादिघटितसामन्या एव संयोगविशेष्यक द्वितीयो - पस्थाप्याधेयत्वान्वयबोधप्रयोजकत्वोपगमान्नातिप्रसङ्गः । न चैवमपि फलावच्छिन्नव्यापारबोधकतया पतेः सकर्मकत्वव्यवहारापत्ति वेति वाच्यम् । आश्रयानवच्छिन्नफलावच्छिन्नव्यापारबोधकस्यैव तादृश व्यवहारनियामकत्वात् । उत्तरदेशानवच्छिन्नसंयोगः फलं गम्पर्थतावच्छेदकमिति नानुपपत्तिः । अत एवाग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारस्य जुहोत्यर्थतया धात्वर्थताबच्छेदकसंयोगाः यस्याप्यग्नेर्न तत्कर्मता । आश्रयानवच्छिन्नावच्छेढकताश्रयफलवत्त्वविरहात् । संयोगनिष्ठाया धात्वर्थतावच्छेदकताया आश्रयेणाशिनाऽवच्छिन्नत्वात् । न चानिविशेषितसंयोगस्य धात्वर्थतावच्छेदवा फलत्वेऽग्नौ घृतं जुहोतीत्यत्रानन्वयप्रसङ्गः उद्देश्यतावच्छेदक विधेय पोरैक्यादिति वाच्यम् । तत्र संयोगनिष्ठायामुद्देश्यतायां वह्नेराधेयतासंसर्गेणावच्छेदकतया सप्तम्यर्थस्यानिवृत्तित्वस्य च विधेयतया उद्देश्यतावच्छेदकविधेययोरैक्यानवकाशात् । वस्तुतस्तु तत्र वह्नेरनन्वयेऽपि न क्षतिः । व्युत्पन्नानां ताहशप्रयोगस्याप्रामा·िएकत्वात् । संस्कृते वह्नौ जुहुयादित्यादिस्थले Page #202 -------------------------------------------------------------------------- ________________ च विधेयांशेऽधिकावगाहनान्नास्त्येवानुपपत्तिः । धृतादेश्चाश्रयानवच्छिन्नधात्वर्थतावच्छेदकतावक्रियारूपफलाश्रयत्वात् कर्मत्वो"पपत्तिः । यजु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रह विशेष्यांशे साक्षात्प्रकारत्वं तच्च क्रियायामेव न संयोगांशेऽपी ते नाग्नेर्जुहोति कर्मतापत्तिरिति । तदसत् । अजां ग्रामं नयती यादौ संयोगावच्छिन्नक्रियानुकूलव्यापारादिरूपे धात्वर्थे संयं गादेः साक्षादप्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्त्या नीवहादेर्द्विकर्मकत्वव्याघातात् । अव तत्र ग्रामादेः प्रधानकर्मत्वं नास्त्येवापि तु गौणकर्मत्वमेव । अत एव तादृशकर्मत्वमाख्यातेन नाभिधीयते "प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणामि"त्यनुशास‘नादिति । अजां ग्रामो नीयते इत्यादिको न प्रयोग इति चेत्तर्हि तत्र ग्रामादेरिवानापि धात्वर्थतावच्छेदकतावच्छेदकफलशालित्वेन गौणकर्मत्वापत्त्या वह्निं घृतं जुहोतीति प्रयोगापत्तिर्दुारैवेति। 2 अस्मन्मते. चाश्रयानवच्छिन्नसंयोगविषयता गालिधातुजन्योपस्थितिघटितसामग्ऱ्या एव संयोगे द्वित'यार्थान्वयबोधप्रयोजकतया नैतादृशप्रयोगापत्तिरिति । यन्तु अधःसंयोगावच्छिन्नस्पन्दो न पतत्यर्थः, अपि तु गुरुत्वजन्यतावच्छेदकजातिविशेपावच्छिन्न एवात एव फलावच्छिन्नव्यापाराबोधकत्यान्न सकर्मकत्वमिति-तन्न । फलस्य धात्वर्थाघटकत्व स्पन्द एव सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलाद्यत्तितया भूतले पततीति प्रयोगानुपपत्तिः । पर्णादिगतस्पन्दस्य परम्परया भूतलादिवृत्तित्वमिति चेत्तर्हि वृक्षात्पततीतिवत् वृक्षे पत तीत्यपि स्यात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेऽपि अा व्युत्पत्तिवैचिज्यादधःसंयोगरूपधात्वर्थतावच्छेदक एव तदन्वयबाध इत्यदोषः । अन्ये तु भम्यादेः कर्मत्वविवक्षायां भूमि पतर्त ति प्रयोग इष्ट पता " 3111धिोive Page #203 -------------------------------------------------------------------------- ________________ एप । अत एव द्वतीयाश्रितेत्यादिसूत्रेण नरकं पतित 'इत्यादिस्थले द्वितीयासमासविधानमुपपद्यते । धात्वर्थतावच्छेदकतावच्छेदके फले द्वितीयाथान्धय एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा अग्निं जुहोतीतिप्रयोगवारणाय कल्प्यत इत्याहुः । __तदपि न शोभनम् । तथा सति भूम्यादिपदोत्तरं कदा चित्सप्तमी कदा चिद्वितीयेत्यत्र नियामकाभावग्रसङ्गात् । व्यापारांशे आधेयत्वविवक्षायां सप्तमी फलांशे तद्विवक्षायां द्वितीयेत्यस्योक्तयुक्तया फलांश एव सप्तम्यान्वयस्यावश्यं स्वीकरणीयतया वक्तुमशस्यत्वादिति ब्राह्मणाय धनं ददातीत्यादौ स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छा धात्वर्थः । तादृशस्वत्वरूपधात्वर्थतावच्छेद कफल एव द्वितीयार्थान्वयः । - उपेक्षायामतिप्रसङ्गवारणाय परस्वत्वनिवेशः। दानं च न संप्रदानस्वत्वजनकमपि तु तत्स्वीकार एवेति मते तु स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारिके छैव ददात्यर्थः। तत्र स्वस्वत्वध्वंसरूपफलाश्रयत्वाद्धनस्य कर्मत । धर्म प्रतिगृह्णातीत्यादौ स्वस्वत्वजनकेच्छारूपः खीकारविशेषो धात्वर्थः। स्वस्वत्वरूपफले च द्वितीयार्थाधेयत्वान्वयः। तदुलं...मचतीत्यादौ रूपादिपरावृत्तिजनकतेजःसंयोगो धात्वर्थः। रूपा देपरावृत्तिरूपफले च तण्डुलादिवृत्तित्वान्वयः । 3 श्रोदनं पचतीत्यादौ ओदनादिपदस्य तनिष्पादकतण्डुलादौ लक्षणा। अवयचिनि' पाकानभ्युपगमे च तण्डुलं पचतीत्यादौ तण्डु 'नरकं पतित इत्यादि । स्वमते तु नरकपतित इति सप्तमीसमासेन साधनीयं द्वितीयाघटितस्त्वसाधुरेव । अकर्मकधातुरित्यादिना द्वितीयायां मासं पतितो मासपतित इत्यादौ सूत्रावकाशोऽवगन्तव्यः । 'अवयिविनीति । पीलुपाकवादिनो वैशेषिकाः पिण्डपाक (पिठरयाक Page #204 -------------------------------------------------------------------------- ________________ १६६ व्युत्पत्तिवादः [ कारके लादिपदस्य तदारम्भकपरमाणुषु लक्षणा। अोदनं भुङ्के इत्यादौ गलाधोनयनं धात्वर्थः । स च गलाधःसंयोगावच्छिन्नक्रियानुकूलव्यापारः। तादृशक्रियारूपफल एव ओदनादिवृत्तित्वान्वयः । उक्तयुक्तया' गलाधोदेशस्य न कर्मत्वम् । एवमन्यसकर्मकधातूनामध्यर्थाः स्वयमूह्याः। ___गां योग्धि पय इत्यादौ द्विकर्मकधातुसमभिव्याहृतगवादिपदोत्तरद्वितीया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्वं बोधयति । कारकाधिकारीयेणाकथितं चेति सूत्रेणापादानत्वादिभिअधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि कर्मसंज्ञाभिधानात् । गवां पयो दोग्धीत्यादौ धातुप्रतिपाद्यान्वयिगवादिसंबन्धो न विवक्षितः अपि तु क्षीराद्यन्वयी स इति कर्मत्वाविवक्षया द्वितीयानवकाश:, किन्तु शैषिकी षष्ठ्येवेति। अत्र धातुप्रतिपाद्यत्वं तदर्थतावच्छेदककोटिप्रविष्टसाधारणम् । गां दोग्धीत्यादौ धात्वर्थतावच्छेदककोटिप्रविष्ट एव द्वितीयार्थान्वयात् । तथा हि तरणानुकूलव्यापारो दुहेरर्थः। द्वितीयार्थश्च जनकत्वसंबन्धेन क्षरणान्वयी विभागः। विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः। एवं च धात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षीरान्वितद्वितीयार्थवृत्त्यन्वय इति गोनिष्ठविभागानुकूलपयोनिष्टक्षरणानुकूलव्यापारकर्ता मैत्र इति गां पयो दोग्धि मैत्र इति वाक्याधीनो बोधः । इत्यप्युच्यते) वादिनो नैयायिकाः। पीलुः परमाणुः वैशेषिकमतमनुश्रित्योच्यते-अवयिविन्यादि । 'उक्तयुक्त्येति । आश्रयानवच्छिन्नधात्वर्थतावच्छेदकताशालिफलाश्रयत्वस्यैव कर्मत्वनियामकत्वादिति भावः । धन्तिरावच्छिन्नस्येति । धर्मान्तराश्रयस्येत्यर्थः । Page #205 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः १६७ न च विभागोमादानत्वमेवेति तद्विवक्षायां द्वितीयानवकाश इति वाच्यम्। धातुवृत्तिग्रहविशेष्यान्वयिनो विभागस्यैवापादानत्वरूपत्वात् । वृक्षात्पर्णं पततीत्यादौ स्पन्दरूपवृत्तिग्रहविशेष्यांशे एव पञ्चम्यर्थविभागान्वयात् । "वस्तुतो विभागावच्छिन्नक्षरणानुकूलो' व्यापारो दुह्यर्थः । गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । न चैवं धात्वर्थतावच्छेदकफलशालित्वरूपं कर्मत्वमेवात्रापि प्रतीयते इति नाकथितं चेत्यस्य विषय इति वाच्यम् । धात्वर्थतावच्छेदकत्वस्य धातुवृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वरूपत्वात्। यत्र च क्षरणानुकूलव्यापारमात्रं धात्वर्थतया विवक्षितं क्षरणान्वयिविभागस्य विभक्त्यर्थतया तत्रापादानत्वबोधिका पञ्चमी। एतेन कदाचिद्गां दोग्धि पयः, कदाचिच्च गोः पयो दोग्धि इत्यत्र नानियमः । अथ वा गोभ्यो दोग्धि पय इत्यत्रापि विभागो धात्वर्थतावच्छेदककोटिप्रविष्ट एव वृक्षाद्विभजते इत्यत्रेवावधित्वरूपापादानत्वविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च द्वितीया। अवधित्वं चाश्रयत्वादन्य एव स्वरूपसंवन्धविशेषः । अत्र क्षरणान्वयिनः परसमवेतत्वस्य द्वितीयार्थत्वात् पयोनिष्ठक्षरणस्य पयोनिष्ठविभागजनकत्वेऽपि न पयः पयो दोग्धीति प्रयोगः । परत्वं च विभागान्वयितावच्छेदकावच्छिन्नापेक्षया बोध्यम् । दुह्यते गौः क्षीरमित्यादौ क्षरणजन्यविभागाश्रयत्वरूपं गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः । अप्रधाने दुहादीनामित्यनुशासनात् । क्षीरवृत्तित्वस्य धात्वर्थक्षरण एवान्वयः। आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः। तथा च विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्यविभागाश्रयो गौरित्याकारको बोधः। अथ वा विभागक्षरणव्यापारेषु विशकलितेषु धातोः शक्तित्रयं विशिष्टलाभोऽन्वयबलात्। कर्माख्यातस्थले चाकाङ्क्षावैचित्र्येण तेषां विशेष्यविशेषणभाववैपरी Page #206 -------------------------------------------------------------------------- ________________ १६८ व्युत्पत्तिवादः [ कारके त्यात्। व्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभ: । आश्रयत्वमेवाख्यातार्थः । एवं च क्षरणविभागयोर्न द्विधा भानम् । गौणकर्मासमभिव्याहृते दुह्यन्ते क्षीराणीत्यादौ आत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्नक्षरणाश्रयत्वरूपप्रधानकर्मत्वस्य बोधनेऽपि एकदा उभयविधकर्मत्वबोधनस्याव्युत्पन्नत्वात्' दुह्यन्ते क्षीराणि गौरित्यादयो न प्रयोगाः । - पौरवं गां याचते विप्र इत्यादौ स्वोद्देश्यकदानेच्छा याचतेरर्थः । प्रधानकर्मगवाद्यन्वितद्वितीयार्थः विषयत्वे धात्वर्थतावच्छेदकदानेऽन्वेति । सविषयकदानादिरूपविषयोपहितेच्छाबोधकधातुस्थले इच्छाविषयविषयत्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः सन्नन्तकर्मता । अथैवं यद्वस्तुविषयकं दानमप्रसिद्धं तद्वस्तुरूपकर्मसमभिव्याहृतधातुघटितवचसः का गतिरिति चेत् या गतिर्गगनं दिदृक्षते इत्यादिकस्य भ्रान्तपुरुषीयगमनादिप्रकारकदर्शनेच्छाबोधकवाक्यस्य गगनविषयक - त्वप्रकारक दर्शनेच्छाबोधस्तत्रेति चेदिहापि गोविषयिता प्रकारतानिरूपितस्वत्वेच्छानिष्टविषयताशालीच्छाबोधस्तद्वाक्यस्य वि शेषदर्शिमात्रविषयताऽपि समेति विवेचनीयं चेदमये । पौरवपदो - त्तरद्वितीयायास्तु वृत्तिरेवार्थः । तस्याश्च दानेऽन्वयः । पौरवस्य तादृशदानाश्रयत्वमेवाप्राधानकर्मत्वम् । न चैवमिच्छाविशेषरूपदानाश्रत्वं कर्तृत्वमेवेति वाच्यम् । धातुजन्यप्रतिपत्तिविशेष्यीभूत I 'अव्युत्पन्नत्वादिति । सकृदुच्चरितः शब्दः सकृदेवार्थं गमतीतिनियमात् । गोविषयति । स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारिका पौरववृत्तीच्छा एतद्गोनिष्ठविषयतानिरूपिका भवत्वित्याकारिकैवेच्छा तत्र धात्वर्थं इति बोध्यम् । Page #207 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः १६६ दानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् । अत्र च दानस्य तादृशप्रतिपत्ताविच्छारूपधात्वर्थे विशेषणत्वात्। चैत्रेण पौरवो गां याच्यते इत्यादावप्युक्तक्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रयः पौरव इत्यन्वयबोधो बोध्यः। यद्यपि निरुक्तयाच्याभिक्षा चेति दुहियाचिरुधिप्रच्छिभिक्षिचिबामित्यत्रार्थपरभिक्ष्युपादानेनैव चरितार्थतया' याचेरुपादानमनर्थकं तथापि याचमानः शिवं सुरानित्यादौ याचतेनं निरुक्तंभिक्षार्थकतेति तदुपादानम् । तत्र हि व्यापारजन्यत्वप्रकारिकेच्छाधात्वर्थः । इच्छायां प्रधानकर्मकल्याणान्वितद्वितीयार्थविषयिताया अन्वयः। व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयार्थस्यान्वयः। तथा च सरवृत्तिव्यापारजन्यत्वप्रकारककल्याणेच्छाश्रय इत्यर्थः । गां व्रज रुणद्धीत्यादौ देशान्तरसञ्चारविरोधिव्यापारो धात्वर्थः। सञ्चारविरोधित्वं च सञ्चारानुत्पादप्रयोजकत्वम् । अनुत्पादे प्रधानकर्मणो वृत्तित्वान्वयः। देशविशेषणभेदे च व्रजमिति द्वितीयान्तार्थव्रजप्रतियोगिकत्वान्वयः । रुध्यते गां व्रज इत्यादावन्वयबोधः स्वयमूहनीयः । गुरुं धर्म पृच्छतीत्यादौ जिज्ञासाबोधकव्यापारो धात्वर्थः । 'दानाश्रय इति । विशिष्टशक्तिवादे चैत्रवृत्तिविशिष्टेच्छाविषयदानाश्रयः पौरव' इति बोधः। 'चरितार्थतया। सिद्धतयेत्यर्थः । व्रजप्रतियोगित्वान्वय इति । गोवृत्तिर्यो व्रजप्रतियोगिकभेदविशिष्टदेशाधिकरणकसंचारोत्पत्त्यभावस्तदनुकूलव्यापारवानिति बोधः । स्वयमूहनीय इति । अभावप्रतियोगिगोभूदुत्पत्तिमत्सञ्चाराधिकदेशविशेषणभेदप्रतियोगिकत्वं प्रत्ययार्थस्तदैकदेशेऽभावे धात्वर्थमुख्यविशेष्यव्यापारस्य जन्यत्वेनान्वयः । खण्डशक्तिवादे प्रदर्शितरीत्यैव बोधः । Page #208 -------------------------------------------------------------------------- ________________ २०० व्युत्पत्तिवादः [ कारके बोधे गुरुवृत्तित्वस्य जिज्ञासायां धर्मविषयकत्वस्यान्वयः। शिष्यं धर्मं ब्रूते इत्यत्र ज्ञानानुकूलशब्दप्रयोगो धात्वर्थः। ज्ञाने धर्मविषयत्वस्य शिष्यवृत्तित्वस्याप्यन्वय इति तन्न चारुतरम् । तथा सति यत्र जिज्ञासाविषयकचैत्रज्ञानेच्छयाप्रश्नस्तादृशशब्दाञ्च सामग्रीबलेन मैत्रस्यापि पृच्छकजिज्ञासाज्ञानन्तत्र मैत्रं पृच्छतीति प्रयोगस्य, एवं यत्र चैत्रज्ञानेच्छया ब्रूते दैववशाच्च मैत्रस्यापि ज्ञानं तत्र मैत्रं ब्रूते इति प्रयोगस्य चापत्तेः । साक्षाद्धात्वर्थविशेषणज्ञानरूपफलाश्रयतया तत्र गुर्वादीनां प्रधानकर्मतया अप्रधाने दुहादीनामित्यनुशासनविरोधेन पृच्छते गुरुधर्म-“स पृष्टस्तेन कस्त्वं भोः” शिष्य उच्यते'धर्म'मित्यादिस्थले च लकारादिना तत्कर्मत्वाभिधानानुपपत्तेश्च । परं तु जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः पृच्छतेरर्थः । ज्ञाने गुरुवृत्तित्वस्यान्वयः। शब्दे च धर्मविषयकत्वस्यान्वयः। शब्दस्य च विषयता व्यापारानुबन्धिनी ज्ञानस्य परम्परया शब्दरूपधात्वर्थविशेषणत्वात् । तदाश्रयीभूतगुरोगौणकर्मता। धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता। 'ज्ञश्च ज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दोऽर्थः। ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः। अजां ग्राम नयतीत्यादौ ग्राम भार वहतीत्यादौ च उत्तरदेशसंयोगावच्छिन्नक्रियानुकूलव्यापाररूपं प्रापणं धातोरर्थः। तत्र क्रियारूपे फले अजाभारादिवृत्तित्वान्वयः। संयोगरूपफले च ग्रामादिवृत्तित्वस्यान्वयः । १ तथा च गुरुवृत्ति यज्जिज्ञासाज्ञानं तदुद्देश्यिका या कृतिस्तदधीनो यो धर्मविषयकः शब्दस्तत्प्रयोक्तेरिति बोधः। इत्यस्मत्पितृचरणहस्तलिखितपुस्तकधृतोऽत्राधिकः पाठः । तत्त्रेयादि अन्वयरित्यन्तस्य स्थाने 'उत्तरसंयोगे ग्रामस्य गौणकर्मणः क्रियायां चाजादिप्रधानकर्मणः इति हस्तलिखितपुस्तकपाठः । Page #209 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २०१ तथा च ग्रामवृत्तिसंयोगजनकाजादिवृत्तिक्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयबोधः' । अजा ग्रामं नीयते उह्यते भारो ग्राम चैत्रेण इत्यादावुत्तरसंयोगावच्छिन्नक्रियारूपं फलं कर्माख्यातार्थस्तत्र च धात्वर्थस्य तादृशव्यापारस्य जन्यतासम्बन्धन तस्य चाश्रयतासम्बन्धन अजाभारादिरूपप्रधानकर्मण्यन्वयः। ग्रामादिवृत्तित्वान्वयस्तु संयोगे एव । एवं च चैत्रकृतिजन्यो यः संयोगावच्छिन्नक्रियानुकूलव्यापारस्तजन्यग्रामवृत्तिसंयोगानुकूलकर्मवानजादिरित्यन्वयबोधः। न च कारकविभक्त्यर्थस्य धात्वर्थ एवान्वयनियमात्प्रत्ययोपस्थाप्यसंयोगे कथं ग्रामादिवृत्तित्वान्वय इति वाच्यम्। भूतले घट इत्यादौ घटादिपदार्थेप्यधिकरणसप्तम्यर्थान्वयात्तादृशनियमासिद्धेः। अस्तु वा धात्वर्थतावच्छेदकतावच्छेदकतया भासमाने संयोग एव तदन्वयः। फलव्यापारयोः पृथक्शक्तिमते चाश्रयत्वमेवात्मनेपदार्थः। संयोगावच्छिन्नक्रियारूपधात्वर्थ एव १ 'वृक्षं पुष्पं चिनोतीत्यादौ विभागानुकूलहरणं चिनोतेरर्थः। हरणञ्चोद्देश्यीभूतपात्रसंयोगानुकूलक्रियानुकूलव्यापारः । विभागानुकूलत्वं क्रियाविशेषणं परम्परया धात्वर्थतावच्छेदकविभागस्याश्रयतया वृक्षादौ गौणकर्मता । अतः पुष्पाणि वृक्षश्चीयत इत्यादौ वृक्षादिपदस्य प्रथमान्तता साक्षाद्धात्वर्थतावच्छेदिकायाः पुरुषव्यापाराधीनाक्रियाया आश्रयतया पुष्पादेः प्रधानकर्मता! यत्रानुपयुक्तपत्रादीनां वृक्षादिभ्योऽपनयनमेवोद्देश्यं न तु तेषां पात्रसंयोगस्तत्र पत्राणि चिनोतीत्याद्यप्रयोगात् पात्रसंयोगे उद्देश्यत्वं विशेषणं यद्यपि शिष्यं धर्ममनुशास्तीत्यादौ ब्रुअर्थज्ञानानुकूलव्यापार एव शास्त्यर्थः तथाऽप्युपदेशरूपज्ञापनविशेष एव तदर्थ इति दुहादिगणे पृथगुपादानमुपदेशश्च कर्त्तव्यताज्ञापनमित्यादिकं स्वयमूहनीयम्'। इत्यस्मत्पितामहभ्रातृचरणहस्तलिखितपुस्तकधृतोऽत्राधिकः पाठः । Page #210 -------------------------------------------------------------------------- ________________ २०२ व्युत्पत्तिवादः [ कारके व्यापाररूपधात्वर्थविशेष्यतया आश्रयत्वविशेषणतया चान्वेति । तदेकदेशे संयोग एव प्रामादिवृत्तित्वान्वयः। चैत्रीयकृतिजन्यव्यापारजन्यग्रामवृत्तिसंयोगानुकूलक्रियाश्रयवानजादिरित्याकारको बोधः। ज्ञानानुकूलशब्दश्च द्रव्यं निरूपयतीत्यादौ धातोरर्थः। तादृशविशिष्टकार्थस्य एकदेशे ज्ञानांशे आधेयत्वान्वयबोधे च न द्वितीयायाः साकाङ्क्षता स्वीक्रियते अपि तु विषयतया अन्वयबोध एवेति शिष्यं द्रव्यं निरूपयतीत्यादिर्न प्रयोगः । यत्तु धात्वर्थो ज्ञानमेव तदनुकूलव्यापारश्च णिजर्थ इति--तदसत् । धातोश्चुराद्यन्तर्गततया स्वार्थ एव णिचो विधानात् । अन्यथा निरूपयतीत्यस्य ज्ञापयतीत्यादिसमशीलतया शिष्यं ज्ञापयतीत्यादिवच्छिष्यं निरूपयतीति प्रयोगस्य दुर्वारत्वात् । अजां ग्रामं यापयति शिष्यं शास्त्रं ज्ञापयति ब्राह्मणमन्नं भोजयति यजमानं मन्त्रं पाठयति घटं जनयति नाशयतीत्यादौ णिच्प्रत्ययप्रकृतिभूतधात्वर्थकर्तृवाचकाजादिपदोत्तरद्वितीयायाः मुख्यभाक्तसाधारणं कर्तृत्वमेवार्थः। गतिबुद्धीत्यादिसूत्रेण कर्तुः कर्मसंज्ञाविधानात् । गतिज्ञानोत्पत्त्यादिनिरूपितं कर्तृत्वं चाश्रयत्वमेव गलाधःसंयोगानुकूलक्रियानुकूलव्यापाररूपभोजनं कण्ठताल्वाद्यभिघातरूपपाठनिरूपितं च तदनुकूलकृतिमत्त्वं नाशनिरूपितं च प्रतियोगित्वम् । तस्य च निरूपकतासम्बन्धेन धात्वर्थेऽन्वयः । नव्यमते च यत्राश्रयत्वं कर्तृत्वं तत्राधेयत्वं द्वितीयार्थः। यत्रानु 'नन्वजां ग्रामं यापयतीत्यादौ निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकाजादिवृत्तितादृशकर्तृत्वाभाववान् यो ग्रामनिष्ठसंयोगानुकूलो व्यापारस्तदनुकलव्यापारवान् देवदत्त इत्येवं क्रमेणैव बोधो वक्तव्यः । स च न सम्भवति निरूपकत्वस्य वृत्त्यनियामकतया तदवच्छि प्रतियोगिताकाभावस्य वक्तुमशक्यत्वादित्यरुचेराह-नव्यमते इति । Page #211 -------------------------------------------------------------------------- ________________ २०३ द्वितीया ] जयाऽलङ्कृतः कूलकृतिमत्त्वं तत्र कृतिजन्यत्वं यत्र प्रतियोगित्वं तत्रानुयोगित्वं तेषां चाश्रयतासंबन्धेनैव धात्वर्थेऽन्वयः । गत्यर्थादिभ्योऽन्यत्र च णिचप्रत्ययप्रकृतिधात्वर्थकर्तृवाचकपदात् न द्वितीया, तादृशकर्तुः कर्मतातिदेशाविषयत्वात् । तेन पाचयत्योदनं सहायेनेत्यादय एव प्रयोगाः न तु पाचयत्योदनं सहायमित्यादयः। ___के चित्तु पाकादिकर्तुः पाकादिकर्मत्वविरहेऽपि ण्यन्तसमुदायस्यापि धातुत्वेन तत्कर्मतया सहायादेः पाचयत्योदैनं सहायमित्यादयः प्रयोगा अपि साधवः । अत एवा जिग्रहत्तं जनको धनुस्त'दित्यादयो भट्टिप्रयोगाः । गतिबुद्धीत्यादिसूत्रं च नियमपरतया गत्यर्थधातुयोगे कर्तप्रत्ययासाधुत्वज्ञापकम् । तेन पाचयत्योदनं सहायेनेत्यादिवत् अजया ग्रामं यापयतीत्यादयो न प्रयोगा इत्याहुः । एषामयमाशयः। हेतुमति चेत्यनुशासनात् णिजों हेतुकर्तृत्वम्। तच्च स्वतन्त्रकर्तृप्रेरणा अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपा। कर्तृत्वं कचित्प्रयत्नः क्वचिदाश्रयत्वादिकं, यादृशधातूत्तराख्यातेन यादृशकतृत्वं बोध्यते तदुत्तरणिचप्रत्ययेन तादृशकर्तृत्वनिर्वाहकव्यापारो बोध्यते । अत एव पाचयतीत्यादौ पाकादिकृतिनिर्वाहकः, ज्ञापयतीत्यादौ ज्ञानाश्रयत्वनिर्वाहकः, नाशयतीत्यादौ नाशप्रतियोगित्वनिर्वाहको व्यापारः प्रतीयते । निर्वाहकत्वं च स्वरूपसंबन्धविशेषः । न तु जनकत्वम् । अतो न नाशयतीत्यादावुपपत्तिः । एवं च ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तत्वमेव निर्वाह्यस्यैव फलत्वात्। तदाश्रयतया स्वतन्त्रस्य कत्तुः कर्मता, तादृशफलविशेषणतया स्वतन्त्रकर्तृवृत्तित्वविवक्षायां पाचयत्योदनं सहायमित्यादयः प्रयोगाः। यदा तु पाकादिविशेषणतया सहायादिकर्तृत्वं विवक्षितं तदा पाचयत्योदनं सहायेनेत्यादयः। ___ अथ यत्र चैत्रमैत्रोभयकर्तक एक एव पाकस्तत्र चैत्रमानं प्रयोजयति यज्ञदत्तो मैत्रेणान्नं पाचयतीति प्रयोगापत्तिरिति । तत्रापि Page #212 -------------------------------------------------------------------------- ________________ २०४ व्युत्पत्तिवादः . [ कारके ण्यर्थकृतावेव तृतीयान्तार्थमैत्रादिवृत्तित्वस्यान्वयो वाच्यः । एवं च मैत्रं पाचयतीत्यादिवाक्यजन्यबोधावैलक्षण्याद् द्वितीयातृतीययोस्तात्पर्यभेदेन व्यवस्थाया न संगतिरिति चेत्-न। अगत्या तत्र पाकादिविशेषणकृतेः पारतन्त्र्येण व्यापारविशेषणीभूतणिजर्थकतावभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य वारणीयत्वात्। पदार्थैकदेशे कृतौ पाकादेरिव कृतेरप्यन्वयो व्युत्पत्तिवैचित्र्यात् । वस्तुतः कर्तृत्वं व्यापारश्च पृथगेव णिजर्थः । विशिष्टलाभोऽन्वयवलात् । ___ केचित्तु अनुकूलव्यापार एव णिजर्थः तदन्वयिनी गमनभोजनक्रियैव धात्वर्थतावच्छेदकं फलं तत्संबन्धिनस्तादृशक्रियाकर्तुय॑न्तकर्मता। तादृशक्रियासंबन्धश्चाश्रयत्वकृतिमत्त्वान्यतरो ग्राह्यः । अतो गमनादिसंबन्धिकालादौ नातिप्रसङ्ग इत्याहुः । ___ अत्र च तादृशकर्मतावाचकपदात् कदा चिद्वितीया कदा चित्तृतीया इत्यत्र नियामकाभावः । तादृशपदोत्तरयोस्तयोस्तुल्यार्थकतया विवक्षाभेदरूपनियामकाभावादिति तु चिन्तनीयम् । अजा ग्रामं याप्यते चैत्रेणेत्यादौ चैत्रकर्तकव्यापारनिर्बाह्यं यद्ग्रामवृत्तिसंयोगानुकूलक्रियाकर्तत्वं तदाश्रयोऽजा इति बोधः । तत्र संयोगावच्छिन्नक्रिया धातुलभ्या, संयोगे ग्राममित्यादिद्वितीयान्तार्थग्रामादिवृत्तित्वान्वयबलात् ग्रामादिवृत्तिसंयोगावच्छिन्नक्रिया लभ्यते तादृश्या णिजर्थकर्तृत्वेऽन्वयः। कर्माख्यातादिसमभिव्याहारनियन्त्रितव्युत्पत्तिबलाच्च तादृशक्रियान्वितकर्तत्वं तृतीयान्तार्थ चैत्रादिकर्तृत्वविशेषितव्यापाररूपापरणिजथै निर्वाह्यत्वसंबन्धन विशेषितम् । अजादिरूपकर्मीभूतकर्तविशेषणीभवदाख्याताश्रयत्वे विशेषणतया भासते। __ ये तु गतिबुद्धीत्यादिसूत्रस्य संज्ञाविधायकत्वं वर्णयन्ति तेषामयमाशयः। व्यापार एव णिजर्थः। तत्र धात्वर्थक्रियायाः Page #213 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २०५ स्वकर्तृत्वनिर्वाहकत्वं संसर्गः। अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तम्। याप्यते ग्राममजा इत्यादौ स्वनिर्वाह्यकर्तृतानिरूपकत्वसंबन्धन अजादौ विशेपणतया भासते। तादृशव्यापारे तृतीयान्तार्थस्य चैत्रादिकर्तृत्वस्य धात्वर्थंकदेशे संयोगादिफले च द्वितीयान्तार्थस्य ग्रामवृत्तित्वस्य विशेषणतया भानं ण्यन्तोत्तराख्यातस्यापि कर्तृत्वमेवार्थः। तत्र च तस्य वृत्ति: क्लृप्तैव । तच्च उक्तस्य धात्वर्थस्य विशेष्यतया प्रथमान्तपदार्थस्य च विशेषणतया भासते। न च यक्समभिव्याहृताख्यातोपस्थाप्यकर्तृत्वस्यान्वयबोधोपगमे गम्यते चैत्र इत्यतोऽपि गमनकर्ता चैत्र इत्यन्वयबोधः स्यादिति वाच्यम् । एयन्तोत्तरयक्समभिव्याहृताख्यातस्यैव कर्तृत्वान्वयबोधनियामकत्वात्। अथैवमजा याप्यते इत्यादौ कर्तृत्वस्याख्यातबोध्यत्वे कर्त्तरि शबित्यपवादविषयतया यकोऽसाधुतापत्तिः। न च याहशधातूत्तरं यत्सार्वधातुकं विहितं तादृशधात्वर्थनिरूपितकर्तृत्वस्य तेन विवक्षायामेव कर्तरि शबित्यादेः शबादिविधायकत्वात् , प्रकृते ण्यन्तसमुदायस्य उत्तरमेवाख्यातं तेन तदर्थनिरूपितकर्तृत्वं च न बोध्यते, अपि तु ण्यर्थविशेषितधात्वान्वितकर्तृत्वमेवेति न तादृशापवादविषयतेति वाच्यम् । कर्माख्यातस्थले विशेष्यविशेषणभाववैपरीत्येन व्यापारविशेषितक्रियाया अपि ण्यन्तधात्वर्थत्वात् । मैवम् । लकारसामान्यवृत्त्या यत्र कर्तृत्वं प्रतीयते तत्रैव कर्तरि शबित्यस्य विधायकता । अत्र कर्मत्वसमशीले कर्तृत्वे आत्मनेपद 'अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तमिति । जन्यत्वेन प्रतीयमानरूपफलाश्रयत्वाभावादित्यर्थः । लकारसामान्यवृत्त्येति । लत्वावच्छिन्नशक्ततानिरूपितशक्यताश्रयतया यत्र कर्तृत्वं प्रतीयते इत्यर्थः । Page #214 -------------------------------------------------------------------------- ________________ २०६ व्युत्पत्तिवादः [ कारके त्वेन शक्तिः । वस्तुतः फलव्यापारयोः पृथक्धात्वर्थतामते गच्छतीत्यादाविव गम्यते इत्यादावपि लकारेणाश्रयत्वरूपकर्तृत्वाभिधाने यग् अनुपपन्न इति, परस्मैपद'समभिव्याहृतधातुना यादृशविशिष्टोऽर्थः प्रत्याय्यते, तादृशविशिष्टार्थान्वितकर्तृत्वांभिधानमेव शब्विषयः। एवं च प्रकृतेऽपि नानुपपत्तिरिति ध्येयम् । ग्रामो याप्यते, अर्थो बोध्यते, इत्यादौ भावना विशेष्यतया ग्रामादेर्भानेऽपि गमनादिकर्तुः कर्मत्वविवक्षायां तस्यैवाख्यातार्थविशेष्यतया बोधोऽव्युत्पन्नः । ण्यन्ते कर्तुश्च कर्मण इत्यनुशासनादतोऽजां ग्रामो याप्यते शिष्यमर्थो बोध्यते' इत्यादयो न प्रयोगाः। ग्रामो याप्यते, अर्थो बोध्यते, इत्यादौ फलं विषयित्वादिरूपं च मुख्यभाक्तसाधारणं कर्मत्वमेवाख्यातार्थः । फलव्यापारयोः पृथक्धात्वर्थतामते आश्रयत्वमेवाख्यातार्थः। धात्वर्थव्यापारविशेष्यतया तादृशाश्रयत्वविशेषणतया च धात्वर्थफलस्य भानेऽपि, ण्यर्थव्यापारस्य जन्यतासम्बन्धेनैव धात्वर्थक्रियाज्ञानादिविशेषणत्वं पूर्ववदेव। अजां ग्रामो याप्यते इत्यादिकस्तु न प्रयोगः, द्वितीयया कर्मत्वबोधने धात्वर्थव्यापारविशेष्यतया ण्यर्थबोधसामग्यः प्रयोजकत्वात् । यगादिसमभिव्याहृतस्थले च धात्वर्थ 'परस्मैपदेति । ननु यादृशधातोनित्यात्मनेपदविधानात्परस्मैपदसमभिव्याहारोऽप्रसिद्धस्तत्र का गतिरिति चेत्तर्हि आनुकूल्यत्वेनाप्रतीयमानधात्वर्थनिरूपितकर्तृत्वविवक्षैव शनिमित्तमिति ध्येयम् । भावनेति । भावनाप्रत्ययार्थमात्रम् । 'शिष्यमर्थो बोध्यत इति । वस्तुतोऽयमसाधुरेव बुद्धिभक्षार्थयोः शब्दकर्मकाणानिजेच्छयेत्युक्तेः । Page #215 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २०७ विशेषणतयैव ण्यर्थस्य बोधात् , ण्यन्तधातोः' सकर्मकत्वे तदुत्तरभावाख्यातस्य भावे चाकर्मकेभ्य इत्यनुशासनेनासाधुत्वाच्च न तादृशप्रयोगः। ग्रामो याप्यते इति भावाख्याते प्रयोगस्त्विष्ट एव । ण्यन्तकासमभिव्याहारादेकदा कर्तृत्वकर्मत्वबोधकताया आख्यातस्याव्युत्पन्नतया अजां ग्रामो याप्यते इत्यादयो न प्रयोगाः। एवं तण्डुलः सहायेन पाच्यते चैत्रेणेत्यादौ धात्वर्थे सहायादिकर्तृत्वस्य तद्विशेषणण्यर्थव्यापारे च चैत्रादिकर्तृत्वस्य तृतीयान्तार्थस्य बोधः । शेषं पूर्ववदिति दिक्। ___ ग्रामं गच्छतीतिवत्स्वं गच्छतीति प्रयोगवारणाय परसमवेतत्वमपि द्वितीयार्थ इप्यते । तस्य च धात्वर्थेऽन्वयः । परत्वे चैकदेशेऽपि आकाङ्क्षावैचित्र्यात् प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः। एवं च ग्रामं गच्छति चैत्र इत्यादौ ग्रामभिन्नसमवेता ग्रामनिष्ठसंयोगजनिका या क्रिया तदाश्रयतावांश्चैत्र इत्यन्वयबोधः। स्वनिष्ठसंयोगजनकक्रियायां स्वभिन्नसमवेतत्वस्य बाधात्स्वमात्मानं गच्छतीति न प्रयोगः। यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लान्तरसमवेतक्रियायाः स्वनिष्ठसंयोगजनिकायाः स्वभिन्नसमवेतत्वेऽपि तादृशक्रियाश्रयतायाः स्वस्मिन् बाधात् मल्लः स्वं गच्छतीति न प्रयोगः। मच स्वनिष्ठसंयोगजनकस्वसमवेतक्रियायां स्वभिन्नसमवेतत्वस्या 'ण्यन्तधातोरिति । नन्वभावाख्यातस्थले ण्यर्थस्य धात्वर्थविशेष्यतया भानसम्भवात्तत्रैवास्तु अजां ग्रामो याप्यत इत्यत आह—ण्यन्तधातोरित्यादिना। स्वभिन्नसमवेतत्वस्येति । स्वनिष्ठसंयोगजनकत्वे परसमवेतत्वे च खण्डशो द्वितीयाया शक्तिः तत्र च यत्किञ्चिदंशपरित्यागेऽपि बोधस्यानुभविकत्वादिति भावः । Page #216 -------------------------------------------------------------------------- ________________ योग्यतया तदभानेप्यवाधितं स्वनिष्ठसंयोजकत्वं विषयीकृत्य शाब्दबोधसम्भवात् । तदर्थमात्रतात्पर्येण स्वं गच्छतीति प्रयोगो दुर्वार एवेति वाच्यम्। परसमवेतत्वाविषयकस्य द्वितीयाधीनफलजनकत्वबोधस्य कुत्राप्यनभ्युपगमेन "तहिशवधि नद्भासकसमियाँ अप्यपेक्षणीयत्वात् । अथ स्वस्यापि द्वित्वावच्छिन्नस्वभेदवत्त्वात् खं गच्छतीति प्रयोगस्य दुर्वारतया द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैव भेदेऽन्वयो बोध्यः। तथा च चैत्रो द्रव्यं गच्छति, मल्लो भल्लं गच्छरोत्यादिवाक्यस्याप्रमाणतापत्तिः । चैत्रमल्लादिनिष्ठक्रियायां प्रकृत्यर्थतावच्छेदकीभूतद्रव्यत्वमल्लत्वाद्यवच्छिन्नभिन्नासमवेतत्वात् । तत्तव्यक्तित्वानुपस्थितावपि शाब्दबोधोदयेन तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगितासम्बन्धेनान्वयोपगमासम्भवात् ।। उक्तयुत्तथा सम्बन्धघटकोपस्थितेरपि शाब्दबोधेऽपेक्षितत्वात् । ३ एकधर्मावच्छिन्नप्रतियोगि'ताया अन्यधर्मावच्छिन्न संसर्गत्वे मानाभावाच्च 'प्रतियोगिविशेधिताभावबुद्धेविशिष्टवैशिष्ट्यावगाहित्वनियमात् अन्वयितानवच्छेदकावच्छिन्नप्रतियोगितायाः सम्बन्धत्वासम्भवाच्चे ते चेसहि क्रियान्वयिभेदप्रतियोगितावच्छेदकत्वमेव द्वितीयार्थोऽस्तु । भेदे प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वय इति न का चिदनुपात्तिः। न चैवमपि विहगो भूमिं प्रयातीतिवद्विहगो विहगं गच्छतीति प्रयोगो दुर्वारः । विहगनिष्ठभूमिसंयोगजनकतक्रियाया विहगान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया विहगनिष्ठभेदप्रतियोगितावच्छेदकविहगवृत्तिसंयोगजनकक्रियाश्रयत्वस्याबाधितत्वादिति वाच्यम् । विहगो 'अन्यधर्मावच्छिन्नेति । तथा च तद्व्यक्तित्वाव िछन्नप्रतियोगिताया मल्लत्वाद्यवच्छिन्नप्रतियोगिकसंसर्गत्वन्न सम्भवतीति भवः । Page #217 -------------------------------------------------------------------------- ________________ विहगं गच्छ नीत्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायां जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनान्वयोपगमात्, विहगनिष्टक्रियायास्तद्विहगनिष्ठसंयोगजनकत्वेन तजनकतासम्बन्धेन तत्संयोगवत्वेऽपि विहगवृत्तित्वविशिष्टतत्संयोगाश्रयतद्विह गनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावान्नोक्तोभयसम्बन्धेन विशिष्टसंयोगवत्त्वमित्यनतिप्रसङ्गात् । एवं सति परसमवेतत्वं सम्बन्धघटकमेव न तु द्वितीयार्थ इति चेत्-का क्षतिः। 'विहगो विहगेन गम्यते इत्यादावपि जन्यत्वस्वावच्छिन्नभेदसामानाधिकरण्योभासंबन्धेन क्रियायाः+ संयोगेऽन्वय इष्यते तत्तक्रियावच्छिन्नभेदवति भूम्यादावेव तादृशभेदसामानाधिकरण्यसम्बन्धेन तक्रियाविशिष्टसंयोगादिमत्त्वोपगमात् , तत्र तक्रियाश्रयविहगे तद्बाधेन नातिप्रसङ्ग इति ध्येयम्। ज्ञानादिरू सविषयकवस्त्वभिधायकधातुसमभिव्याहृतद्वितीयाया: प्राचीनमते निरूपकतासंबन्धेन धात्वर्थान्वयि विषयत्वमर्थः । तत्र प्रकृत्यर्थरर धेियतासंबन्धेनान्वयः। वृत्त्यनियामकसंबन्धस्याभावप्रतियोगिता नवच्छेदकतया घटं जानाति पटं नेत्यादावनुपपत्तेस्तत्र विपरि त्वार्थकत्वमेव नवीना उपवर्णयन्ति । तत्र च प्रकृत्यर्थस्य निरू पितत्वसंवन्धेन तस्य च धात्वर्थे आश्रयतासंबन्धेनान्वयः । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयित्वमेव । बिपयित्वादौ च द्वितीयाया लक्षणैव न तु शक्तिरिति सांप्रदायिकाः। ___वस्तुतस्तु विपयितात्वस्य संयोगत्वाद्यपेक्षया आधेयतात्वाद्यपेक्षया चागुरुतय किंधर्मावच्छिन्ने शक्तिः कल्प्यते इत्यत्र विनिगमकं दुर्लभम् । एकस्मिन् प्रयोगे भूयस्त्वमप्यशक्यनिर्णेयमिति तत्रापि शक्तिः सिद्धयती यवधेयम् । चैत्रेण ज्ञायते घट इत्यादौ कर्माख्यातस्थले आख्या नि घटादौ धात्वर्थनिरूपितविषयत्वं बोध्यते। चालुपत्वाद्यवृच्छिन्नवाचक दृश्यादिसमभिव्याहृतद्वितीयाया लौकि Page #218 -------------------------------------------------------------------------- ________________ कविषयित्वं, तादृशकमोख्यातस्य लौकिकविषयत्वमर्थः। उपनीतसौरभादिविषयकसुरभिचन्दनमित्याकारकचाक्षुषादिदशायां सौरभं पश्यतीति, सौरभं दृश्यते इत्याद्यप्रयोगात् । अथैवं पुष्पं जिवतीत्यादिप्रयोगानुपपत्तिः। ब्राणजप्रत्यक्षस्य पुष्पाद्यंशे लौकिकत्यविरहात । तादृशधातुयोगे विषयित्वादिसामान्यस्य कर्मप्रत्ययार्थत्वे गन्धसाक्षाकारे उपनयमर्यादयाकाशादिभाने आकाशं जिव्रतीति प्रयोगप्रसंगेन तत्रापि लौकिकविषयिताया एव कर्मप्रत्ययार्थतयोपगन्तव्यत्वादिति चेत्-न । ब्राधातोहि गन्धलौकिक प्रत्यक्षत्वं शक्यतावच्छेदक, प्रागन्धोप्रादाने इत्यनुशासनात्। तत्समभिव्याहृतद्वितीयायाश्चाधेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादिरूपधात्वर्थकदेशेनान्वयः। एवं च पुष्पं जिघ्रतीत्यादितः पुष्पवृत्तिगन्धलौकिकप्रत्यक्षाश्रयताबानित्याकारक एव शाब्दबोधो न तु पुष्पनिरूपितलौकिकविपयिताशालिप्रत्यक्षाश्रय इत्याकारक इति नानुषपत्तिः। न चैवं सविपयार्थबोधकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयितार्थकत्वनियमभङ्गप्रसङ्ग इति वाच्यम् । विषयानवच्छिन्नतादृशवस्त्पभिधायकधातुसमभिव्याहृतकर्मप्रत्ययस्यैव तदर्थकत्वनियमात् । अस्य च गन्धात्मकविषयावच्छिन्नप्रत्यक्षवाचकतया तादृशनियमस्यावाधितत्वात् । न च घ्राधातसमभिव्याहृतद्वितीयाया गन्धान्विताधेयवार्थकत्वे आमोदमुपजिघ्रतीत्यादेरनुपपत्तिः। गन्धविपरूपामोइपदार्थाधेयत्वस्य गन्धे बाधादिति वाच्यम् विषयावच्छिन्नप्रत्यनार्थकवाधातुसमभिव्याहृतद्वितीयाया एव आधेयतार्थकांनयमात् । तत्र विषयानवच्छिन्नस्यैव प्रत्यक्षविशेषस्य लक्षणया धात्वयतोपगमेन विषयिताया एव तदर्थत्वात् । गन्धलौकिकेति । गन्धनिरूपितलौकिकवियितावत्प्रत्य त्वमित्यर्थः घ्रा गन्धोपादान इति । अन्यथा घ्रा घ्राणे इत्येव वदे दति । Page #219 -------------------------------------------------------------------------- ________________ "पसमा १ वस्तुतस्तु पुष्पं (जिघ्रतीत्यादावाधेयत्वीयसांसर्गिकविषयिता - निरूपितप्रकारि नैव) द्वितीयार्थस्तस्याश्च गन्धनिरूपितलौकिकवि-- पयिताशालिप्रत्यक्षात्मकधात्वर्थैकदेशे विपयितायां निरूपितत्व-' संवन्धेनान्वयः तेन इदानीन्तनपुष्पे गन्ध इत्यादिप्रत्ययस्याधेयतासंसर्गेण कालादिप्रकारकत्वेऽपि तादृशप्रत्यक्षदशायां न कालं जिघ्रतीत्यादिप्रयोगः । तादृशज्ञानीयगन्धादिविषयितायां कालादिप्रकारितानिरूपि तत्वविरहात् । अत एव "तदाननं मृत्सुरभि क्षितीश्वगे रहः समा ब्राय न तृप्तिमाययो"। "अावातवान् गन्धवहं सुगन्धमि” त्या ो च उपाधुिनिष्टगन्धग्रहतात्पर्येणैव जिघ्रतेः प्रयोगान् । तादृशगन्धं च आननगन्धवहादिवृत्तित्वस्य बाधेऽपि न क्षतिः+ताशगन्धस्याननाद्यवृत्तित्वेऽपि आनने गन्ध इत्याकारकबोधीयगन्धविष यताया अाननादिप्रकारितानिरूपितत्वेन वाक्या बाधात ।"माय्वानीतचम्पकगन्धस्य यत्र वाय्वादिवृत्तित्वेनैव ग्रहः तत्र चम्पर्क जिप्रतीत्यादिप्रयोगो नेष्यत एव । यत्तु प्राधेयतामात्रं द्वितीयार्थः न तु समवायावच्छिन्नत्वविशेपितमाधेयत्वं तथा च मुखादिसंमृ मृत्तिकादिगन्धे परंपरासंबन्धेन मुखादिवृत्तित्वस्य सत्त्वान्न तादृशस्थलेऽनुपपत्तिरिति-तदसत् । तथा सति कालं जिव्रतीति प्रयोगस्य दुर्वारत्वात् । पुष्पमाघायते इत्यादौ च निरुक्तप्रकारत्वम ख्यातार्थः। आश्रयतासंवन्धेन पुष्पाद्यन्विते तस्मिन धात्वर्थप्रयक्षस्य निरूपितत्वसंवन्धेन तद्विशेषणतापन्नरामयिापपानयोगसमनामस्मायिन्लस खेनजरबन्देभावमा यदि सरसा विषयितेति यादृशप्रकारताविशेष्यतयोनिरूप्यनिरूपकभावस्तन्निरूपितविशेप्यिताप्रकारेतयोरपीति भावः । " तदाननं से तमृत्तिकालवं नृपः समानाय न तृप्तिमाययावित्यस्मत्पितृचरणहस्तलिखितपुस्तकधृतः पाठोऽत्र दृश्यते । . मम Tाननिस्पका Page #220 -------------------------------------------------------------------------- ________________ गन्धविपयितायाश्च तादृशसंबन्धेनान्वयः' । एक वर्मिविशेषणतयोपस्थितस्य स्वातन्त्र्येणान्यविशेषरणतयान्वयबुद्धे वाव्युत्पन्नत्वात् । अत्रौंच प्रत्यक्षपारतन्त्र्येणैव गन्धविपयिताया शाख्यातार्थेऽन्वयेन व्युत्पत्तिविरोधविरहात् । वस्तु वा गन्धः लौकिक विपयिता ' प्रत्यक्ष च विशकलितमेव धातोरर्थः । कर्त्राख्यातादिसमभिव्याहारे गन्धविपयितायाः प्रत्यक्षविशेषणतया कर्माख्यातसमभिव्याहारस्थले च प्रत्यक्षं विशेष्यतयेति न कश्चिद्दोपः जिम्रत्यर्थ गन्धविषयितानिरूपित निरुक्तप्रकारितानिरूपकत्वमेव पुष्पादिनिष्ठ जि. प्रतिकर्मत्यमिति दिक् । अथ दृश्यादिसमभिव्याहृतद्वितीयाया लौकिक विपयितार्थकत्वे सौरभं न पश्यतीत्यादौ सौरभादिनिरूपितलौकि कविपयिताशालिचानुपाद्यप्रसिद्धया आकाशं न पश्यतीत्यादौ चाकाशादिनिरूपितलौकिकविषयिताया एवाप्रसिद्धया तादृशविपरिताशालिचाक्षुपाश्रयत्वाद्यभावरूपवाक्यार्थाप्रसिद्धि: । नच सौरभ न पश्यतीत्यादौ सौरभादिनिरूपितलौकिकविपयित्वाभावः चाक्षुपादौ प्रतीयत इति वाच्यम् । एवमप्याकाशं न पश्यतीत्यादावप्रर्त कारात् । न च लौकिक विषयितायां निरूपितत्यसंबन्धावच्छिन्नप्रतियोगिताकाकाशाभावः प्रतीयत इति वाच्यम् । वृत्त्यनियामकस् बन्धस्य संसर्गाभावप्रतियोगिता नवच्छेदकतया तादृशाभावप्रसिद्धः । एतेन निप कतासंबन्धेन चाक्षुपादिनिष्ठलौकिकविषयिताया भावस्तत्राका शादौ प्रतीयत इत्यपि निरस्तम् । अन्वयबोधस्य प्रथमान्तार्थमुख्य ' इति । अन्यथा गन्धविपवित्रित्यनतनकारतायाः कालादावपि सम्भवेन काल यात्रायत इत्यस्यापि प्रामापत्तिरिति भावः । तिरुक्तप्रकारितानिरूपकत्वमेवेति । प्रकारताथ त्वमित्यर्थः । Page #221 -------------------------------------------------------------------------- ________________ विशेष्यकताया: गर्वानुभवसिद्धाया भङ्गप्रसङ्गाच, चाक्षुषादिनिष्ठलौकिकविपयिता पावच्छिन्नस्य पदाद्वाक्याच्चानुपस्थितत्वात्तदभाव, म्याकाशादो भान सम्भवाच्च । भावान्वयबोधे च लौकिकविषयिताप्रकारेण चानुपादेर्भानात् । अभावान्वयबोधे चाक्षुषप्रकारेण तस्या भानमयुक्तम् । अस्तु वा वृत्त्यनियामकोऽपि संवन्धोऽभावप्रतियोगिनावच्छेदकल्य तथापि निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकस्य विपयिताविशेपनि टाकाशाद्यभावस्य भानोपगमो न संभवति । तथा सति पाक शं पश्यति चैत्र इत्याकारकवाक्यजन्यबोधदशाय आकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधप्रसङ्गात् । आकाशं पश्यति मैत्र इत्यादिभ्रमदशायां अाकाशं न पश्यति चैत्र इत्यादिवाक्य च्छाब्दबोधस्य दुरपन्हवतया लौकिकविषयितात्वासामानाधिकररायेनैव तादृशाभावबोधकं तद्वाक्यमुपगन्तव्यम्। नाशवोधश्च ले किकविपयितात्वसामानाधिकरण्यमात्रेणाकाशादिनि चपितत्वाभावावगाहिदर्शितयोग्यताज्ञानाप्रतिवध्य एव । न च चैत्रीयचाक्षुपादि नलौकिकविपयितात्वावच्छेदेनैव तादृशाभावो दशितवाक्येन प्रत्यार यते इति चैत्रीयचाक्षुपादिनिष्ठलौकिकविषयितायां आकाशीयत्व द्यवगाही चैत्र आकाशं पश्यतीति वाक्यजन्यबांधः प्रतिवध्नात्येव तादृश'वाक्यजन्यधियमिति वाच्यम् । तादृशविपयितात्वेन विपयिताया अनुपस्थिनेस्तदवच्छेदेनाभावप्रत्यायनासंभवात् । चैत्र आकाशं पश्यतीतिवाक्यजन्यबोधे चैत्रांशे दशनाश्रयत्वं विशणं दर्शनांशे लौकिकविपयिताविशेषणमितिरीन्यैव पदार्थानां भ'नात चैत्रीयचाक्षुपादिनिष्टलौकिकविषयितात्वं -- - ---............. .. . .' ' 'तादृशेति । चत्र यचाक्षपादिवत्तिलौकिक बिद्ययितायामाकाशीयत्वाभाबावगाहिज्ञानमित्यर्थः Page #222 -------------------------------------------------------------------------- ________________ या लोकिक विषय नाच्छ 2 4 नाकाशादिधर्मितावच्छेदकं किन्तु शुद्धलौकिक पयितात्वमेवेति । तस्य शुद्धलौकिकविपयितात्वा वच्छेदेनाकाशाद्यभावावगाहि ज्ञानं प्रत्येव प्रतिबन्धकतया निरुक्तधमावच्छेदेनाक शाद्यभावावगाहिज्ञानस्य तद्प्रतिबध्यत्वाच्च । एतेन तत्राकाशादिपदस्याकाशादिनिरूपितत्वार्थकतां द्वितीयायाः खण्डशो निर पितत्वलौकिकविपयितात्वोभयार्थकतां वा स्वीकृत्य लौकिकवियितायां आश्रयतासंबन्धावच्छिन्नप्रतियोगिताकतदभाववोधोपगमेनापि न निस्ताः । 'घट आकाशं न पश्यतीत्यादौ नितामेवागतिः । यन्तु निर्थस्य द्वेधा भानोपगमेन आकाशाद्यनिरूपितन्तौकिक विप 'यिताशालिचाक्षुपाश्रयत्वाभाववान् घट इत्याक रकस्तत्रान्वयबोध इति । तदपि न । तथा सति चैत्रो घटं न पश्यति मैत्र आकाशं न पश्यतीत्यादिवाक्यजन्यशाब्दबोधादविलक्षणबोधस्य सर्वानुभवसिद्धस्य तादृशवाक्यादनुपपत्तेः । नहि तत्रापि नाश एव शाब्दवोधः । तथा सति चेत्रो यदा घटादिकं न पश्यत्यपि तु पटादिकमेव तदा घटाद्यनिरूपिततल्लौकिकविपयिताशालिचा नृपालयत्वाभावस्य तत्र बाधात् चैत्रो घटं न पश्यतीति प्रयोगानुपपतेः । यदा च भावमात्रं पश्यति तदा भावानिरूपितलौकिकविपयिताशालिचाक्षुपाश्रयत्वाभावसत्त्वात् भावं न पश्यति चैत्र इत्यादिप्रयं गापत्तेः । एवमाकाशं न पश्यति घट इत्यादौ काद्यनिरूपितलौकिक विपयि. ताशालिचाक्षुपाश्रयत्वाभावस्य वाक्यार्थत्वं यदाऽऽ काशाद्यतिरिक्तप 'तस्यति । श्राकाशं पश्यतीतिवाक्यजन्यबोधस्यत्य : । न विस्तार इति । अत्र कल्पेऽप्याश्रयत्वसम्बन्नावच्छिन्नप्रतियोगितकाभावो विषयितायां विषयित्वावच्छेदेन तत्सामाना करण्येन वा त्रुवोपितः बोधनन्तु केनापि रूपेणाशक्यं प्रदर्शितप्रति प्रतिवध्यभावानुपपत्तिरूपदीप ग्रस्तत्वादिति भावः । Page #223 -------------------------------------------------------------------------- ________________ दार्थविषयकचाक्षुपाश्रयताभ्रमो घटादौ तदाऽऽकाशाद्यनिरूपितलौकिकविपयिताशालिचाक्षुषाश्रयत्वनिश्चयरूपप्रतिवन्धकसत्त्वेन ताहशवाक्यजन्य शाब्दबोधानुपपत्तिः । यथा चैत्रो घटं पश्यतीत्यादिनिश्चयदशायां पटं न पश्यति चैत्र इत्यादिवाक्यजन्यशाब्दबोधोत्पादोऽनभवसिद्धः तथैवोक्तभ्रमदशायामाकाशं न पश्यति घट इत्यादिवाक्यजन्यबोधोत्पादोऽपीति न तवेष्टापत्तिः संभवति । यच्चालौकिकविषयित शून्यचाक्षुषत्वाद्यवच्छेदेनाकाशादिविषयकत्वघटादिवृत्तित्वोभयाभाव एव आकाशं न पश्यतीतिवाक्यात्प्रतीयते, उपनीताकाशादि वपयकचाक्षुपे आकाशादिविषयकत्वचैत्रादिवृत्तित्वोभयसत्त्वेन चैत्र आकाशं न पश्यतीत्यादिप्रयोगानुपपत्तेः । घटादौ तादृशचाक्षुपाद्याश्रयत्वभ्रमदशायां घट आकाशं न पश्यतीतिवाक्याच्छाब्दबोधानुपपत्तिश्चेत्यलौकिकविषयिताशून्यत्वेन चाक्षुषादिकं विशेषितम् । आकाशादिविषयकचाक्षुषाद्युपनीतभानस्यापीतरांशे लौकिकत्वात् तादृशानुपपत्तितादवस्थ्यम्न अतो लौकिकविशेपणमुपेक्षितम् । अत्रालौकिकविषयिताशून्यर्चाक्षुषत्वाद्यवच्छिनख्य घटं न पश्यतीत्यादौ शक्त्या धात्वर्थत्वासम्भवेऽपि प्रकृते तस्यैव लक्ष्यनया धात्वर्थत्वमुपेयते, विषयितासामान्यमेव तत्र द्वितीयार्थः, (निरूपकत्वमपि लक्षणया तदर्थः)। अाश्रयत्वं द्वित्वनिरूपकत्वं चाख्यातार्थः । आश्रयत्वे व्युत्पत्तिवैचित्र्यात्प्रथमान्तपदार्थघटादेस्तन्निरूपकत्वे विशेषणतयाऽन्वयः। तादृशनिरूपकत्वद्वितीयान्तार्थाकाशादिविषयकत्वयोश्च प्रकारतया द्वित्वान्धयः। द्वित्वाद्यवच्छिन्नप्रतियोगिताकत्वसंबन्धेन तादृशोभयस्य नअर्थाभावे तन्य चन्वियितीवच्छेदकनिरुक्तधर्मावच्छेदेन धात्वर्थेऽन्वयः । तादृशधात्वर्थश्च प्रकृते मुख्यविशेष्यतयैव भासते । अथवा स्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपव्यापकतासंबन्धेन पात्वर्थस्य तादृशोभयाभावेऽन्वयः। तस्य चाख्या ल/न्यपाए Page #224 -------------------------------------------------------------------------- ________________ तार्थनिरूपकत्वे तस्य च प्रथमान्तपदार्थे पटादौ घटादेः प्रतियोगितावच्छेदकघटकतया तादृशाभावनिरूपकत्वात् । एवं चान्वयबोधस्य प्रथमान्तपदार्थमुख्यविशेष्यकत्वनियमस्यापि न क्षतिरिति । तदपि न सम्यक् । घटादिविषयकचाक्षुषादेः कानिकादिसंबन्धेन घटादिवृत्तितया घटो घटं न पश्यतीति प्रयोगानुएपत्तेः। आकाशादिविषयकत्वावच्छिन्ने चाक्षुषे कालिकादिसंबन्धन घटादिवृत्तित्वनिश्चयदशायां घट आकाशं न पश्यातिवाक्याच्छाब्दबोधानुपपत्तेश्च । समवायेन घटादिवृत्तित्वाकाशादिविषयकत्वोभयाभावस्यैव स्वीकरणीयतया अभाव अाकाशं न पश्यतीत्यादौ अभावसमवेतत्वाप्रसिद्धया वाक्यार्थाप्रसिद्धेर्दुरित्यात् । चैत्रादेरतीतचाक्षुषस्य घटादिविषयकत्वेऽपि समयविशेष चैत्रो घटं न पश्यतीतिप्रयोगाद्वर्त्तमानतादृशचाक्षुषत्वाद्यवच्छेदेन उभयाभावभानस्य प्रतियोगिकोटौ वर्तमानत्वमन्तर्भाव्य त्रित्वावच्छिन्नाभावभानस्य वा स्वीकरणीयतया यदा यत् किंचिदंशेऽलौकिकमेव घटादिचाक्षुषं तस्य वर्त्तते तदा चैत्रो घटं न पश्यतीत्यादि प्रयोगापत्ते१र्वारत्वाच्च । वर्तमानालौकिकविषयिताशून्यचाक्षुषत्वा वच्छेदेन चैत्रवृत्तित्वघटविषयकत्वोभयाभावसत्त्वात् । समानेन्द्रिय जन्योपनीत म?01/ -२१६-म पथमान्ता भलकर गबान पश्यतात्मकमा प्रथमान्तार्थमुख्यविशेष्यत्वस्यापि नानुपपत्तिरिति हस्तलिखिनपस्तकपाटः । वियर की। पानि समानेन्द्रियेति । ननु घटविषयकचाक्षुपे किञ्चिदंशेऽनौकिकत्वन यतीक पि अलौकिकविषयिताशून्यत्वन्नास्ति परन्तु तत्रैव घट निरूपितलौकिलाविषयिताशालित्वावच्छेदेनालौकिकविपयिताशून्यत्वमस्त्येव । मूलावच्छेदेन कपिसंयोगसत्त्वेऽप्यग्रावच्छेदेन तदभाववदिति अलौकिकपिपयिताशन्यत्वावच्छेदेन चाक्षुषे घटविषयकत्वचैत्रवृत्तित्वोभयसत्त्वेनोभया'वस्य बाधान्नापत्तिरित्यत पाह--समानेति । Page #225 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २१७ भानादौ लौकिकप्रत्यक्षसामग्य विरोधित्वस्य निष्प्रामाणिकत'याऽलौकिकविषयितानियामकोपनायकज्ञानादिसमवहिततल्लौकिकसनिकर्षात, घटादिनिरूपितलौकिकालौकिकोभयविषयिताशालिवतमानचाक्षुषादेरप्युत्पत्त्या तादृशचानुषादिदशायामुक्तप्रयोगापत्तेः । आकाशादिनिरूपितालौकिकविषयिताशालिवर्तमानचाक्षुषाद्यशे घटादिवृत्तित्वस्य आकाशीयत्वादिना लौकिकविषयितायाश्च भ्रमदशायां घट आकाशं न पश्यतीत्यादिवाक्याच्छाब्दबोधापत्तेदुर्वारत्वाच्च । घटादिनिरूपितालौकिकविषयिताशून्यचाक्षुषत्वाद्यवच्छेदेन घटादिविषयित्वघटितोभयाभावभानोपगमेऽप्यनिस्तारात् एतेनाख्यातार्थवर्त्तमानत्वाद्यवच्छिन्नसमयावच्छिन्नाश्रयत्वाद्यवच्छिन्ने आकाशादिविषयकप्रतियोगिकत्वलौकिकान्यविषयिताशून्यचाक्षुषप्रतियोगिकत्वघटाद्यनुयोगिकत्वैतत्त्रितयत्वावच्छिन्नाभावो भासतेऽतोऽभाव आकाशं न पश्यतीत्यादौ नानुपपत्तिः । तत्र विषयितावत्प्रतियोगिकत्वं द्वितीयार्थः। निरुक्तचाक्षुषप्रतियोगिकत्वं त्रित्वं च धातोरर्थः । घटाद्यनुयोगित्वं च प्रथमान्तार्थ इत्यपि चिरस्तमिति चेत् अगत्या घट आकाशं न पश्यतीत्यादिवाक्यानामप्रामाण्यमुपगन्तव्यमिति । इति प्रथमखण्डम् निःप्रामाणिकतयति । विषयतासम्बन्धेनोपनीतभानं प्रति विषयतासम्बन्धेन प्रत्यक्षसामग्रयाः प्रतिबन्धकतया नैकस्मिन् पदार्थे लौकिकालौकिकोभयविषयत्वस्य सम्भव इति शङ्कां समादधाति-निःप्रामाणिकतयेत्यदिना। Page #226 -------------------------------------------------------------------------- ________________ २१८ व्युत्पत्तिवादः [ कारके ___ अनुमित्वर्थकधातुयोग विधेयत्वं विधेयित्वं' वा द्वितीयार्थः । तेन वह्नयादिपक्षकानुमितिपरस्य वन्हिमनुमिनोमीत्यादिवाक्यस्य न प्रामाण्यम् । मदिर' वन्हिसाध्यकपर्वतपक्षकानुमितिपरस्य वन्हिमत्त्वेन पर्वतमनुमिनोमीत्यादिवाक्यस्यापि प्रामाण्यमनुमन्यते तदा तादृशधातुयोगे उद्देश्यत्वमुद्देश्यित्वं वा द्वितीयार्थः। तस्य च तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेऽन्वयः। अतो वन्हिमत्त्वेनेत्याद्यसमभिव्याहारेण तत्र पर्वतमनुमिनोमीत्यादयो न प्रयोगाः । विधेयत्वाद्यर्थे तृतीयानुशासनविरहात् + तृतीयान्तेन वह्नयादिविधेयकत्वं कथमुपस्थापनीयमिति न शङ्कयम्। वैशिष्ट्यरूपार्थे तृतीयानुशासनसत्त्वात् विधेयतादेरपि वैशिष्ट्यरूपत्वात् । अत एव रजतत्वेन शुक्तिं जानातीत्यादौ ज्ञाने रजतत्वादिप्रकारक १ विधेयित्वम्वेति । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वमभिप्रेत्याह स्वमते-विधेयित्वम्वेत्यादिना। २ विशिष्टेऽन्वय इति । द्वितीयार्थोद्देश्यित्वप्रकारकानुमितिविशेष्यकबोधे तृतीयान्तपदोपस्थाप्यसाध्यविधेयतानिरूपकत्वप्रकारकानुमितिविशेष्यकबोधजनकसामग्रीकारणमिति भावः । ___ नन्वेवं कार्यकारणभावस्वीकारेऽपि बह्निमत्त्वेन पर्वतमनुमिनोमीति समूहालम्बनवाक्यात् पर्वतनिरूपितद्वितीयार्थोद्देश्यित्वप्रकारकानुमित्यादिविशेष्यकबोधापत्तिनिरुक्तकारणसद्भावादिति चेन्न । द्वितीयार्थोद्देश्यित्वप्रकारकानमितिविशेष्यकबोधे तृतीयान्तार्थसाध्यविधेयतानिरूपकत्वप्रकारकानुमितिविशेष्यकबोधजनकत्वेन तात्पर्यविषयीभूतधातुर्मिकद्वितीयान्तार्थोद्देश्यित्वप्रकारकानुमितिविशेष्यकबोधजनकत्वप्रकारकतात्पर्यज्ञानस्य कारणत्वाभ्युपगमात् । ३ तृतीयानुशासनसत्त्वादिति । इत्थं भूतलक्षणे इति । * अत एवेति । तृतीयाया वैशिष्टयार्थकत्वादेवेत्यर्थः । Page #227 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २१६ त्वस्य घटत्वेन वह्निर्नास्तीत्यादौ सौंदडमते अभावे घटत्वावच्छिन्नप्रतियोगिताकत्वस्य तृतीयान्ततो बोधः । तृतीयान्तार्थरजतत्वादिप्रकारकत्वद्वितीयान्तार्थशुक्तयादिविषयकत्वयोः विशिष्टवैशिष्ट्यवोधमर्यादयाऽवच्छेद्यावच्छेदकभावभानम् । रजतत्वेन शुक्ति जानातीत्यादौ नियतं केवलमेकत्र द्वयमितिरीत्या तदुभयबोधस्य तत्राव्युत्पन्नत्वात्। अत इमे शुक्तिरजते इत्यादिप्रमापरस्य ताहशवाक्यस्य न प्रामाण्यम् । घटत्वाद्यवच्छिन्न प्रतियोगिताकवह्नयभावादिनिष्ठेन वह्नयादिनिरूपितानुयोगिताविशेषरूपवह्नयाद्यभावत्वेन तदभावनिष्ठघटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्यावच्छेद्यावच्छेदकभावः स्वीक्रियते । घटत्वेन वह्निर्नास्तीत्यादौ च तद्बोधस्योक्तरीत्यावश्यकत्वमिति घटत्वावच्छिन्नवह्नयाद्यभावस्य १ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाववादिनोऽन्यथाख्यातिमतं निराकर्तुरुपाध्यायोपनामकस्य सोन्दल, सुन्दल, सौन्दलादिविविधनामधेयस्य मते इति भावः । विषयकत्वयोरित्यादि । सादृशविषयको परस्परनिरूप्यानरूपकमावस्तादृशविषयतानिरूपाल्चयोरक्च्छेचावच्छेदकभावोऽभ्युपेयते- घटत्वाद्य वच्छिन्नेत्यादि । यद्धर्मावच्छिन्नयन्निष्ठप्रतियोगिता भवति तद्धर्मावच्छिन्नप्रतियोगितानिरूपकत्वतनिरूपितानुयोगितयोरेवावच्छेद्यावच्छेदकभावः। उसकोलकवह्निघटोभयन्नमस्तीक्तिवाक्यजन्यबोबलात्पर्येण घटत्वेन वह्निास्तीति वाक्यत्व प्रामाण्यवारणाय तथाकल्पनस्यावश्यकत्वादिति भावः । "आवश्यकत्वमिति। अन्यथा वह्निघटोभयन्नास्तीत्यादिप्रतीतिविषयस्याप्यभावस्य वह्निनिरूपितानुयोगिकत्वस्य घटत्वावच्छिन्नप्रतियोगिताकत्वस्य च सत्त्वेन तद्बोधतात्पर्येणापि घटत्वेन वह्निर्नास्तीति प्रयोगापत्तिः । Page #228 -------------------------------------------------------------------------- ________________ वह्नित्वावच्छिन्नघटाद्यभावसमनियतत्वेन तदभिन्नतया तत्र घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वघटाद्यभावत्वसत्त्वेऽपि तादृशाभावपरस्य घटत्वेन घटो नास्ति, वह्नित्वेन वह्निर्नास्तीत्यादिवाक्यस्य न प्रामाण्यम् । उक्तस्थले च तृतीयान्ताद्यर्थस्य द्वितीयान्ताद्यर्थेऽवच्छेद्यावच्छेदकभावसम्बन्धेनान्वय इत्यपि कश्चित् । ता। विभक्तयर्थे विभक्तयर्थान्वयस्याव्युत्पन्नत्वात् । न च रजतत्वेनेदं ज्ञायते इत्यादौ आख्यातार्थविषयतायां तृतीयार्थप्रकारताया निरूपितत्वसंबन्धेनान्वयान्नोक्तव्युत्पत्तिकल्पनमिति वाच्यम् । तत्रापि रजतत्वादिप्रकारकत्वविशिष्टधात्वर्थ'ज्ञाननिरूपितत्वस्याख्यातार्थे भानस्वीकारेणैवातिप्रसङ्गभङ्गात् । न च तस्मात्पचति' ययोः परस्परनिरूप्यनिरूपकभावस्तयोरेवावच्छेद्यावच्छेदकभावनियमादिति भावः । 'उक्तस्थल इति । रजतत्वेन शुक्ति जानातीत्यादा वित्यर्थः । तृतीयान्ताद्यर्थस्येति । तृतीयान्तार्थप्रकारतायाः स्वनिरूपकत्वसम्बन्धेन ज्ञानेऽन्वयः स्वावच्छेदकत्वसम्बन्धेन द्वितीयार्थविषयतायामित्याशयः । ३ रजतत्वेनेदमित्यादि । रजतत्वप्रकारतानिरूपितज्ञानीयविशेष्यतावदिदमिति बोधः । ४ विशिष्टधात्वर्थेति । ननु रजतत्वादिप्रकारकज्ञाननिरूपितत्वस्यैवाख्यातार्थेऽन्वयोऽस्तु किं विशिष्टधात्वर्थेत्यादिनिवेशेनेति चेन्न । इमे शुक्तिरजते इति वाक्यजन्यबोधपरकरजतत्वेन शुक्तिं जानातीतिवाक्यस्योक्तरीत्या प्रामाण्यापत्तिवारणाय तस्यावश्यकत्वात् तादृशप्रकारतानिरूपकत्वविशिष्टज्ञाननिरूपितत्वतादृशप्रकारतानिरूपितविशेष्यतायामेवेति न दोषः । "तस्मात् पचतीत्यादि । तद्धेतुका पाकक्रिया तहेतुकं चैत्रनिरूपितस्वत्वमिति बोधः। Page #229 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २२१ तस्माच्चैत्रस्येत्यादौ विभक्तयर्थे कृतिसंबन्धादौ हेतुविभक्तयर्थान्वयदर्शनानास्त्युक्ताव्युत्पत्तिरिति वाच्यम् । हेतुविभक्तयतिरिक्तविभक्तयर्थस्याविभक्तयर्थेऽनन्वयनियमात् न च रजतत्वेनेदं जानातीत्यादौ तृतीयायाः कारकविभक्तित्वाभावान्न तदर्थस्य क्रियायामन्वयसंभव इत्यगत्या द्वितीयार्थ एव तदन्वय उपगन्तव्य इति वाच्यम् । ___ मणिकारमते तस्माज्जानातीत्यादौ ज्ञानादिरूपधात्वर्थ एव हेतुविभक्तयर्थस्य तस्मात् स्थीयते इत्यादौ च सर्वसम्मत एव धात्वर्थस्थित्यादौ तस्यान्वयेन षष्ठयथसंबन्धस्यापि “गुरुवित्रतपस्वितुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषरित्यादौ धात्वर्थेऽन्वयेन कर्मासमभिव्याहृते रजतत्वेन जानात.त्यादौ धात्वर्थे तृतीयार्थान्वयस्यावश्यकत्वेन कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियायामनन्वय इत्यनियमात् । एवं घटत्वेन वह्निर्नास्तीत्यादौ प्रथमार्थो नानुयोगित्वम् । प्रथमायाः संख्यातिरिक्तविभक्तथर्थाबोधकत्वनिय-, मात् । अतो नर्थाभावे सबन्ध एवं तत् । तत्र च न तृतीयार्थान्वयसंभवः। ममतु अनुयोगितासंबन्धेन वह्नयादिविशिष्टाभावे तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताकत्ववैशिष्ट्यभानाद्विशिष्टवैशिष्ट्य -शाम 'मणिकारमते इति।तन्मते पाश्रयतारूपार्थकत्वस्याख्याते निराकरणात प्राश्रयतायां नान्वयसम्भवः । । जानातोति । तन्मते ज्ञानार्थकधातुसमभिब्याहवाख्यातस्य निरर्थकत्वस्पोपपादितत्वात् अन्यत्रान्वयासम्भवादिति भावः । अत्र प्रथमार्थस्याभावात विभक्त्यर्थान्वयस्वीकारे पूर्वप्रयोगे निर्वाहसम्भवेऽप्यत्रानिर्वाहादनिच्छतापि मद्रीतेरेवानुसतव्यतया अर्द्धजरतीयः स्यादित्येतदुच्यते--एवमिति । Page #230 -------------------------------------------------------------------------- ________________ HTM/ बोधमर्यादया वह्नयाद्यनुयोगिकत्वस्थलीयस्यानुयोगितया संवद्धवह्नयादेस्तादृशप्रतियोगिताकत्वेनावच्छेद्यावच्छेदकभावभानोपगमेन सामञ्जस्यात् । अनुयोगिताया नार्थतावच्छेदकत्वे तव वह्नयादेः प्रतियोगिनोऽन्वयः । अतस्तत्र तृतीयान्तार्थघटत्वावच्छिन्नप्रतियोगिताया निरूपकत्वेनान्वयं स्वीकृत्यातिप्रसङ्गवारणं सम्यक् प्रतिभाति रङ्गेऽभेदेन रजतारोपस्थले रङ्गं रजतेन जानातीत्यप्रयोगात् । तादात्म्यभिन्नसंवन्धावच्छिन्नप्रकारितैव तृतीयार्थः। तत्र च रङ्ग रजतं जानातीति प्रयोगात्तादात्म्यसम्बन्धावच्छिन्नप्रकारताकत्वं कर्मत्वानुशिष्टद्वितीयादेरेवार्थः। तस्य च तादृशप्रकारवाचिपदसमानविभक्तिकपदोपस्थाप्यविशेष्यताविशिष्टायामेव ज्ञानरूपक्रियायामन्वयः। तेन भेदारोपस्थले रङ्गे रजतत्वं जानातीतिवदभेदारोपस्थले रङ्ग रजतं जानातीति न प्रयोगः । उक्तस्थले च रङ्गरजतायोः समानविभक्तिकपदोपस्थाप्ययोरभेदान्वये साकाङ्क्षत्वेऽपि नायोग्यतया तादृशान्वयः। एवं सति रङ्गरजतादिपदयोः सामानाधिकरण्यानुपपत्तिरिति चेत्-का क्षतिः । न चैवं रजतगनैकत्वबहुत्वाविवक्षायां रङ्गानि रजतं जानातीति प्रयोगस्य स्त्रियं पांसुलान जानातीति प्रयोगस्य च प्रसङ्गः । सामानाधिकरण्यस्यैव समानवचनलिङ्गकत्वनियतत्वादिति वाच्यम् । समानाधिकरणयोरिव यत्पदार्थविशेष्यकत्वविशिष्टेऽभेदसंबन्धावच्छिन्नयत्पदार्थप्रकारकत्वस्यान्वयस्तयोरपि समानलिङ्गवचनत्वनियमात् । ____ यक्षपतिमतानुयायिनस्तु रङ्गं रजतं जानातीत्यादौ सामानाधिकरण्यानुरोधात् रजतादिपदस्य रजताभेदज्ञानविषये लक्षणा । अत्त एन भ्रान्तिज्ञविशेषदर्शिना प्रयुक्तस्य लोहितवह्नि जानातीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः। न ह्यसमासस्थल इक लोहितवह्नयाद्योरभेदाविवक्षा ज्ञानांशे लोहितादेः स्वातन्त्र्येणान्बयो वा सम्भवति कर्मधारयस्य साधुतानुपपत्तेः । लोहितपदोत्तरं प्रकारताबोधक Page #231 -------------------------------------------------------------------------- ________________ विभक्तेरभावात् । धात्वर्थे साक्षान्नामार्थस्य भेदान्वयेऽव्युत्पत्तेः । द्वन्द्वस्थलवकर्मधारयोत्तरविभक्तेः पूर्वपदप्रकृतिकत्वाभावात् तस्याः पूर्वपदार्थान्वितप्रकारताबोधकत्वायोगात् च च द्वन्द्वसमास एवासौ अल्पाचो वह्निपत्स्य पूर्वनिपातप्रसङ्गात् । समाहारपक्षे पुल्लिङ्गताया इतरेतरपले च एकवचनस्यानुपपत्तेः । एतन्मते शुक्लो वह्निरित्यादिप्रमायां लोहिताभेदारोपविषयवह्निविषयकत्वेऽपि शुक्लो वह्निर्लोहिता जपतिसमूहालम्बनप्रमाया लोहिताभेदावगाहिखविषयवह्निविषयकत्वेऽपि च तद्दशायां लोहितवह्नि लोहितं वह्नि वा जानातीति न प्रयोगः । तादृशपदोपस्थाप्यविषयताया मिपारतन्त्र्येण""द्वितीयर्थिविषयतायामभेदसम्बन्धेन विशेषणताया नियमोपगमात् । अथवा लोहिताभेदविषयतानिरूपितविषयतापन्नस्य वह्नयादेर्शानान्वयिविषयितानिरूपकत्वं भासते। समूहालम्बनादौ च तादशविषयतानापन्नस्यैव विषयितानिरूपकत्वमिति नातिप्रसङ्गः। विपयतापन्नस्य निरूपकत्वमित्यस्य च विषयतावच्छिन्नं निरूपक त्वमित्यर्थः । एतन्न विलक्षणविषयितानिरूपकतावच्छेदकत्वमविष यस्यापि विषयत्वस्योपेयते, स्कदण्डवानिल्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेणापि रक्तत्वादिप्रकारतानिरूपितविशेप्यत्वेन दण्डादिप्रकारताया अवच्छेद्यावच्छेदकभाववदित्याहुः। न च द्वन्द्वसमास एवेति । वस्तुतो द्वन्द्वप्राप्तिरेव न एकधर्मावच्छिन्ने एकसम्बन्धेनान्वितानागव द्वन्द्वविधानात्प्रकृते प्रकारिताविशेष्यितोभयसम्बन्धेनोभयोरन्वितत्काल २ अथेति । अभेद सम्बन्धावच्छिन्नलोहितनिष्ठप्रकारतानिरूपितविशेष्यतावच्छिन्ननिरूपकतानि रूपितनिरूप्यतावद्विषयिताशालिज्ञानवानयमिति बोध , एव लोहितवह्नि जानागीतिवाक्याज्जायते इति भावः । Page #232 -------------------------------------------------------------------------- ________________ तम शोमनम् । उक्तरीत्या विनैव लक्षणामुपपत्तौ तस्या न न्याय्यत्वात्। हाथोकस्थले आरोप्यारोपविषयबोधकपदोनान्वितार्थकत्वे कर्मप्रत्ययस्थले लोहितो वन्हिर्जायते इत्यादौ विशेष्यभेदाद्वाक्यभेदापत्तिः । न च लोहिताभेदज्ञानविषयो वह्निरित्येव शाब्दधीरुपगम्यते न तु ज्ञाने प्रकारो लोहितो विशेष्यश्च वह्निरिति समूहालम्बनं, तथा सति शुक्लो वह्निर्लोहिता जपेत्यादावपि तथा प्रयोगप्रसङ्गात् । दर्शितविशिष्टवैशिष्ट्यबोधस्वीकारे लोहितादिप्रकारकत्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवह्नयादौ बाधितत्वेन तादृशप्रयोगापत्तिविरहादिति वाच्यम् । तत्र लोहितादिपदोत्तरप्रकारतार्थकद्वितीयादिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभानासंभवात् । नामार्थधात्वर्थयोः साक्षादन्वयस्याव्युत्पन्नतया प्रकारितायाः संसर्गतया भानासंभवादिति चेत्-न । यथा हि-घटो नीलो भवति, वृक्षो नौका भवति, काष्ठं भस्म भवतीत्यादौ धात्वर्थेऽसाधारणधर्मरूपे भावे व्युत्पत्तिवैचित्र्येण नीलनौकाभस्मादेः साक्षादेवान्वयः, प्रथमाया अन्तराभासमानार्थकत्वाभावात, नौकादिपदस्य स्वारम्भकावयवारब्धार्थलाक्षणिकतया प्रकृतिविकृत्योर्भेदमतेऽपि वृक्षो नौका भवतीत्यादौ योग्यताया उपपत्तिः, स्था धात्वर्थे प्रकृतेऽपि प्रकारितासंबन्धेन लोहितादेः साक्षादन्वयस्यागत्योपगमात् । यथा प्रकृतिविकृतिभावस्थले वृक्षः पञ्च नौका भवतीत्यादौ १ वस्तुतो लोहितवह्नि जानातीतिवाक्यमप्रमाण मतिध्येयमित्यधिक: पाठो हस्तलिखितपुस्तकेऽत्र दृश्यते । शाब्दधीरिति। लोहितनिष्ठाभेदसम्बन्धावच्छिन्न प्रकारतानिरूपकज्ञानीयविषयताश्रयो वह्निरित्येवं रूप इति भावः । Page #233 -------------------------------------------------------------------------- ________________ प्रकृतिभूतवृक्षादेर्विशेष्यतया भावनान्वयित्वात् , तद्गतसंख्याबोधकतया प्रकृतिवाचकपदसमानवचनत्वमाख्यातस्य तथा एको द्वौ ज्ञायते इत्याधुभयार्थाभेदारोपस्थलीयवाक्ये एकादिपदार्थस्यारोपविशेष्यस्याख्यातार्थविशेष्यतयान्वयविशेष्यतया तत्पदसमानवचनत्वमाख्यातन्य । ___ न चैवं 'अमानि तत्तेन निजायशोयुगं द्विकालबद्धाश्चिकुराः शिरः स्थितम्' इत्यत्र कथमारोपविशेष्यवाचकपदविरुद्धवचनत्वममानीतिक्रियापदस्येति वाच्यम्, तत्रायशोद्वयस्य वास्तवत्वं न चिकुरभागद्वयस्य राज्ञा अारोप्यत्वेन कवेरुत्प्रेक्षितत्वात् । आख्यातार्थविशेष्यतान्वयविशेष्यत्वेनायशोयुगस्यैव विवक्षितत्वात्। इच्छार्थकधातुस्थले मुख्यविशेष्यत्वरूपं कर्मत्वं द्वितीयार्थः । अतो वृष्टिसाध्यं सुखं भवत्वित्यादीच्छास्थले सुखमिच्छतीत्यादिवष्टिमिच्छतीत्यादयो न प्रयोगाः। अथ अहं सुखी स्यामित्यादीच्छायाः सुखादिविशेषणक तया तत्र सुखमिच्छतीत्यादिप्रयोगानुपपत्तिरिति चेत्-न । मम सुखं भवत्वित्यादिसुखविशेष्यकेच्छाया एव कदा चित्सुखादि विशिष्टात्मबोधकशब्देन विषयाभिलापात्। स्वकृत्यधीनसिद्धिकत्वरूपस्वकृतिसाध्यत्वप्रकारकपाकविशेष्यकेच्छाया इव पाकं कृत्या साधयानीति पाकसिद्धयनुकूलकृत्यभिन्नव्यापारविशिष्टात्मबोधकशब्देन विषयाभिलापवत् । यदि योद्देश्यसुखादेविशेषणतयाऽपि कचिद्भानमानुभाविकं तदोद्देश्यादिव्यवहारनियामकः कचित्किचिद्विशेषणसाधारणो विषयताविशेषोऽभ्युपेयः । अनुमितौ विशेष्यतया काचित्कभानविषय'साध्यनिष्ठविधेयताख्य 'भानविषयेति पर्वते वह्निरित्यनुमाने हि साध्यस्य वह्नविशेष्यत्वं, वह्निमान् पर्वत इत्यत्र च प्रकारत्वमिति भावः । Page #234 -------------------------------------------------------------------------- ________________ विषयतावत् । स एव च सुखमिच्छतीत्यादौ द्वितीयार्थः । ग्राममिच्छतीत्यादौ ग्रामादिपदं ग्रामस्वत्वादिपरम। अत एव च सिद्धस्य ग्रामादेमुख्यविशेष्यताया उपदर्शितविलक्षणविषयताया वा विरहेऽपि न क्षतिः । ग्रामादेः सिद्धत्वेऽपि स्वस्वत्वाधसिद्धोपरक्तस्य इच्छायां प्राधान्येन क्वचिद्भानं विशिष्टेस्यासिद्धत्वात् । तत्र ग्राममिच्छतीत्यादिप्रयोग इत्यपि बदन्ति । 42 लोया कविकोपतीत्यादौ द्वितीयाया विशेष्यतापकमत्वार्थकतया कृतिप्रकारकपाकविशेष्यकेच्छा प्रतीयते । सा च पाकं कृत्या साधयानीतीच्छा । अथ वा सनो धात्वर्थविशेष्यकेच्छा वाचित्वात्कृतिविशेष्यकेच्छा चिकीर्षापदार्थः । सा च पाककृतिर्भवत्वितीच्छैव । प्रवर्तिका च सा भवतु मा वेत्यन्यदेतत् । पाकादेश्च कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते, न विच्छाया विषयत्वरूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासतीत्यादिप्रयोगापत्तेः । युनं चैतत् । सनो धात्वर्थप्रकारकेच्छावाचित्वे ओदनभोजनेच्छा. दशायामोदनं बुभुक्षते इति प्रयोगो न स्यात्। तत्र भोजनस्याप्रकारत्वात् । न च कर्मता सम्बन्धेन भोजनप्रकारिका यदा ओदनविशेष्यिकेच्छा तदैवैतादृशप्रयोगः । सा चेच्छा भोजनधर्मिकेष्ठसाधनताज्ञानाद्भोजनविशिष्टौदनधर्मिकेष्टसाधनताज्ञानाद्वा। अोढ़नस्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानाद्विशिष्टधर्मिकासिद्धत्वज्ञानसहिताद्विशिष्टेच्छासम्भवात् । पत्र भोजनसिद्धतादशायां भोजनोत्तरकालीनगमनत्वादिप्रकारिको भुक्तौदनजन्यपष्टित्वादिप्रकारिका वा ईच्छी तत्र बुभुक्षत इति प्रयोगस्य न प्रसङ्गः। मुख्यविशेष्यविशेषण'तापन्नकर्मत्वांशे इच्छाप्रकारतीयाँ एवं सनप्र ति मुख्यविशेष्यविशेषणेति । मुख्यविशेष्यविशेषणतापन्न कर्मत्वनिष्ठविशेष्यतानिरूपितेच्छाप्रकारतैव सन्प्रकृत्यर्थनिष्ठतया भासत ::ति भावः । Page #235 -------------------------------------------------------------------------- ________________ कृत्यर्थे भानोपगमादिति वाच्यम् । भोजनं भवत्वित्यादिभोजनविशष्यकेच्छादशायामपि बुभुक्षते इति प्रयोगस्य सर्वसिद्धत्वेन धात्वर्थविशेष्यकेच्छाबोधकतायाः सन्प्रत्ययस्यावश्यमुपेयत्वात् । न च द्वयी व्युत्पत्तिरेवोपयते । एकव्युत्पत्त्यैव निर्वाहे व्युत्पत्ति-: द्वयकल्पने गौरवात् । अत एव च स्थित्यादिगोचरेच्छाया गृहादिविशेष्यकत्वस्योक्तरीत्या सम्भवेऽपि गृहं तिष्ठासतीत्यादयो न प्रयोगाः । भोजन प्रकारकौदनविशेष्यकेच्छाविशेषदशायां बुभुक्षत इति प्रोगसत्त्वेन उद्देश्यताख्यविषयताया एव धात्वर्थे भानोपगमेन तस्य निर्वाहात्। न च धात्वर्थविशेष्यकेच्छायाः सन्प्रत्ययार्थत्वे पाकं चिकीर्षति प्रोदनं बुभुक्षते इत्यादौ पाकौदनादेवितीयया कृतिभोजनादिकर्मत्वप्रत्यायनसंभवेऽपि पाकश्चिकीर्ण्यते अोदनो बुभुक्ष्यते इत्यादौ कर्माख्यातेन तत्प्रत्यायनासंभवः । तत्प्रकृतिभूतसन्नन्तधात्वर्थकृतिभोजनेच्छाकर्मत्वस्यैव तत्प्रत्ययेन बोध्यत्वात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वात् । इच्छाविषयत्वविशेषितकृतिभोजनादेश्च प्रकृत्याऽप्रतिपादनादिति वाच्यम्। कर्तृप्रत्ययस्थले सन्प्रत्ययार्थेच्छाया धात्वर्थविशेष्यतया भानेऽपि कर्मप्रत्ययस्थले तस्या धात्वर्थविशेषणतया भागोपगमात् । गृहमित्यादि। तन्मते इच्छीयमुख्यविशेष्यताश्रयत्वमेव कर्मत्वं तच्च गृहेऽप्यस्तीतितादृशप्रयोगापत्तिरिति भावः । धात्वर्थविशेष्यकेच्छा सन्नर्थ इति वदतान्तु नेयमापत्तिः कृतिकर्मत्वरूपद्वितीयार्थस्य तत्र बाधादिति । . भोजनेत्यादि । कर्मतासम्बन्धेन भोजनविशिष्टमोदनं भवत्विति भावः । ३ तस्या इति । स्वनिरूपितविषयत्ववत्वसम्बन्धेनेति भावः । Page #236 -------------------------------------------------------------------------- ________________ २२८ व्युत्पत्तिवादः [ कारके चिकीर्ण्यते पाक इत्यादौ इच्छाविशेषितकृत्यादेरेव सन्नन्तेन प्रतिपादनात् , तादृशकृत्यादिकर्मताया आत्मनेपदादिना प्रत्यायनसंभवात् । आख्याताद्युपस्थितवर्तमानत्वादेश्च कृत्यादिविषयकेच्छा यत्र प्रकृत्यर्थः यत्र वा इच्छा विषयकृतिस्तत्रोभयत्रैवेच्छायामन्वयः। प्रकृत्यर्थैकदेशेऽपि नीलतरो घट इत्यादिस्थले नीलरूपादौ तरबाद्यर्थातिशयान्वयानुरोधात् । न चैवं कर्मप्रत्ययस्थलेऽपि कृतिविशेषितैवेच्छा' सना प्रत्याय्यतां विशेषणीभवन्ती कृतिरेव कर्मत्वेनान्वीयतां भवन्मते विशेणीभूतेच्छायां वर्तमानत्वाद्यपराख्यातार्थान्वयवदिति वाच्यम् । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽन्वयोऽव्युत्पन्न इति प्रथमान्तार्थविशेषणकर्मत्वे इच्छायां विशेषणतयोपस्थितस्य धात्वर्थस्य विशेषणतयान्वयायोगात् । विशेष्यतया चान्वयस्याप्रसक्तत्वात् धात्वर्थविशेषणतया इच्छाभानेपि तस्या वर्तमानत्वादिविशेष्यतयैव भानेनोक्तव्युत्पत्तिविरोधविरहात्। एवं धात्वर्थस्येतरविशेषणतयोपस्थितस्य स्वातंत्र्येण कर्मताविशेषणत्वमयुक्तमेव । 'प्रकृत्यर्थस्यैकदेशेऽपि प्रकृत्यर्थान्तर्गत 'कृतिविशेष्यतयैवेच्छेति हस्तलिखितपुस्तकपाठः । २ अन्वीयतामिति । नन्वेवमाख्यातस्य प्रकृत्यर्थंकदेशान्वितकर्मत्वबोधकत्वेन प्रकृत्यान्वितस्वार्थबोधकत्वमेव प्रत्ययानामिति नियमानुपपत्तिरत आह-भवन्मते इत्यादि। ३ प्रकृत्यर्थस्येत्याद्यारभ्य स्वातन्त्र्येण भासमाने इत्यन्तस्य स्थानेऽस्मत्पितृव्यचरणमधुसूदनशगंमिश्राणां मते वक्ष्यमाणरीत्या पाठो युक्तः। तथा हि-नीलतरो घट इत्यादौ प्रकृत्यर्थंकदेशे प्रत्ययार्थान्वयदर्शनेऽपि प्रत्ययार्थे प्रकृत्यर्थंकदेशस्यान्वयादर्शनात् न स्वातन्त्र्येण भासमाने कर्मत्वरूपप्रत्ययार्थे प्रकृत्यर्थंकदेशस्य एकत्र विशेषणस्य कृत्यादेरन्वयः । Page #237 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २२६ तया भासमाने एव प्रत्ययार्थान्वयदर्शनात् , न तु स्वातन्त्र्येण भासमाने इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वान्वयोऽपि इच्छायां कर्मत्वानन्वयेन दुर्घटः । विशेष्यान्वयिन्येव विशेषणस्य पारतन्त्र्येणान्वयस्य विशिष्टान्वयस्थले व्युत्पत्तिसिद्धत्वात् न तु विशेष्यानान्वयिनि । अथास्तु विषयतारूपकर्मत्वे चिकीयते पाक इत्यादाविच्छायास्तत्पारतन्त्र्येण कृतेश्चान्वयः । एवञ्च कृतिविषयकेच्छाविषयत्वावच्छिन्नकृतिविषयताश्रयः पाक इत्यन्वयबोधः । उभयत्रैव पाकादेविषयत्वात् । स्थित्यादिकर्मत्वाप्रसिद्धया गृहं तिष्ठास्यते इत्यादेरप्रसङ्गादिति चेत् । अोदनो बुभुक्ष्यते इत्यादौ का गतिः । तत्रेच्छाकर्मताया विषयतारूपत्वात् भोजनादिकर्मतायाश्च तदन्यत्वात् । विशेष्यीभवदिच्छान्वयिनि कर्मत्वे भोजनाद्यन्वयायोग्यत्वेन तविशिष्टान्वयासंभवात्। वस्तुत: पाकश्चिकीर्ण्यत इत्यत्राप्यगतिरेव। कृतिविशेषणतया पाकनिष्ठेच्छाविषयतायाः कृत्यविशेषणतया तनिष्ठकृतिविषयताभिन्नतया इच्छान्वयिनो विषयत्वरूपकर्मत्वस्य कृत्यन्वयायोग्यत्वात्। यदि च विशेष्यान्वयिव्यक्तावेव तत्पारतन्त्र्येण विशेषणान्वय इति न नियमः अपि तु तदन्वयितावच्छेदकावच्छिन्न एवेति। तथा च विषयतात्वावच्छिन्नस्योभयान्वययोग्यतया न प्रकृतेऽन्वयानुपपत्तिः। अत एवारुणयेत्यादावारुण्यनिरूपितसाध्यताया गोनिरूपितसाध्यताभिन्नत्वेऽपि न तृतीयार्थे विशिष्टान्वयानुपपत्तिः। तत्र 'कृतिविशषेणतयेति । कृतिनिष्ठविशेष्यतानिरूपितविशेषणतारूपपाकनिष्ठेच्छाविषयतायाः कृतिनिष्ठविशेष्यतानिरूपितविशेषणताभिन्ना या कृतिनिरूपिता पाकनिष्ठा विषयता तद्भिन्नतयेत्यर्थः । अरुणयेति--अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातीतिवाक्ये । Page #238 -------------------------------------------------------------------------- ________________ [ कारके २३० व्युत्पत्तिवादः परम्परया विशेष्यान्वयिसोमक्रयव्यक्तेः परम्परया विशेषणान्वयिव्यक्त्यभेदवत् प्रकृतेऽपि परम्परयोभयान्वयिकर्मव्यक्त्यभेदोऽक्षत एवेत्युच्यते तदा भोजनकृतिर्भवतु पाकश्च भवतु इति समूहालम्बनेच्छामादाय पाकश्चिकीयते इति प्रयोगस्य कालान्तरीयकृतिविषयतामादाय दुरितैव । विषयितासम्बन्धेनेच्छाविशेषणीभूतकृतिव्यक्तिकर्मत्वान्वयस्यैव तदिच्छान्वयिनि कर्मण्यन्वयानायमतिप्रसङ्ग इति चेत्तथापि तदिच्छाकाले पाक इदानीं न चिकीर्ण्यते इति प्रयोगानुपपत्तिः। अन्वयितावच्छेदककृतिविषयतात्वकृतिगोचरवर्त्तमानेच्छाविषयतात्वावच्छिन्नाभावयोस्तदा पाकेऽसम्भवात् । न च वर्तमानकालावच्छिन्नकृतिविषयतात्वावच्छिन्नाभाव एव तत्र प्रतीयते, स च पाकेऽबाधित इति वाच्यम् । यद्यतीतेच्छाधीनपाककृतिरपि तत्र वर्त्तते तदा तादृशाभावस्यापि तत्र बाधात् पाककृतीच्छायामसत्यामुक्तेच्छासत्त्वेऽपि च तथा प्रयोगात् । कृत्यसत्त्वेऽपि पाककृतीच्छासत्त्वे तथा प्रयोगविरहात् । कृतिविषयत्वाभावमात्रबोधस्य तत्राभ्युपगमासंभवाच्चेति । कर्मप्रत्ययस्थले इच्छाधात्वर्थविशेषणमेव । इदन्तु तत्त्वम् । कर्मप्रत्ययस्थलेऽपि धात्वर्थविशेषितैवेच्छा सन्प्रत्ययेन प्रत्याय्यते। तत्कर्मत्वमेव कर्माख्यातार्थः । तच्च धात्वर्थकर्मतया तद्विषयत्वम् । श्रोदनकर्मक भोजनं भवतु, पाकविषयककृतिर्भवतु इत्यादीच्छायां च पाकभोजनादीनां तथेच्छाविषयतया तत्कर्मत्वमक्षतम् । गृहस्थितीच्छायां गृहादेः स्थित्याधारत्वादिनैव विषयत्वमिति न गृहादेस्तिष्ठासादिकर्मत्वम् । अत एव यदोदन- . 'प्रोदनकर्मकेत्यादि । धात्वर्थकर्मत्वनिष्ठविषयतानिरूपितचैत्रवृत्तीच्छीयविषयतावान् पाकादिरिति बोधः । Page #239 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २३१ व्यक्तिकर्मकभोजनमप्रसिद्धम् अथ च भोजनकर्मतया तदिष्टं तत्रायमोदनो बुभुक्ष्यत इत्यादेर्दर्शनादिविषयत्वेन गगनादिगोचरेच्छास्थले च गगनं दिदृक्षते इत्यादेश्च प्रयोगस्य नानुपपत्तिः । न वा ओदनादिरूपकर्ममात्रोपरागेण यत्र भोजनादीच्छा दैववशेन च तद्भोजनादिकं विषादिकर्मकमपि तत्र विषं बुभुक्ष्यते इत्यादयः प्रयोगाः। कर्तृप्रत्ययस्थले च तादृश'विषयतारूपं कर्मत्वमेव इच्छाविशेषणतया भासते न तु धात्वर्थकर्मत्वं धात्वर्थविशेषणतया । तत्पदार्थकर्मत्वविशिष्टभोजनादिनिरूपितविषयिताया नियमत इ. च्छायां भानोपगमेनोक्तस्थले विषं बुभुक्षते चैत्र इत्यादिप्रयोगवारणेऽपि गगनं दिदृक्षते चैत्र इत्यादिप्रयोगस्य दुरुपपादत्वात्। ___ इदन्तु बोध्यम् । सन्प्रतिपाद्येच्छायां धात्वर्थकृतिभोजनादेः केवलविशेष्यतासम्बन्धेन न विशेषणत्वम् । तथा सति परकर्तृककृतिभोजनादिगोचरेच्छावति अयं चिकीर्षति बुभुक्षत इति प्रयोगप्रसङ्गात्, किन्तु विशेष्यितासमानकर्तृकत्वोभयसम्बन्धेनैव उक्तातिप्रसङ्गवारणाय इच्छासमानकर्तृकत्वेऽपि सन्प्रत्ययवाच्यतां स्वीकृत्य 'तादृशेत्यादि । धात्वर्थकर्मत्वनिष्ठविषयतानिरूपितेच्छीयविषयतारूपमेवेत्यर्थः । तथावबोधः भोजनादिकर्मत्वनिष्ठविषयतानिरूपितेच्छीय अोदनादिनिष्ठविषयतानिरूपितविषयितावदिच्छावानिति । तदिति । द्वितीयाप्रकृत्यर्थः । दुरुपयादत्वादिति । अत्र गगनवृत्तिकर्मतानिरूपकदर्शनाप्रसिद्धेरिति भावः । अपोति । अपिशब्दादिच्छायामपीत्यर्थः । तथा च पाकादिनिष्ठकर्मत्वनिरूपिका या इच्छासमानकर्तृककृत्यादिविशेष्यिका इच्छा तद्वानिति बोध इत्युक्तस्थले न दोष इति भावः । Page #240 -------------------------------------------------------------------------- ________________ २३२ व्युत्पत्तिवादः [ कारके क्रियायां तदन्वयो न साधीयान् । इच्छान्तर समानकर्तृकत्वमादाय दर्शितस्थलेऽतिप्रसङ्गतादवस्थ्यात् । स्वसमानकर्तृकत्वस्य वाच्यत्वे तत्तदिच्छारूपस्वपदार्थानामननुगमेन व्युत्पत्त्यनुपपत्तिः । न च समानकर्तृकत्वस्य सम्बन्धत्वोपगमे तत्र शक्तिग्राहकानुशासनविरोधः। यतो धातोः कर्मणः समानकर्तृकादिच्छायां वेतिसन्प्रत्ययविधायकसूत्रं सनः समानकर्तकत्वार्थकतां न प्रतिपादयति । तस्य हीच्छाकर्मत्वेन तत्समानकर्तृकत्वेन च स्वार्थपराद्धातोरिच्छारूपार्थे सन्प्रत्ययो भवतीत्येवार्थः । इच्छाधात्वर्थयोः संसर्गतया समानकर्तकत्वविवक्षायामपि समानकर्तकत्वोपरक्तार्थपरत्वं धातोनिर्वहतीति इच्छामात्रे शक्तिग्राहकं तत्सूत्रमिति । सुबन्तोत्तरेच्छार्थविहितक्यच्काम्यजन्तस्य धातोरिच्छार्थकतया सन्प्रत्ययान्ताविशेषेऽपि सन्नन्तधातुवन्न सकर्मकता । तदन्तर्गतप्रातिपदिकस्यैव कर्मबोधकतयेच्छायाः कर्माकाङ्क्षाविरहात् । न-च-पुत्रीयति पुत्रकाम्यतीत्यादौ क्यजादिप्रकृत्यर्थपुत्रादेः क्रियात्वाभावेनाकर्मकत्वेऽपि आत्मनः पाकमिच्छति पाकीयतीत्यादौ प्रकृत्यर्थपाकादेः सकर्मकतया सन्नन्तसमुदायवत् क्यजन्तपाकादिसमुदायम्य सकर्मकताया दुर्वारतया तण्डुलं पाकीयतीत्यादिप्रयोगापत्तिरिति वाच्यम्। कृधातुसमानार्थकयतेरिव सन्नन्तसमानार्थकस्य क्यजन्तादेरपि कर्मबोधकसुप्साकाङ्क्षत्वानुपगमेन तथा 'इच्छान्तरेति । अयम्भावः । यदा चैत्रस्यौदनभोजनो भवत्वितीच्छा मैत्रवृत्तिरस्ति चैत्रस्य पाककृतिर्भवत्वितीच्छाऽस्ति तदा चैत्रवृत्तेरिच्छासमानकर्तृकत्वमप्यबाधितमेव इति मैत्रो बुभुक्षति इत्यादिप्रयोगो दुर्वार एवेति । ___ वाच्यत्वे इति । सन् प्रत्ययवाच्यत्वे इत्यर्थः । Page #241 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २३३ प्रयोगाप्रसङ्गात् कृदन्तकर्मत्वविवक्षायां तु षष्ठया बाधाद् द्वितीयाया अप्रसक्तेश्च । न च धात्ववयवकृद्योगे कर्तकर्मणोः कृतीत्यस्य द्वितीयाबाधकत्वे कंसकर्मकवधमाचष्टे कंसं घातयतीत्यत्र द्वितीया न स्यात् । कंसस्याख्यानकर्मत्वायोगेन वधकर्मतयैव तदुत्तरं द्वितीयासमर्थनादिति वाच्यम् । कृदन्तोत्तरं यत्राख्यातार्थे णिच् तत्र प्रकृतिवच्च कारकमित्यनेन कृदन्तकारकस्य ण्यन्त तत्प्रकृतिप्रतिपाद्यक्रियाकारकतुल्यत्वातिदेशात् राजानं गमयति सूर्यमुद्गमयतीत्यादौ ण्यन्तधातुयोगे यथा प्रकृत्यर्थक्रियाकर्तुः कर्मत्वं तथा कृदन्तोत्तरणिच्प्रत्यययोगेऽपीत्याख्येयगत्युद्गत्यादिकर्तुः कर्मतया तदुत्तरं द्वितीयेति । ण्यन्तधातुयोगे यथा प्रकृतेः कर्मणो द्वितीयान्तता तथा णिच्प्रत्ययान्तकृदन्तकमणोऽपीति लाभात् कृदन्तकर्मण: कंसादेर्द्वितीयान्ततोपपत्तिः । तथा' विवक्षायां तण्डुलस्य पाकीयतीति प्रयोग इष्यत एव । कारकविभक्तयर्थस्य वृत्त्येकदेशेनाप्यन्वयस्य व्युत्पन्नत्वात् । सम्बन्धविवक्षायां च न तथा प्रयोगः। वस्तुतः संवन्धविवक्षायामपि तथा प्रयोग इष्यत एव । न च तत्र वृत्त्येकदेशेन षष्ठयान्वये प्रतियोगिम्पदादन्यद्यदन्यत्कारकादपीविन्युपतिविरोध इति वाच्यम् । तादृशव्युत्पत्तेरभेदान्वयस्थल एव स्वीकारात् । वृत्त्येकदेशेन भेदान्वये बाधकाभावात् । अत एव ऋद्धस्य राजमातङ्गा इत्यादिप्रयोगो नेष्यते । इष्यते च पितुः स्वर्ग 'ण्यन्तेति । यथा कसं घातयतीत्यादौ कृतप्रकृतिण्यन्तहननिरूपितकर्मकत्वं कंसस्यास्तीति कृदन्तनिरूपितकर्मत्वमपि तस्यैवेति भावः । तथेति । धावस्यकाकादिकृदन्तार्थान्वयविवक्षम्यामित्यर्थ । अन्यदित्यादि । तस्य वृत्त्येकदेशेनान्वयो न भवतीत्यर्थः । .. * पितुरित्यादि । पितृसम्बन्धिसुखकाम इत्यर्थः। .. Page #242 -------------------------------------------------------------------------- ________________ काम इत्यादिप्रयोगः । न कारकपदप्रतियोगिपदयोर्भेदनिवेशनमफलमिति वाच्यम् । तन्निवेशस्य दृष्टान्तविधयोक्तत्वात् । यथा प्रतियोगिपदार्थस्य कुत्रापि अभेदान्वयो न भवति तथा वृत्त्येकदेशेनान्यपदार्थस्येत्यर्थे तात्पर्यादिति ध्येयम् । ___ अभेदविवक्षायां पण्डितं पुत्रीयति प्रवीरं पुत्रकाम्यतीत्यादिप्रयोगाभाववत् परपुत्रादिगोचरेच्छावति पुंसि पुत्रीयतीत्यादयो न प्रयोगाः । सुप आत्मन: क्यजित्यादिना इच्छाकर्तसम्बन्धि यदिच्छाकर्म तद्बोधकसुबन्तात् क्यचकाम्यचोविधानात् । संबन्धित्वं च सम्बन्धित्वेन भातत्वम् । अन्यथा यस्येच्छाकर्तुः पुत्रोऽप्रसिद्धस्तस्यापि स्त्रीयत्वेन पुत्रेच्छादशायां पूत्रीयुतीत्यादिप्रयोगस्य सर्वसिद्धस्यानुपपत्तेः। उक्तस्थले पुत्रौर्यतीत्यादिवाक्यस्य प्रामाण्यवारणाय च क्यजाद्यर्थेच्छायां पुत्रादेविषयित्वमात्रं न सम्बन्ध! किन्तु स्वांशे भासमान संबन्धस्य प्रतियोगितया यो विषयस्तीहशपुरुषवृत्तित्वसहितमभ्युपेयम् ।" संवन्धस्य क्यजाद्यवाच्यत्वेऽप्युक्तसम्बन्धेनैवेच्छायां सुबन्तार्थस्यान्वय इति व्युत्पत्तिप्रदर्शनायैव सूत्रे आत्मन इत्युपात्तम् । आत्मन इति षष्ठयर्थसम्बन्धश्च न धातोः कर्मण इत्यादि सूत्रानुवृत्तायामिच्छायामन्वेति, अज्यानलकत्वादुतार्थलाभाप्रयोजकत्वाच्च, अपि तु सुप इत्यर्थे' सुबन्तादित्यत्र स PATreal १ निवेशनमिति । तयोरभेदान्वयबोधौ वृत्त्येकदेशेनादर्शनादितिभावः । २ उक्तसम्बन्धेनैवेत्यादि। स्वनिष्ठकर्मतानिरूपकत्वस्वानयोगिकभासमानसम्बन्धप्रतियोगिवृत्तित्त्वोभयसम्बन्धेनैवेत्यर्थः । सुबन्तार्यस्य पुत्रादेरित्यर्थः । अन्वय इत्यस्येच्छायामिति शेषः ।। ३ इत्यर्थे इति । इत्यर्थभूते इत्यर्थः । ४स इति । सम्बन्ध इत्यर्थः । Page #243 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलकृतः चेच्छाकर्त्तः सम्बन्धितयेच्छाविषयोंकलम। म च इच्छाकर्मण: सुबन्तादिच्छाकर्तुरिच्छायामिति वृत्तावपीच्छाकर्तुः सुबन्तादित्येव योजना कार्या । यथाश्रुते दर्शितानुपपत्तेरिति ध्येयम् । - भृत्यं पुत्रीयतीत्यादावाचारार्थविहितक्यजन्तस्य सकर्मकत्वं युज्यत एव । तथा हि तमिवाचरतीत्यर्थे उपमानवाचिन: क्यच विहितः। तमिवाचरतीत्यस्य तत्तुल्यं जानातीत्यर्थः । आचारपदस्य व्यवहारमूलज्ञानपरत्वात् । तुल्पतयाज्ञानं च क्यजर्थः। तच्च सकर्मकमेव । तत्र तुल्यत्वे प्रतियोगितया पुत्रादेरन्वयः पुत्रादिपदमेव वा गोण्या पुत्रादितुल्यपरम् । ज्ञानमात्रं क्यजर्थस्तत्र च स्वाभेदावगाहि वसम्बन्धेन पुत्रादितुल्यस्यान्वयः। = चैवं पुत्रादिपदमुपमेयार्थकमेव न तूपमानार्थकमिति कथमुपमानादाचार इत्यनेन तदुत्तरं क्यचो विधानं सङ्गच्छत इति वाच्यम् । पुत्रादिपदस्य तुल्यार्थकोऽपि तुल्यत्वप्रतियोगितयोपमानपुत्राद्यर्थकत्वात्। अत एव तस्य कमवाचकच पत्रादितुल्यस्याचारकर्मत्वात् सम्यगुपपद्यते । पूर्वमते उपमानपदस्य कर्मवाचकत्वं प्राचारकर्मविशेषणतुल्यताप्रतियोगिबोधकत्वरूपं बोध्यम् । वस्तुतः पुत्रमिवाचरतीत्यस्य पुत्रं यथा व्यवहरति तथा व्यवहरतीत्येवार्थः । व्यवहारश्च प्रतिपाल्यत्वादिना ज्ञानं प्रतिपालनादिरूपोव्यापारो वा। एवं च पुत्रीयतीत्यस्य पुत्रकर्मकव्यवहारतुल्यव्यवहारकर्तेत्यर्थः। मुखचन्द्रादेर्यथा स्वजन्याह्लादस्य तुल्यतयोपमानोपमेयभावस्तथा पुत्रभृत्ययोरपि स्वकर्मकव्यवहारतुल्यतया स इति पुत्रपदस्योपमानवाचिता । आचारनिष्ठसादृश्यप्रतियोग्याचारकर्मवाचिता च आचारसदृशाचार एव क्यचोऽर्थः। प्रथमाचारे कर्मतासंबन्धेन पुत्रादेरन्वयः । अमाद्यन्तात् क्यच्प्रत्ययविधानेऽपि धात्ववयवतया लुप्तस्यामादेनियमेनानुपस्थितेः कर्मत्वस्य सम्बन्धतया भानमुपेयते । यथा राजपुरुप इत्यादिसमासरूपप्रातिपदिकावयवतया लुप्तषष्ठयादिप्रतिसंधाना परस्पास्मानपत्र एकपमान: Page #244 -------------------------------------------------------------------------- ________________ नियमाद्विभक्तयन्तार्थविशिष्टे पूर्वपदलक्षणोपेयते । द्वितीये श्राचारे भृत्यस्य कर्मतया क्यजन्तस्य सकर्मकत्वमिति कुत्रां प्रासादीयतीत्यादावाधाररूपोपमानवाचि सप्तम्यन्तोत्तरविहितक्यजन्तस्य न सकर्मकता। स्त्र चत्रासादाधिकरणकाचारतुल्याचार:क्यजन्तार्थः। स चावस्थानरूप एवेत्यकर्मक इति कुट्यास्तत्राधिकरणतया ततः सप्तम्येव । अक्स्थानयोः साम्यं चैकजातीयसुखजनकत्वादिना अविशेषज्ञानविषयत्वेन वा । हंस इवाचरति हंसायते हंसतीत्यादावुपमानवाचिकर्तृवाचकपड़ोत्तरविहितक्यङन्तकिवन्त धातुरप्यकर्मकस्तत्र हंसादिकतकाचारतुल्याचारस्य गमनादिरूप क्यङन्ताद्यर्थत्वेऽपि गम्यादिप्रतिपाद्यतावच्छेदकसंयोगादिरूप'फलानवच्छिन्नस्यैव तदर्थत्वोफममात् । शब्द ज्ञानादिरूपसविषयकव्यापारात्मकस्याचारस्य कचित्तदर्थत्वेऽपि विषयरूपकर्मावरुद्धस्यैव तस्य तदर्थत्वोपगमात् । कमविरुद्धस्य च कर्मान्वय निराकाङ्नत्वादित्यादिकं स्वामूल्यम् । कृत्यर्थकधातुयोगइष्टसाधनत्वादिज्ञान विशेष्यताप्रयोज्यसाध्यताख्यविषयताविशेष एव कर्मत्वं द्वितीयादेर र्थः, न तु विषयतामात्रम् । यत्रे घटं करोतीति प्रयुज्यते तुत्र कूपाल करोति जलाहरणं करोतीत्याद्यप्रयोगात् । अथ कॉशीन कट करोति काष्ठ भस्म करोतीत्यत्र काशकाष्ठादिपदोत्तरद्वितीयानुपपत्तिः। तत्र कृतिनिरूपि'तोक्तविषयताविरहादिति चेदुपादानीयविलक्षणविषयतापि द्वितीयार्थः । सा च द्वितीयान्तरोपस्थाप्यसाध्यीयविषयता विशिष्टायामेव कृतावन्वेति । अतः कटादिरूपकर्मान्तरासमभिव्याहारेण काशान करोतीत्यादयो न प्रयोगाः। अथैवमपि काष्ठं भस्म करोति दुग्धं 'स इव जानाति स इव पठतीत्यादौ । २ कर्मणो धात्वर्थेनोपसङ्ग्रहादकर्मकत्वमिति भावः । Page #245 -------------------------------------------------------------------------- ________________ May दधि करोतीत्यादौ काष्ठदुग्धादेः कर्मत्वानुपपत्तिः। तस्य भस्मदध्याधुपादानताविरहात्। काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमाणुभिर्भस्मदध्याद्यारम्भादुत्पत्त्याश्रयस्यैवोपादानत्वात् । विभिन्नकालीनयोश्वाधाराधेयभावविरहात् कारणस्यैवोपादानत्वमिति नियमाच्च । नच परिणामवादविद्वेषिणां नैयायिकानां काष्ठादेर्भस्मादिरूपद्रव्यान्तरकारणत्वमपि तु प्रतिबन्धकत्वमेव द्रव्यवतिद्रव्यान्तरानुत्पत्तेरिति चेन्न। कर्म हि त्रिविधं भवति–प्राप्यं प्रकृतिविकृती च । तत्र प्राप्यं कर्म क्रियाजन्यफलशालि गम्यादेामादि, ज्ञानादेविषयश्च क्रियानिष्पाद्यं यत्तद्विकृतिरूपम् । यथा पाकादेरोदनादि यथा वा कृतेर्माल्यादि कटादि च । प्रथमे तण्डुलादिरूपं पूर्वद्रव्यं विनाश्यौदनादेनिवर्तनम् । द्वितीये पुष्पादिरूपं पूर्वद्रव्यमविनाश्यैव संदर्भादिरूपविशेषणनिष्पादनेन विशिष्टस्य माल्यादेर्निर्वर्तनम् । तृतीये च काशादिरूपपूर्वधर्मिणमविनाश्य तत्रैव कटादिरूपधर्मिनिष्पादनं क्रियया। ईदृशं च तत्र कर्म प्रकृतेरसमभिव्याहारस्थलेऽपि निवर्त्यमुच्यते । तण्डुलानोदनं पचति, कुसुमानि नजं करोति, काशान् कटं करोतीत्यादौ प्रकृतिसमभिव्याहारस्थलेऽपि निर्वय॑ते निष्पाद्यते यदिति व्युत्पत्त्या, यद्यप्योदनादेरपि निर्वय॑तास्ति तथापि तव्यावृत्तमेव पारिभाषिकं निर्वय॑त्वम् । तदुक्तमभियुक्तै: "सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रिीयते तस्य निर्वय॑त्वं प्रचक्षत" इति । यस्य विकृतिकर्मणो नाश्रियते न प्रयुज्यत इत्यर्थः। एवं च तत्र तत्रौदनादेर्विकार्यकर्मण्येवान्तर्भावः । तदुर "क्रियाकृतविशेषाणां सिद्धिर्यत्र न दृश्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते । Page #246 -------------------------------------------------------------------------- ________________ २३८ मस लिदभला व्युत्पत्तिवादः [ कारके यदसज्जायते पूर्व जन्मना यत्प्रकाश्यते । तन्निर्वत्य विकार्य तु कर्म द्वेधा व्यवस्थितम् ॥ प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादिभस्मवत् । किंचिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवदिति” । . अत्र' प्रकृतिरपि ग्राह्या। अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः । विकार्यपदेनैकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेऽपि उभयसाधारणरूपावच्छिन्नपारिभाषिकमेव विकार्यपदम् । प्रकृतिरूपं कर्म च क्रिया वस्त्वन्तरनिष्पत्तये पूर्वभीवविशिष्टस्य यस्यासत्त्वरूपों विकारो निर्वाह्यते तद्यथा पाकादेस्तण्डुलादिकृतेश्च पुष्पकाशादि । तत्र प्रथमस्थले तण्डुलादिरूपधर्मिनाशादेव पूर्वभावविशिष्टं तदसत्त्वमोदनादिरूपकर्मान्तरनिष्पादकम् । इतरत्र धर्मिणः काशकुसुमादेः सत्त्वेऽपि कटसंदर्भादिविरहरूपपूर्वभावासत्त्वेन तद्विशिष्टस्यासत्त्वं कटसंदर्भादिनिष्पादकक्रियातो निर्वहति । एवं च तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मोत्तरद्वितीयाया नाशकत्वमर्थस्तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । विकृतिकर्मोत्तरद्वितीयायाश्च उत्पादकत्वमर्थः। ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेऽन्वयः। नाशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो भासते। अत: पाकस्य' तण्डुलाद्यारम्भकसंयोगनाशजनकत्वेऽपि तन्नाशस्य द्रव्यान्तरोत्पत्तौ द्रव्यनाशेनान्यथासिद्धतया प्रयोजकत्वबाधेन संयोगमोदनं पचतीति न प्रयोगः। १ अत्रेति । विकार्यकर्मणीत्यर्थः । पूर्वभावविशिष्टस्येति । तण्डुलत्वादिविशिष्टस्येत्यर्थः । ३ अतः पाकस्येत्यादि । ततश्च तण्डुलनाशप्रयोज्या या प्रोदनोत्पत्तिस्तत्प्रयोजक: पाक इति बोधः । Page #247 -------------------------------------------------------------------------- ________________ द्वितीया ] . जयाऽलङ्कृतः २३६ वस्तुतस्तु-निर्वय॑कर्मासमभिव्याहारस्थले संयोगं पचतीति प्रयोगवारणाय संयोगनाशद्वारा नाशकत्वमेव द्वितीयार्थो वक्तव्य इति कृतं प्रयोज्यप्रयोजकमावबोधेन । तण्डुलमोदनं करोति, काष्ठं भस्म करोति, दुग्धं दधि करोतीत्यादावपि प्रकृतिकर्मोत्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते विकृतिकर्मोत्तरद्वितीयया च विषयताविशेष उत्पादकत्वं वा मिलितं वा कृतौ बोध्यते। काशान् कटं करोति कुसुमानि मौक्तिकानि वा स्रजं करोतीत्यादौ काशादिपदोत्तरद्वितीयांकृतौ विषयता विशेषमेव बोधयति। काशाद्युच्छेदकतायास्तत्र वाधात् । कटमित्यादौ द्वितीयार्थः पूर्ववत् । स्रगादिपदार्थविन्यासविशेषविशिष्टकुसुमादेर्न कुसुमाग्रुपादानककृतिविषयता अपि तु विन्यासादिरूपविशेषणस्यैव तस्यैव कृत्यधीनोत्पत्तिरिति सजमित्यादिद्वितीयान्तस्य विशिष्टसत्त्वनिर्वाहकत्वमर्थः। विशेषणोत्पादकस्यापि खरूपसंवन्धविशेषरूपं विशिष्ट सत्त्वनिर्वाहकत्वमक्षतमेव । अग्निः श्यामं रक्तं करोतीत्यादावचेतनकर्तकव्यापारबोधकतया तत्समभिव्याहृतश्यामादिपदोत्तरद्वितीयाया अपि नोपादानताख्यविलक्षणविषयतार्थकत्वसम्भवः अपि तु तादृशद्वितीयान्तेन श्यामरूपादिविशिष्टासत्त्वनिर्वाहकतारूपं विशिष्टोच्छेदकत्वं तादृशव्यापारे प्रत्याय्यते । घटं रक्तं करोतीत्यादावपि घटादिपदस्यारक्तत्वविशिष्टघटादिलाक्षणिकतया विशिष्टघटाद्यसत्त्वनिर्वाहकत्वं प्रतीयते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यते। अतः काष्ठानि भस्मराशिः क्रियन्ते इत्यादावाख्यातार्थ निर्वय॑कर्मेति । तण्डुलम्पचतीत्यादौ प्रयोज्यस्याभावेन नाशप्रयोज्यत्वस्यापि तादृशस्थले भानासम्भवेन तद्वत्संयोगं पचतीत्याद्यापत्तिरिति भावः। २ विषयतेति । उपादानताख्येति यावत् । Page #248 -------------------------------------------------------------------------- ________________ २४० व्युत्पत्तिवादः . [ कारके विशेष्यकाष्ठादिवाचकपदसमानवचनत्वमाख्यातस्य, न तुनिवर्त्यभस्मादिरूपविकारवाचकपदसमानवचनता । ____ अथैवं निवर्त्यकर्मवाचकपदात्प्रथमा न स्यादपि तु द्वितीयैव । तत्कर्मताया लकारेणानभिधानात् । यत्तु उभयकर्मत्वमेव लकारेणाभिधीयते, प्रधानाप्रधानकर्मसमभिव्याहृतनीवहादिदुहादिरूपद्विकर्मकोत्तरकर्मप्रत्ययस्यैव कर्मद्वयानभिधायकत्वनियमात्, प्रकृते च कर्मद्वयस्यैव तुल्यत्वात् , विकृतेराख्यातार्थविशेष्यत्वेऽपि आख्यातस्य तत्समानवचनत्वनियमः, “गृह्णाति वाचकः संख्यां प्रकृतेविकृतेन ही” त्यनुशासनसिद्धप्रकृतिविकृतिसमभिव्याहृतलकारीयविकारसंख्याबोधकत्वाभावव्युत्पत्तिनिर्वाह्य इत्युक्तस्थले न क्रियापदस्यैकवचनान्तता, तदर्थान्वितसङ्ख्याबोधकस्यैवाख्यातस्य तत्पदसमानवचनत्वनियमात्, न तु तद्विशेषणक स्वार्थकर्मत्वादिबोधजनकाख्यातमात्रस्येति–तदसत् । विकारविकारिणोर्द्वयोराख्यातार्थविशेष्यत्वे वाक्यभेदापत्तेः । घटपटौ स्तः, घटपटौ दृश्येत इत्यादौ विशेष्यभेदेऽपि विशेष्यतावच्छेदकद्वित्वादेरेकधा भानान वाक्यभेदः । अत्र च न तादृशविशेष्यतावच्छेदकभानमस्ति येन तत्रैवात्राप्येकवाक्यतानिर्वाहः। न चागत्येष्यत एवात्र वाक्यभेद इति वाच्यम् । तथा सत्येकवाक्यार्थपरस्य काष्ठं क्रियते भस्म क्रियते इत्येतादृशप्रयोगस्यापत्तेः । काष्ठं भस्म क्रियत इति वाक्यजबोधस्य काष्ठविकृतिर्भस्मान्यविकृतिर्वेति संशयनिवर्तकत्वानुपपत्तेश्च । काष्ठभस्मनोः प्रकृतिविकारभावाभानात् । अस्मन्मते च काष्ठोच्छेदकत्वरूपकाष्ठकर्मकत्वभस्मनिवर्त्त 'वाचकरिति । आख्यातरिति । २ तद्विशेष्यक' इति पाठो हस्तलिखितपुस्तके । Page #249 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २४१ कत्वरूपतत्कर्मकत्वयोरेकविशिष्टेऽपरान्वये एव पूर्वोपदर्शितरीत्या काष्ठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठप्रकृतिकत्वस्य भस्मनि लाभसम्भवादिति चेत्-सत्यम्। भस्म क्रियत इत्यादौ भस्मादिनिवर्त्यकर्मताया लकारेणानभिधानेऽपि तत्कर्मताया धात्वर्थे संसर्गतया भानोपगमेन तादृशकर्मोत्तरं प्रथमायाः साधुता। प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तेः साधुत्वात् । यथाऽर्यो नम इत्यादौ नमः पदार्थत्यागेऽादिकर्मत्वबोधेऽपि अादिपदात्प्रथमैव । निपातार्थे त्यागे कर्मतासम्बन्धेनैव नामार्थस्यान्वयात् । ___एवं भूतले न घट इत्यादावपि सम्बन्धस्याभावे संसर्गतया भानात् पष्ठीविषयेऽपि प्रथमा । न च धात्वर्थे नामार्थस्य साक्षादन्वयोऽव्युत्पन्न इति प्रकृतेः कर्मतायाः संसर्गतया भानं न सम्भवतीति वाच्यम् । वटो नीलो भवति, काष्ठं भस्म भवतीत्यादौ भवनादिक्रियायां नीलादेः कर्तृतासम्बन्धेन साक्षादन्वयवदत्रापि व्युत्पत्तिवैचित्र्येण कर्मत्वान्तरविशेषणतापन्नक्रियायामपरकर्मण: कर्मतासम्बन्धेन साक्षादन्वयोपगमात् । न चैवमपि कर्मत्वस्य प्रकृत्यर्थविशेष्यत्वेन विवक्षया काष्ठं भस्मराशिं क्रियत इत्यादिप्रयोगापत्तिः। कर्मत्वान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं बोध्यत इतिव्युत्पत्तिकल्पने गौर्दुह्यते क्षीरमजा नीयते ग्राममित्यादौ दोहन, नयनादिक्रियायां क्षीरग्रामादिकर्मकत्वानन्वयप्रसङ्ग इति वाच्यम् । प्रकृतिविकृत्युभयकर्मकस्थले तथा व्युत्पत्तेः। यथोक्तातिप्रसङ्गवारणाय दर्शिता व्युत्पत्तिः कल्प्यते तथा कर्तत्वविशेषणतयाऽभासमानायां क्रियायां तृतीयार्थकर्तृत्वान्वय इत्यपि व्युत्पत्तिः कल्प्या। अन्यथा प्रकृत्यर्थविशेष्यतया कर्तृत्वविवक्षया काष्ठं भस्मना भवतीति प्रयोगस्य दुर्वारत्वात् । उत्पत्तिप्रयोजकनाशप्रतियोगित्वरूपविकार एव काष्ठं भस्म भवतीत्यादौ धात्वर्थः। आधेयत्वरूपं तत्कर्तृकत्वमेव सम्बन्धमर्यादया भासते। काष्ठेन भस्मना भूयत Page #250 -------------------------------------------------------------------------- ________________ .4M - 41 Minal सगरी इत्यादौ भस्माद्याधेयत्वमुत्पत्तौ काष्ठांद्याधेयत्वं च नाशप्रतियोगित्वे तृतीयोपस्थाप्यं प्रकारतया भासते । कतत्वविशेषणता भासमानस्य निरुक्तभवनस्यान्तर्गतायामेवोत्पत्तौ भस्मादेराधेयत्वं सम्बन्धतया भासत इति व्युत्पत्तेः, काष्ठेन भस्म भूयते इत्यादया न प्रयोगाः। भावाख्यातस्य कर्तत्वाबोधकत्वात्। कर्मत्वान्तरविपणतानापनकृत्यादौ कर्मत्वस्य संसर्गतया भानमव्युत्पन्नमिति कष्ठं भस्मराशिः करोतीत्यादयो न प्रयोगाः ।"ngraorat. । अधिशीस्थासां कर्मत्यादिना यत्राधारस्य कमसुना तबाधारत्वमाधेयत्वं वा द्वितीयार्थः । स्थलीमधिशेत इलादी तादशार्थ द्वितीयायाः स्थल्या अधिशयितेत्यादौ कृत्प्रयोगे पष्टय श्च साधुत्वार्थमेवाधारस्य कर्मसंज्ञाविधानात् । अथ कुञर्थव्यापाररूपक्रियान्तर धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारर्थकसोपसर्गशीप्रभृतिधात्वर्थतावच्छेदकशयनादिरूपकफलाश्रय तयाऽऽधारस्य कर्मत्वोपपादनसम्भवात् तादृशसूत्राणां वैयर्थ्यमेव । अध्याद्युपसृष्टशीप्रभृतीनामेव च तादृशथि निरूढलक्षणी, न त्वन् पसृष्टानामती 'न स्थली शेत' इत्यादयः स्वारसिकप्रयोगा इति चेन धातोर्मुख्याथपरत्वेऽपि दर्शितप्रयोगनिहाय भगवता पाणिनिमानिना तादृशसूत्रप्रणयनात् । तदप्रणीतवतां सर्ववर्मप्रभृतीनां मुख्यार्थपराणां स्थल्यामधिशेत इत्यादिप्रयोगाणां साधुताया दुर्वारत्वाच्च । कालाध्वदेशानामकर्मकक्रियायोगे कैश्चित्कुर्मप्रत्ययार्थं विभाषया कर्मत्वमनुशिष्यते । २ अन्ये तु क्रियान्तरान्तभावणोक्तरीत्या तत्र पाचिकं कमणत्य- . यमुपपादयन्तस्तन्नानुशासति । उक्तञ्चतत् १ क्रियान्तरेति । व्याप्त्यनकलमध्ययनंधात्वर्थ इति भाव । Page #251 -------------------------------------------------------------------------- ________________ "कालभाव ध्वदेशानामन्तर्भूतक्रियान्तरैः। • सर्वैरकर्मकै योगे कर्मत्वमुपजायते” इति । :: तन्मते च मासमधीते मासमास्ते योजनं धावतीत्यादाभिव्याप्त्यर्थे कालाधवनारत्यन्तसंयोग इत्यनेन द्वितीयाविधानं याप्यनर्थक धात्वर्थेऽध्ययनन्थिल्यादिविशेषणतयाऽभिव्यापनार्थकक्रियाया अन्तर्भावेण तत्कतया तत्र द्वितीयोपपत्तेः । तादृशधात्वर्थे व्याप्त्यनन्तर्भावे मासमा त इत्यादौ द्वितीयया तबोधनेऽपि प्रास्यते मास इत्यादौ मासानी स्थित्यादिव्याप्यत्वलाभानिर्वाहात् तथाऽपि मासं रमणीया क्रोशं कुटिला नदील्यादौ भवतीत्यस्यानध्याहारेऽपि द्वितीयायाः साधुतानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति । तत्र हि रमणीयत्वाशिव्याप्यत्वं मासादौ प्रतीयते । न च तत्र क्रियासमभिव्याहारोऽस्ति यत्राभिव्याप्तिरन्तर्भविष्यति तत्कर्मतया द्वितीया च स्यात् । एवं मासमासिनेत्यादावभिव्याप्तयन्तर्भावेण मासस्य कमलो पादनेऽपि कृद्योगात् पष्ठयव स्याद् न द्वितीयेत्यताऽपि लत्सूत्रं सार्थकम् । विनि । अथ केअाम भव्याप्तिर्याऽत्यन्तसंयोग उच्यते। न तावदव्याप्यवृत्तिः कालिक संवन्धः। कालिकसम्बन्धस्य व्याप्यवृत्तित्वं व्याप्यकालानवच्छिन्न दिवसादिमात्रवृत्तिर्मासादिनिष्ठसम्बन्धो दिवसावच्छिन्न इनि तत्र मासमास्त इति न प्रयोगः । मासपदार्थश्चात्र त्रिंशदिनमात्रस्थायी कश्चिदखण्ड: पदार्थः, न तु क्रियापचयस्तथा सति दिनैकादिमात्रस्थायिनोऽपि सम्बन्धस्य कासु चित् क्रियासु व्यायवृत्तितया नत्र तथा व्यवहारापत्तेरिति युक्तम् । चैत्रो मासं काश्यां तिष्टतील गदी काशीसंयोगस्य मासव्यापकस्यैकस्याभावेऽप्रामाण्यप्रसङ्गात्। संयोगव्यक्तीनां मासनिष्टकालिकसम्बन्धस्याबान्तरदिनाद्यात्म कालावच्छिन्नत्वात् । न च संयोगानां भेदेऽपि चैत्रीयसंयोगात्वा पवच्छिन्ननिरूपितकालिकसंबन्धावच्छिन्नाधारता 4971 Page #252 -------------------------------------------------------------------------- ________________ . . - 7 " मासव्यापिकैकैव। सा च नावान्तरकालावच्छिन्नेति तत्र तेदनवच्छिन्नत्वबोधकमुक्तवाक्यं भवेदेव प्रमाणमिति वाच्यम । सामान्यघटितविशेषीवच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्नक्ताप्रत्ययोपपत्तेः+शुद्धसामान्यधर्मावच्छिन्ननिरूपित धिकरणतायामतिरिक्तायां मानाभावात् । यत्रे त्रिंशदिनेषु कमपि कालमधीलं तत्र मासेऽध्ययनसम्बन्धस्याव्याप्यवृत्तितया मासमधीत इति प्रयोगानुपपत्तिरपि न शक्यते वारयितुम् । __उच्यते । अभिव्याप्तिर्यावदवयवसम्बन्धः। यत्समुदायो मासा. दिपदार्थस्त एव तदवयवाः । एवं च त्रिंशदिनानां मासपदार्थतया त्रिंशदिनेषु किञ्चित् किञ्चित् कालावच्छेदेनाध्ययनसम्बन्धेऽपि मासमधीत इति प्रयोगोपपत्तिः। त्रिंशदिनसम्बन्धश्च दिनपर्याप्तत्रिशवव्यापकत्वम् । तादृशत्रिंशत्वादेश्च मासादिपदप्रवृत्तिनिमित्तस्य मासादिपदादेव लाभाद्वथापकत्वमानं द्वितीयार्थः । व्यापक-च व्याप्यविशेषाघटितमखण्डं दुर्वचमिति खण्डशोऽभावप्रतियोगितावच्छेदकत्वमभावश्च द्वितीयार्थः। प्रथमाभावे प्रकृत्यों मासा'दिराधेयतासम्बन्धेनान्वेति । मासादिनिष्ठाभावप्रतियोगितावच्छेदकत्वत्वावच्छिन्नस्य च प्रतियोगितयाऽभावान्तरेऽन्वयः । तस्य चान्वयितावच्छेदकचैत्रकर्तृकाध्ययनत्वादिरूपस्वाश्रयघटितपरम्परासम्बबन्धेनाध्ययनादावन्वयः। प्रथाभावे च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम् । तेन त्रिंशदिनेष्वेव च यत्राधीतं तत्र देनावान्तरदण्डादावध्ययनाभावेऽप्युक्तप्रयोगोपपत्तिः। मासपदं च त्रिंशदिनपरमेव न तु तावत्कालस्थाय्यखण्डवस्त्वन्तरपरम् । एकदिनाध्या - यनस्थलेऽपि तादृशाखण्डकाले प्रतियोगिव्यधिकरणाध्ययनाभावासत्त्वेन मासमधीत इति प्रयोगापत्ते: । मासघटकं च दितं सूर्योदयावधि सूर्योदयान्तरपर्यन्तावस्थाय्यखण्डवस्तुरूपं न तु क्रियादिप्रचयः। तथा सत्येकैकक्रियादिव्यक्तेरपि मासत्वादिकरणतया तत्र Page #253 -------------------------------------------------------------------------- ________________ प्रतियोगिव्यधिकर णाध्ययनाभावसत्त्वेन व्यापकत्वरूपद्वितीयार्थस्य बाधापत्तेः । दिवस स्वपितीत्यादौ च दिवसादिपदं सूर्योदयावधिसूर्योदयान्तरपर्यन्त क्षणकूटपरमेव । अतो नैकदण्डादिमात्रस्वप्ने तथा प्रयोगः । अथ व्यापकत्वस्य द्वितीयार्थत्व एकमासादिव्यापकाध्ययनस्थलेऽपि मासान्तरेऽध्ययनाभावसत्त्वेन मासत्वादिव्यापकताया अध्ययने वाधेन मासमधीत इत्यादिप्रयोगानुपपत्तिः । न च मासपदेन यत्किञ्चित् त्रिंशद्दिनमात्रवृत्तिविशेषधर्मप्रकारेणानुपस्थापनेऽपि तद्धर्मवत्स्वनिरूपिताधेयत्वसम्बन्धेन मासपदार्थ - स्याभावेऽवयोगमात् यत्किञ्चिन्मासनिष्ठाभावप्रतियोगितानवच्छेदकत्वमन्वयितावच्छेदके लभ्यत इति न काप्यनुपपत्तिरिति वाच्यम् । तत्तन्मासमात्रवृत्तिधर्मविशेषाणां सम्बन्धघटकत्वेऽपि शाब्दबोधे संसर्ग तात्पर्यज्ञानस्य हेतुतया संसर्गविशेषोपस्थितेरपेचितत्वात् । सम्बन्धघटकतादृशधर्मान् विशिष्याविदुषः शाब्दबोधानुदयप्रसङ्गात् । न चेष्टापत्तिरनुभवविरोधात् । अनागतादिमासवृत्तितादृशधर्माणां विशिष्यज्ञानसामग्रथा सर्वज्ञस्य दुर्लभतयाऽस्मदादीनां सर्वेषामेव तादृशमासत्वव्यापकताबोधोच्छेदग्रसङ्गात् । न च तादृशवाक्यार्थतात्पर्यमेव संसर्ग तात्पर्यमुक्तज्ञाने बाक्यार्थघटकः सम्बन्ध: संसर्गमर्यादयैव भासत इति विशेषरूपेणानुपस्थितस्यैवोक्तवर्मघटितसम्बन्धस्य तात्पर्यज्ञाने बाधाभावबलाच्छाब्दबोधे च तात्पर्यज्ञानबलाद्धानमनपवादमेवेति वाच्यम् । एकपदार्थविशिष्टापरपदार्थरूपवाक्यार्थविशेषिततत्प्रतीतीच्छारूपतात्पप्रावाक्यार्थानिश्चये दुर्घटतया तस्य र्यविषयकनिश्चरस्य 'श्रनागतेति । मासमध्येष्यत इत्यादिप्रयोगाणामुच्छेदप्रसंग इत्यु पपादयति । Page #254 -------------------------------------------------------------------------- ________________ २४६ व्युत्पत्तिवादः [ कारके शाब्दधीहेतुत्वे च योग्यतासंशयाच्छाब्दबोधानुपपत्तेर्विशकलिततत्पदार्थतत्तत्संसर्गविषयकत्वविशेषितप्रतीतीच्छाज्ञानस्यैव शाब्दधीहेतुताया उपेयत्वात् । तत्र च तादृशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वादिति चेत् । सत्यम्। मासादिघटकतावदिनादिनिष्ठत्रिंशत्वादिरूपमासत्वादिर्मासादिभेदेन नानैव । मासादिपदप्रवृत्तिनिमित्तपरमनुगतरूपेण । अन्यथा शक्त्यानन्त्यप्रसङ्गात् सर्वोपसंहारेण व्युत्पत्ति विना प्रागप्रतीतमासादेः शाब्दानुभवानिर्वाहाच्च । न च त्रिंशत्वादिकं बुद्धिविशेषविषयत्वरूपं वाच्यम्। दिनादेव्यानात्मकत्वेन तत्र गुणरूपसङ्गयाया असम्भवात्। द्रव्यात्मकत्वेऽपि क्रमिकेषु तेषु सङ्घयोत्पत्तेरसम्भवात्। तत्र बुद्धेरनतिप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् । जातिरूपस्य तस्य सङ्करप्रसङ्गानिरस्तत्वात् । तत्तदिवसविषयकत्वरूपस्य तत्तदिनाद्यननुगमेनाननुगतत्वादिति वाच्यम् । तावत्कालस्थायिनो द्रव्यस्यापि दिनादिरूपत्वसम्भवात्। मीमांसकानुयायिभिर गत्या सङ्ख्यायाः पदार्थान्तरत्वोपगमाच्च । सङ्खयादिरूपनानादिनादिनिष्ठानुगतत्रिंशत्वादेः सुवचत्वात् । एवं च मासमधीते चैत्र इत्यादावधिकरणतैव द्वितीयार्थः । मासादिपदार्थतावच्छेदकदिनपर्याप्तत्रिंशत्वादेर्धर्मिविशेषणतापन्नस्य द्वितीयार्थाधिकरणतायां चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नं स्वरूपसम्बन्धरूपमवच्छेद्यत्वं संसर्गतया भासत इत्युपगमेन सामञ्जस्यात् । यत्कि अनुगतरूपेणेति । बुद्धिविशेषविषयत्वोपलक्षिततत्तत्तिशत्वावच्छिन्नशक्तिरिति भावः। मीमांसकानुयायिभिरिति । स्वमते तु त्रिंशत्वरूपसंख्यात्वव्याप्यधर्मावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकीभूतविषयिताशालित्वरूपानुगतानतिप्रसक्तधर्मेण तादृशबुद्धिविशेषस्यानुगमसम्भवान्नानुपपत्तिरिति भावः । Page #255 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २४७ ञ्चिदेकमासं व्याप्य यत्राधीतं तत्राध्ययनाधारतानामवच्छेद्यतावच्छेदकाधारतावृत्त्यन्यतमत्वविशेषादिरूपोक्तधर्मावच्छिन्नानतिप्रसक्तत्वेन तवृत्तित्रिंशत्वेनावच्छेदात् न्यूनकालाध्ययनस्थले च अतिप्रसक्ततया तादृशस्य मासत्वस्योक्तरूपावच्छिन्नाधारतानवच्छेदकत्वाच्चानतिप्रसङ्गातिप्रसङ्गयोरनवकाशात् । मासादिपदप्रवृत्तिनिमित्तधर्मे चैत्राध्ययनाधारताया व्याप्यत्वस्य शब्दादलाभेऽप्यर्थतस्तल्लाभादिति । द्वितीयाया अत्यन्तसंयोगार्थपरत्वमिति नानुशासनविरोधः। न च भूतले घट: भूतलं घटवदित्यादिप्रत्ययबलादतिप्रसक्तोऽपि धर्म आधेयत्वाधारत्वयोरवच्छेदक इति वाच्यम्। तादृशप्रत्ययेऽवच्छेदकत्वभानानुपगमात् । आधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वे साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकव्याप्तिशरीरे मिश्रादीदां स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशस्य व्यभिचारिण्यतिव्याप्ता न ह्यतिप्रसक्तमवच्छेदकमिति तत्स्थलीयचिन्तामणिफकिकाविरोधेन चासम्भवदुक्तिकतापत्तेः। आधारताया अतिप्रसक्तधर्मावच्छेद्यत्वे यद्धत्वधिकरणत्वं साध्याधिकरणतावच्छेदकमिति तल्लक्षणव्याख्यापक्षे स्वरूपसम्बन्धरूपावच्छेदकत्वप्रवेशं व्यभिचारिण्यतिव्यातथाऽदूषयित्वा विरुद्ध दिक्कालावच्छिन्नवृत्तिकस्येत्यादिदूषणान्तरेण तत्परित्यज्य दीधितिकृतामनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षाया असङ्गत्यापत्तेः। अस्तु वाऽव्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्यापि दर्शितप्रतीतिबलादाधाराधेयभावावच्छेदकत्वम्। व्यासज्यवृत्तेस्त्वतिप्रसक्तस्य तदवच्छेदकत्वमप्रसक्तम्। क्षितिजलोभयं गन्धवत् स्नेहगन्धोभयं क्षितावित्याद्यप्रतीते । अथ वा द्वितीयाद्यर्थेऽध्ययनाधारत्वे तत्तन्मासादिरूपप्रकृत्यर्थविशेषणतापन्नतत्तन्मासादिव्यक्तीनां व्यापकतासम्बन्धेन पारतन्त्र्येण विशेषणत्वमुपेयते । तादृशं च व्यापकत्वं स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसम्बन्धेन Page #256 -------------------------------------------------------------------------- ________________ २४८ व्युत्पत्तिवादः [ कारके स्वावच्छिन्नस्य यो भेदस्तदाश्रयधर्मवत्त्वं, तादृशधर्मश्च चैत्रोऽधीत इत्यादौ चैत्रीयाध्ययनाद्यधारतात्वं विशेष्यैव सम्बन्धेऽन्तर्भावनीयम् । मासान्तरनिष्ठतादृशाभावप्रतियोगितावच्छेदकत्वस्य तादृशधर्मे सत्त्वेऽपि तत्तन्मासत्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकतादृशधर्मे उक्तसम्बन्धेन तत्तन्मासत्वाद्यवच्छिन्नस्य यो भेदस्तदाश्रयत्वमक्षतमेवेति यत्किञ्चिदेकमासादिमात्रव्यापकाध्ययनादिस्थलेऽपि तादृशप्रयोगनिर्वाहः । प्रतिमासमधीत इत्यादौ प्रत्यादिशब्दानां मासादिपदोपस्थाप्यानुगतरूपावच्छिन्नमासत्वादिमनिष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभावघटितव्यापकताबोध. कतया यत्किञ्चिदेकमासव्यापकाध्ययनादिस्थले न तादृशः प्रयोगः । अथात्यन्तसंयोगार्थकद्वितीयाया एकादिपदं विनापि यत्किञ्चिदेकमासादिव्यापकताबोधकत्व उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीत्यत्र एकपदवैययमिति चेत्-न।मासाधिककालव्यापकत्वेऽपि मासव्यापकतयाधिककालव्यापकस्य होमस्य शास्त्रार्थतावारणायैकपदोपादानात् । तथा सति तस्य केवलार्थकतया मासमात्रव्यापकतालाभात्ताशप्रयोजनोपपत्तेः। अत एव च यावज्जीवमग्निहोत्रं जुहोतीतिश्रुतिबोधिताग्निहोत्रानुवादेन सतिलब्रीहिचरुरूपद्रव्यस्य मासैकरूपकालस्य विधाने वाक्यभेदः स्यादिति तादृशद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्यैव विधायिका तादृशी श्रुतिरिति सिद्धान्ते यावज्जीवकालान्तर्गतमासरूपकालांशेऽप्यनुवादकतासम्भवात्प्राप्ताग्निहोत्रानुवादेन द्रव्यस्यैवविधानमुचितमिति पूर्वपक्षो निरस्तः। यावज्जीवमित्यादिश्रुत्या यावज्जीवव्यापकत्वे बोधितेऽर्थतो मासैकव्यापकतालाभेऽपि उपसच्चरुकरणकत्वविशिष्टहोमे तन्मात्रव्यापकताया अलाभेन लस्यापि विधेयतया वाक्यभेदस्य प्राप्ताग्निहोत्रानुवादेन द्रव्यविधिपक्षे दुर्वारत्वात् । अथ तादृशश्रुतेद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रप्रति Page #257 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः २४६ पाद्यस्य कर्मान्तरस्य विधायकत्वेऽपि न कथं वाक्यभेदः। विधेयभेदस्य तावताप्यपरिहारात् । प्रत्युत धर्मिणोऽप्यधिकस्य विधानात् । एवं च'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः ।' इत्यपि नियुक्तिकमिति चेन्न । यत्र विधेयांशे युगपदनेकधर्माणां विशेषणतया भानं तत्र विधेयविशेषणभेदेऽपि विशिष्टनिष्ठविधेयत्वाभेदेन वाक्यभेदविरहात्। अन्यथा भूतलं नीलघटवदित्यादावपि नीलवद्घटवदित्यादाविव वाक्यभेदप्रसङ्गात् । अनुवाद्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः । यद्यपि तत्रोपसच्चरकरणकहोमाधिकरणतात्वेन वाधिकारिविशेषकृततादृशहोमाधिकरणतात्वेन वा मासैकव्यापकता मासन्यूनकालहोतृकृतहोमाधिकरणतायामप्यन्यान्यदिने पुरुषान्तरकर्तृकहोमाधिकरणतासत्त्वेनाक्षतैव तत्तत्पुरुषकर्तृकतादृशहोमाधिकरणतात्वेन व्यापकतायाः श्रुतितात्पर्यविषयत्वे च विधेयानन्त्यं तथापि विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयावृत्तितादृशचरुहोमाधिकरणतामात्रवृत्तिधर्मत्वेनानुगतीकृत्य तत्तत्पुरुषकर्तकतादृशचरुहोमाधिकरणतात्वावच्छिन्नव्यापकतानां संसर्गविधया विवक्षितत्वान्न दोषः । तादृशाधिकरणताद्वयावृत्तित्वं च स्ववृत्तित्वस्वनिरूपकहोमकर्तृनिष्ठभेदप्रतियोगिकर्तृकहोमाधिकरणतावृत्तित्वोभयसम्बन्धेनाधिकरणताविशिष्टान्यत्वरूपमनुगतं बोध्यम् । मासमधीत इत्यादावपि चैत्रादिककाध्ययनाधिकरणतात्वरूपव्यापकतावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः। अतो मासमधीयानो दृष्ट इत्यादौ विशिष्य चैत्रत्वाद्यनुपस्थितावपि नान्वयबाधानुपपत्तिः । अन्यत्स्वयमूहनीयम् । ___ दण्ड विना न घट उत्पद्यते, रासभं विनाऽपि घट उत्पद्यत Page #258 -------------------------------------------------------------------------- ________________ इत्यादौ विनंपिदार्थाऽभाववान तत्पसमभिव्याहृतद्वितीयाया अभा' वान्वयिप्रतियोगित्वमनुयोगित्वं वार्थः। अभाववतश्चोत्पत्तावाधारत्वेनान्वयः। तथा च दण्डाभावववृत्त्युत्पत्तिकत्वाभाववान् घटो रासभाभावववृत्त्युत्पत्तिको घट इत्याकारको बोधः। यद्यपि निपातार्थे नामार्थस्य साक्षादपि भेदेनान्वयः तथापि सम्भवति सार्थकत्वे 'विभक्तनिरर्थकत्वमनुचितमिति द्वितीयायाः सार्थकत्वमुफेयते। भूतले न घटश्चन्द्र इव मुखमित्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथमैव न साधुः स्यात् । प्रातिपदिकार्थान्वयिनोऽन्यपदनाभिधानस्थल एव प्रातिपदिकार्थेत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगित्वादिः सम्बन्धविधयैव भासत इत्युज्यते। दूण्डं विना न घटोत्पुत्तिरित्यादौ च विनान्ताथें घटोत्पत्त्यधिभावान्वयऽनुयोगिविशेषण दण्डाद्यभावस्य च तदनुयोगितावच्छेदकत्वं भासते।'द्रव्ये न गन्ध 'इत्यप्रयोगात् उपलक्षणीभूतधर्मावच्छिन्ने न नञर्थाभावान्वय इतिव्युत्पत्तेरिति रासभं विना न घटोत्पत्तिरिति न प्रयोगः। अतिप्रसक्ततया रासभाभावस्य घटोत्पत्त्याद्यभावानुयोगितावच्छेदकताविरहात् । अथ वा अभाव एव विनार्थः । दण्डं विना न घट इत्यादौ च विनान्तार्थस्याभावस्य नार्थे घटादयभावे प्रयोज्यतासम्बन्धेनैवान्वयः । अत एवं रासूभ विना न घट इत्यादयो न प्रयोगाः । अत एवं दण्डधिभावति घटादेवृत्तावपि जायते' इत्यस्याध्याहारम् विनैव दण्डं विना न घट' इत्यादौ च विनार्थस्याभावस्य सामानाधिकरण्यसम्बन्धेन घटादावन्वयः। दीधितिकृताप्यविनाभावो व्याप्तिरित्यत्र साध्यं विना साध्याभाववति योऽभाव इति यद्व्याख्यातं PIC.. ' इत्यत्र ‘इति प्रयोगोपपत्तिः । रासँभम्विना घट इ यादौ च विनापदर्थस्याभावस्य सामानाधिकरण्यसम्बन्धेनैव घटादावन्व:' इति हस्तलिखितपुस्तकपाठः। Page #259 -------------------------------------------------------------------------- ________________ 24 तत्र सप्तम्यन्तेन मतुपा संसर्गविधया भासमानं तदधिकरणनिष्ठत्वमेवोपात्तं न तु विनार्थत्वेनाधिकरणम्। अभावाधिकरणपर्यन्तस्यू विनापदार्थत्वेऽपि सप्तम्याधेयत्वरूपापदार्थविवरणरूपताया विश्यकत्वात्। न च विनापदोत्तरलुप्तसप्तम्यर्थ एवाभाववतीति सप्तम्या विवृत इति वाच्यम्। निपातोत्तरविभक्तनिरर्थकत्वात् । अत एव सर्वत्र निपातोत्तरं साधुत्वार्थं प्रथमैवेति शाब्दिकाः। पृथिव्यामेव गन्ध इत्यादावेवकारप्रकृतिकसप्तम्या यदाधेयत्वबोधकत्वमङ्गीकृतं दीधितिकृद्धिस्तत्रापि तेषां न निर्भूरः। --मान न प्रतियोगितया पृथिव्यन्यवृत्तित्वभानानुराधनव मलमपगार. कारस्यान्यवृत्तित्वार्थकत्वं गौरवादुपेक्ष्य तत्राधेयत्ववाचकत्वेन क्लूतायाः सप्तम्या कल्पनम् । प्रकृते चाधेयत्वस्य संसर्गतयैवोपपत्तौ विनापदसाकाङ्क्षाधेयत्वार्थकसप्तमीकल्पनं दुष्कल्पनमेव स्विकारस्थले चाभावरूप एवार्थेऽन्यरूपतदर्थान्तरस्याधेयतासम्बन्ध इति न सम्भवति। आधेयतादेस्तद्वत्येव सम्बन्धत्वात् न तु तदभावे । कच तत्राधेयत्वाभावो न प्रतीयते अपि तु तत्सम्बन्धावच्छिन्नप्रतियोगिताकपृथिव्याद्यन्याभाव इत्युपेयम् । तादृशप्रतियोगिताकत्वमेवाभावेऽन्यस्य सम्बन्धोऽस्त्विति वाच्यम् । आधेयतासम्बन्धस्य प्रतियोगिन आधारस्यानुयोगिन्याधेये वृत्त्यनियामकत्वेनाभावप्रतियोगितानवच्छेदकत्वात् । चैत्रः पचतीत्यादौ कृत्यादिसम्बन्धस्यापदार्थ-( त्वेऽपि पाककृतिमानित्यादौ मतुवादिपदेन विवरणात् उक्तस्थले । सामानाधिकरण्यस्य पदेन विवरणमपि न बिरोधमासादयति । विवरणीयार्थस्याप्यन्यलभ्यत्वेऽपदार्थतोपपत्तेरित्यलमसदावेशेन । विना वातं वृक्षः पतित इत्यादौ विनापदार्थस्याभावस्याश्रयतासम्ब-. _ 'निपातार्थत्वेऽपीति हस्तलिखित पुस्तकपाठः। Page #260 -------------------------------------------------------------------------- ________________ शतजन्म न्धेन वृक्षेऽन्वयाद्वाताभावविशिष्टो वृक्षः पतित इति शब्दतो लभ्यते । पतनेऽनुभवसिद्धौ वातजन्यत्वाभावलाभश्चार्थः, जन्यतायाः पदानुपस्थाप्यत्वात् । तदभावस्य तस्यावृत्त्यनियामकसम्बन्धत्वात्तदवच्छिन्नवाताभावस्य च शब्देन बोधयितुमशक्यत्वात् । पुत्रं विना गत इत्यादौ पुत्रादिपदं लक्षणया पुत्रगमनादिपरम् । विनापदबोध्यतदभावश्च समानकालीनत्वादिसंबन्धेन गमनेऽन्वेति । समानकालीनत्वघटकं कालनिष्ठं स्वाधिकरणत्वमनवच्छिन्नं बोध्यम् । अतो गमनादिकाले तदनधिकर-गदेशावच्छेदेन गमनाद्यभावसत्त्वेऽपि नातिप्रसङ्गः। भyrAngrim ___ केचित्तु उक्तस्थले साहित्यमेव विनपिदार्थ: तस्य च गमनादिकर्तर्यन्वयः। साहित्यं च स्वकर्तृकसमभिव्याहृतगमनादिक्रियासमानकालीनताहशक्रियाकर्तत्वरूपसाहित्याभावः। क्रियान्वयिस्वकर्तृकतादृशक्रियाकालीनत्वाभाव एव वा विनार्यः । कर्तृत्वे पुत्रादेराधेयत्वेनान्वयः। विभक्तिः साधुत्वाथैव । अस्तु वा प्राधेयत्वं द्वितीयाः । सप्तम्या प्राधेयत्वार्थकत्वेऽपि नात्र सप्तमीप्रसक्तिस्तस्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधक-वात् । अत: शेषषष्ठीप्रसक्तया तामेवोपपदविभक्तिर्द्वितीया वाधत इति सर्वा उपपदविभक्तयः षष्ठयपवादिका इत्यस्याविरोध इति विनासमानार्थकयोऋतेऽन्तरणेति निपातयोरपि दर्शितैव रीतिः। एवं विनायुक्ततृतीयापञ्चमीस्थलेऽपि/मर्यादाभिविध्यर्थकयावच्छब्दयोगेऽपि द्वितीया दृश्यते तत्र मर्यादार्थको यावच्छब्दः । 'प्रारभ्य तस्यां दशमी तु यावत्प्रपूजयेत्पर्वतराजपुत्री'मित्यादौ सर्यादासीमाका नरूपादेशरुपा च । कालनिष्ठं तत्कालनिष्ठस्वसमभिव्याहृतकाल प्राग बावानधिकर पूिटकर 'स्वसमभिव्याहृतकालेति। स्वसमभिव्याहृतकालेत्यस्य स्वसमभिव्या Page #261 -------------------------------------------------------------------------- ________________ णस्वप्रागभावा धकरणस्वसंजातीययावत्कालवृत्तिसमभिव्याहृर क्रियानधिकरण सम् । चंचोक्तस्थले यावच्छब्देन पूजारूपक्रिया शुलदशलोनिष्ठाशसीमात्वनिरूपकत्वं प्रत्याय्यते । तावतैवार्थ शुकदशगजरदिात्वं लभ्यते । तन्निष्टसीमात्वनिरूपकत्वं च तर वृत्तिये सति कृष्णनवमीप्रागभावानधिकरणशुलदशमीप्रागभाव धिकरणतिथिकूर व्यापकत्वम् । तावता षोडशतिथ्यधिकरणकपोर शपूजारूपस्यैककर्मणो विधेयताया लाभः। व्याप्यकालसमुदाये सज तीयत्मविशेपणा पूजाया उक्तविशेषणद्वयाक्रान्तदण्डादिसमुदाय व्यापकत्वेऽपिन माधः । अन्वयितावच्छेदकरूपेण साजात्यस्य विव क्षणादुक्तस्थलेच तेथिमित्यस्याध्याहारेण दशमीपदार्थतावच्छेदकर तिथित्वघटितत्वेन वा यावत्पदार्थान्वयितावच्छेदकतया तिथित्व मानान्तेन रूपेण दण्डादेदशमीसजातीयत्वाभावात्। तिथिश्चाखण्ड कात्नविशेषरूपा, न तु चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियापचयरू पाचूजायास्ता क्रियावृत्तित्वासम्भवात् । अत्र च प्रागभाव ए. यावत्पदाः। द्वितीयार्थः प्रतियोगित्ममनुयोगित्वं वा । तत्र त ल्पकृत्यर्थदशम्या अन्वयः। तावता दशमीप्रतियोगिकप्रागभाव लाभः । तस्य स्व पतियोग्यवृत्तित्वविशिष्टव्यापकतासम्बन्धेन पूजा रूपलमभिव्याहृतक्रियायामन्वयः । व्यापकत्वं च स्वाधिकरणति थिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषत्वक्त्त्वम् ।। स्वाधि करणत्वं च स्वाधेिकरणकृष्णानवमीप्रागभावावच्छिन्नभेदविशिष्ट कालिकविशेपणतासम्बन्धेन । एतेन कृष्णनवमीप्रागभावाधिकरणप्रतियोगिकभेदस्टाव्यावर्तकतया तत्सामान्यभेदनिवेशे भाविकृष्ण हतपदप्रतिपाद्यकाले पाद्यर्थः । तेनारभ्यतयामित्यादौ दशमापदसमभिव्याहुनतच्छब्दप्रतिपाद्य नवम्या ग्रहणम् । +---. .- Page #262 -------------------------------------------------------------------------- ________________ नवमीप्रागभावाधिकरणत्वमादाय नाप्रसिद्धिः । तथा सत्यपि तत्तदशमीप्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदवत्त्वसम्बन्धेन तत्तत्प्रागभावाधिकरणत्वाक्षतेः । न चैवमपि व्यवहितपूर्वकृष्णनवमीप्रागभावावच्छिन्नभेदघटितसम्बन्धेनाव्यवहितपूर्वकृष्णनवमीपूर्वतिथीनामपि तत्तदशमीप्रागभाववत्त्वात्तदधिकरणतिथिव्यापकत्वं पूजायां न संभवतीति वाच्यम् । स्वावच्छिन्नकृष्णनवमीप्रागभावाधिकरणत्वसम्बन्धेन म्वावच्छिन्नभेदस्यैव प्रागभावसम्बन्धे निवेशनीयत्वात् । स्वाधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकत्वमपि तादृशावच्छेदकत्वसम्बन्धेन स्वावच्छिन्नस्य भेदः। अतस्तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे यत्किञ्चिदशमीप्रागभावाधिकरणनिष्ठाभावप्रतियोगितामादायासिद्धिवारणाय विशिष्य तत्तत्प्रागभावरूपस्वपदार्थस्य सम्बन्धमध्ये प्रवेश्यतयाननुगम इति निरस्तम् । देशरूपस्य सीमा च काशीतः कौशिकी यावद यातीत्यादौ तत्र कौशिक्यां गमनसीमात्वं प्रतीयते । तच काशीपूर्वकौशिकीपश्चिमदेशव्यापकगमनानधिकरणत्वम् । काक्पदेन च कौशिक्यनधिकरणकत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्वितीयार्थोऽवधित्वमवधिमत्वं वा प्रतीचीत्वाद्यन्वयि । निष्कर्षः पूर्ववत्स्वयमूहनीयः। अभिविध्यर्थो यावच्छब्दः कार्तिकमारभ्य चैत्रं यावच्छीतं भवतीत्यादौ काशीत: पाटलिपुत्रं यावदृष्टो देव इत्यादावभिविधिस्तत्पर्यन्ताभिव्याप्तिः। एवं च प्रथमे कार्तिकपूर्वकालोत्तरचैत्रोत्तरकालपूर्वकालव्यापकत्वं चैत्रोत्तरकालाऽवृत्तित्वसहितं शीतभवने द्वितीये च काशीपश्चिमदेशपूर्वपाटलिपुत्रपूर्वदेशपश्चिमदेशब्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ यावत् प्रत्याय्यते । Page #263 -------------------------------------------------------------------------- ________________ द्वितीया ] जयाऽलङ्कृतः • २५५ विशेषः पूर्ववत्। यावच्छब्दसमानार्थकाशब्दस्थलेऽपि दर्शितैव रीतिरवसेया। तद्योगे च पञ्चमी साधुः । ___ यज्ञमनु प्रावर्षदित्यादावनुशब्दार्थः कारकत्वरूपं हेतुत्वम् । अनुर्लक्षणे इत्यत्र कर्मप्रवचनीयसंज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तत्र च यज्ञान्वितस्याधेयत्वरूपद्वितीयार्थस्यान्वयः । हेतुतायाश्च निरूपकत्वसम्बन्धेन वृष्टावन्वयः। जन्यत्वं वानुशब्दार्थः। तत्र निरूपितत्वरूपद्वितीयार्थस्य यज्ञान्वितस्यान्वयः । जन्यतायाश्चाश्रयत्वसम्बन्धेन वृष्टावन्वयः । __ मन्बर्जुनं मोछार इत्यत्राप्रकर्षरूपं हीनत्वमनुशब्दार्थः । अर्जुनावधिकत्वं द्वितीयान्तार्थस्तस्य चापकर्षेऽन्वयः। अवधित्वस्यापादानतारूपत्वेऽपि क्रियान्वयाभावान्न पञ्चमीप्रसक्तिः । अस्मादयं दीर्घ इत्यादौ भवतीत्यस्याध्याहारेणैव पञ्चम्युपपादनात् । अतः षष्ठ्यपवादतानिर्वाहः। वृक्षं प्रति विद्योतते विद्युत् , मातरं प्रति साधुः, यो मां प्रति स्यात् , वृक्षं प्रति सिञ्चतीत्यादौ लक्षणेत्थं भूतेत्यादिसूत्रानुशिष्टकर्मप्रवचनीयसंज्ञकप्रत्यादिशब्दः प्रथमे परिचायकत्वरूपं लक्षणत्वं परिशेषत्वरूपं लक्ष्यत्वं वा कर्मप्रवचनीयार्थः । वृक्षप्रकाशेन विद्युद्विद्योतनज्ञानाद्वृक्षस्य परिचायकता। द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा। द्वितीये साधुत्वं प्रियकारित्वं साधुत्वघटकप्रियान्वयी सम्बन्धः कर्मप्रवचनीयार्थः । सम्बन्धान्वयि प्रतियोगित्वं तन्निरूपकत्वं वा द्वितीयार्थः । तृतीये भाग: स्वत्वाश्रयः प्रत्याद्यर्थः । तदन्वयी सम्बन्धो द्वितीयार्थः । इत्थं चास्मत्सम्बन्धी यो भागः स्यादिति बोधः। चतुर्थे कर्मण्येव द्वितीयार्थत्वबाध एव संज्ञाफलम् । प्रतिश्च निरर्थकः । गृहे गृहे श्वा इत्यादाविव व्यापकताया द्विरुक्तिबललभ्यत्वात्प्रतिशब्दस्य व्यापकतार्थकत्व उक्तार्थकत्वेन गृहे व्याप्नुवतेऽश्वा इत्यादाविव द्विरुक्तिरेव न स्यात् । न च प्रतिशब्दस्यापि व्यापकतार्थकत्वं प्रतिदिनमधीत Page #264 -------------------------------------------------------------------------- ________________ २५६ . व्युत्पत्तिवादः [ कारके इत्यादौ क्लृप्तम् । द्विरुक्तेरपि वृक्षवृक्ष सिञ्चतीत्यादौ क्लृप्तमिति प्रकृते संभेदेनान्यतरवैयर्थ्यमिति न्यायाद्वयोरेव व्यापकताबोधकत्वमवर्जनीयमिति वाच्यम् । प्रतिमासमधीत इत्यादावव्ययीभावे हि प्रथमातिरिक्तविभक्तरसाधुत्वेन प्रतिशब्देन मासान्वितव्यापकत्वं क्रियायां बोध्यते । विभक्तिः साधुत्वार्था । वृक्ष वृक्ष प्रतिसिञ्चतीत्यत्र तु सेके द्वितीयार्थकर्मत्वावरुद्धप्रकृत्यर्थवृक्षविशेषितव्यापकता बोधयितुं न शक्यते । एकविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वे व्युत्पत्तिविरोधात् । कमत्वसम्बन्धस्यैव च व्यापकताघटकत्वेन स्वीकरणीयतया वृत्त्यनियामकस्य तस्य तथात्वासंभवाच्च । तस्य सेककर्मत्वं पाश्रयतासम्बन्धघटितव्यापकताप्रत्यायनमपि न युज्यते। प्रकृत्यर्थसुबर्थयोरन्तरा नत्रातिरिक्तभानस्य व्युत्पत्तिविरुद्धत्वात् । नामूढस्येतरोत्पत्तेः । 'नानुपमृद्य प्रादुर्भावा'दित्यादौ नबर्थमात्रस्य पञ्चम्यर्थहेतुताया विशेषणत्वेन प्रकृत्यर्थस्य च विशेष्यत्वेनान्वयात् । तस्मात्प्रतिरनर्थक एव । द्विरुक्तान्वये तात्पर्यवलाञ्च सेचनकर्मत्वे वृक्षादेापकत्वं संसर्गतयैव भासते। यदि च वृक्ष प्रति सिञ्चतीत्यादावुपसर्गस्य प्रतेर्वाच्यो द्योत्यो वा कश्चिदन्योऽर्थस्तदास्तु स एवात्रापि तदर्थः । अत एव तस्येवास्यापि प्रतिशब्दस्य प्रयोगो नानर्थकः। __ वस्तुतोऽनर्थकयोः कर्मप्रवचनीयाधिपरिशब्दयोः प्रयोगवत्तादृशप्रतेरपि प्रयोगस्य प्रयोजनान्तरानुपपत्तिश्चिन्त्या। प्रतेर्यत्र व्यापकतार्थकत्वं तत्र प्रति वृक्ष सिञ्चतीत्यव्ययीभावसमास एव नियतः। तदर्थकाव्ययस्याव्ययीभावसमासविधेविभाषाधिकारीयताविरहेण नित्यत्वादतो वीप्सया प्रतिवृक्ष सिञ्चतीतिववृदं प्रति सिञ्चतीति न प्रयोगः। यत्र व्यापकत्वार्थकेनाव्ययेनाव्ययीभावसमासस्तदुत्तरं सर्वत्र प्रथमा विभक्तिरेव । न तूपकुम्भे गच्छतीतिवत् प्रतिगृहेऽश्वा इत्यादिरपि प्रयोगः । उक्तयुक्त्या नत्र प्रतिना Page #265 -------------------------------------------------------------------------- ________________ तृतीया ] जयाऽलङ्कृतः २५७ ऽश्वादौ गृहादिव्यापकताया बोधयितुमशक्यत्वात् । तदाधारतादिरूपसप्तम्याद्यर्थे च समासपदार्थस्य गृहादिव्यापकत्वस्याश्रयतासम्बन्धेन तदर्थस्य व्यापकरूपधर्मिणो वा भेदसम्बन्धेनान्वये मेयत्वे घट: घटवृत्तौ घट इत्यादिप्रयोगवारणाय कल्प्यायाः सप्तम्यर्थाधारताया आश्रयत्वसम्बन्धेनाभेदसम्बन्धेन वा प्रकृत्यर्थानन्वयव्युत्पत्तेविरोधात् । उपकुम्भे निधेहि उपकुम्भादागत: उपकुम्भेन कृत इत्यादौ च विवक्षितस्याधारत्वापादानत्वकर्तृत्वादौ कुम्भसमीपादेराधेयतासम्बन्धेनान्वयस्याधेयत्वादौ निरूपितत्वसम्बन्धेन तदन्वयस्य वा बोधे न कश्चिद्व्युत्पत्तिविरोध इत्युपपद्यन्ते तथा प्रयोगा इति ध्येयम् । त्वां च मां चान्तरेत्यादावन्तरान्तरेण युक्त इति द्वितीयाया निरूपितत्वमर्थः। तस्यान्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयः। एवमन्यत्रापि तदर्थस्तूक्तदिशा स्वयं परिच्छेद्यः। , . इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे द्वितीयाविवरणम् । अथ तृतीयाविवरणम् कारकविभक्तितृतीयायाः क्रियान्वयि कर्तत्वं करणत्वं चार्थः कर्तृकरणयोस्तृतीयेत्यनुशासनात् । कर्तृत्वं च मुख्यं क्रियानुकूलकतिरेव । सा च काख्यातसमभिव्याहृते चैत्रः पचतीत्यादौ क्रियाविशेष्यतयाख्यातेन प्रतिपाद्यते चैत्रेण पच्यते, शय्यते, इत्यादिकर्मभावाख्यातस्थले च क्रियायां विशेषणतया तृतीया सा प्रत्याय्यते। यदु तत्राख्यातार्थ एव कृतिः, तृतीयार्थश्चाधेयत्वम्, तस्य चाख्यातार्थकृतिविशेषणतयान्वयः, कृतेश्च क्रियाविशेषणतया तथा कृतिबोधने चात्मनेपदरूपस्थाख्यातस्य यगादिसमभिव्याहारज्ञानमपे-- क्षितम्, पचति पचत इत्यादौ तथा कृत्यन्वयाबोधात्, चैत्रेण ज्ञायते Page #266 -------------------------------------------------------------------------- ________________ २५८ व्युत्पत्तिवादः [ कारके गम्यत इत्यादौ तृतीयाया आधेयतार्थत्वं क्लृप्तमेवेति न तत्कल्पनमधिकमिति-नाम। चैत्रेण पकमित्यादौ तृतीयायाः कृत्यर्थकताया आवश्यकत्वात् । तत्र कृत्यर्थकाख्यातविरहेण कृतः कर्तकर्मवाचकत्वेन कृत्यर्थताविरहात्। यदि च कर्तृकृतः कृतावेव शक्तिर्न तु विशिष्टे ज्ञातेत्यादौ त्वाश्रयार्थकतायाः क्लप्तत्वेन तत्र कृत्यन्वयादेव कर्तृलाभसंभवादित्युच्यते तथापि कर्मकृतः कृत्यर्थत्वमप्रसक्तमेव । उक्तप्रत्ययस्य कचित्कर्तृवाचकत्वेऽपि चैत्रेण पाच्यः दुष्पचश्चैत्रेणौदनः चैत्रेणौदनस्य पाक इत्यादौ कृतां न कृतिबोधकत्वमिति तत्र कृतिबोधानुरोधेन तृतीयायाः कृतिवाचकत्वमावश्यकमेव । एवं च चैत्रेण पच्यत इत्यादावपि तृतीययैव कृतिर्बोध्यते । तत्र चैत्रादेः संबन्ध एवाधेयत्वमित्यत एव निर्वाहे कृतावाधेयत्वस्य विशेषणतया भानोपगमस्यानुचितत्वात् । तथा सति तत्संसर्गस्यापि विषयताकल्पनाधिक्यात् तादृशवाक्यज्ञानघटितशाब्दसामग्र्यामधिकौपस्थितिनिवेशने च गौरवात् । मा तत्र कृतेस्तृतीयार्थतोपगमे चैत्रेण पच्यते न मैत्रेणेत्यादौ तृतीयान्तार्थमैत्रीयकृतेरभावः पाकेऽन्वेतीत्युपेयम् । तस्याश्च समवायसंबन्धावच्छिन्नाभावो मैत्रकर्तृकपाकेऽपीत्यतिप्रसङ्गः । जन्यतायाश्च वृत्त्यनियामकतया तत्संबन्धावच्छिन्नाभावः प्रसिद्धयत्येव न । मैत्रकर्तृकपाककर्मत्वाभावस्य कर्मणि तण्डुलादौ प्रतीतिश्च कर्मवाचकपदासमभिव्याहारस्थले दुर्घटा । प्राधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते । न च तथा सति मैत्रचैत्रोभयकर्तकपाकसत्त्वे चैत्रीयपाककृतौ मैत्रवृत्तित्वाभावसत्त्वात् मैत्रेण न पच्यत इति प्रयोगापत्तिरिति वाच्यम् । मैत्रेण न पच्यत इत्यतो वर्त्तमानपाकानुकूलकृतित्वावच्छेदेन मैत्रवृत्तित्वाभावबोधनादुक्तस्थले च तादृशकृतित्वसामानाधिकरण्येन मैत्रवृत्तित्वसत्त्वात्ताशवाक्याप्रामाण्यात् । वर्तमानत्वस्य कृतिविशेषणतया च चैत्रेण पक्ष्यतेऽपच्यत न तु पच्यत इत्युपपद्यते । क्रियाविशेषस्य Page #267 -------------------------------------------------------------------------- ________________ .. २५६ तृतीया ] जयाऽलङ्कृतः तथात्वात् । यदा मैत्रेणान्यत्क्रियते न तु पच्यते तदा मैत्रेण न पच्यत इति प्रयोगश्च । न चाख्यातेन कालस्य कृतिविशेषणतया बोधनात्कालविशेषविशेषितकृतित्वस्यान्वयितावच्छेदकतया तदवच्छेदेन नजाभावः शक्यो बोधयितुम् । न तु कालक्रियोभयविशेषितकतित्वावच्छेदेन कर्मप्रत्ययस्थले क्रियायाः कृतिविशेषणत्वाभावेन त द्घटितधर्मस्यान्वयितावच्छेदकत्वाभावादिति वाच्यम् । क्रियाविशेषघटितधर्मस्यान्वयितानवच्छेदकत्वेऽपि तदवच्छिन्नत्वविशिष्टविशेषणताया अभावसंसर्गतया भानसंभवेन सामञ्जस्यात् । न चान्वयितावच्छेदकावच्छिन्नत्वमेव विशेषणसम्बन्धे भासत इति नियमः । तथा सति शरदि पुष्पन्ति सप्तच्छदा इत्यादौ सप्तच्छदपुष्पोत्पत्तित्वादेः शरवृत्तित्वान्वयितानवच्छेदकतया अाख्यातान्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वावच्छेदेन च शरदृत्तित्वान्वये बाधादवच्छेदकावच्छेदेनान्वयानुपपत्तेरन्वयितावच्छेदकसामानाधिकरण्यमात्रेण च तदन्वयोपगमे शरदि पुष्पन्ति सप्तच्छदाः शरदि पुष्पन्ति चम्पका इत्यविशेषेण प्रयोगापत्तेः । यदि च तत्र शरत्संबन्धः सप्तच्छदविशेषणतया भासते न पुनराख्यातार्थे धातुमात्रार्थे वा पुष्पोत्पत्तौ । अत एव कारकविभक्तिरूपसप्तम्यनुपपत्त्या कालरूपविशेषणपदोत्तरं स्वातन्त्र्येण सप्तमी सपनला सूत्रिता। एवं च क्रियानिमित्तत्वरूपकारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वेन पुष्पोत्पत्तिनिमित्तत्वरूपाख्यातार्थस्य विशिष्टान्वयानुरोधेन शरत्संबन्धेष्वप्यन्वय उपगन्तव्य इति कारकत्वस्याख्यातार्थत्वानुपगमेऽपि शीतलं सरोऽवगाढवतो निदाघदुःखं व्यपैतीत्यादाविवोद्देश्यविधेयभावमहिम्नोद्देश्यविशेषणशरत्संबन्धन विधेयभूतपुष्पोत्पत्तेः प्रयोज्यप्रयोजकभावस्य संसर्गमर्यादया भानमिति चम्पकादिपुष्पोत्पत्तौ शरत्संबन्धनिमित्तकत्वाभावानोक्तातिप्रसङ्ग इत्युक्तस्थलेऽवच्छेदकावच्छेदेनान्वय एव नोपेयत इत्युच्यते, तथापि तादृशनियमो निष्प्रामाणिक Page #268 -------------------------------------------------------------------------- ________________ २६० व्युत्पत्तिवादः [ कारके एव । न च तादृशनियमानुपगम इह भवने मैत्रेणैव पक्ष्यते तेमनमित्यत्रैतद्भवनाधिकरणकतेमनपाकत्वेन रूपेण शब्दापाकानुपस्थित्या तदवच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदबोधासंभवकथनं दीधितिकृतां विरुध्येत इति वाच्यम् , अवच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि विशेषणतया भासमानमेव रूपं विशेषणे अवच्छिन्नत्वसंबन्धेन विशेषणमित्याशयेन तेषां तदभिधानात् । विशेषणसंवन्धे तदवच्छिन्नत्वमेव तदवच्छेदेन विशिष्टबुद्धौ भासत इत्युपगमे शब्दानुपस्थितरूपावच्छेदेन विशेषणान्वये बाधकाभावात् । न चावच्छेदकावच्छिन्नत्वस्यावच्छेदकावच्छेदेन विशिष्टबुद्धौ विशेषणांशे भानमसंभवदुक्तिकम् । घटो द्रव्यमित्यादौ घटत्वावच्छेदेन द्रव्यत्वादिमत्त्वबुद्धौ द्रव्यत्वादिविशेषणस्य स्वरूपत एव भानादिति वाच्यम् । तादृशशाब्दबोधे द्रव्यत्वाद्यवच्छिनस्यैवाभेदसंबन्धेन विशेषणत्वात् घटत्वादिविशिष्टे द्रव्यत्वादिविशेषणकतादृशप्रत्यक्षेऽवच्छेदकावच्छेदेन भानानुपगमे क्षतिविरहात्, तथा च मैत्रेण न पच्यत इत्यादौ पाककृतित्वस्यान्वयितानवच्छेदकत्वेऽपि अर्थलभ्यतादृशधविच्छिन्नत्वस्य संसर्गाशे भानं निराबाधमेवेति चेन्न । मैत्रेण न पक्क इत्यादौ कृतौ मैत्रादिवृत्तित्वाभावबोधासंभवेन कृतिजन्यत्वस्य तृतीयार्थतां स्वीकृत्य क्रियायां मैत्रादिकृतिजन्यत्वाभावबोधस्योपगन्तव्यतया मैत्रेण न पच्यत इत्यादावपि तद्बोधोपगमेन सामञ्जस्यात् । न च यदा मैत्रः सुतस्तदा मैत्रेण पक्ष्यते न तु पच्यत इति प्रयोगानुपपत्तिः । मैत्रवृत्तिवर्तमानकृतेरप्रसिद्धथा तादृशकृतिजन्यत्वाभावप्रत्यायनासम्भवात् वर्तमानत्वाविशेषिततदीयकृतिजन्यत्वाभावस्य बाधितत्वादिति वाच्यम् । आख्यातार्थवर्तमानत्वादेर्नसमभिव्याहारस्थलेऽभावांश एवान्वयस्य व्युत्पन्नत्वात् अन्यथा विनष्टघटं न पश्यतीत्यादौ तादृशघटकर्मकवर्त्तमानदर्शनाद्यप्रसिद्धयाऽन्वयबोधानुपपत्तेः । प्रकृते च Page #269 -------------------------------------------------------------------------- ________________ तृतीया ] मैत्रीयवर्तमानकृत्यप्रसिद्धावपि वर्तमानकालावच्छिन्नतज्जन्यत्वाभावस्यैव पार्क प्रतीत्या सामञ्जस्यात् । पाकत्वाद्यवच्छेदेनैव मैत्रादिकर्तकत्वाभाव बोधोपगमान्मैत्रादिकर्तकपाकदशायामन्यकर्त कपाके मैत्रादिकर्तकत्वाभावसत्त्वेऽपि न पच्यते मैत्रेणेत्यादयो न प्रयोगाः । यत्र मैत्रेणोदनं पच्यते न तु तेमनं तत्र मैत्रेण न पच्यते तेमनमित्यादिप्रयोगनिर्वाहाय तेमनपाकत्वाद्यवच्छेदेनैवाभावान्वयबोध उपगम्यते, न तु शुद्धपाकत्वाद्यवच्छेदेन, बाधितत्वात् । यथा च तेन रूपेण शब्दादनुपस्थितावपि तदवच्छेदेनान्वयबोधनिर्वाहस्तथोपपादितमाधेयत्त्रस्य तृतीयार्थत्ववादिनैव । घटेन न पच्यत इत्यादयः प्रयोगाः आकाशं न पश्यतीत्यादिप्रयोगसमानयोगक्षेमाः । प्रचेतनकाष्ठस्थाल्यादेरपि कर्तृत्वविवक्षया काष्ठं पचतीत्यादिवत्काष्ठेन पच्यत इति प्रयोगात् । तत्र व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे तत्कर्तृकत्वे वा तृतीयाया लक्षणा । एवं चैत्रेण ज्ञायते, इष्यते, गम्यत इत्यादावाश्रयत्वरूपे कर्तृत्व आधेयत्वरूपे कतृमत्त्वे वा, नश्यते घटेनेत्यादौ प्रतियोगित्वरूपे कर्तत्वेऽनुयोगित्वरूपे कर्तमत्त्वे वा लक्षणा । कर्तृपदमपि व्यापारादिमत्यचेतनादौ भाक्तमेव । अचेतनादौ स्वरसतः कर्तृपदाप्रयोगात् । अत एव च कृञो यत्नवाचकत्वम् । न च यन्नवत एव कर्तृपदार्थत्वे कर्तृकरण्यो स्तृतीयेत्यादौ कपदस्य मुख्यार्थत्यागे युक्तिविरहादचेतन काष्ठादिवाचकपदयोगे कर्तप्रत्ययानुपपत्तिरिति वाच्यम्, सूत्रस्थकर्तृपदानां स्वतन्त्रः कर्तेतिसूत्रकृत्परिभाषितकर्तृपरत्वात् । अन्यथा तत्प्रणयन वैयथ्र्यप्रसङ्गात् । स्वतन्त्रत्वं च कारकान्तरानधीनत्वे सति कारकत्वम् । पुरुपव्यापाराधीनक्रियानुकूलव्यारवतामेव काष्ठादीनामन्यव्यापारानधीनक्रियानुकूलव्यापारवत्त्वरूप स्वातन्त्र्यस्य काष्ठं पचतीत्यादौ विवक्षया काष्ठादेः कर्तृत्वम् । न च स्वातन्त्र्यविवक्षणेऽपि स्वातन्त्र्यस्य वास्तविकस्याभावात् तद्बोधकविभक्तीनामप्रामाण्यं जयाऽलङ्कृतः २६१ - Page #270 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके २६२ दुर्वारमेवेति वाच्यम् । समभिव्याहृतक्रियाकारकान्तरव्यापारानधीनतत्क्रियानुकूलव्यापारस्यैव तत् । क्रियावाचकपदसमभिव्याहतविभक्त्यर्थत्वात् । अनधीनान्तविशेषणप्रयोजनं च चैत्रः काष्ठैः स्थाल्यां पचतीत्यादिस्थले चैत्रः स्थालीकाष्ठानि पचतीति प्रयोगापत्तिवारणम् । यत्र च चैत्रः पचति काष्ठं पचतीत्यादौ समभिव्याहृतकारकांतराप्रसिद्धिस्तत्रानधीनान्तविशेषणं न प्रतीयत एव । तनिर्वाहश्च तत्र लकारादेः स्वतन्त्रशक्त्यन्तरकल्पनात् । विशिष्टविष - यकशक्त्या विशेषणाविषयकबोधाजननात् । न च मैत्रः चैत्रेण पाचयतीत्यादौ हेतु कर्तृ समभिव्याहारस्थले कर्त्तरि तृतीयानुपपत्तिः, कर्तव्यापारस्य समभिव्याहृतहेतुकर्तव्यापाराधीनत्वादिति वाच्यम् । तंत्र ण्यन्तप्रतिपाद्यपाचनादिक्रियायामेव हेतोः कारकतया स्वतन्त्रकर्तव्यापारस्य पचादिक्रियाकारकव्यापारानधीनत्वात् । स्वतन्त्रं प्रयुञ्जानस्य पुंसो व्यापारस्तण्डुलक्रयणादिवत्पाकादावन्यथासिद्धतया नकारणमिति पाकादिप्रयोजक व्यापारवत्त्वेऽपि तस्य तत्क्रियाकारकत्वाभावात् । अत एव चैत्रो मैत्रेण पाचयतीत्यादौ चैत्रः पचतीति न प्रयोगः । न च पञ्चभिर्हलैः कर्षति गृहीत्यादौ भूमिलेखनरूपकृष्यादिक्रियायां स्वतन्त्रकर्तन् प्रयुञ्जानस्य गृहिणो व्यापारस्य दर्शितयुक्तया लकारादिनाऽभिधानासंभव इति कर्षतीति न स्यात्कर्षयतीति च स्यादिति वाच्यं तत्र कृषेः प्रति विधानार्थत्वात् । उक्तं च'याजका यजन्तीति यजिर्हविः प्रक्षेपार्थः । हलैः कृषतीति कृषिः प्रतिविधानार्थ' इति याजेर्देवतोद्देश्यकद्रव्यत्यागेच्छाविशेषरूपार्थे मुख्यतया तत्र च यजमानस्यैव कर्तृतया हविः प्रक्षेपरूपलक्ष्यार्थपरत्वं दर्शितम् । तत्र च ऋत्विजामेव स्वातन्त्र्यम् । होतेत्यत्रापि हविःप्रक्षेप एव धातोरर्थो न तु तादृशफलावच्छिन्नस्त्यागः । तथा सति ऋत्विजस्तत्र स्वतन्त्रकर्तृताविरहेण होतृपदेन प्रतिपादनासंभवात् । धात्वर्थतावच्छेदकफलकर्तृत्वमेव कर्तृप्रत्ययेन प्रतिपाद्यत इति ऋत्वि - Page #271 -------------------------------------------------------------------------- ________________ तृतीया ] जयाऽलङ्कृतः २६३ होतृव्यवहारो न यष्टरि । अतः प्रतिग्रहीतृव्यापारो न स्वत्वजनकस्तथा सति तत्र दातृव्यवहारापत्तेरिति तु जीमूतवाहनः । अथास्तु चैत्रेण मैत्रेण पाच्यत इत्यादौ स्वतन्त्रव्यापारस्य हेतुकर्तृव्यापाराधीनत्वेऽपि दर्शितरीत्या तस्य स्वतन्त्रकर्तृत्व निर्वाहस्तथापि तद्वाचकपदोत्तरं तृतीयानुपपत्तिः कर्तृत्वस्य णिच्प्रत्ययेनाभिधानादिति चेन्न। कर्तृत्वनिर्वाहकत्वसंबन्धेन पाकाद्यन्वयिनो हेतुकर्तृव्यापारस्य णिजर्थत्वेन स्वतन्त्रकर्तत्वस्य णिचानभिधानात्। कर्तृत्वरूपफलावच्छिन्नस्य तादृशव्यापारस्य णिजर्थतामतेऽपि आश्रयोपपरक्तस्यान्यतो भानानिर्वाहेण कर्तुरनभिधानात्तृतीयोपपत्तेः । आख्यातस्य धर्म्यवाचकत्वेऽपि कृतिविशिष्टबोधकत्वरूपस्य कर्बभिधानस्याक्षतत्वाच्चैत्रः पचतीत्यादौ न तृतीया । न चैवं मुख्यविशेष्यतया कृतिविवक्षया चैत्रेण पचतीति स्यादिति वाच्यम् । आश्रयातिरिक्तांशे विशेषणतया कृतिबोधनस्यैव कभिधानरूपत्वात्। तथा तदभिधानं च लकृत्तद्धितसमासानामेव। अत एव तैरेवाभिधानं वृत्तिकृता विवृतम् । इदं त्ववधेयम् । यद्यपि स्वतन्त्रव्यापारमात्र एव तृतीयादेरनुशासनं तथापि लाघवात्कृतिरूप एव कर्तृत्वे तृतीयादेः शक्तिः । अचेतनव्यापारे निरूढलक्षणैव । अनुशासनस्यानादितात्पर्यमात्रग्राहकत्वात् । लाघवसहकृतस्यैव तादृशतात्पर्यस्य शक्तिकल्पकत्वात् । व्यापारे तत्सत्त्वेऽपि गौरवेण शक्त्यसिद्धेः । एवं च कर्तृत्वरूपकृतिबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयत इति तदन्तर्भावेण शक्तिकल्पने मानाभावः। व्यापारलाक्षणिकेन कर्तप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गवारणात् । अन्यथा तदन्तर्भावेण कृतिशक्तावपि तादृशातिप्रसङ्गस्य दुर्वारत्वादिति घटो जायते, अोदनः सिद्धयतीत्यादौ सत्यकार्यविद्वेषिणां नैयायिकानां कारकत्वं कर्तृत्वं च घटादेर्यथाश्रुतसूत्रानुसारेण दुरुपपादमेव । मुख्यं च क्रियाकर्तृत्वं क्रिया Page #272 -------------------------------------------------------------------------- ________________ २६४ व्युत्पत्तिवादः - [ कारके नुकूलकृतिमात्रम् । एकक्रियाविषयककृतितो यत्र नान्तरीयकक्रियान्तरनिर्वाहस्तस्कृतिमतस्तक्रियाकर्तृत्वाभावात् । अत एव मत्तो भूतं, न तु मया कृतमिति व्यपदेश इति । तक्रियानुकूलत्वे सति तद्विषयककृतिस्तत्कर्तृत्वम् । अन्योद्देशेन नाराचक्षेपाद्यत्र ब्राह्मणवधस्तत्र मरणानुकूलस्य नाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेऽपि ब्राह्मणमरणानुकूलव्यापारत्वेन तस्यानभिसंहितत्वात्तेन रूपेण कृतिविषयत्वं न तादृशव्यापारस्येति ब्राह्मणवधत्वविशिष्टकर्तृत्वं न तादृशव्यापारकर्तुरिति न तस्य संपूर्णप्रायश्चित्तम् । अत एव संपूर्णप्रायश्चित्तप्रयोजकस्य कर्तृव्यापारस्य लक्ष्यताभिप्रायेण हिंसालक्षणे मणिकृतां मरणोद्देशनानुष्ठीयमानत्वादृष्टाद्वारकत्वविशेषणयोरुपादानमिति मिाभिधानसङ्गतिः । मरणोद्देशेनानुष्ठीयमानस्य व्यापारस्यावश्यं मरणानुकूलव्यापारत्वेन प्रतिसंहितत्वात्तादृशरूपेण कृतिविषयत्वमिति तादृशविशेषणस्य विशिष्टकर्ततानिर्वाहकत्वात्तद्विशेषणवतो व्यापारस्य नियमेन लक्ष्यत्वात् । तच्छून्यस्य चालक्ष्यत्वनियमात् । अथ मरणोद्देशेनानुष्ठितस्यापि यत्र खड्गाभिघातत्वादिनैवेष्टसाधनत्वकृतिसाध्यत्वधीविषयता न तु मरणानुकूलत्वविशेषिततद्रूपेण तत्र न मरणानुकूलत्वविशिष्टविषयिणी कृतिरिति तादृशव्यापारकर्तुर्न वधत्वविशिष्टकर्तृत्वमिति कथमुक्तविशेषणस्य विशिष्टकर्तृतानिर्वाहकत्वम् । यदि च मरणोद्देशेनानुष्ठीयमानत्वस्य मरणानुकूलत्वेन कृतिविषयत्वमेवार्थ इत्युपेयते तदा व्यापारे तादृशविशेषणस्य तत्कर्तरि विशिष्टकर्तृतानिर्वाहकत्वेऽप्युक्तस्थले खड्गाभिघातादौ तादृशलक्षणाव्याप्तिारैव। तत्र ' संपूर्णप्रायश्चित्तस्य निर्विवादतया लक्ष्यताया आवश्यकत्वात् । न च विशेषणीभूतफलनिष्ठोद्देश्यताख्यविषयतानिरूपकत्वे सति व्यापारनिष्ठसाध्यताख्यविषयतानिरूपकत्वमेव विशिष्टविषयकत्वं कृतेरित्युपदर्शितस्थलेऽनुपलतासंबन्धेन मरणवैशिष्टयस्य साध्यतारूपविषय Page #273 -------------------------------------------------------------------------- ________________ तृतीया ] जयाऽलङ्कृतः २६५ तावच्छेदकताविरहेऽपि न विशिष्ट कर्तृत्वानिर्वाह इति मरणोद्देशे - नानुष्ठीयमानत्वस्य मरणकामनाधीनकृतिविषयत्वरूपतैवेति वा - च्यम्। ब्राह्मणं न हन्यादित्यादौ धात्वर्थतावच्छेदकस्य मरणस्य स्वोद्देश्यकत्वसंबन्धेन कृतावन्वय संभव एव निरुक्तविशिष्टकर्तृत्वस्य निषेधविधिविपयत्वसंभवात्, व्यापारविशेषणतयोपस्थितस्य कृत्यंशे विशेषणत्वस्य व्युत्पत्तिविरुद्धत्वात् । अथ मरणोपलक्षितव्यापारकर्तृत्वस्य तादृशनिषेधविषयत्वेऽपि न क्षतिः । अन्योद्देशेन नाराचक्षेपस्यापि ब्राह्मणमरणोपधायकस्य नरकसाधनत्वात् । परन्तु मरणरूपप्रायश्चित्तविधेरेव तदविषयकत्वमुपपादनीयम् । तच्च मरणोद्देशेन तदनुकूलव्यापारे कर्तृत्वबोधकस्य शब्दस्य तद्विधावन्तर्भाव एवोपपद्यत इति चेत् । एवमपि ब्राह्मणमरणकामनया यत्र न तन्मरणानुकूलव्यापारानुष्ठानमपि तु फलान्तरकामनाधीनतन्मरणानुकूलव्यापारत्वप्रकारकचिकीर्षया तदनुष्ठितं तत्राव्याप्तिरेतन्मते दुर्वारैव । तत्रापि संपूर्णस्यैव प्रायश्चित्तस्याचरणादलक्ष्यतोपगमासम्भवादिति मैवम् । यत्र हि मरणानुकूलव्यापारत्वेन कृतिसाध्यतादिधीस्तत्रैव यत्र व्यापार विशेषत्वेनैव तद्धस्तत्रापि मरणरूपफलकामनाधीनव्यापारविषयिणी कृतिर्मरणानुकूलत्वेन व्यापारमवगाहते। कृतेः कामनाविषयफलोपरागेणोपायविषयतोपगमात् । विशृङ्खलफलभानोपगमे यत्र तृप्तिकामनया भोजनं फलान्तरकामनया च गमनमवगाहमाना समूहालम्बन कृतिस्तत्र तृप्तये गमनं करोतीति व्यवहारापत्तेः । उपायांशे मरणस्यानुकूलत्वं संबन्धः प्रकारो वेत्यन्यदेतत् । ' एवं च मरणावच्छिन्नव्यापारविषयकत्वमुभयत्रैव कृतेरिति विशेषगावच्छिन्नविषयक कृतिमत्त्वं विशिष्टकर्तत्वमुभयस्थले निष्प्रत्यूहम् । मरणोद्देशेनानुष्ठीयमानत्वमपि मरणानुकूलत्वोपरागेण कृतिविषयत्वरूपं लक्षणघटकमिति न काचिदनुपपत्तिः । यद्यप्यदृष्टद्वारा पाकानुकूलकृतिमतोपि न पाकादिकर्तृत्वमिति तत्तत्क्रियाकर्तृत्व Page #274 -------------------------------------------------------------------------- ________________ २६६ व्युत्पत्तिवादः [ कारके घटककृतिनिष्ठतदनुकूलत्व एवादृष्टाद्वारकत्वमपेक्षितं, न तु क्रियानिष्ठफलानुकूलत्वे तत्तत्रापेक्षितमिति व्यापारनिष्ठमरणानुकूलत्वेऽदृष्टाद्वारकत्वरूपमणिकारोक्तविशेषणस्य न कर्तृताघटकत्वं तथाप्यनुष्ठीयमानत्वप्रविष्टकृतेरेवादृष्टाद्वारकमरणानुकूलत्वं विवक्षितम् । विशिष्टकर्तृत्वं चादृष्टाद्वारकत्वविशेषितमरणानुकूलत्वेन कृतिविशेषणेन घटितमिति मिश्राशयः। तथा चैवं पर्यवसितम्-हिनस्तेः प्रवृत्तिनिमित्तं मरणरूपफलावच्छिन्नव्यापारत्वमेव । न हिंस्यादित्यादौ फलविशिष्टस्वनिरूपितकर्तत्वसंबन्धेन हिनस्त्याद्यर्थस्यानिष्टविशेषसाधनत्वं प्रतीयते । श्येनस्य हिनस्त्याद्यर्थत्वेऽपि न तस्य तादृशकारणतावच्छेदकसंबन्धेन कचिदपि सत्त्वम् । तत्कर्तुरदृष्टाद्वारकानुकूलताघटितफलकर्तृत्वविरहेण विशिष्टाकर्तृत्वादिति नानिष्टविशेष प्रति हिंसात्वेन साधनत्वमिति न क्रियायां विध्यर्थान्वयमतेऽपि श्येनविध्यर्थबाधः । वस्तुत: श्येनानुकूलकृतेमरणप्रयोजकत्वमेव न तु मरणकारणत्वमन्यथासिद्धत्वात्। मरणोपलक्षितान्यकर्तृकखगाभिघातादिरूपवैरिवधं प्रत्येव हेतुताया वेदेन बोधितत्वात् । क्रियाजन्यकार्य तक्रियानुकूलकृतिहेतुतानियमेऽपि खड्गाभिघातादावेव श्येनकृतेर्हेतुत्वात् तथा चानिष्टविशेषजनकतावच्छेदकप्रत्यासत्तिप्रविष्टमरणानुकलत्वं मरणजनकत्वमेव न तु प्रयोजकत्वमतो दृष्टाद्वारकत्वं न तत्र निवेशनीयम् । कारणत्वपर्यन्तनिवेशलाभायैव तदुपादानम् । यदि च विशिष्टान्वयपरताया वेदे औत्सर्गिकपरत्वेन वधसाधनताबोधकश्रुत्या विशेषणीभूतमरणसाधनतापि श्येनस्य प्रत्याय्यते तदापि श्येनानुकूलकृतेर्मरणसाधनत्वमप्रामाणिकमेव । क्रियाजनककृतेस्तज्जन्यजनकतानियमस्याप्रामाणिकत्वात् । अथान्योद्देशेन नाराचक्षेपकर्तुविशिष्टविषयककृतिमत्त्वघटितविशिष्टकर्तताविरहेऽपि यथार्थवधजन्यपापप्रायश्चित्तं तथा श्येनकर्तुर्विशिष्टाकर्तृत्वात्पापार्द्धस्यावश्यकत्वाद्वलवदनि Page #275 -------------------------------------------------------------------------- ________________ तृतीया ] जयाऽलङ्कृतः २६७ ष्टाननुबन्धित्वबाधो दुर्वार एवेति चेन्न । अकामकृतेऽप्यर्द्धप्रायश्चित्तश्रवणेन मरणावच्छिन्नमव्यापारस्य विषयतामनन्तर्भाव्यविशिष्टजनककृतिमत्त्वसंबन्धेन न्यूनपापे स्वतन्त्रहेतुत्वकल्पनात्। तबलेन विशिष्टकर्तुः श्येनकर्तुहिंसाजन्यपापानुत्पत्तेः। न च लाघवेन मरणोपलक्षितव्यापारजनकत्वमेव प्रत्यासत्तिमध्ये निवेश्यतामिति वाच्यम् । श्रुत्यर्थबाधापादकलाघवस्याप्रयोजकत्वात्। वेदस्थले विशिष्टान्वयस्यौत्सर्गिकत्वेऽपि श्येनस्य मरणजनकत्वे विध्यर्थबाधप्रसङ्गेन मरणं प्रति श्येनस्यान्यथासिद्धताया एवोपगन्तव्यतया तस्य जनकतागर्भहिनस्त्यर्थतावच्छेदकरूपशून्यताया अपि सूपपादत्वात् । न च यदि खङ्गाभिघातजनकादृष्टव्यवहितस्य श्येनस्य मरणेऽन्यथासिद्धत्वं तदा हन्तृकृतिजन्यव्यापारोऽपि तत्रान्यथासिद्धः स्यात् । यश्च व्यापारो मरणेऽव्यवहितसाधनं तत्र तद्धेतुः कृतिरेवान्यथासिद्धेति मरणकारणव्यापारकारणकृतिमत्त्वंन कस्यापि हेतुः स्यादिति वाच्यम् । तण्डुलविक्लित्यादिरूपफलव्यवहितस्यापि तुषादिप्रक्षेपस्य तत्करणदशायां पचतीत्यादिव्यवहारानुरोधेन यथानन्यथासिद्धत्वे तथा खगप्रक्षेपादिकरणदशायां हन्तीति व्यपदेशानुरोधेन तत्र व्यवहितस्यापि मरणेऽनन्यथासिद्धत्वमवश्याभ्युपेयमिति सामञ्जस्यात् । तण्डुलक्रयणदशायां पचतीत्याद्यभाववत् खड्गादिनिर्माणदशायां हन्तीत्यव्यवहारात्तद्वयापारो मरणेऽन्यथासिद्धतया न हिंसा । व्याघ्रमरणोद्देशेन कृतो यन्त्रार्पणादिर्यत्र तत्र दैवाद्वादिमरणेऽपि न हिंसारूपस्तथा न व्याघ्रादिहिंसारूपोऽपि तत्करणदशायां हन्तीत्यप्रयोगात्। अतथात्वेऽपि तन्मरणोद्देश्यकादृष्टद्वारकतन्मरणप्रयोजककृतिजन्यव्यापारस्यापि हिंसावत् पापजनकत्वादुक्तस्थले गोवधाभिसंधाने गोवधप्रायश्चित्ताचरणमित्यवधेयम् । एवं च चैत्रः पचतीत्यादौ विषयताघटितकर्तृत्वबोधनिर्वाहाय यथा कृतौ पाकादेरुपधायकत्वविषयित्वोभयसं Page #276 -------------------------------------------------------------------------- ________________ २६८ व्युत्पत्तिवादः [ कारके बन्धेनान्वयः, विषयितायाः संबन्धत्वेऽपि उपधायकत्वनिवेश आवश्यकः। पाकाद्यनिष्पत्तिस्थले पचति पश्यतीत्यादिप्रयोगस्य प्रामाण्यवारकत्वात्। तथा चैत्रेण पच्यत इत्यादावपि तृतीयार्थकृतेजन्यत्वविषयित्वोभयसंबन्धेनान्वयो बोध्यः । कृतिजन्यत्वस्य तृतीयार्थत्वे जन्यत्वसंबन्धमध्य एव स्वनिरूपकविषयत्वं प्रवेशनीयम् । कृतिविषयत्वमेव वा तृतीयार्थः । स्वनिरूपकजन्यत्वं विषयतायाः संबन्धमध्येऽन्तर्भावनीयम् । काष्ठेन पचतीत्यादौ करणत्वं तृतीयार्थः। तच्च व्यापारवत्कारणत्वम् । व्यापारे कर्तृव्यापाराधीनत्वं निवेशनीयम् । अन्यथा कत्तुरपि करणतापत्त्या चैत्रश्चैत्रेण पचति, काष्ठं चैत्रेण पचतीत्यादिप्रयोगापत्तेः। न च कर्तुश्चेष्टादिरूपव्यापारस्य तदीयकृत्यादिरूपव्यापाराधीनतया तद्विशेषणदानेऽपि कर्तुः करणत्वं दुर्वारमेवेति वाच्यम् । स्वभिन्नत्वेन कर्तुविशेषणीयत्वात् । यत्रैकैव पाकादिक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषादिप्रक्षेपेण निष्पाद्यते तत्र चैत्रस्तुमैत्रः काष्ठैः पचतीति प्रसङ्गः समभिव्याहृतकर्तृव्यापाराधीनत्वस्य तत्तत्करणव्यापारे भानमुपगम्य वारणीयः। न च समभिव्याहृतकत्रन्तर्भावेण तृतीयार्थत्वे कर्बसमभिव्याहारस्थले करणे तृतीयाया अप्रयोगापत्तिरिति वाच्यम् । तत्रापि हेताविति सूत्रेण हेतुतामात्रार्थकतृतीयासंभवाद् धनेन कुलं विद्यया यश इत्यादिवत् न हि तत्र करणे तृतीया क्रियायोगाभावात् । न चैवमुक्तस्थले चैत्रस्तुषेण पचतीति प्रयोगस्य हेताविति सूत्रबलादापत्ताविष्टापत्ति विनोत्तराभावात्समभिव्याहृतक–न्तर्भावस्य करणे स्वतन्त्रतृतीयानुशासनस्यैव वा वैयर्थ्यमिति वाच्यम् । उक्तस्थले पाके तुषहेतुकत्वाभावबाधेऽपि चैत्रस्तुषेण न पचति किन्तु दारुणैवेति प्रयोगोपपत्तये समभिव्याहृतकव॒न्तर्भावेण तृतीयायाः शक्तिकल्पनाया श्रावश्यकत्वात् । तद्ग्राहकतयैव करणे तृतीयानुशासनस्यावश्यकत्वात् । शरैः शातितपत्रोयमित्यादौ तृतीयायाः कारकविभक्तित्व एव Page #277 -------------------------------------------------------------------------- ________________ तृतीया ] जयाऽलङ्कृतः २६६ तदर्थान्वितार्थकशातितादिपदेन समासस्य साधुतानिर्वाहाच्च । न च तृतीयायाः समभिव्याहृतकञन्तर्भावेण करणत्वार्थत्वे तत्र समभिव्याहृतकत्रभावादकारकविभक्तित्वं करणे तृतीयानुशासनेऽपि दुर्वारमेवेति वाच्यम् । एतदनुरोधेन तत्र कर्तुरध्याहरणीयत्वात् । वस्तुतः समभिव्याहृतकर्तृव्यापाराधीनत्वें व्यापारवत्कारणत्वे च तृतीयायाः शक्तिद्वयम् । कञसमभिव्याहारस्थले व्यापारवत्कारणत्वमात्रं प्रतीयते। कर्तसमभिव्याहारस्थले च व्यापारे तद्वयापाराधीनत्वमपीति सामञ्जस्यम् । एवं हेत्वनुशिष्टतृतीयाया अकर्तयणे पञ्चमीत्यनेन बाधनात्करणत्वविवक्षायां धनवता ऋणेन बद्धोयमित्यत्र तृतीयाया उपपत्तये करणे तृतीयानुशासनस्यावश्यकता। करणत्वं च फलोपधानरूपमेव करणताघटकम् । अन्यथा कुठारादिकरणकच्छिदादौ दात्रादेरपि स्वरूपयोग्यतया करणत्वापत्तेः। लिजशारानुमितिकरणतामते धूमेन वह्निमनुमिनोतीत्यादौ धूमादिपदं तज्ज्ञानपरम् । व्याप्तिविशिष्टहेतुज्ञानस्य व्यापारस्तद्विशिष्टवैशिष्ट्यावगाही परामर्शः। स चात्ममनोयोगादिरूपानुमातृपुरुषव्यापाराधीन इति तस्य निरुक्तकरणत्वमवाधितमेव । धूमादिलिङ्गकवह्नयनुमितौ यत्र लिङ्गान्तराद्घटादिभानं तत्र तेन घटमनुमिनोमीति न प्रयोगः। अन्वयितावच्छेदकतद्विधेयकानुमितित्वावच्छेदेनैवान्वयितावच्छेदकधूमादिविषयकज्ञानत्वावच्छिन्नत्वेन भासमानस्य करणत्वस्य निरूपकत्वभानोपगमात्। निरूपकत्वं तु करणतामात्रस्य तृतीयार्थतावादिनां प्राचां मते संसर्गः। नव्यमते तु करणतानिरूपकत्वस्यैव नअर्थाभावे प्रतियोगित्वेनान्वयात्तावत्पर्यन्तस्य तृतीयार्थतया प्रकारतेत्यन्यदेतत् । परे तु लिङ्गज्ञानस्य करणत्वेऽपि धूमेनानुमिनोतीत्यादौ धूमादिपदं मुख्यार्थमेव हेताविति सूत्रेण तत्र हतीया । हेतुत्वस्य कारणतावच्छेदकसाधारणप्रयोजकत्वरूपस्य तत्र विवक्षितत्वात् । जन Page #278 -------------------------------------------------------------------------- ________________ २७० व्युत्पत्तिवादः . [ कारके कज्ञानविषयधूमादेश्वानुमितिकारणतावच्छेदकतया प्रयोजकत्वमक्षतमेव । उक्तसमूहालम्बनस्थलेऽतिप्रसङ्गश्च वह्निविधेयकानमितित्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युपगमेन वारणीयः । वस्तुतो जनकतावच्छेदकादिनिष्ठप्रयोजकतानिरूपकत्वं कार्यस्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च। तथा चानुमितिविशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थ एव तृतीयार्थान्वय उपगम्यते । समूहालम्बनानुमितिनिष्ठघटादिविधेयकत्वस्य धूमाद्यप्रयोज्यतया नोक्तार्थातिप्रसङ्गः। धूमेन वह्निमनुमिनोति न घटेनेत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति । अपि तु नञर्थाभावप्रतियोग्यन्वयिनि वह्नयादिविधेयकत्व एवातो यत्र धूमादिलिङ्गवह्नयनुमितौ घटादिरूपलिङ्गाधीनं द्रव्यत्वादिभानं तत्र धूमेन वह्निमनुमिनोति न घटेनेति प्रयोगोपपत्तिः। समूहालम्बनरूपतादृशानुमितौ घटादिरूपलिङ्गप्रयोज्यत्वाभावस्यासत्त्वेऽपि वह्नयादिविधेयकत्वे तदबाधात् । न ह्यनुमितावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नघटादिलिङ्गप्रयोज्यत्वस्य वह्नयादिविधेयकत्वावच्छेदेनाभावो बाधित इति संभवति । प्रयोज्यताया व्याप्यवृत्तित्वात् । एतेनानुमितौ धूमादिलिङ्गज्ञानकरणकत्वं तृतीयया प्रत्याय्यते । करण एव तृतीया तत्रेति मतं प्रत्युक्तम् । उक्तस्थलेऽनुमितौ नबर्थान्वययोग्यताया अनुपपत्तेः। वह्नयादिविधेयकत्वे धूमादिज्ञानरूपकरणजन्यतावच्छेदकत्वतदभावौ तृतीयान्ततत्समभिव्याहृतनभ्यां प्रत्याय्येत इत्यपि न सत्। कारकविभक्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात् । न चोक्तस्थले वह्नयादिविधेयकत्वावच्छेदेन घटादिरूपलिङ्गज्ञानजन्यतावदनुमितिमस्वाभावः पुरुषनिष्ठो नत्रा प्रत्याय्यते। तादृशानुमितिघंटादौ वह्नयादिलिङ्गत्वभ्रमदशायां प्रसिद्धति वाच्यम् । धूमेन वढेरनुमानमिदं न घटेनेत्यादावनुमितिमत्त्वाद्यभावबोधानुपपत्तेरिति प्राहुः । पर्वतो धूमेन वह्निमानित्यादौ क्रियायोगाभावाद्धेतुतृतीयैव तत्र ज्ञापकज्ञा Page #279 -------------------------------------------------------------------------- ________________ २७१ तृतीया ] जयाऽलङ्कृतः नविषयत्वं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्त्वं तृतीयार्थः। हेतुशब्दो यद्यपि कारणपर्यायो न तु ज्ञापकपर्यायस्तथापि हेतावितिसूत्रस्थहेतुपदं न समभिव्याहृतनिरूपितहेतुतामात्रपरमपितु समभिव्याहृततज्ज्ञानान्यतरनिरूपितहेतुतापरमेवेति समभिव्याहृतवह्नयादिज्ञानहेतुज्ञानविषयधूमादिपदादपि तृतीया तत्सूत्रेणानुशिष्यते । गुणहेतौ पञ्चम्या विकल्पेन विधायकसूत्रान्तरमप्यन्यतरनिरूपितहेतुताविषयकमेवातो जाड्याबद्धो जाड्येन वेत्यत्र जाड्यहेतुतावद्धूमावह्निमान् धूमेन वेत्यादौ धूमादेवह्नयादिज्ञानहेतुता प्रतीयते । हेतुत्वं च पूर्वोक्तं प्रयोजकत्वमेव । गुणपदं च न रूपादिचतुर्विंशतिपरम्। धूमादिहेतौ तत्त्वासम्भवात्। न तत्र धूमादिपदं तज्ज्ञानपरमेवेति तादृशगुणत्वमेव वह्नयादिहेतोरिति वाच्यम् । तत्र धूमादिज्ञानलाक्षणिकत्वेऽप्यज्ञानाबद्ध इत्यादावभावरूपबन्धादिहेतोस्तथात्वासंभवात् । नापि धर्ममात्रपरम् । गगनादेरपि कालिकसंबन्धेन धर्मतयाऽव्यावर्तकत्वात् । समवायादिना धमत्वं चाभावाद्यसंग्राहकम् । नापि द्रव्याश्रितत्वम् । सत्तावान् गुणत्वादित्यादौ पञ्चम्यन्तस्यालाक्षणिकत्वपक्षे पञ्चम्यनुपपत्तेः । किन्तु कार्यस्य ज्ञाप्यस्य वाश्रये आश्रितत्वम् । जाड्यादेः स्वप्रयोज्यबन्धाश्रये धूमादेश्व स्वज्ञाप्यवह्नयाद्याश्रय आश्रितत्वाद्गुणत्वम्। हेतौ तद्विशेषणप्रयोजनं च पितुः पाण्डित्येन पुत्र आहूतो धूमस्य स्वस्मिन्सत्त्वेन पर्वतो वह्निमानित्यादौ पञ्चमीवारणम् । ज्ञापकत्वं च तज्ज्ञानजनकप्रमाविषयत्वं ज्ञाप्यत्वमपि प्रमाजन्यज्ञानविषयत्वम् । अतो वह्नयादेाप्यताभ्रमेण धूमादिज्ञापकत्वसत्त्वेऽपि वह्निना वह्वेर्वा धूमवानयमित्यादयो न प्रयोगाः । प्रमात्वं च यावद्भ्रमभिनत्वरूपं विवक्षणीयम् । तेन धूमव्याप्यो वह्निरित्यादिज्ञानस्य वह्नित्वाद्यंशे प्रमात्वमादाय नोक्तातिप्रसङ्गः। द्रव्यत्वादेः प्रमेयत्वावच्छिन्नवह्नयादिज्ञापकत्वेऽपि विशिष्टद्रव्यत्वादिना वह्नित्वाद्यव Page #280 -------------------------------------------------------------------------- ________________ २७२ व्युत्पत्तिवादः [ कारके च्छिन्नज्ञापकत्वेऽपि च पर्वतो वह्निमान द्रव्यत्वाद् द्रव्यत्वेन वेत्यादिर्न प्रयोगः। अन्वयितावच्छेदकवह्नित्वद्रव्यत्वत्वादिना ज्ञाप्यज्ञापकभावस्य तृतीयादिना बोधनात् । तत्र तेन रूपेण ज्ञाप्यज्ञापकभावविरहात् । एवं ज्ञाप्यवह्नयादिमत्त्वान्वयितावच्छेदकपर्वतत्वावच्छिन्नांशे ज्ञापकत्वं ज्ञाप्यत्वं वा प्रतीयत इत्यपि नियमः। तेन पर्वतो वह्निमान महानसत्वान्महानसेन वेत्यादयो न प्रयोगाः । ___अत्रेदमवधेयम् । पर्वतो बह्निमान धूमान्न द्रव्यत्वान्नापि महानसत्वादित्यादौ नञा वह्नयादौ द्रव्यत्वमहानसत्वादिज्ञाप्यत्वाभावबोधने बाधः । तत्र प्रमेयत्वादिना द्रव्यत्वादिज्ञाप्यत्वस्य महानसादौ महानसत्वादिज्ञानज्ञाप्यत्वस्य च सत्त्वात् वह्नित्वादिना द्रव्यत्वादिज्ञाप्यत्वस्य पर्वतादौ महानसत्वज्ञाप्यत्वस्य चाप्रसिद्धथा नाभावप्रत्यायनसंभव इति ज्ञानप्रयोज्यत्वं ज्ञानजन्यतावच्छेदकत्वरूपं समभिव्याहृतपर्वतादिविशेष्यतानिरूपितं विधेयत्वञ्च विशकलितं पञ्चम्यर्थः विशिष्टलाभोऽन्वयबलात् । एवं चोक्तस्थले नया विधेयतायां द्रव्यत्वमहानसत्वादिज्ञानप्रयोज्यत्वाभावः प्रत्याय्यते । तत्प्रयोज्यत्वं च प्रमेयत्वाद्यवच्छिन्नविधेयतायां प्रसिद्धम् । न चैवं पर्वतो वह्निमान न धूमादित्यादेरपि प्रसङ्गः । धूमत्वाद्यवच्छिन्नविषयकज्ञानाप्रयोज्यतत्तद्वह्नित्वाद्यवच्छिन्नविधेयताया वह्नयादावबाधितस्वादिति वाच्यम् । पर्वतादिविशेष्यतानिरूपितवह्नित्वावच्छिन्नविधेयतात्वावच्छेदेन विधेयतायां नाऽभावान्वयबोधोपगमात् । यत्र वह्नित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं तत्रैव तदवच्छेदेनेतरान्वयः संभवति । अत्र च वह्नित्वावच्छिन्नत्वाविशेषितं विधेयतात्वमेव तथेति कथं तदवच्छेदेनाभावान्वय इति तु न शङ्कयम् । पञ्चम्याद्यर्थविधेयताया वह्नयादौ वह्नित्वाद्यवच्छेदेनान्वयोपगमात्तदवच्छेदेन तदन्वये चावच्छेदकतद्रूपस्य तद्विशेषणांशे धर्मिपारतन्त्र्येण प्रकारत्वात् । प्रकृते स्वरूपसंबन्धरूपवह्नित्वाद्यवच्छि Page #281 -------------------------------------------------------------------------- ________________ तृतीया ] जयाऽलङ्कृतः २७३ नत्वेन सहितम्य विधेयतात्वस्यैवान्वयितावच्छेदकत्वात् । वह्नयादिपदमेव तदवच्छिन्नविधेयताशालिज्ञानपरम् । तदुत्तरमतुबादिप्रत्ययो विशेष्यतारूपसंबन्धपर इति प्राचीनमते तु वह्नित्वाद्यवच्छिनविधेयतात्वस्यान्वयितावच्छेदकत्वमविवादमेव । विधेयतायास्तत्तत्संबन्धावच्छिन्नविधेयतात्वेन पञ्चम्याद्यर्थत्वं स्वीकरणीयम् । तेनायं जानाति आत्मत्वान्न द्रव्यत्वादित्यादौ विषयतासंबन्धावच्छिन्नायां प्रकृतविशेष्यतानिरूपितज्ञानविधेयतायां द्रव्यत्वादिरूपलिङ्गज्ञानप्रयोज्यत्वसत्त्वेऽपि नावच्छेदकावच्छेदेनाभावान्वयायोग्यत्वम्। संबन्धविशेषावच्छिन्नविधेयतात्वरूपान्वयितावच्छेदकावच्छेदेनाभाववत्त्वबोधात् । एवं ज्ञानप्रयोज्यत्वप्रविष्टं ज्ञानमपि तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशेषितमर्थः। तेन समवायेन हेतुत्वपरस्यायं वह्निमान तद्रूपान्न तु धूमादिति प्रयोगस्य नायोग्यता। वह्निविधेयतायां संयोगेन धूमप्रकारकज्ञानप्रयोज्यत्वसत्त्वेपि समवायसंबन्धावच्छिन्नतत्प्रकारताशालिज्ञानप्रयोज्यतात्वरूपान्वयितावच्छेदकावच्छिन्नाभावस्याबाधात्संबन्धविशेषघटितधर्मस्यान्वयितावच्छेदकतया भाननियामकं तु तात्पर्यमेव वह्नयादिविधेयताया व्याप्त्यादिघटकाभावादिज्ञानप्रयोज्यत्वसत्त्वेऽपि पर्वतो वह्निमानभावादित्यादिर्न प्रयोगः । मुख्यविशेष्यतानिरूपितप्रकारताया एव निवेशनीयत्वादिति दिक् । केन हेतुना कस्मै हेतव इत्यादौ विभक्तिभिहेतुताविशिष्टे हेतुताबोधयितुमशक्या पौनरुक्त्यादिति न शङ्कथम् । हेतुशब्दस्य स्वरूपयोग्यपरत्वात् । विभक्तेः फलोपधानपरत्वात् । दण्डवान् रक्तदण्डवानितिवत् कार्यविशेषानुपरक्तहेतुताविशिष्टे कार्यविशेषोपरक्तहेतुताबोधेऽनाकाङ्क्षताविरहाच्च । न चान्वयबोधसंभवेऽपि हेतुशब्दप्रयोगवैयर्थ्यम् । फलोपधायकतालाभे स्वरूपयोग्यताया अर्थाल्लाभसंभवादिति वाच्यम् । विभक्तरन्यार्थताया अप्यन्यत्र दृष्टत्वाद्धतुतापरत्वनिश्चयाथै तत्प्रयोगात् । १८ Page #282 -------------------------------------------------------------------------- ________________ २७४ व्युत्पत्तिवादः [ कारके स्वार्थगोगेऽपि साहित्यप्रतियोगिवाचकपदात्तृतीया पुत्रण सहागत इत्यादौ । अथ यदि सहशब्दार्थः समभिव्याहृतपदोपस्थाप्यक्रियासमानकालीनक्रियान्वयित्वम्, तदन्वयित्वं च समभिव्याहृतक्रियाबोधकपदेन क्रियाया यादृशः सम्बन्ध साहित्यान्वयिनि प्रत्याय्यते तादृशतत्संबन्ध एव, स च पुत्रेणेत्यादौ कर्तृत्वम् । दन्ना सहौदनो भुज्यत इत्यादौ कर्मत्वादिस्तृतीयार्थोऽपि स एव संवन्धः, तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तत्वदधिकर्मकभोजनसमानकालीनभोजनकर्मत्वादिकं पुरुषौदनादौ तत्र तत्र प्रतीयत इत्युच्यते तदा सहशब्देनैव तत्तत्क्रियाकर्तृत्वबोधने क्रियापदवैयर्थ्यम् । क्रियान्वयिनि क्रियान्वयबोधस्योद्देश्यतावच्छेदकविधेययोरभेदेन निराकाङ्क्षतयाऽसंभवाच्च । न च तत्तक्रियासमानकालीनत्वमात्रं सहशब्दार्थः । तस्य च क्रियापदोपस्थापितक्रियायामेवान्वय इति क्रियापदसहितसहशब्दादेवोक्तविशिष्टार्थलाभ इति वाच्यम् । एवं सति पुत्रेण सहागत इत्यादौ सहशब्दार्थस्य क्रियापदार्थान्वयित्वेनान्यसापेक्षतया तेन सह पुत्रशब्दम्य समासासंभवेन सपुत्र इत्यादिप्रयोगानुपपत्तेः । न ह्यत्र समासे सहार्थस्य प्राधान्यम् । येनान्यसापेक्षत्वेऽपि समासो भवेत् किंतु बहुव्रीहित्वादन्यपदार्थप्राधान्यमेवेति चेन्न । समभिव्याहृतपदोपस्थाप्यक्रियाकाल एव सहशब्दार्थः तस्य क्रियान्वयिनि नामार्थ एवान्वयः । तादृशकालविशिष्टे नामार्थे क्रियान्वये च क्रियायामपि तादृशकालावच्छिनत्वं भासते। उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पत्तिसिद्धत्वात् । अतः क्रियाद्वयसमानकालीनत्वलाभ इति सामञ्जस्यात्। अथवा आगमनसमानकालीनागमनादिकमेव सहशब्दार्थः।तस्य कर्तृत्वादिसंबन्धेन पुरुषादावन्वयः। तादृशसंबन्धेन तद्विशिष्टे चागत आगच्छतीत्यादिपदोपस्थाप्यागमनकर्तृत्वादीनामन्वये न व्युत्पत्तिविरोधः। विधेयस्योद्देश्यतावच्छेदकप्रकाराभेदविरहात्। नच सह Page #283 -------------------------------------------------------------------------- ________________ तृतीया ] जयाऽलङ्कृतः २७५ शब्दार्थान्वयवलादेव तक्रियाकर्तृत्वस्य पुरुषादौ लाभे प्रकारतयापि क्रियापदेन तत्प्रतिपादनमफलमिति तत्प्रयोगो व्यर्थ इति वाच्यम् । समभिव्याहृतपदेन तत्तत्क्रियाया अनुपस्थापने सहशब्देनापि तत्तक्रियाघटितसाहित्यस्याशक्यस्य बोधनं न संभवतीति क्रियापदप्रयोगस्यावश्यकत्वात्। सहशब्दार्थक्रियायाः कर्तत्वादिसंबन्धेन नामार्थेऽन्वयश्च न व्युत्पत्तिविरुद्धः। सहशब्दस्याधातुत्वात् , निपातत्वाच्च । न च 'प्रासोष्ट शत्रुन्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेने'त्यादौ शत्रुघ्नप्रसवलक्ष्मणप्रसवयोः समानकालीनत्वाभावात् क्रियाद्वयसमानकालीनतायाः सहशब्दार्थत्वासंभव इति वाच्यम् । तत्रापि स्थूलकालघटितसमानकालीनत्वसत्त्वात् । न च कालत्वेनैव कालस्य तदर्थान्तर्भावे पुत्रागमनपूर्वमागन्तरि आगतोऽयं न पुत्रेण सहेति प्रयोगानुपपत्तिः । पुत्रागमनाधिकरणस्थूलकालवृत्त्यागमनकर्तृत्वसत्त्वेनान्वयितावच्छेदकरूपावच्छिन्नप्रतियोगिताकसाहित्याभावबाधादिति वाच्यम् । तत्र क्षणत्वेनैव कालस्य सहशब्दार्थेऽन्तर्भावनीयत्वात् । एवं यत्र एककालेऽपि विभिन्नस्थले भुञ्जानमधिकृत्य न सह भुङ्क्त इति प्रयुज्यते तत्रैकशालारूपभोजनाधारोऽपि सहशब्दार्थऽन्तभोवनीयः। अत एवा'लापाद्वात्रसंस्पशान्निःश्वासात्सहभोजना'दित्यादिना पतितभोजनसमानकालीनभोजनमात्रस्य पापजनकत्वं न बोध्यते । एकपङ्क्तेरपि विवक्षणात् । एवं 'याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । सद्यः पतति कुर्वाणः पतितेन न संशय' इत्यादावेकदैकपात्रभोजनस्यैव सद्यःपातहेतुत्वं प्रत्याय्यते । तत्र तादृशार्थस्यैव सहशब्देन विवक्षणात् । अथ नामार्थस्यैव सहार्थविशेष्यतयान्वयोपगमे पुत्रेण सह नागच्छत्ययमित्यादौ सहशब्दार्थपुत्रसाहित्याभाव एव पुरुषांशे नबा बोध्यत इत्युपगन्तव्यम् । तच्च नोपपद्यते। तथासत्याख्यातार्थोद्देश्यतावच्छेदकतयैव नबर्थभानस्योपगन्तव्यतया प्रसज्यप्रतिषेधस्थले निषेधस्य Page #284 -------------------------------------------------------------------------- ________________ २७६ व्युत्पत्तिवादः [ कारके तं प्रति प्राधान्येन भाननियमव्याघातात् । एवमनागच्छन्तमपि पुरुषमधिकृत्य तथा प्रयोगात्तत्रायोग्यताप्रसङ्गाच्च । एतेन तत्र पर्युदासनञ्वत्क्रियायोगपरित्याग इत्युक्तावपि न प्रतीकारः । न च तत्रागमनाभावकाल एव पुरुषान्त्रयी सहशब्दार्थः । तथा च पुत्रागमनाभावकालावच्छिन्नपुरुषे वर्त्तमानकालावच्छिन्न आगमनाभावः प्रतीयत इति न काचिदनुपपत्तिरिति वाच्यम् । यत्रास्य पुत्र आयाति न त्वयं तत्रापि तादृशप्रयोगात् । तत्र च पुत्रागमनकालावच्छिन्नस्यागमन कर्तृत्वाभावस्य सत्त्वेऽपि पुत्रागमनकालावच्छिन्न एव पुरुषे वर्त्तमानकालावच्छिन्नागमनाभावस्य सत्त्वेनायोग्यतापातात् । मैवम् । सहशब्दार्थस्तत्तत्क्रियाकालः क्वचित्तत्तत्क्रियान्वयिप्रथमान्तपदार्थेऽन्वेति । कचिच्च समभिव्याहृतक्रियायाम् । सपुत्र आगच्छतीत्यस्य पुत्रेण सहागच्छति य इति विग्रहात् प्रथमान्तान्यपदार्थ एव पुत्रागमनकालान्वयो न तु क्रियायामिति न समासानुपपत्तिः । न वान्यपदार्थपुरुषालाभः । न चैवं समासलभ्यस्य पुत्रागमनकालावच्छिन्नस्य पुंसो विग्रहवाक्येनापि प्रतिपादनाबहुव्रीहिमात्रस्यैव नित्यसमासत्वमिति भज्येतेति वाच्यम् । बहुव्रीहिमात्रस्य तथात्वानियमात् । प्रथमान्तानुपस्थाप्यान्यपदार्थबोधकबहुव्रीहेरेव तत्त्वाभ्युपगमात् । अत्र चान्यपदार्थस्य प्रथमान्तोपस्थाप्यत्वात् । न च वृष्टे देवे गत इतिवत् प्रथमार्थे बहुव्रीहेरसाधुत्वमिति वाच्यम् । अनेकमित्याद्यनुशिष्टबहुव्रीहावेव तन्नियमात् । अत्र च सूत्रान्तरेण तद्विधानात् । अत एव तदारम्भोऽपि । पुत्रेण सह नागच्छतीत्यादौ च क्रियायामेव तादृशसहार्थान्वय इति पुत्रागमनकालीनागमनकर्तत्वाद्यभावः प्रथमान्तार्थे प्रतीयत इति सर्वं सुस्थम् । भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामपि गर्दभ्यां 'सहैव दशभिः पुत्रै' - रित्यादौ वर्त्तमानेत्यध्याहाराद्वर्त्तमानत्व क्रियामादायैव साहित्यबोध इति वदन्ति । Page #285 -------------------------------------------------------------------------- ________________ Namamurde KAAMITHAMMAMIAratana . '-. तृतीया ] जयाऽलङ्कृतः २७७ इत्थंभूतलक्षण इत्यनेन लक्षणवाचिपदात्ततीयाऽनुशिष्यते। लक्षणत्वं च व्यावर्तकत्वं तच्च विशेष्यतावच्छेदकसमानाधिकरणाभावप्रतियोगित्वम् । तदाश्रयश्च धर्मो द्विविधो विशेषणमुपलक्षणं च । विद्यमानं सद्यावर्तकं विशेषणम् । पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिः । अविद्यमानं व्यावर्तकमुपलक्षणम् । तापसादेः कालान्तरीणजटादिकम् । विशेषणस्य संबन्धो मतुबादिभिः प्रत्याय्यते । अस्तीत्यर्थे विहितानां वर्त्तमानसंबन्धार्थकत्वात्। अतो जटाभिस्तापस इत्यादावविद्यमानजटादेः संबन्धविवक्षया मतुबाद्यनवकाशात् तृतीया । तथा च विद्यमानत्वस्याविद्यमानत्वस्येवाप्यप्रत्यायनात् विशेषणवाचिपदादपि तृतीया। यथा ज्ञायमानत्वेन लिङ्गं करणमित्यादौ । अथ तत्र ज्ञायमानत्वादिवैशिष्टय तृतीयया लिङ्गादौ न प्रत्याय्यते अपि तु पदार्थंकदेशे करणत्वादावेव । तदवच्छिन्नत्वमिति चेत्तथापि सा विशेषणतृतीयैव अनुशासनान्तराभावात् । वस्तुतो लिङ्गादौ ज्ञायमानत्वादिवैशिष्टयबोधनेऽपि संबन्धविधया करणत्वज्ञायमानत्वाद्योरवच्छेद्यावच्छेदकभावभानसंभवादेकदेशान्वयस्वीकारोऽनुचितः। न च संबन्धविधया करणत्व एकदेशेऽवच्छिन्नत्वभानेऽप्येकदेशान्वयध्रौव्यमिति वाच्यम् । करणाभेदरूपे करणत्वे करणस्य संबन्धविधया भासमाने ज्ञायमानत्वावच्छिन्नत्वस्यावच्छेदकतया भानोपगमेनैकदेशान्वयं विनाप्यवच्छेद्यावच्छेदकभावभानात् । अथ दण्डवानयमासीदण्डी गतवानित्यादौ दण्डस्यातीततया विशेषणत्वासंभवान्मतुबाद्यनुपपत्तिरिति चेन्न । प्रकृतशब्दप्रयोगाधिकरणकालावच्छिन्नस्येव विधेयान्तरसमभिव्याहारस्थले तदधिकरणकालावच्छिन्नस्य संवन्धस्यापि मतुबादिना प्रत्यायनात् । तत्रातीतकालसत्त्वादिरूपविधेयाधिकरणातीतादिकालावच्छिन्नसंबन्धस्यैव मतुवाद्यर्थत्वात् । अविद्यमानोऽपि दण्डादिर्धर्मान्तरसंबन्धसमानकालीनतया धर्मा Page #286 -------------------------------------------------------------------------- ________________ २७८ व्युत्पत्तिवादः [ कारके न्तरान्वयिनि विशेषणम्। तत्प्रकारेण भासमाने धर्मान्तरान्वयबोधो विशिष्टवैशिष्ट्यबोध इत्युच्यते। न त्वसावन्वयिन्युपलक्षणम् । न वा ताशबोधस्तदुपलक्षितान्वयवोध इत्युच्यते । कचिद्विधेयान्तरसमानकालीनमपि विशेषणं तदन्वयितया तदन्वयिन्युपलक्षणमुच्यते । यथा रूपवान् रसवानित्यादौ रूपादिकं रसान्वयिनि । सास्तावान् गोपदवाच्य इत्यादौ सानादिकं गवादिपदवाच्ये । कचिद्धर्मिसंबद्धधर्मान्तरसंबन्धितानवच्छेदकतया धर्मान्तरसंबन्धिन्युपलक्षणमतो दण्डपुरुषावित्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षितपुरुषादिविषयको न तु विशिष्टविषयक इत्युच्यते । विशेष्यसंबन्धासंवन्ध्यपि तत्संबन्धितावच्छेदकतया तद्वति विशेषणम् । अत एव संज्ञाविशिष्टसंश्यादिज्ञाने संज्ञादेर्विषयत्वमनङ्गीकुर्वतां प्राभाकराणां प्राचीननैयायिकानां च मते तटस्थज्ञानविषयतयैव विषयतावच्छेदकत्वात्संज्ञादेः प्रकारस्य ज्ञानविषयविशेषणत्वम् । अत एव द्वित्वनाशकालीनायां द्वे द्रव्य इति बुद्धौ न द्वित्वविषयकत्वमपि तु द्वित्वविशिष्टविषयकत्वमेव, द्वित्वरूपविशेषणधीजन्यत्वादित्याचार्याः । एवमप्रतियोगित्वाविशेषेऽपि घटसामान्याभावादिप्रतियोगिनि घटत्वादिकं विशेषणं नीलादिकमुपलक्षणमित्युच्यते। कचिच्च विद्यमानमप्यतव्यावृत्तिन्यूनाधिकवृत्तितया तत्र न विशेषणमित्युच्यते किंतूपलक्षणम् यथा । विद्यमानापि जटा तापस उपलक्षणं, न तूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणमित्यलम् । ___क्वचिदविशेषणस्यापि संवन्धो मत्वर्थीयेन बोध्यते घटोऽयं विनाशीत्यादिप्रयोगदर्शनादिति दीधितिकृतः। तदसत्। आवश्यकार्थधातूत्तरणिनिप्रत्ययेनापि तत्र विनाशिपदव्युत्पत्तेरिति ।। इति महामहोपाध्यायगदाधरभट्टाचार्य विरचिते व्युत्पत्तिवादे तृतीयाविवरणम् । Page #287 -------------------------------------------------------------------------- ________________ चतुर्थी ] जयाऽलङ्कृतः २७६ अथ चतुर्थीविवरणम् ब्राह्मणाय गां ददातीत्यादौ संप्रदानचतुर्थ्या ब्राह्मणादिसंप्रदानकत्वं दानादौ बोध्यते। संप्रदानत्वं च मुख्यभाक्तसाधारणक्रियाकर्मसंबन्धितया कत्रभिप्रेतत्वम्। क्रियाकर्मत्वं क्रियाजन्यफलशालित्वं तद्वतस्संबन्धस्तनिष्ठफलभागित्वमेव । तपन क्रियाजन्यफलभागितया कर्तुरिच्छाविषयत्वं पर्यवसन्नम् । कर्मणा यमभिप्रैतीत्यस्य कर्मणा यमभिसंबद्धुमिच्छतीति शाब्दिकैर्विवरणादुक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागितया दातुरिच्छाविषयो ब्राह्मण इति तस्य संप्रदानत्वम् । अब निरुक्तस्य संप्रदानत्वस्य कर्मत्वस्याविशेषः । कर्तुरीप्सितेति सूत्रेण कर्तुः क्रियया व्याप्नुमिष्टस्य कर्मसंज्ञाविधानात् । क्रियाया व्याप्तुमिष्टत्वमपि हि क्रियाजन्यफलभागितयेच्छाविषयत्वमेव । न च तथायुक्तमित्यनेन तद्भागितयाऽनभिप्रेतस्यापि तदाश्रयस्य तत्संज्ञाविधानात् । कर्मत्वं क्रियाजन्यफलशालित्वमेवन त्विच्छागर्भम्। संप्रदानत्वं त्विच्छागर्भमतो भेदः। कर्मत्वस्येच्छाऽघटितत्वे सूत्रे तद्वैयर्थ्यांपत्तेः । न च तदाश्रयत्वेनानभिप्रेतस्यापि कमत्वेन तत्साधारणक्रियाजन्यफलशालितयेष्टस्यापि ग्रामादेः कर्मतोपपत्ताविच्छाघटिततत्सूत्रवैयर्थ्यमेवेति वाच्यम् । इच्छाघटितस्य निरुक्तरूपस्य यत्र बाधस्तत्र ताशरूपमपि कर्मप्रत्ययेन प्रतिपाद्यत इत्येतत्प्रतिपादनाय सूत्रद्वयप्रणयनात् । अत एव यत्रौदनस्य गलाधःसंयोगेच्छया यो व्यापारस्ततो विषादेरपि तत्संयोगस्तत्र विषादौ क्रियाजन्यफलशालित्वाभावबाधेऽपि तेन रूपेणेच्छाविषयत्वाभावोऽबाधितस्तत्र विषमनेन न भुज्यत इति प्रयोगोपपत्तिः। इच्छाघटितकर्मत्वतात्पर्येण च देवाद्विषं भुज्यत इति प्रयोगस्य चोपपत्तिः।नच धात्वर्थतावच्छेदकफलशालित्वेनोद्देश्यत्वं कर्मत्वम् । तदनवच्छेदकफलशालित्वेनोहेश्यत्वं संप्रदानत्वमिति Page #288 -------------------------------------------------------------------------- ________________ २८० व्युत्पत्तिवादः [ कारके विशेषः । स्वस्वत्वध्वंसावच्छिन्नत्याग एव ददात्यर्थो न तु परस्वत्वफलावच्छिन्नोऽपीति वाच्यम् । उपेक्षायामपि दहातेमुख्यार्थतापत्तेः। मैवम् । फलायलपेष्टल्कमेकाहि कर्मलम् । फलसंबन्धितयेष्टत्वं संपनत्वम् । ब्राह्मणादिश्च न त्यागजन्यस्वत्वाश्रयतया दातुरिष्टोऽपि तु तन्निरूपकतयैवातो न तस्य कर्मता। न चाश्रयत्वमपि संबन्धविशेष इति गवादेरपि संप्रदानत्वं दुर्वारम् । आश्रयत्वेनाभिप्रायस्थले कर्मसंज्ञया बाधादन्य एव हि संबन्धः संप्रदानताघटक इति यद्युच्येत तदा वृक्षायोदकमासिञ्चति, पत्ये शेत इत्यादौ सेकजन्यजलसंयोगशयनजन्यप्रीत्याद्याश्रयतयाभिप्रेतस्य वृक्षपत्यादेः संप्रदानत्वानुपपत्तिरिति वाच्यम् । धात्वर्थतावच्छेदकफलाश्रयत्वभिन्नफलसंबन्धस्य संप्रदानत्वशरीरे निवेशेन सामञ्जस्यात् । वृक्षायोदकमासिञ्चतीत्यादौत्रकलब्यकियानकलव्यापारो धात्वर्थः। सम्प्रदानतानिर्वाहकसंयोगश्च न तादृशधात्वर्थतावच्छेदक इति तदाश्रयत्वं निरुक्ताश्रयताभिन्नमेवेति तत्प्रकारकाभिप्रायविषयवृक्षादे: संप्रदानतानिर्वाहात् । न च पत्ये शेत इत्यादौ पात्वर्थतावच्छेदकफलाप्रसिद्धथा तदनुपपत्तिः। भेदप्रतियोगिविष्टधात्वर्थतावच्छेदके फलत्वानिवेशेन प्रसिद्धिसंभवात् । एवं च बाह्मणायेत्यादौ ब्राह्मणनिरूपितत्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकर्तेति बोधः । निरूपितत्वेन कर्तुरिच्छाविषयत्वं द्वितीयान्तार्थगोवृत्तित्वान्वयिधात्वर्थतावच्छेदकस्वत्वान्वयिचतुर्थ्यर्थः। स्वत्वजनकत्यागश्च ददात्यर्थः। अत्र केचित् । ददातियोगे धात्वर्थतावच्छेदकस्वत्वनिरूपकत्वमेव संप्रदानत्वं तदेव च मुख्यम् । तथा च तत्र निरूपितत्वमात्रं चतुथ्यों धात्वर्थतावच्छेदकस्वत्वेऽन्वेति । अत एव श्राद्धस्य पित्रपेक्षया यागत्वमेव दानत्वं तु ब्राह्मणापेक्षति शूलपाणिः । तत्र त्यज्यमानेऽर्थे पितॄणां स्वत्वानुत्पत्त्या संप्रदानत्वासंभवात् स्वत्वभा Page #289 -------------------------------------------------------------------------- ________________ चतुर्थी ] जयाऽलङ्कृतः २८१ गित्वेनोद्देश्यत्वं यदि संप्रदानत्वं स्यात्तदा पितृणामपि तथात्वाक्षतेः, पित्रपेक्षयापि दानत्वं स्यात् । न हि श्राद्धे पितृणां स्वत्वभागित्वेन नोद्देश्यत्वम् । पितरेतत्तेऽन्नं स्वधेत्यादिश्राद्धरूपत्यागाभिलापस्य स्वधार्थे त्यागे चतुर्थ्याः स्वत्वभागित्वेन पित्रादेरुद्देश्यत्वबोधकत्वात् । स्वत्वभागित्वेनोद्देश्यस्यापि पित्रादेः स्वीकाराभावान्न स्वत्वं ब्राह्मणानां तत्रानुद्देश्यत्वेऽपि स्वत्वं प्रतिपत्तितो जायते । अनुद्देश्यत्वेऽपि च संप्रदानत्वमुपपादितमेव । पितृणामिव ब्राह्मणानामपि च स्वत्वभागित्वेनोद्देश्यत्वमप्यविरुद्धम् । धात्वर्थतानवच्छेदकफलभागितया यत्र संप्रदानत्वं वृक्षायोदकं सिञ्चति, पत्ये शेत इत्यादौ तत्रोद्देश्यत्वांशनिवेश आवश्यकः । यत्रान्योद्देशेन क्षिप्तजलस्य दैवावक्षसंयोगोऽन्योद्देशेन शयनादितश्च पत्यादेः फलसबन्धस्तत्र तथा प्रयोगविरहात्। अत एव तत्र चतुर्थ्यर्थः वृक्षादिनिष्ठतया कत्रंभिप्रेततत्तत्फलं प्रति जनकत्वम्। तच्च सेकादिक्रियायामन्वेति । भाक्तं च तत्र संप्रदानत्वम् । उद्देश्यत्वागर्भसंप्रदानत्व एव लाघवाच्छक्तेरितरत्र लक्षणाया अभ्युपगमात् । पितृभ्यो दद्यादित्यादावनिर्धारितकर्तृकसंप्रदाने चतुर्थी । तत्त्वं च तत्र त्यागजन्यस्वत्वभागितयोद्देश्यत्वमेव । अथ जनान्तरस्य वृक्षादिनिष्ठजलसंयोगादिरिच्छाविषयोऽन्येन च जनेनान्योद्देशेन क्षिप्तजलादेव॒क्षादिसंयोगस्तत्रापि वृक्षायोदकमासिञ्चति जन इत्यादिप्रयोगापत्तिः । तत्तद्वयक्तित्वस्य पदेनानुपस्थापनात्। तेन रूपेण विशेष्यभूतकर्तव्यक्तीनामिच्छांशे भानासंभवादुपस्थितजनत्वावच्छिन्नेच्छाविषयत्वस्य च वृक्षसंयोगादावबाधात् । एवं तदीयकालान्तरीणेच्छामादायाप्यतिप्रसङ्गतादवस्थ्यमिति चेन्न । वृक्षादिनिष्ठत्वेनेच्छैव हि चतुर्थ्यन्तार्थः । तस्याञ्च स्वविषयसंयोगादिजनकत्वस्वजन्यत्वोभयसंबन्धेन सेकादिक्रियायामन्वयः। उक्तस्थले च यत्क्रियाव्यक्त्या जलसंयोगादिवृक्षादौ जन्यते तत्र कालान्तरीणपुरुषान्तरीणेच्छायाः स्वविषयसंयोगा Page #290 -------------------------------------------------------------------------- ________________ २८२ व्युत्पत्तिवादः __ [ कारके दिजनकत्वसंबन्धसत्त्वेऽपि स्वजन्यत्वाभावानोभयसंबन्धेनेच्छावैशिष्टयमित्ययोग्यतैवेति वदन्ति । अत्रेदं बोध्यम् । उद्देश्यत्वागर्भत्यागजन्यस्वत्वभागित्वस्य ददातिसंप्रदानतारूपत्वे मैत्रोद्देशेन यद्दत्तं तत्र तादृशदानेन दम्पत्योर्मध्यगं धनमित्यतस्तत्पत्न्या अपि स्वत्वस्य प्रामाणिकतया संप्रदानत्वेन चैत्रपस्न्यै दत्तमिति व्यवहारापत्तेः । न च पत्युः स्वत्वमेव पत्नीस्वत्वं जनयति । न तु तत्सामग्रीति वाच्यम्। स्वत्ववति स्वत्वान्तरानुत्पत्तेः। तथा च सर्वत्रैवोद्देश्यत्वान्तर्भावः। भवतु च पितृभ्यो दद्यादित्यत्रापि मुख्यमेव संप्रदानत्वं चतुर्थ्यर्थः । अस्तु वा स्वस्वत्वेच्छाधीनतत्कत्वमेव मुख्यदानरूपक्रियासंप्रदानत्वं पितृस्वत्वाप्रसिद्धया न तेषां संप्रदानत्वं चतु Nों धात्वर्थतावच्छेदकस्वत्वान्वयि निरूपितत्वं स्वत्वस्य च स्वत्वध्वंसेच्छारूपे त्यागे जनकत्वस्वेच्छाधीनत्वोभयसंबन्धः। तल्लाभश्च विशिष्टस्य धातुशक्यतामते शक्तिलभ्य एव, तदन्तर्भावेणैव शक्त्यभ्युपगमात् । फलव्यापारयोः पृथक् धात्वर्थतामते आकाङ्क्षाबलादेव तादृशसंबन्धलाभः । पितृभ्यो दद्यादित्यत्र च धात्वर्थान्तर्गतस्वत्वे चतुर्थ्या पित्राद्यन्वयी निरूपितत्वरूपो मुख्योऽर्थो बाधितत्वान्न प्रत्याय्यते, अपि तु निरूपितत्वेनेच्छाविषयत्वरूपो लक्ष्यार्थ एव । ददातिस्तु तत्र मुख्य एव, श्राद्धस्यापि ब्राह्मणापेक्षयादानत्वात् । श्राद्वे ब्राह्मणस्य संप्रदानतानिहायास्ति चोद्देश्यतापि ब्राह्मणस्येत्यादिकमभिदधानस्य शूलपाणेरपि संप्रदानत्वशरीर उद्देश्यत्वांशपरित्यागे निर्भरोऽवगम्यते। कर्मणा यमभिप्रैतीति प्रणयतो महर्षेः पाणिनेरपि संमतोऽयमर्थः। शत्रवे भयं ददातीत्यादौ जनयतीति भाक्तोऽर्थः। एवं चोत्पादकव्यापाररूपे धात्वर्थे भयरूपं कर्म तद्योगितयोद्देश्यत्वात् शन्वादेः संप्रदानत्वम्। Page #291 -------------------------------------------------------------------------- ________________ चतुर्थी ] जयाऽलङ्कृतः २८३ युद्धाय संनह्यत इत्यादौ संनहनादिक्रियाजन्यफलासंबन्धाधुद्धादेर्न संप्रदानतानिर्वाह इति नेयं संप्रदानचतुर्थी अपि त्वेन्धानाहतु व्रजतीत्यर्थे एधेभ्यो व्रजतीत्यत्रेव युद्धं कर्तुं सोढुं वा संनह्यत इत्यर्थविवक्षया क्रियार्थोपपदेति सूत्रान्तरेण तस्य च स्थानिनोऽश्रूयमाणस्य क्रियार्थोपपदस्य तुमुन्नन्तधातोः कर्मणि स्वार्थनिष्ठकर्मत्वे विवक्षिते स्वोत्तरं चतुर्थीत्यर्थः। तथा चाहरणकरणसंनहनाद्युद्देश्यकत्वं तादृशचतुर्थ्यर्थ इत्यवधेयम् । अथ यदग्नये च प्रजापतये च सायं जुहोतीत्यादावन्यादेरिव 'सर्वभूतेभ्य उत्सृष्टं मयतज्जलमूर्जितमि'त्यादौ सर्वप्राणिनामिव पशुना रुद्रं यजत इत्यादावपि त्यागविशेषरूपक्रियायां रुद्रादेरनिराकर्तृसंप्रदानतया चतुर्थी स्यादिति चेन्न । गौरवितप्रीतिहेतुक्रिया यज्यर्थः। तदर्थतावच्छेदकफलं प्रीतिस्तदाश्रयतया रुद्रस्य विवक्षितत्वात्कर्मसंज्ञकत्वेन द्वितीयैव न तु चतुर्थी । त्यागात्मकतादृशक्रियायां निरुक्तानिराकर्तृसंप्रदानत्वे सत्यपि तदविवक्षणात्। प्रीतिभागितयोद्देश्यत्वरूपसंप्रदानत्वविवक्षायां च रुद्राय यजत इत्यपि प्रयोगः। उभयविवक्षायां परत्वेन कर्मसंज्ञया वाधाद्वितीयैव । जुहोत्युत्सृजतीत्यादेः प्रीतिरूपफलावच्छिन्नत्यागावोधकतया त्यागरूपक्रियाजन्यप्रीतिभागिनो देवतादेस्तत्कर्मताविरहान्नैव प्रजापतिं जुहोति भूतान्युत्सृजतीत्यादयः प्रयोगाः।। रजकस्य वस्त्रं ददातीत्यत्र ददातिर्न त्यागार्थकोऽपि तु परायत्तीकरणार्थको गौण: । तदायत्तीकरणं च प्रकृते तत्कर्तृकनिर्णेजनेच्छाप्रकाशको व्यापारः। तदेकदेशे कर्तृत्वे रजकस्य संबन्धविवक्षायां शैपिकी षष्ठी। हन्तुः पृष्ठं ददातीत्यत्र तत्कर्तृकताडनानुमितिप्रकाशकव्यापार एव ददात्यर्थः । तदेकदेशे कर्तृत्वे हन्तुः संवन्धविवक्षायां षष्ठी । एवं संवाहकस्य चरणं ददातीत्यादावूहनीयम् । नारदायरोचते कलह इत्यादौ रुच्यर्थानामित्यनुशासनेन प्रीतिजनकतारूपरुच्यर्थघटकप्रीतिभागिनः संप्रदानसंज्ञा विहिता, तत्र Page #292 -------------------------------------------------------------------------- ________________ २८४ व्युत्पत्तिवादः [ कारके चतुर्थ्यर्थ आश्रितत्वं प्रीतावन्वेति । तादृशक्रियाश्रयतया कलहादेः कर्तृता। पुष्पेभ्यः स्पृहयतीत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सित इत्यनेन संप्रदानत्वाच्चतुर्थी तदर्थो विषयित्वं तस्येच्छारूपक्रियायामन्वयः । ___पुत्राप ग्रुप्यतीत्यत्र क्रुधदुहेत्यादिसूत्रेण कर्मणः संप्रदानसंज्ञा। तत्रापि चतुर्थ्यर्थो विषयित्वं कोपेऽन्वेति । क्रोधस्य द्वेषविशेषात्मकतया भक्तिश्रद्धादिवत् ज्ञानविशेषरूपत्वेन वा सविषयकत्वात् । एवं शत्रवे द्रुह्यतीत्यादावपि तेनैव संप्रदानत्वं, सेहोऽपचिकीर्षा अहितेच्छेति यावत् । अहितभागितयेच्छाविषयता तन्निरूपकत्वं चतुर्थ्यर्थ इच्छान्वयी, अहितान्वय्याधेयत्वं वा । अतः कर्मणेत्यादिसूत्रस्याविषयः। ईन अक्षान्तिः । परोत्कर्षासहिष्णुता परोत्कर्षगोचरो द्वेष इति तद्विषयस्य परस्य तेनैव संप्रदानता। मसूला गुणिनि दोषाविष्करणम् । तद्विषयस्याप्यनेन संप्रदानता विषयताविशेषस्तत्र चतुर्थ्यर्थः। विप्राय शतं धारयतीत्यादौ धारेरुत्तमर्ण इत्यनेन धनिकविप्रादेः संप्रदानता। कोऽयं धार्यर्थः ? न तावद्रव्या-तरदानमङ्गीकृत्य परदत्तद्रव्यादानम् । तथा सत्यादानात्परतो धारयतीति प्रयोगानुपपत्तेः आदानस्यावर्त्तमानत्वात् । न चेष्टापत्तिराविशोधनं तथा प्रयोगात्। नापि तादृशादानध्वंस:, अधमर्णस्य तदकर्तत्वात् । नचादानमिच्छाविशेषस्तद्वतः पुंसस्तदाश्रयतया तत्कर्तववत्तद्ध्वंसाश्रयतया तत्कर्तत्वमप्यक्षतमिति वाच्यम् । एवमप्यादानध्वंसस्य परिशोधनोत्तरमपि सत्त्वेन तदानीमपि धारयतीति प्रयोगापत्तेः । न च परिशोधनप्रागभावविशिष्टो निरुक्तादानध्वंसस्तथा। ऋणीकृतद्रव्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादायधारयतीत्यापत्तेः। न च स्वप्रतियोगिनिर्वाहकाङ्गीकारविषयद्रव्यदानप्रागभावविशिष्टादानध्वंसस्तथा यहणं परिशोधितं तावद्रव्यं च पुनर्गृहीत्वा Page #293 -------------------------------------------------------------------------- ________________ चतुर्थी ] जयाऽलङ्कृतः २८५ पुनः परिशोधनीयं तदादाय धारयतीत्यापत्तेः । तदीयपरिशोधनस्यापि स्वकर्त्तव्यतयापूर्वाभ्युपगमविषयत्वात् तत्प्रागआवस्य पूर्वपरिगृहीतशोधनोत्तरमपि सत्त्वात् । न च स्वप्रतियोग्यादाननिर्वाहकाभ्युपगमविषयीभूतं यद् द्रव्यदानं एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वसंबन्धेन तद्विशिष्टान्यप्रागभावविशिष्टादानध्वंसस्तथा । उक्तस्थले चोदीच्यपरिशोधनप्रागभावः प्रथमादानप्रयोजकाभ्युपगमविषयपरिशोधनविशिष्टः । प्रथमपरिशोधनप्रागभावश्च प्रथमपरिशोधनोत्तरं नास्त्येवेति नोक्तातिप्रसङ्ग इति वाच्यम् । एवमपि यस्य ऋणस्य परिशोधनमप्रसिद्धं तदादानपूर्वकालीनस्य तावद् द्रव्यं मया तुभ्यं देयमित्यभ्युपगमस्य तदुत्तमर्णोदेश्यकत्वेन स्वकर्तृकान्योद्देश्यकतावद्रव्यदानमेव विषय इत्युपेयम् । तदुत्तमर्णोदेश्यकतत्कर्तृकतावद्रव्यदानस्याप्रसिद्धत्वात् । तथा चान्योद्देश्यकतावद्रव्यदानोत्तरं तदभ्युपगमविषयद्रव्यदानविशिष्टान्यप्रागभावासत्त्वाद्वारयतीति व्यवहारानुपपत्तिरिति चेत् । अधातुः---ऋणग्रहणेनाधमर्णनिष्ठः परिशोधननाश्योऽदृष्टविशेषणे जन्यते । तेनैवाहन ऋणमपरिशोध्य मृतस्य नरकादिकम्। तथा च द्रव्यान्तरदानाभ्युपगमपूर्वकपरदत्तद्रव्यादानजन्यादृष्टविशेपवत्त्वमेव भास्क्लेरर्थः । तद्धटकदानान्वयि कर्तृत्वं तत्र चतुर्थ्यर्थः । न च ऋणाशोधनमेव दुरदृष्टजनकमुपपातकमध्ये तस्य परिगणनात्। न तु ऋणादानम् । तस्य तथात्वे मानाभावादिति वाच्यम् । ऋणादानस्य दुरदृष्टविशेषजनकत्वेऽपि परिशोधनेन तस्य नाश इति बोधनायापरिशोधनस्य नरकरूपफलोपधानप्रयोजकत्वाभिप्रायेण तस्योपपातकमध्ये परिगणनोपपत्तेः । ऋणमादायापरशोधकस्य नरकभागितया ऋणादानस्यैव दुरदृष्टसाधनतायाः कल्पनीयत्वात् । गृहीतर्णपरिशोधनापेक्षया लघुत्वात् । अपरिशोधनस्य हेतुत्वे परिशोधनपूर्वकालेऽप्यपरिशोधनसत्त्वे दुरदृष्टोत्पत्तेरावश्यकतया परि Page #294 -------------------------------------------------------------------------- ________________ २८६ व्युत्पत्तिवादः [ कारके शोधनस्य तन्नाशकताया आवश्यकतयाऽस्माकं तत्कल्पनाधिक्यविरहात् । परिशोधनोत्तरकालं परिशोधनाभावसत्त्वेन तद्वलात्तदुत्तरमदृष्टवारणाय परिशोधनध्वंसस्य प्रतिबन्धकतायाः कल्पनीयतया भवन्मते गौरवाच्च । न च परिशोधनानुत्तरमरणमेव पापजनकं वाच्यं, तथा च नोक्तातिप्रसङ्ग इति वाच्यम् । गृहीतद्रव्यमपरिशोध्यमरणस्थले तद्रव्यपरिशोधनाप्रसिध्या तदनुत्तरत्वादिघटितरूपेण हेतुतायाः कल्पयितुमशक्यत्वादित्यनम् । यूपाय दारु इत्यादौ न संप्रदानचतुर्थी, अपि तु तादर्थ्यर्थ सूत्रान्तरेण। तादर्थ्य च स एवार्थः प्रयोजनमस्य तत्त्वम् । समभिव्याहृतपदार्थे तादर्थ्यविवक्षायां तद्वाचकाच्चतुर्थीति तदर्थः । प्रयोजनत्वं चात्र न जन्यत्वं, दुःखादेः पापादिजन्यतया दु:खाय पापमित्याद्यापत्तेः । नापि जन्यतयेच्छाविषयत्वम् , स्वर्गादेः पुण्यादिजन्यत्वेनेच्छाविषयत्वात् स्वर्गाय पुण्यमित्याद्यापत्तेः। तथा सति पक्तुं व्रजतीत्यर्थे पाकाय व्रजतीति निर्वाहाय तुमतिसूत्रप्रणयनयात् । पाकादेनिरुक्तबजनाद्यर्थतयैव तद्वाचकपदाच्चतुर्युपपत्तेः। अपि तु समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छाविपयत्वं तत्प्रयोजनकत्वरूपतादयं च तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वं दारुणो यूपेच्छाधीनेच्छाविषयलक्षणादिरूपव्यापारवत्तया यूपार्थत्वमिति तद्विवक्षया यूपपदाचतुर्थी । इच्छाधीनेच्छाविषयव्यापाराश्रयत्वं चतुर्थ्यर्थः । प्रममेच्छायां यूपादेः प्रकृत्यर्थस्य विषयतयाऽन्वयः । एवं रन्धनाय स्थालीत्यादावूह्यम्। तत्र तादृशव्यापारस्तण्डुलधारणादिः। पुण्यादेः स्वर्गेच्छाधीनेच्छाविषयव्यापारानाश्रयतया न स्वर्गाय पुण्यमित्यादिप्रयोगो ब्रजनादेः पाकानुकूलव्यापारानाश्रयतया न पाकाय व्रजतीत्यादावनेन चतुर्थीति तुमर्थाच्चेत्यादिसूत्रम् । तदर्थश्च तुमुन्नन्तयद्धातुना यादृशोऽर्थः प्रत्याय्यते समभिव्याहृतक्रियाऽन्विततदर्थपरात्तद्धातुघटितभावकृदन्ताच ति पक्तुं Page #295 -------------------------------------------------------------------------- ________________ चतुर्थी ] जयाऽलङ्कृतः २८७ व्रजतीत्यत्र तुमुन्नन्तेन ब्रजने पाकविषयेच्छाधीनेच्छाविषयत्वं बोध्यते। तुमुनगवुलावितिसूत्रेण समभिव्याहृतक्रियायां प्रकृतक्रियासमानकर्तकत्वसहिततदिच्छाधीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोविधानात् । एतत्सूत्रस्यापि स्वर्माय पुरायमित्यादिन विषय इति सोऽसाधुरेव । एधानाहतुं व्रजतीत्यर्थे एधेभ्यो बजतीत्यत्र एधस्य न बजनप्रयोजनत्वं सिद्धत्वात् । ब्रजनस्य तदनुकूलव्यापारानाश्रयत्वाच्चेति न तादर्थ्य इति सूत्रस्य प्रवृत्तिर्नापि तुम र्थादित्यादेरेधपदस्य क्रियारूपभाववचनत्वाभावादिति तत्रनिवार्थोपपदस्थेति चतुर्थी । तसर्थव क्रियापिपलस्तुमुन्नन्लो यो धातुरप्रयुक्तस्तस्य यकर्म लत्प्रयोग विना तदर्थकर्मतया यद्विवक्षितं तद्वाचकाच्चनुर्थीति । तत्र चाहर्तुमिति तुमुन्नन्तार्थः समभिव्याहृतक्रियान्वयिस्वार्थकत्वान्वय्यहरणं, तादृशार्थकर्मतया एधस्य विवक्षितत्वात्तत्र चतुर्थी । चतुर्थ्या एवार्थस्तत्कर्मकाहरणप्रयोजनकत्वम् । पाकाय व्रजतीत्यादौ पाकं कर्तुमित्यर्थविवक्षायामनेनैव सूत्रेण चतुथ्र्युपपत्तावपि यदा पाककृतीच्छाधीनेच्छाविषयत्वरूपं पाककर्मककृतिप्रयोजनकत्वं न व्रजनस्य विवक्षितमपि तु पाकेच्छाधीनेच्छाविपयत्वरूपं पाकार्थकत्वमेव तत्रापि चतुर्युपपत्तये तुमर्थादिति सूत्रम् । अश्वाय घास इत्यादावश्वपदस्याश्वभोजनपरतया तादर्थ्यचतुर्येव । आहियत इत्यस्याध्याहारेणाश्व भोजयितुमाहियत इत्यर्थविवक्षया क्रियार्थोपपदेत्यादिसूत्रेण चतुर्युपपत्त्या अश्वपदस्य मुख्यार्थपरत्वोपपादनेऽपि अश्वघास इत्यत्राश्वपदस्य तद्भोजनपरतायास्तादर्थ्यचतुर्थ्याश्चावश्यकता। अन्यथाऽऽहृतपदसापेक्षतया चतुर्थीसमासानुपपत्तः। न च तथापि समासानुपपत्तिः, रन्धनाय स्थालीत्यादौ तद्वारणाय चतुर्थी तदर्थेतिसूत्रेण समासे प्रकृतिविकारभावस्य नियामकत्वानुसरणादिति वाच्यम् । आरामगृहाश्वघासादौ चतुर्थीतियोगविभागेन शाब्दिकैः समासोपपादानात् । ममास्वरस्था Page #296 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके दिशब्दयोगेऽपि तदर्थविशेषणवाचक पदान्नमः स्वस्तीत्यनेन चतुर्थ्यनुशिष्यते । नमान्दार्थस्त्यागो नमस्कारश्च एपोऽर्घः शिवाय नम इत्यादौ त्यागार्थकः । चतुर्ष्या च तत्र प्रकृत्यर्थस्य शिवादेरुद्देश्यत्वं प्रत्याय्यते । त्यागश्च यदि शिवस्यायं भवत्वित्यादिफलेच्छाधीनस्वस्वत्वाभावेच्छारूपस्तदा त्यागोद्देश्यत्वं त्यागजनकेच्छायाः स्वत्वभागितया विषयत्वम् । यदि च त्यागरूपेच्छैव स्वस्वत्वाभावमिवान्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि तत्र विषयीकरोति न तु तज्जनकेच्छा तदा स्वत्यभागितया त्यागविषयत्वमेव तदुद्देश्यत्वम् । शिवादेर्विग्रहवतोऽपि स्वीकाराभावात् तदाकारतया ध्यातमंन्त्रस्य त्यागोद्देश्यतामते सुतरां तदभावाच्च । त्यज्यमानोपचारादौ स्वत्वाभावेऽपि तदीयत्वेन द्रव्ये स्वत्वावगाहिनीच्छा विसंवादरूपैव । द्रव्यनिष्ठेऽन्यदीयस्वत्वे वाधितं शिवादिनिरूपितत्वं शिवादिनिरूपितप्रसिद्धस्वत्वान्तरे वा बाधितं तत्तद्रव्यसंबन्धमवगाहते। न च स्वत्वान्तररूपफलेच्छां विना स्वस्वत्वाभावगोचरेच्छेव न संभवतीतिशिवादिस्वत्वं त्यागस्यैव विषय इति पक्षोऽसंभवदुक्तिक इति वाच्यम् । स्वस्वत्वाभावविषयकेच्छायाः पुण्यादिरूपफलजनकत्वात्तद्विषयस्य पुण्यादिजनकतावच्छेदकस्यापि पुण्यादिफलकत्वात् । अन्यथा तत्स्वत्वस्यापीष्टाजनकतया स्वतोsyरुषार्थतया च प्रथममपि तदिच्छाया असंभवेन प्रथमकल्पस्यापि हेयत्वापातात् । तत्र च प्रथमकल्पे स्वस्वत्वप्रकारकेच्छाजन्यत्वं, जन्यतासंबन्धेन तादृशेच्छावत्त्वं वा चतुर्थ्यर्थः । तत्र प्रकृत्यर्थस्य शिवादेर्विषयताविशेषसंबन्धेनान्वयः । द्वितीयकल्पे व विपयिताविशेष एव चतुर्थ्यर्थः। तत्र च निरूपितत्वसंबन्धेन शिवादेरन्वयः । नमः पदार्थत्यागस्य च विषयताविशेषसंबन्धेन द्रव्येऽन्वयः द्रव्यस्यैव वा विशेष्यतया भासमानत्यागे विषयिताविशेषसम्बन्धेनान्वयः । न च प्रथमान्तपदार्थस्य मुख्यविशेष्यतानियमः । भूतले न घट इत्यादौ नि २८८ Page #297 -------------------------------------------------------------------------- ________________ चतुर्थी ] जयाऽलङ्कृतः २८९ पातार्थस्यापि मुख्यविशेष्यतया भानात् । शिवायोत्सृजतीत्यादाविव नात्रानिराकर्तृसंप्रदानतास्य नमःपदार्थक्रियात्वाभावात् । नमःपदेन च स्वप्रयोक्तपुरुषकर्तृकत्वोपरागेणैव त्यागोऽभिधीयते । अन्योच्चरितनमःपदेनान्यदीयत्यागाबोधनात् । तत्पुरुषोच्चरितनमःपदात् त्यागबोधे सति त्यागे त्यज्यमाने द्रव्ये चान्यदीयत्वसंशयानुदयात् । अत एव त्यागे तदीयत्ववोधनायाहं दद इत्यादिवदहन्नम इति न प्रयुज्यते । न वा परकीयत्ववोधनाय चैत्रो नम इत्यादि । ऋत्विजा च यजमानरूपपुरुषान्तरीयतत्तद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते । स चारोपस्तस्य विशेषदर्शनदशायामप्याहर्यतयोपपद्यत इति प्रतिनिधिप्रयुक्तस्य दानवाक्यस्यैव पूजायां तादृशनमापदघटितवाक्यस्य वाधितार्थत्वेऽप्यदृष्टजनकत्वं न विरुद्धम् । अस्मच्छब्दादिवत्स्वोच्चारणकर्तृत्वोपलक्षितपुरुषविशेषवाचकानमःपदाद्विशेषरूपेण पुरुषभानम् । अशक्यस्य चैत्रत्वादेर्भानासंभवे तस्यापि वाच्येऽन्तर्भावः स्वीकरणीयः। तदनुगमकं चोपलक्षणीभूतमेककालीनोभयावृत्तिस्वोच्चारयितृशरीरवृत्तिजातित्वम् । स्वत्वाननुगमेऽपि शक्त्यैक्यं कथंचिदुपपादनीयं, सर्वनामशक्त्यैक्यवत् । उपलक्षणरूपप्रविष्ठमुच्चारणं वेदीयत्वेन विशेषणमत: पूजाभिन्नयाहच्छिकान्नत्यागबोधनायान्नं दीयत इतिवदन्नं नम इति न प्रयोगः । योग्यतासत्त्वेऽपि तत्र नमःपदप्रयोगस्य वेदाबोधितत्वेन तद्धटिततत्पदशक्यपुरुषोपलक्षणरूपाप्रसिद्धयाऽवाचकत्वात् । अत एव यथा नीचप्रीतिहेतुक्रियास्थले पूजयतीत्यादिवारणाय पूजयतीत्यादिवाच्यप्रीतौ गौरवितवृत्तिवं, स्वसमभिव्याहृतपदार्थकर्तृपुरुषावधिकोत्कपवद्वृत्तित्वरूपमुपलक्षणमुपेयते । उक्तस्थले च योग्यतासत्त्वेऽपि नीचवृत्तिप्रीतेस्तत्त्वाभावेन तत्तात्पर्येण पूजयत्यादेर्न प्रयोगः। तथा नीचोदेश्यकत्यागतात्पर्येरा नम:पदाप्रयोगात्तदतिप्रसङ्गवारणाय गौरवितोद्देश्यकत्याग एव नमःपदशक्तिरित्यनादेयम्। गौरवितोदेश्यकत्वस्य Page #298 -------------------------------------------------------------------------- ________________ २६० व्युत्पत्तिवादः [ कारके नमःपदार्थशरीरे निवेशेऽपि गौरवितोद्देश्यकपूजातिरिक्तद्रव्यत्यागबोधनाय नमःपदप्रयोगवारणायोक्तविशेषणस्योच्चारणेऽप्यवश्यं निवेशनीयतया तत एव तदतिप्रसङ्गवारणात् । इन्द्रय स्वाहा तुभ्यं स्वधेत्यादौ अग्निप्रक्षेपोपहितदेवोद्देश्यकत्यागबोधकस्वाहापदेपित्रुद्देश्यकत्यागबोधकस्वधापदयोरपि नमःपदवदेशनादेशितोच्चारणकर्तृत्वोपलक्षितपुरुषीयत्यागवाचकता। अन्यथा पूर्ववदेवातिप्रसङ्गः। एवं च देवोद्देश्यकत्वादेरपि न वाच्यान्तर्भावः । प्रतादृशत्यागतात्पर्येण स्वाहादिप्रयोगस्य देशनादेशितत्वविरहेणैवानतिप्रसङ्गात् । अत एव तान्त्रिकपूजायामाचमनीयादिदानेऽग्नेप्रक्षेपोपहिनपित्रुद्देश्यकत्वविरहेऽपिस्वाहास्वधाप्रयोगस्य नासमवेतार्थता। एवं च सति नमःस्वाहास्वधाशब्दानामेकस्थलेऽन्यप्रयोगस्य वेदबोधितत्वाभावेनैव नातिप्रसङ्गः। ननिम्मो नमःपदार्थश्च स्वापकर्षबोधनानुकूलः स्वीयव्यापारः। चतुर्थ्याचापकर्षान्वय्यवधित्वमवधिमत्त्वं वाप्रत्याय्यते। स्वमुच्चारयिता। तथा चचैत्रायुच्चारितान्नमो हरय इत्यादिशब्दादयवधिकलापकर्मबोधानुकूलश्चैत्रीयव्यापार इत्याकारको बोधः। नारायणं नमस्कृत्येत्यादौ नमःशब्दयोगेऽपि न धतुर्थी। द्वितीयया कारकविभक्तित्वेन बलीयस्या बाधात्। अमाननारायणादेनमस्कारघटकापकर्षावधित्वमेव तच्च नकर्मत्वम् । कर्मत्वं च क्रियाजन्यफलशालित्वादिरूपमेव । तच्च न तस्येति द्वितीयाया नायं विषयः । न चापकर्षबोधरूपफलाश्रयत्वरूपकर्मत्वं तत्रावाधितमेवेति वाच्यम् । एवंसति नारायणावधिकापकर्षबोधकदण्डवत्प्रणिपातादिजन्यतादृशापकर्षबोधाश्रयतायाः पुरुषान्तरसाधारणतया नारायणप्रणामदशायां मनुष्यं नमस्करोतीत्यादिप्रयोगापत्तिः। यदि चापकर्षावधित्वप्रकारकबोधानुकूलव्यापारो नमस्कारस्तद्घट कबोधविशेष्यतया नारायणादेः कर्मत्वम् । क्रियाजन्यफलशालित्वरूपे कर्मत्वे च व्यापारांशेऽनुकूलतासंबन्धेन विशेषणीभूतं फलमेव विवक्षणीयम् । अत्र Page #299 -------------------------------------------------------------------------- ________________ चतुर्थी ] जयाऽलङ्कृतः '२६१ चानुकूलत्वमेव व्यापारांशे विशेषणमित्यपकर्षावधित्वबोद्धः पुरुषान्तरस्य न कर्मतेत्युच्यते तदापि नारायणं प्रणम्येत्यादावेव कर्मत्वमुपपद्यते न तु नारायणं नमस्कृत्येत्यादौ, नमःपदार्थघटकज्ञानस्य धात्वर्थताविरहेण तद्विषयतायाः कर्मतानात्मकत्वात् । कृतिविषयतायाश्च नमःपदार्थव्यापार एव सत्त्वात् ।मैनम् । नमस्करोतीत्यादौ कृधातुनैव व्यापारबोधात् । अत्र च स्वापकर्षावधित्वप्रकारकबोधविषयतामात्रं निपातार्थः। अत्र स्वं समभिव्याहृतः कर्ता। तथा च तादशबोधविषयताप्रयोजकव्यापारानुकूलकृतिमानिति समुदायाधीनो बोधः । तादृशविषयताश्रयतया नारायणादेः कर्मत्वम् । यतो धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यत्र धात्वर्थतावच्छेदकत्वं न धातुशक्यतावच्छेदकत्वमपि तु व्यापाररूपार्थेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यत्वम् । प्रकृते निपातार्थे धात्वर्थस्य साक्षादन्वये तादृशबोधविषयत्वरूपस्य तदवच्छेदकत्वमक्षतमेव । न चैवं पूर्वदेशादेर्गम्यादिकर्मत्वं दुर्वारं विभागादौ क्रियाजन्यत्वसत्त्वेऽपि निरुक्तधात्वर्थतावच्छेदकत्वाभावात् । न हि विभागादिर्गम्याद्यर्थे कथमपि विशेषणतया भासते । एवं च नारायणादेः करोतिकर्मत्वेऽपि नमःपदादिकं विना न तद्योगे नारायणादिपदोत्तरं द्वितीया। तदर्थान्वयिफलोपस्थापकाभावेन तदर्थानन्वयात्। नापि नारायणं फलं करोतीति प्रयोगापत्तिः । फलस्यात्र धात्वर्थव्यापारे साक्षादविशेषणत्वात् । निपातातिरिक्तनामार्थस्य धात्वर्थे भेदेनान्वयस्याव्युत्पन्नत्वात् । धात्वर्थे साक्षाद्विशेषणीभवत्येव' फले द्वितीयार्थाधेयत्वान्वयात् । अत एव 'पुरस्कृत्य शिखण्डिन'मित्यादावपि शिखण्ड्यादेः कृतिकर्मता धात्वर्थव्यापारविशेषणपुरःपदरूपनिपातार्थायदेशावस्थानरूपफलाश्रयत्वात् । नारायणो नमस्क्रियते, ज्यायान् पुरस्क्रियत इत्यादौ निपातार्थफलं धात्वर्थव्यापारविशेष्यतयैव भासते। तदन्वितमाश्रयत्वं कर्माख्यातादिना Page #300 -------------------------------------------------------------------------- ________________ २६२ व्युत्पत्तिवादः [ कारके प्रत्याय्यते । अथैवमपि कारकविभक्तेः साक्षाद्धात्वर्थान्वयित्वनियमभङ्ग इति चेन्न। तादृशनियमे निपातातिरिक्तार्थमन्तराऽकृत्वेत्यस्यैव साक्षादर्थत्वात् । अन्यथा घटो दण्डाजायते न पारिमाण्डल्यादित्यादौ कारकपञ्चम्या जन्याद्यन्वयिनि नञर्थाभावे प्रतियोगितया स्वार्थप्रयोज्यत्वादिबोधनासंभवात् । पारिमाण्डल्यादिनिरूपितमपि प्रयोज्यत्वं विषयितया तदवच्छिन्नजनकताकज्ञानादौ प्रसिद्धम् । प्रयोज्यत्वविशिष्टोत्पत्तिरेव वा तत्र धात्वर्थः । तत्र पञ्चम्यन्तार्थंपारिमाण्डल्यनिरूपितत्वस्याभावो नया बोध्यते। उक्तरीत्या क्रियायोगे नमस्कार्यस्य कर्मत्वेऽपि स्वयंभुवे नमस्कृत्येत्यादौ चतुर्थी अपकर्षावधित्वमात्रविवक्षया। ____ केचित्तु नारायणं नमस्कृत्येत्यादौ नमःपदं नतिकर्मपरम् । तथा च नारायणं नतिकर्मीकृत्येत्यर्थविवक्षया घटं शुक्ल करोति शुक्लीकरोतीत्यादौ घटादेरिव नारायणादेः कृतिकर्मता। शिखण्डिनं पुरस्कृत्येत्यादौ पुरःपदमप्रस्थितपरम् । एवं घटं साक्षात्करोतीत्यादौ साक्षात्पदं प्रत्यक्षविषयपरम् । एवं दुःखमाविष्करोतीत्यादावप्याविःपदं ज्ञानगोचरार्थकमिति सर्वत्र पूर्ववद्वितीयानिर्वाह इत्याहुः । नम:पदस्य धर्मिबोधकत्वे हरिराविर्भवतीत्यादिवनमो भवतीति प्रयोगप्रसङ्गात् । तस्मान्नमस्करोतीत्याविष्करोति पुरस्करोति अलंकरोतीत्यादौ नमःप्रभृतयो निपाता धर्मवाचका एव, लाघवात् । तत्तद्धर्माश्रयस्य दर्शितरीत्यैव कर्मतोपपत्तेः। आविर्भवतीत्यादिप्रयोगानुरोधेन चाविरादिशब्दानां प्रकटताश्रये धर्मिणि लक्षणोपेयते । शुक्ल: पट इत्यादौ शुक्लादिशब्दानामिव । अस्तु वा तत्रापि प्रकटतादिरूपो धर्म एव तदर्थस्तस्यैव धात्वर्थभावे धर्मरूपेऽभेदान्वयः। क्रियायां स्वार्थाभेदान्वये आविरादेरेवाकाङ्क्षा स्वीक्रियते न तु नमःपदादेरिति न नारायणो नमो भवतीत्यादेः प्रसङ्गः । शुक्लीकरोतीत्यादौ च्चिप्रत्ययान्तस्यापि शौ Page #301 -------------------------------------------------------------------------- ________________ चतुर्थी ] जयाऽलङ्कृतः २६३ क्लयादिधर्म एवार्थः। अभूततद्भावे तदननुशासनात् । अभूतस्य पूर्वकालावच्छेदेन शुक्लादिभावरहितस्य तद्भावः शौक्लयादिः । अथ वा अभूतः पूर्वकालावच्छेदेन धर्मिण्यविद्यमानस्तद्भावः शौक्लयादिः, शुक्लीभवतीत्यादौ तु दर्शिता गतिः । न चाभूततद्भावपर्यन्तस्य विप्रत्ययवाच्यत्वे गौरवाच्छुल्लादिपदोपस्थाप्यपदार्थतावच्छेदकशौक्लयाद्यन्वयि अभूतत्वं च्चिप्रत्ययार्थोऽस्तु। शुक्लतर इत्यादौ तरबाद्यर्थोत्कर्षस्येव च्व्यर्थस्यापि व्युत्पत्तिवैचित्र्येण पदाथतावच्छेदकेऽन्धयसंभवादिति वाच्यम् । मन्मतेऽपि शौलयादिभावस्यैव विप्रत्ययार्थतोपगमेन गौरवानवकाशात् । पूर्वकालावच्छिन्नस्वनिष्ठाभावप्रतियोगित्वसहितस्याधेयत्वस्य प्रत्ययार्थे प्रकृत्यर्थस्य संबन्धतया भानोपगमात् । शौक्लयादावभूतत्वलाभेनैव जलपरमाणुः शुक्लीभवतीति प्रयोगाप्रसङ्गात् । शौक्लथादेर्धर्मत्वेनैव वाच्यता न तु ताद्रूप्येणेति न शक्त्यानन्त्यम्। प्रकृत्यर्थतावच्छेदकतत्तद्धर्मनिष्ठाधेयताविशेषाणामेव संवन्धतया भानोपगमाद्धर्मान्तरस्याभूतत्वमादाय न जलपरमाणुः शुक्लीभवतीत्यादिप्रसङ्गः । प्रकृत्यर्थतावच्छेद कगतप्रागविद्यमानत्वस्य च्चिप्रत्ययार्थत्वमते तु शुक्लीभवतीत्यादौ प्रकृत्यर्थतावच्छेदकशौक्लयाद्यभावस्य प्रागपि कचिद्विद्यमानतया तदभावान्वये योग्यतानुपपत्तिः । तत्तद्धर्मिण्यविद्यमानत्वस्य व्यर्थत्वे शक्त्यानन्त्यमितिपूर्वकालावच्छिन्नोऽभाव एबाविद्यमानत्वम् । तस्य च प्रकृत्यर्थतावच्छेदके सामानाधिकरण्यसहितप्रतियोगित्वसंबन्धेनान्वयो वाच्यः। प्रकृत्यर्थे च तादृशसंबन्धेनाभावविशिष्टस्य वैशिष्टयभानमुपयेम् । अन्यथाऽन्यत्र स्वाभावसमानाधिकरणस्याशौक्लयादेः सर्वदाऽशुक्लकाकादावपि सत्त्वेन काकोऽशुक्लीभवतीति प्रयोगः स्यात् । अत्राभावरूपपदार्थान्तरविशिष्टप्रकृत्यर्थतावच्छेदकवैशिष्टयभानं च प्रकृत्यर्थे न संभवति । प्रकृत्या स्ववृत्तिसहकारेण स्वार्थे यादृशविशेषणावच्छि Page #302 -------------------------------------------------------------------------- ________________ २६४ व्युत्पत्तिवादः [ कारके नप्रकृत्यर्थतावच्छेदकीयसंबन्धो न प्रत्याय्यते पदान्तरसमभिव्याहाररूपाकाङ्क्षयापि प्रकृत्यर्थतावच्छेदकीयतादृशविशेषणसंबन्धावच्छिन्नसंबन्धाप्रत्यायनेन प्रकृत्यर्थतावच्छेदकीयसंवन्धे विप्रत्ययार्थाभावविशिष्टप्रतियोगित्वरूपविशेषणस्य प्रकृतिवृत्त्याऽभासमानस्य भानासंभवादित्यनुपपत्तिः। ___अस्मन्मते तु भवत्यर्थे भावे विप्रत्ययान्तार्थस्याधेयतासंबन्धन पूर्वकालावच्छिन्नस्वाभावाधिकरणविशिष्टस्य शौक्ल्यादेः सामानाधिकरण्यसंबन्धेनैवान्वयस्योपगन्तव्यतयातेन संबन्धेन चाधिकरणविशिष्टाशौक्ल्यादिना विशिष्टस्य भवत्यर्थस्यैवाख्याताद्यर्थे आश्रयत्वे निरूपितत्वसंबन्धभानात् । तादृशविशिष्टनिरूपिताश्रयत्वस्य च पूर्वकालावच्छेदेनाशौक्ल्याद्यभावाधिकरण एव सत्त्वेन नोक्तातिप्रसङ्गः। अन्यत्स्वयमूह्यम् । सरितभक्त इत्यादावाशीः स्वस्त्यर्थः। सा च परहितविषयकस्वेच्छा । स्वमुच्चारयिता, हितान्वयी संबन्धश्चतुर्थ्यर्थः । एवं च भवदीयहितविपषिणी-मदीयेच्छेति बोधः। कल्याणाद्यर्थकोऽपि स्वस्तिशब्दः, 'स्वस्त्यस्तु मह्य' मित्यादौ । तत्रापि चतुर्थ्यर्थः संबन्धः स्वस्त्यर्थान्वयीत्यलम् ।। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिबादे चतुर्थीविवरणम् । अथ पञ्चमीविवरणम् पृपावलं पत्ततीत्पादौ पञ्चम्या प्रकृत्यर्थस्य वृक्षादेः पतनादिक्रियापादानत्वं प्रत्याय्यते । अपादानलंच स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्यविभागाश्रयत्वम् । पर्णादेः स्वनिष्ठवृक्षादिविभागजनकस्वपतनाद्यपादानत्ववारणाय भूतान्तं क्रियाविशेषणम् । Page #303 -------------------------------------------------------------------------- ________________ पञ्चमी ] जयाऽलङ्कृतः २६५ भेदप्रतियोगितावच्छेदकत्वे विभागे पञ्चम्याः शक्तिद्वयम् । भेदे विभागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। प्रतियोगितावच्छेदकत्वमाश्रयत्वसंबन्धेन विभागश्च जनकतासंबन्धेन क्रियायामन्वेति । जनकतासंबन्धस्य प्रतियोगितानवच्छेदकतया नया तत्संबन्धावच्छिन्नविभागाभावः क्रियायां बोधयितुं न शक्य इति चेत्तर्हि विभागजनकखमेव पञ्चम्यर्थोऽस्तु प्रतियोगितावच्छेदकत्वस्येव तस्याप्याश्रयतासंबन्धेन क्रियायामन्वयः । एवं च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयः पर्णमित्याद्याकारक उक्तस्थले बोधः। अथ पञ्चमीसमभिव्याहृतनञोक्तयोः पञ्चम्यर्थयोर्द्वयोरेवाभावद्वयं बोध्यते, यथायोगमेकतरस्य वा । नाद्यः पक्षः । पर्ण वृक्षात्पतति न स्वस्मादित्यत्र स्वनिष्ठपतने स्वनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावासत्त्वेऽपि स्वनिष्ठविभागजनकत्वाभावासत्त्वेन वृक्षात्पतति न भूतलादित्यत्र पतने भूतलादिनिष्ठविभागादिजनकत्वाभावसत्त्वेऽपि तनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावासत्त्वेनायोग्यतापत्तेः । नापि द्वितीयः । वृक्षात्पर्ण पतति न पर्णादित्यत्र पत्रनिष्ठपतने पत्रनिष्ठविभागाजनकत्वस्येव पत्रान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया पत्रनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्यापि बाधाद्योग्यताया निर्वाहयितुमशक्यत्वादिति। ____ अत्राहुः। विभागो जनकत्वं च पञ्चम्यर्थः । विभागे प्रकृत्यर्थस्यावधिकत्वं संबन्धस्तेन संबन्धेन प्रकृत्यर्थविशिष्टस्य विभागस्य निरूपितत्वविशेषसंबन्धेन जनकत्वेऽन्वयः। जनकत्वं च फलोपधानरूपं विशिष्टनिरूपिततादृशजनकत्वस्य क्रियायां नसमभिव्याहारस्थले च क्रियान्वयिन्यभावे प्रतियोगित्वेनान्वयः । वृक्षपत्रादिविभागजनकपत्रादिकर्म च न पत्राद्यवधिकत्वविशिष्टविभागोपधायकम् । पत्रादेः स्वावधिकत्वविशिष्टविभागानधिकरणत्वेन तत्कर्मणि विशिष्टविभागसामानाधिकरण्याभावात् । Page #304 -------------------------------------------------------------------------- ________________ २९६ व्युत्पत्तिवादः [ कारके फलोपधायकत्वस्य सामानाधिकरण्यगर्भवान्नोक्तानुपपत्तिः । वृक्षाद्विभजते इत्यादावपि वृक्षावधिकत्वं विभागे प्रतीयते । तत्रापादानतायाः अवधितारूपत्वाद् वृक्षाद्यवधिकत्वविशिष्टविभागनिरूपितमेवाश्रयत्वमाख्यातेन बोध्यतेऽतो वृक्षः स्वस्माद्विभजत इति न प्रयोगः । यथा हि-स्वप्रतियोगिकत्वविशिष्टसंयोगः स्वस्मिन्न वर्तते तथा स्वावधिकविभागस्य स्ववृत्तित्वेऽपि स्वस्य न विशिष्टविभागाधिकरणत्वमित्यविवादमेव। अवधित्वादिकं च स्वरूपसंबन्धविशेषः । यद्वा विभागोऽवधिकरणता । प्रयोजकत्वं च वृक्षात्पततीत्यादौ पञ्चम्यर्थः । विभागेऽवधित्वसम्बन्धेन प्रकृत्यर्थान्वयः तद्विशिष्टविभागस्य निरूपितत्व विशेषसंवन्धेनाधिकरणतायामन्वयः । पत्रादिकर्मणि च न तदवधिकत्वविशिष्टविभागनिरूपितान्यमात्रनिष्ठाधिकरणताप्रयोजकत्वम् । कारणस्यापि स्वाश्रयनिष्ठकार्याधिकरणतामात्रप्रयोजकत्वादिति सामञ्जस्यात् । अथ वृक्षात्पतति, वृक्षाद्विभजत इतिवत् वृक्षात्त्यजतीत्यादिर्न कथं प्रयोगः । पञ्चम्यर्थस्य विभागजनकत्वस्य विभागावच्छिन्नक्रियारूपत्यागेऽवधिमत्त्वरूपपञ्चम्यर्थस्य च विभागपधात्वर्थतावच्छेदकफलेऽन्वये बाधकाभावात् । न च विभागावच्छिन्नक्रियायां विभागान्वयोऽव्युत्पन्नः। उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम् । जनकतासंबन्धेन विभागावच्छिन्ने प्रकृत्यर्थविशेषितविभागजनकत्वान्वये व्युत्पत्तिविरोधविरहात् । न च पञ्चम्यर्थविभागजनकत्वावधिमत्त्वयोरन्वयबोधे धातुविशेषाधीनव्यापारविभागोपस्थितेहेतुत्वोपगमात्तदभावेन त्यजधातूपस्थिततत्तदर्थे न पञ्चम्यान्वय इति वाच्यम् । त्यजिपत्योस्त्यजिविभज्योश्च पर्यायताभ्रमदशायां त्यजत्यर्थव्यापारविभागयोः पञ्चम्यान्वयात् ल्यजधातुजन्यतत्तदर्थोपस्थितेरपि पञ्चम्यान्वयहेतुताया अवश्यं वाच्यत्वात् । न च पञ्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानव Page #305 -------------------------------------------------------------------------- ________________ पञ्चमी ] जयाऽलङ्कृतः २६७ च्छिन्नव्यापारोपस्थितिस्तादृशावधिमत्त्वान्वये च धातुजन्यविभागमुख्यविशेष्यको पस्थितिर्हेतुरिति त्यजधातुजन्यविभागावच्छिन्नव्यापारोपस्थितिविषयव्यापारविभागयोः पञ्चम्यर्थविभागजनकत्वावधिमत्त्वान्वयासंभव इति वाच्यम् । फलव्यापारयोः पृथग्धात्वर्थतामते त्यजधातोरपि प्राधान्येन विभागस्य तद्नवच्छिन्नस्पन्दुस्य चोपस्थित्या तदुपस्थितिविपयतादृशार्थयोरपि तत्तत्पञ्चम्यर्थान्वयसंभवादिति चेन्न । फलावच्छिन्नव्यापारस्य धात्वर्थतामते उक्तरीत्यैव सामञ्जस्यात् । तयोः पृथग् धात्वर्थतामते च फलविषयकबोधं जनयतु धातुपदमित्येतादृशेच्छारूपा फलव्यापारयोरेकैव शक्तिः, पुष्पवन्तादिपदवत् । न तु फलविषयकं व्यापारविषयकं बोधं जनयत्विति समूहालम्बनात्मकबोधनिष्ठतत्तद्विषयकत्वावच्छिन्नविभिन्नविषयताशालिसंकेतरूपा । तथा सति नानार्थत्वाविशेषेण कदाचित्फलव्यापारयोरेकैकपरित्यागेनाप्येकैकस्य बोधप्रसङ्गात् । तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधे सङ्केतीयबोधनिष्ठविपयत्वांशे विभागेतर विषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं क्रियांशे विभागजनकत्वरूप पञ्चम्यर्थान्वयबोधे च तादृशबोधनिष्ठविपयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरुपेयत इति त्यजधातोस्तादृशज्ञानमभ्रान्तस्यासंभवीत्यतिप्रसङ्गानवकाशात् । शक्तिद्वयादिवद्दर्शितैकशक्तेरपि कर्मप्रत्ययस्थले फलव्यापारयोर्विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधसंभवात् । विशिष्टशक्तावेव विशेषणविशेष्यभावविपर्यासानिर्वाहात् । यदि च फलव्यापारयोः शक्तिभेदे एकार्थपरित्यागेनापरार्थबोधप्रसङ्गवदुक्तरूपसङ्केतोपगमेऽपि पुष्पवन्तपदशक्त्यविशेषेण तत इव सकर्मकधातुतोऽपि विशेणविशेष्यभावानापन्नस्यैवान्वयबोधः स्यान्न तु तदापन्नार्थद्वयविषयक इत्युच्येत तदा संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्यापारविषयकत्वयोरवच्छेद्यावच्छेदकभावाव - Page #306 -------------------------------------------------------------------------- ________________ २६८ व्युत्पत्तिवादः [ कारके गाहित्वमपि स्वीकरणीयम् । विशेषणविशेष्यभावेन भासमानयोरेव फलव्यापारयोर्विषयताद्वयमवच्छेद्यावच्छंदकभावापन्नमिति तथैव तयोर्भानम् । पुष्पवन्तपदसंकेते च चन्द्रसूर्यविषयतयोरवच्छेद्यावच्छेदकभावो न भासते। अतस्तयोर्विशृङ्खनमेव भानमिति न काप्यनुपपत्तिः । यदि च वृक्षात्स्यन्दत इत्यादिर्न प्रयोगस्तदा सकमकधातोः फलविशिष्टव्यापारवाचकतामते पञ्चम्यर्थविभागजनकत्वबोधे विभागानवच्छिन्नफलावच्छिन्नव्यापारविषयकधातुशक्तिज्ञानजन्योपस्थितिः फलव्यापारयोर्वैशिष्टयानुपरक्तयोर्धात्वर्थतामते च संकेतीयबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिनत्वफलान्तरविषयकत्वावच्छिन्नत्वोभयावगाहिज्ञानजन्योपस्थिति: कारणमभ्युपगन्तव्येत्यलमधिकेन । व्याप्राधिमेति दस्युभ्यो रक्षतीत्यादौ भीलार्थानामित्यनेनापादानत्वम् । मयं च परतोऽनिष्टसंभावना। जाणं चानिष्टनिवृत्त्यनुकूलो व्यापारः। तदर्थकधातुयोगे तादृशानिष्टजनकमपादानसंज्ञमिति सूत्रार्थः । एवं च पञ्चम्यर्थस्तत्र प्रयोज्यत्वम् । तच्च निरुक्तधात्वर्थघटकानिष्टेऽन्वेति । अथ यस्य व्याघ्राधीनमन्ष्टिमप्रसिद्धमथ च व्याघ्रहेतुकत्वेन मरणादिकं संभावयति तत्पुरुषपरो व्याघ्रादयं विभेतीति कथं प्रयोगः प्रमाणम् । अनिष्टे व्याघ्राधीनत्वस्य बाधादिति चेत् भयार्थकधातुयोगे प्रयोज्यताप्रकारकत्वं पञ्चम्यर्थः । तच्चानिष्टसंभावनायामन्वेति । प्रकृते च व्याघ्राधीनत्वस्य तत्पुरुषीयानिष्टे बाधेऽपि अनिष्टसम्भावनायां तत्प्रकारकत्वमबाधितमेवेति नानुपपत्तिः। एवं च शत्रुभ्रमेण मित्रादपि बिभेतीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः । एवं भवार्यकचातुयोमे भयहेतुत्वेन संभावितमयादानमित्येक सूत्रार्थः। अनिष्टविरहानुकूलव्यापाररूपत्राणार्थकधातुयोगे तदनिष्टप्रयोजकं तदित्यपरः। अनिष्टं दुःखमेव सर्वत्रानुगतम्। यज्जन्यं दुःखं कस्यापि न प्रसिद्धयति तादृशस्याप्यहि Page #307 -------------------------------------------------------------------------- ________________ २६३ पञ्चमी ] जयाऽलङ्कृतः कण्टकादेरपादानत्वं स्यादिति चेत्तर्हि तन्निष्ठदुःखोपधायकव्यापारविरहानुकूलव्यापारस्तदपादानकं स्वकर्मकं रक्षणमिति वक्तव्यम् । घटाद्यचेतनकमकरक्षणं विनाशोपधायकव्यापारविरहगर्भ निर्वाच्यम् । क्लेभयो म धारयति कूपान्ध कारस्यलील्यादौ वारणार्थानामित्यतेनापादानत्वम् । बारम क्रियाप्रतिषेधस्तदर्थकधातुयोगे ईप्सितस्तत्तत्क्रियाजन्यफलभागितया तत्तक्रियाकर्तुरभिप्रेतोऽपादानमिति सूत्रार्थः। क्रिया च भक्षणगमनादिरूपा। तात्पर्यवशात्कचित्कस्याश्चित्प्रतिषेधो वारयतीत्यादिना बोध्यते । प्रतिषेधः कतृत्वाभावानुकूलव्यापारः । कर्तृत्वाभावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादेः कर्मता । यवादिपदोत्तरपञ्चम्या यवादिगतत्वेनेच्छाविषयफलकत्वं भक्षणादौ प्रत्याय्यते । इच्छा च भक्षणादिक्रियाकर्तृनिष्ठा तदर्थेऽन्तर्भावनीया। एवं चोक्तस्थले यवकूपादिनिष्ठत्वेन गवान्धादीच्छाविषयो यो गलाधःसंयोगोत्तरदेशसंयोगादिर्गवादिनिष्ठतत्तत्फलकव्यापारावशेषकर्तृत्वाभावानुकूलव्यापारानुकूलकृतिमानित्याकारको बोधः। अन्धादेर्यद्यपि कूपगमनत्वादिना नेच्छा तथाप्यभिमुखोपगमनत्वादिना कूपगमनादेरिच्छा वर्तत एवेति । वस्तुगत्या यः कूपादिदेशस्तद्गतत्वेन क्रियाजन्यसंयोगस्य तदिच्छाविषयत्वमक्षतमेव । न च प्रकृतयवकूपादिनिष्ठफलविशेषजनकत्वमेव पञ्चम्यर्थोऽस्तु किमिच्छान्तर्भावेणेति वाच्यम्। यत्र चैत्रादेर्नान्तरीयकतया विषभोजनादिकं न तु स्वेच्छातस्तत्र तद्भोजनविरोधिव्यापारकर्त्तरि चैत्रं विषाद्वारयतीति न प्रयोगोऽपि तु सविषाद्वारयतीत्यादिरेव । तत्र पूर्वप्रयोगवारणाय सूत्रकृता ईप्सित इत्यनेन सन्प्रत्ययेनेच्छोपादानात् । अत एव यद्यवादिकं केनापि न भुक्तं तत्कर्मकभोजनाप्रसिद्धावपि भोजनफले संयोगविशेषे तद्यवादिगतत्वेनेच्छाविषयत्वप्रसिद्धथा तद्यवाद्गां वारयतीत्यादिप्रयोगोपपत्तिः । एवं च तत्र भक्षणादौ तद्यवादिकर्म Page #308 -------------------------------------------------------------------------- ________________ ३०० व्युत्पत्तिवादः [ कारके कत्वगवादिकर्तकत्वोभयाभावबोधाय केषां चित्प्रयासोऽनादेय एवेति । पण्डितात्पुराणं शृणोति, उपाध्यायादर्धाते, रामादधीतसंदेश, इत्यादावाख्यातुराख्यातोपयोग इत्यनेनापादानता। तत्र प्रकृत्यर्थपण्डितादिकतकोचारणाधीनत्वं पञ्चम्यर्थः। तस्य च श्रवणोच्चारणार्थविशेषज्ञानादिक्रियायामन्वयः। मृत्पिण्डाद् बटोजायते इत्यादौ जनिकर्तुःप्रकृतिरित्यनेनापादानत्वम् । तत्र प्रकृतित्वं न विकारित्वम्। प्रकृतिविकृतिभावाभावेऽपि 'प्राक्केकयीतो भरतस्ततोऽभूद्', 'वायोर्जात' इत्यादौ पञ्चमीदर्शनात् । न हि सुतवपुषो मातापितृशरीरविकारत्वमपि तु तदीयशुक्रशोणितादिविकृतित्वमेव । शुक्रशोणितादेः शरीरस्थत्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात् । न च तत्र हेतुपञ्चम्येव नापादानपञ्चमीति वाच्यम् । गुणातिरिक्तहेतौ पञ्चम्यनुशासनविरहात्। अन्यथा दुग्धादधि जायते, मृत्तिकाभ्यो घटो जायते, शृङ्गाद्धनुर्जायत इत्यादावपि हेतुपञ्चम्यैवोपपत्तौ जनिकर्तुरित्यादिसूत्रस्यैव वैयर्थ्यांपत्तेः । तस्मात्कारणत्वमेव प्रकृतित्वम् । दण्डाद्धटो जायत इत्यादयोऽपि प्रयोगा इप्यन्त एव । अतएवेश्वरस्य द्रव्यादिकार्याप्रकृतित्वेऽपि यतो द्रव्यं गुणाः कर्मेत्यादौ पञ्चमी न च प्रकृतिपदेन कारणमात्रविवक्षायामपि क्रियाविवक्षाभावादपादानपञ्चम्यनुपपत्तिहेतुपञ्चमी च प्रकृतेऽनुपपन्नैवेति वाच्यम् । अगत्या जायत इत्यादिक्रियाध्याहारेण तत्र पञ्चम्या उपपादनीयत्वात् । हिमवतो गङ्गा प्रभवतीत्यादौ भुवः प्रभव इत्यनेनापादानता । यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः। प्रथमप्रकाश एव प्रभवत्यर्थः। पञ्चम्यर्थः संबन्धाधीनत्वं तादृशक्रियायामन्वेति । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः। उपाध्यायादन्तर्द्धत्ते छात्र इत्यादावन्तद्धौं येनादर्शनमिच्छतीत्यपादानता। अन्तर्द्धिरन्तर्धानम् । स्वनिष्टान्यकर्तृकदर्शनविण्यताविरहोद्देश्यको व्यापारः। एवं च व्यापारानुकूलतयान्तर्द्धानघटको यत्कर्तृकदर्श Page #309 -------------------------------------------------------------------------- ________________ पञ्चमी ] जयाऽलङ्कृतः ३०१ नविषयताविरहोद्देशः सोऽपादानमिति सूत्रार्थः। उक्तस्थलीयपञ्चम्या अन्तर्द्धिघटकदर्शनान्वयि कर्तृतानिरूपकत्वमेवार्थ इत्युपाध्यायकर्तृकदर्शनविषयताया यः स्वनिष्ठोऽभावस्तदुद्देश्यकव्यापारकर्ता छात्र इति तत्रान्वयबोधः। ____ इदन्तु बोध्यम् । अस्मादयं दीर्घोऽस्मादयं तार इत्यादौ नापादानपञ्चमी, दैाद्यवधेरपादानत्वस्याननुशासनात् । ध्रुवमपाय इत्यनेन हि अपाये विभागरूपक्रियायां क्रियान्तरजन्यविभागे च यदवधिभूतं तस्यापादानत्वं विधीयते न त्ववधिमात्रस्य । यदि चापायपदं वस्तुमात्रोपलक्षणं तदा तदुपादानमर्थकं स्यात्। अथ तत्पदेन क्रियामात्रमुपलक्ष्यते। अस्मादीर्घ इत्यादीचभवतीत्यध्याहार्यम्। दीर्घभवनं च दीर्घतैवेति क्रियायाः सावधित्वम्। आवश्यकश्च क्रियाध्याहारस्तद्योगमन्तरेण कारकत्वास्यानिर्वाहात् । एवं बलाहकाद्विद्योतते विद्युदित्यादौ द्योतनादिक्रियायाः सावधिकत्वविरहेण निःसृत्येत्यध्याह्रियते। अत एव नैतदपादानम् । निर्दिष्टविषयमपि तूपात्तविषयमिति वैयाकरणाः। निर्दिष्टत्वमुच्चरितत्वम्। उपात्तत्वमध्याहृतत्वम्। विषयोऽवधित्वनिरूपकः। निःसरणं च विभाग एवेति उक्तस्थलेऽध्याहृतक्रियायाः सावधिकत्वमिति चेत् । एवं सति वृक्षात्पततीत्यादौ वृक्षादेरसंग्रहः। तत्रापि विभागक्रियाऽध्याहियत इति चेत्, तत्र निर्दिष्टविषयताप्रवादविरोधः । एवमस्मादीर्घ इत्यादावपि क्रियाध्याहारे तत्समशीले माथुराः सौन्नेभ्यः आढ्यतरा इत्यादावपि क्रियाया अध्याहरणीयतया तत्रापादानस्यापेक्षितक्रियात्मकस्योपात्तविषयान्तर्भावप्रसङ्ग इति तादृशापादानयोरविशेषापत्तिः । एवं च "उपात्तविषयं किञ्चिन्निर्दिष्टिविपयं तथा। अपेक्षितक्रियं चेति त्रिधापादानमुच्यते” इति शाब्दिकविभागविरोधः। अथापायपदेन क्रियासामान्य क्रियाजन्यविभागश्च विवक्षितः । एवं च वृक्षात्पततीत्यादौ न विभागात्मकक्रियाध्याहार इति तदपादानमपि निर्दिष्टविषयम् । Page #310 -------------------------------------------------------------------------- ________________ ३०२ व्युत्पत्तिवादः [ कारके यत्रापादानतानिर्वाहार्थमेव क्रियाध्याहारो बलाहकादित्यादौ तदपादानमुपात्तविषयम् । यत्र वाक्यसमाप्त्यर्थं तदध्याहारस्तत एव चापादानतानिर्वाहो यथा माथुराः स्रौघ्नेभ्यः अस्माद्दीर्घ इत्यादौ तत्रापेक्षितक्रियत्वमिति चेत् । एवमप्ययमस्मात्तार इत्यादावगतिस्तत्र हि तारभवनं तारत्वं जातिः। जातेश्च न सावधिकत्वमिति कुतोऽपादानता। अन्यथाऽयमस्माद्गौरित्याद्यापत्तिः। न च जातेरपि तारत्वस्यैवायमस्मात्तार इति प्रतीतिबलाद्भवत्येव सावधिकत्वमिति वाच्यम् । यदेव ह्येकापेक्ष तारत्वं तदेवन्यापेक्षया मन्दत्वं समनियतजातिद्वयानभ्युपगमात् । समनियतत्वानभ्युपगमे जातिसङ्करप्रसङ्गात् । तथा च तारत्वादेः सावधिकत्वे स्वापेक्षया यस्तारस्तमपेक्ष्य स्वस्मिन्मन्दव्यवहार इव तारव्यवहारोऽपि स्यात् । स्वापेक्षया यो मन्दस्तमपेक्ष्य तारव्यवहारवत्तमपेक्ष्य स्वस्मिन्मन्दव्यवहारोऽपि स्यात् । अथ तदपेक्षया तारव्यवहारस्तत्सजातीयत्वे सति साक्षात्कारप्रतिबन्धकतावच्छेदकजातिमत्त्वमवलम्बतेऽतो न स्वापेक्षया यस्तारस्तदपेक्षया तारव्यवहारोन्यापेक्षया तारेऽपि भवतीति चेत्तर्हि अस्मात्तार इत्यत्र साजात्यसमानाधिकरणसाक्षात्कारप्रतिबन्धकतावच्छेदकजातिरूपतारपदप्रवृत्तिनिमित्तघटकसाजात्ये साक्षात्कारे च पञ्चम्यान्वयो वाच्यः। तावतैव दर्शितातिप्रसङ्गवारणसंभवात् । साजात्यं तवृत्तिशब्दत्वजातिस्तस्याः साक्षात्कारस्य च न सावधिकत्वमिति न सावधिकत्वरूपमपादानत्वं तत्र पञ्चम्यर्थः । न च साजात्यघटकजाते: सावधिकत्वाभावेऽपि वृत्तेः सावधिकत्वमस्त्येव । एवं साक्षात्कारो विलक्षणविषयिताशालिज्ञानविषयिता च सावधिकैवेति तत्र पञ्चम्यान्वयेन सामञ्जस्यमिति वाच्यम् । यतो वृत्तेविषयितायाश्च स्वाधारविषयप्रतियोगिकत्वमेव न तु तदवधिकत्वम् । तदवधिकलतत्प्रतियोगिकत्वयोवस्तुनोर्भेदात् । अन्यथा घटे वर्त्तते घटमवगाहत इत्यत्र घटाद्व Page #311 -------------------------------------------------------------------------- ________________ पञ्चमी ] जयाऽलङ्कृतः ३०३ तते घटादवगाहत इति प्रयोगस्य घटस्यापादानत्वेन दुर्वारत्वात् । अत एव प्रतियोगिताया अपादानत्वानात्मकतयाऽन्यादिशब्दयोगे प्रतियोगिवाचकपदात्पञ्चमी सूत्रान्तरेणानुशिष्टा। प्रतियोगित्वस्यापादानतारूपत्वं तद्वैयर्थ्यांपत्तेः। अथान्यादिशब्दार्थभेदादेः क्रियात्वाभावेन कारकत्वासंभव इति मुनिः सूत्रान्तरं प्रणिनायेति चेत् । तत्किं तारादिघटकवृत्त्यादेः क्रियात्वमनुमन्यते भवता। तस्मादत्र पञ्चम्युपपादकं सूत्रान्तरमनुसर्तव्यमिति गुणो द्रव्याद्भिग्न इत्यादौ अन्यारादिति सूत्रेणैव पञ्चमी । अन्यपदस्यान्यार्थकपरत्वादिति बहवः। न चान्यपदेन तदर्थकविवक्षणे तत्समानार्थकेतरपदोपादानवैयर्थ्यम्। अन्येतरपदयोरेकस्यान्योन्याभावविशिष्टार्थपरत्वात् । अपरस्य पृथक्त्वरूपगुणविशिष्टार्थपरतया सार्थक्यात्। पृथग्विनेत्यादिसूत्रे पृथक्पदोपादानं तद्योगे वैकल्पिकतृतीयोपपत्त्यर्थम् । वस्तुतस्तत्र पृथक्पदमसाहित्यार्थक, न तु गुणवदर्थकम् । चन्द्रात्पृथगप्यनङ्ग इत्युदाहरणेऽसाहित्यस्यैव प्रतीतेः । ___ यत्तु अन्यादिपदं नान्योन्याभावार्थकपदपरं, घटः पटो नेत्यादावपि नञस्तदर्थकतया तद्योगे पञ्चम्यापत्तेः। न चान्यपदमन्योन्याभावविशिष्टार्थपदपरम्। तस्यापि विशिष्टार्थवाचकत्वात् । नञ्पदं च न तथा तदुपस्थितार्थस्य नामान्तरार्थे भेदान्वयसंभवेन तत्र धर्ममात्रवाचकत्वादिति वाच्यम्। द्रव्याद्गुणस्य भेद इत्यादौ पञ्चमीनिहाय भेदार्थकपदस्यैवोपादेयत्वात् । अन्यादिपदस्यापि वाच्यविशेषणभेदार्थकत्वादित्याचार्यानुसारिमतं तन्न । अन्योन्याभाववाचकपदस्य पञ्चम्यनुपयोगित्वे द्रव्यादन्यो गुण इत्यादौ पञ्चम्यनुपपत्तेः । गुणादौ पृथक्त्वरूपगुणासंभवेनान्योन्याभावस्यैवान्यपदार्थत्वात् । अन्योन्याभावार्थकपदस्य पञ्चमीप्रयोजकत्वेतत्र निपातातिरिक्तविशेषणप्रवेशेनापि नञ्योगे पञ्चमीवारणसंभवात् । वस्तुतस्त्वन्योन्याभावीयप्रतियोगित्वरूपार्थविवक्षायां Page #312 -------------------------------------------------------------------------- ________________ ३०४ व्युत्पत्तिवादः [ कारके पञ्चमी नञ्पदोपस्थापिताभावस्य च प्रतियोगिता न विभक्त्या बोध्यते । नर्थे प्रतियोगितयैवाधेयत्वातिरिक्तविभक्त्यर्थान्वयस्य व्युत्पन्नत्वान्न चैत्रस्येत्यादौ पष्ठ्याद्यर्थस्य नार्थप्रतियोगित्वादतो न तद्योगे पञ्चमी। अथ पृथक्त्वगुणानङ्गीकर्तृमीमांसकमते सूत्रे अन्यतरपदयोरेकतरोपादानवैयर्थ्य दुर्वारमुक्तरीत्या सार्थकत्वासंभवादिति चेन्न । तन्मतेऽप्येकपदस्य प्राधान्येनान्योन्याभाववाचकस्यापरपदस्य तद्विशिष्टवाचकस्य संग्राहकतया सार्थक्यात् । न च पटाद्भेद इत्यादौ क्रियायोगादपादानपञ्चम्यव । धातूपस्थाप्यपदार्थप्रतियोगिताया अपादानतारूपत्वे घटे वर्तत इत्यादौ पञ्चमीप्रयोगस्य परत्वेनाधिकरणसप्तम्यादिना बाधादेवानवकाशात् । अभावीयविलक्षणप्रतियोगिताया एव वा तथात्वात् । घटादन्यत्वमित्यादौ चापादानत्वासंभवेऽप्यन्यपदयोगेनैव पञ्चमी। तत्रान्यपदाद्विशेषणतया भासमानभेद एव पञ्चम्यान्वयोपगमात् । न तु भावप्रत्ययात्प्राधान्येन भासमाने तस्मिन् पदार्थकदेशेऽपि ससंबन्धिके प्रतियोगिसंबन्धान्वयस्य व्युत्पत्तिसिद्धत्वादिति वाच्यम् । प्राधान्येन भावप्रत्ययाद्भासमानेऽप्यन्यत्वे घटपटादिप्रतियोगिकत्वान्वयविवक्षया घटादन्यत्वमिति प्रयोगात्तन्निर्वाहायैवान्येतरपदद्वयोपादानम् । अथ वा ध्रुवमपाये इत्यत्रावधित्वमेव विवक्षितं न तु प्रतियोगित्वमुभयानुगतरूपाभावादिति पटाद्भेद इत्यादौ पञ्चम्युपपत्तयेऽन्येतरपदोपादानम् । वस्तुतोऽन्येतरपदं स्वरूपपरमेव । अर्थपरत्वे घटादन्य इतिवद्धटादेक इति प्रयोगापत्तेः । यद्येकपदस्यान्यत्वरूपेण नान्यार्थकताऽपि तु समभिव्याहृतान्यत्वोपलक्षिते वस्तुनि. बुद्धिविषयतावच्छेदकघटत्वादिनैव । चैत्र एकमानयति मैत्रश्चापरमित्यादौ घटत्वपटत्वादिनैवानयनकर्मतादिप्रतीतेनं तु पटघटान्यत्वादिना । अन्यत्वान्वयिप्रतियोगिवाचकपदासमभिव्याहारात् । अन्यथा तद्योगे पञ्चम्या असाधुत्वेऽपि घटस्यैक इति प्रति Page #313 -------------------------------------------------------------------------- ________________ पञ्चमी ] जयाऽलङ्कृतः ३०५ योगिनि षष्ठ्यापत्तरित्युच्यते तदाप्यन्यार्थकतदादिपदयोगे पञ्चमी. प्रयोगापत्त्यार्थग्रहणासंभव इति । तथा च पटाद्भिन्नं घटाद्भिद्यत इत्यादौ पञ्चमीनिहाय तत्रापादानत्वमेव कथं चिदुपपादनीयम् । तथा हि-भिधातोर्नान्योन्याभावोऽर्थो घटाद्भिनत्ति पट इति प्रयोगापत्तेः । भिद्यते पट इत्यादिप्रयोगानुपपत्तेश्च । कर्तरि यगात्मनेपदासंभवात् । अदैवादिकाच्च नश्यन्संभवः । परस्मैपदित्वाच्च । अकर्मकधातुयोगे कर्मकर्तविवक्षाया अप्ययोगात् । कस्यचिदकर्मकस्य योगे ण्यर्थान्तर्भावेणैव कर्मकर्तत्वस्योपपादनीयत्वात् । अन्योन्याभावस्याजन्यतया तदर्थकधातोण्यर्थान्तर्भावस्य दुष्करत्वात् । भिद्यते कुसूल इत्यादौ भिदेविदारणार्थकत्वेन सकर्मकतया कर्मकर्तृत्वसंभवात् । अतोऽन्यत्वेन ज्ञापनं भिद्धातोरर्थः । ज्ञापनं ज्ञानविषयताप्रयोजकव्याप्तिपक्षधर्मता। सदाश्रयोऽसाधारणधर्म एव भिदादिकर्तकत्वाद्भेदक उच्यते। अन्यत्वप्रकारकानुमितिविषयतारूपधात्वर्थतावच्छेदकफलाश्रयो भिदाकर्मतया भेद्यः । एवं च पृथिवी इतरेभ्यो भिद्यते इत्यादौ पृथिव्यादेः कर्मतैव न केवलकर्तृता । अन्योन्याभावे साध्ये सर्वतान्त्रिकाणां तादृशप्रतिज्ञालिखनं केषांचिदनवधानेन प्रतिज्ञास्थवह्नयादिपदं वह्नयादिज्ञानविषयतार्थकम् । हेत्ववयवस्थपञ्चम्या ज्ञाप्यत्वं नार्थोऽपि तु प्रयोज्यत्वमेवेति मणिकारादिमतानुसारेणैव केषांचिदिति सूक्ष्मविवेचनचतुराः । अर्जुन: क्रोशाल्लक्ष्यं विध्यति । अद्य भुक्त्वायं द्वयहाभोक्ता इत्यादौ सप्तमीपञ्चम्यौ कारकमध्ये इति पञ्चमी प्रकृत्यर्थयोरध्वाकलयोः कारकद्वयव्यवधायकत मभिधत्ते । तथा च स्वाधिष्ठितदेशानन्तरक्रोशात्मकाध्वभागानन्तरदेशस्थं विध्यत्यर्जुन इत्यादिप्रथमस्थले बोधः । समभिव्याहृतकप्रधिष्ठितदेशानन्तयं विशेषणतया प्रकृत्यर्थान्वयि, विशेष्यतया प्रकृत्यर्थन्वयि चानन्तरदेशस्थत्वं पञ्चम्यथः । स्वीयैकार्यान्वितापरपदार्थान्वितापरस्वार्थबोधकत्वमप्यत्र व्युत्पत्ति २० Page #314 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ कारके वैचित्र्यादेकपदस्य स्वीक्रियते । भोजनकृत्यधिकरणैतदिवसानन्तरद्वयहानन्तरदिनवृत्तिभोजनकृतिमानयमित्याकारकबोधश्चरमस्थले । कारकपदेन क्रियानुकूलव्यापाररूपकारकपदार्थतावच्छेदकस्यापि विवक्षितत्वात् । एकक्रियानुकूलकृत्यन्वयिनः प्रकृत्यर्थाधिकरणकालानन्तरकालीनत्वस्य प्रकृत्यर्थविशेषणीभवदपरक्रियानुकूलकृत्यधिकरणकालानन्तर्यस्य बोधकत्वेऽपि पञ्चम्युपपत्तिः । कारकद्वयमध्यवर्तिताचात्र कालस्य नोपपद्यते कर्तुरैक्यात् । अत एवोक्तम्-कर्तृशक्त्योमध्ये चैकः काल इति ॥ इति महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे पञ्चमोविवरणम् । अथ षष्ठीविवरणम् संबन्धविवक्षायां कारकविभक्त्यप्रसक्तेः शेष षष्टीत्यनेन चैत्रस्येदमित्यादौ षष्ठी। चैत्रस्य द्रव्यमित्यादौ स्वत्वस्य, चैत्रस्य स्वं, घटस्य कारणं, चैत्रस्य हस्तः, इत्यादौ निरूपितत्वावयवत्वादीनां संबन्धत्वेनैव षष्ठ्यर्थता न तु विशिष्य शक्त्यानन्त्यप्रसङ्गात् । संयोगादिसंबन्धसत्त्वेऽपि चैत्रस्य नेदं वास इत्यादौ स्वत्वादिसंबन्धविशेषबोधतात्पर्येण यत्र नञ् प्रयुज्यते तत्र विशेषरूपेण षष्ठ्या लक्षणैव । विभक्तौ न लक्षणेति प्रवादस्यानुशासनासत्त्वे एक विभक्त्यर्थेऽपरविभक्तेन लक्षणेत्येतत्परत्वात् । अत एव च कृद्योगापि हि षष्ठी संबन्धत्वेनैव बोधयतीति मिश्राः । इत्थमेव च संवन्धत्वेन कर्मत्वादिविवक्षया मातुः स्मृतमित्यादावधीगर्थेत्यनुशासनस्य नियमपरतया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते। संबन्धत्वविशिष्टसंबन्धविवक्षायां शेषे षष्ठीत्यस्य षष्ठयविधायकत्वे तादृशानुशा Page #315 -------------------------------------------------------------------------- ________________ ३०७ षष्ठी ] जयाऽलङ्कृतः सनस्य विधित्वमेव स्यात् । अत एव च "आमं शूद्रस्य पक्कान्नं पक्कमुच्छिष्टमुच्यत" इत्यत्र पकमित्यनुषज्यमानायाः षष्ठयाः संबन्धत्वेन कर्तृत्वमर्थः न तु स्वत्वम् । शूद्रकर्तृकवृषोत्सर्गे चरुहोमानुपपत्तेरिति नवीनस्मार्त्तानां मतमप्युपपद्यते । न च तत्र कृद्योगा षष्ठी कर्तृत्वत्वेनैव बोधयतीति वाच्यम् । निष्ठायोगे तस्या निषेधात् । अत एव "नाग्निस्तृप्यति काष्ठानां न पुंसां वामलोचना" इत्यादौ करणत्वादेः संबन्धत्वेन विवक्षया षष्ठयुपपत्तिः । तृतीयादिविधिविषयतया विशेषरूपेण करणत्वादिसंबन्धविवक्षायां षष्ठयनुपपत्तेः । अथ संबन्धत्वेन संम्बन्धस्य षष्ठीवाच्यत्वे पुरुषस्य दण्ड इत्यादौ दण्डस्य पुरुष इत्यादिरपि प्रयोगः स्यात् । दण्डी पुरुषो रूपवान् घट इत्यादिवढ्ण्ड रूपादेः पुरुषघटाद्यनाधारत्वेऽपि पुरुषी दण्डो घटवदूपमित्यादिः प्रयोगो दुर्वारः, तदत्रास्तीत्यर्थ इव तदस्येत्यर्थे मतुपो विधानात् । दण्डरूपादिपदोत्तरषष्ठया चैत्रघटादिनिष्ठतदर्थसंबन्धप्रतिपादने तदुत्तरमत्वर्थीयस्य प्रसंगादिति चेत् । विशिष्य केषांचित्संबन्धानां षष्ठयर्थतोपगमेऽपि घटस्य रूपमित्यादिप्रयोगानुरोधेन समवेतत्वादेः षष्ठयर्थताया आवश्यकत्वेन हस्तस्य चैत्रः, चैत्रवान् हस्तः, शाखाया वृक्षः, वृक्षवती शाखेति कथं न प्रयुज्यते, पूर्वप्रयोगाभावादिति चेत्तुल्यम् । नराणां क्षत्रियः शूरो नरेषु वा, अध्वगानां रथगामिनः शीव्रतरा अध्वगेषु वा, गवां कृष्णा संपन्नक्षीरा गोषु वेत्यादौ यतश्च निर्धारणमित्यनेन षष्ठीसप्तम्यौ विधीयते । तदर्थश्च जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य ताहशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनं तद्धर्मावच्छिन्नार्थकपदात्षष्ठीसप्तम्याविति । प्रकृते च क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छून्यनरादिव्यावृत्तत्वेन शौर्यविशेपादिरूपविधेयसंबन्धोऽभिमत इति नरादिपदात्षष्ठी । नरेभ्यो राक्षसाः शूरतमा इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तच्छून्यनरा Page #316 -------------------------------------------------------------------------- ________________ ३०८ व्युत्पत्तिवादः [ कारके दिव्यावृत्तशूरतमत्वविवक्षायामपि न निरुक्तनिर्धारणं राक्षसत्वादिविशिष्टस्य नरत्वादिसामान्यधर्मानवच्छिन्नत्वात्। नराणां क्षत्रियः शूरतम इत्यादौ क्षत्रियादिनिष्ठशूरतमत्वादौ नरादिसामान्यव्यावृत्तत्वबाधात् शून्यत्वान्तं व्यावृत्त्यवधेविशेषणम् । तद्धर्माश्रययत्किंचिद्वयावृत्तत्वविवक्षणे द्रव्येषु घटो गन्धवानित्यपि स्यात्। गन्धादेर्यत्किचिद्रव्यव्यक्तिव्यावृत्तत्वात्। तादृशविशेषणशून्यसामान्यव्यावृत्तत्वनिवेशे नराणां क्षत्रियः शूरतम इत्यादावेव तदसंभवः । शूरतमत्वादेः क्षत्रियत्वादिशून्यराक्षसाद्यव्यावृत्तत्वादतस्तद्धर्मावच्छिन्नेति। अथ विधेये जात्यादिविशेषणशून्यसाधारणधर्मावच्छिन्नान्वितं व्यावृत्तत्वं साधारणधर्मावच्छिन्नवाचकपदोत्तरषष्ठयादेरेवार्थोवाच्यः। तावता च नरत्वादिरूपसाधारणधर्मावच्छिन्नवृत्तत्वस्यैव लाभः संभवति । न तु क्षत्रियत्वादिशून्यत्वविशेषितनरादिव्यावृत्तत्वस्य प्रकृत्यर्थे नरादौ तादृशविशेषणशून्यत्वबोधकाभावात्। न च षष्ठया एव तदर्थः,शक्त्यानन्त्यप्रसङ्गात् । न च भेद एव पष्ठयर्थः। तत्र च क्षत्रियादिपदार्थस्य प्रतियोगित्वेनान्वयात् क्षत्रियान्यनरादिव्यावृत्तत्वलाभः शक्तिभेदं विनैवेति वाच्यम् । एवमपि संख्यातिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमिति व्युत्पत्तिविरोधापरिहारात् । नरेषु क्षत्रियाणामेव शौर्यमित्यादौ क्षत्रियादेविभक्त्यर्थविशेषणतयोपस्थितस्य भेदे विशेषणतया भानोपगमे व्युत्पत्त्यन्तरविरोधाच्च । अस्तु लक्षणया नरादिपदादेव क्षत्रियान्यनरत्वादिविशेषरूपेणोपस्थितिरिति चेत् । अस्तु । व्यावृत्तत्वं किं तावत् कुत्र वा तदन्वयः। व्यावृत्तत्वं तदवृत्तित्वम्। शूरतमादिपदोपस्थापिते धर्मे तदन्वय इति चेन्न । पदार्थतावच्छेदकेन पदार्थान्तरानन्वयात् । पदार्थानां जातिमति सत्तेत्यादौ जातिमदन्यपदार्थवृत्तित्वसामान्याभावस्य सत्तादौ बाधितत्वान् । तादृशपदार्थसमवेतत्वाद्यभावस्य चाप्रसिद्धावृत्तिबोधासंभवाच्च । एवं द्रव्येषु Page #317 -------------------------------------------------------------------------- ________________ षष्ठी ] कम्बुग्रीवादिमान् बट इत्यादौ घटत्वादिधर्मस्यान्वयितावच्छेदकरूपेणानुपस्थितत्वात्तत्र व्यावृत्तत्वान्वयबोधो दुर्घट इति । अत्र केचित् नराणां क्षत्रियः शूर इत्यादौ क्षत्रिय इव लक्षणया क्षत्रियान्योऽपि क्षत्रियपदार्थः । शूरपदस्यापि शूर इव तदन्योऽप्यर्थः पचर्थोऽभेदः क्षत्रिये तदन्यस्मिंश्चान्वेति । तथा च नराभिन्नः क्षत्रियः शूरो, नराभिन्नक्षत्रियान्यो न शूर इत्यर्थः । नराणां क्षत्रियेषु शौर्यमित्यत्रापि क्षत्रियपदं प्राग्वदुभयार्थकम् । शौर्यपदं च तत्तदत्यन्ताभावार्थकम् । तथा च नराभिन्नक्षत्रिये शौर्यं तदन्यस्मिंस्तदभावः इति बोध: । उद्देश्यविधेययोर्यादृशसंबन्धों भावान्वयबोधे भासते तत्संबन्धावच्छिन्नविधेयाभावः उद्देश्यवाचकविधेयवाचकपदयोर्वैय्यधिकरण्यस्थले विधेयपदलक्ष्यार्थः । तयोः सामानाधिकरण्यस्थले तु विधेयधर्मिभिन्न इति सामान्यतो व्युत्पत्तिरित्याहुः । तन्न । तथासति तस्मै पुरुषोत्तमाय नम इत्यत्र तत्पदार्थतदन्ययोरेव पुरुष - पदार्थाभेदविवक्षणे उत्तमपदेनासामर्थ्यात्समासाप्रसक्तेर्न निर्द्धारणइति निषेधाश्रयणेन प्रकाशकृतां षष्ठीसमासखण्डनानौचित्यप्रसङ्गात् । एवं नरेषु शूरस्य क्षत्रियस्येदं राज्यमित्यादौ शूरपदार्थाशूरान्वित क्षत्रियपदार्थक्षत्रियान्यस्य षष्ठयर्थसंबन्धादौ नान्वयः, किंतु शूरान्वयिक्षत्रियादेरन्वय इत्येतन्नोपपद्यते । श्वेतं सैन्धवं भुङ्क्त इत्यादौ कर्मतादिविशेषणतया लवणादिबुद्धौ मुख्यविशेष्यतयाऽ जयाऽलङ्कृतः ३०६ श्वादेरभानादेकपदोपस्थापितयोर्द्वयोस्तत्प्रकृतिकविभत्तयर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतया भानस्याव्युत्पन्नत्वात् । एवं द्रव्येषु क्षितिपाथसी रसवती इत्यादौ क्षितिजलोभयत्वाद्यवच्छिन्नभिन्ने रसवदाद्यन्यत्ववोधो न संभवति । रसादिमत्यपि प्रत्येकमुभयत्वावच्छिन्नभेदसत्त्वात् । नापि प्रत्येकभेदावछिन्ने तथैव बाधात् । नाप्येकभेदविशिष्टापर भेदावच्छिन्ने एकपदस्य तादृशभेदावच्छिन्नलक्षकत्वे परपदार्थे रसवदाद्यन्यरूपविधेयानन्वयात् । द्वन्द्वघटकै Page #318 -------------------------------------------------------------------------- ________________ ३१० व्युत्पत्तिवादः [ कारके कपदार्थमात्रे विधेयान्वयस्याव्युत्पन्नत्वात् । नापि पदाभ्यां लक्षणया तत्तद्भिन्नोपस्थितौ अभेदेनैकभिन्नान्विते अपरभिन्ने तथापि पदार्थद्वये विधेयान्वयानुपपादनात् । द्वंद्वे समस्यमानपदार्थानां परस्परमनन्वयादित्यपि चिन्त्यम्।। ___ यत्तु नराणां शूरः क्षत्रिय इत्यादौ शूरत्वान्वयी अभेदः षष्ठ्यर्थः । नराभिन्नशूरत्वाद्यवच्छेदेन क्षत्रियाभेदाद्यन्वयः। एवं च क्षत्रियान्ये (?) नरेऽर्थतः शौर्यव्यवच्छेदलाभ इति । तदत्यन्तमसत् । नराणां क्षत्रिये शौर्यमित्यादौ क्षत्रियाणां कर्ण: प्रचुरं ददातीत्यादौ चानिर्वाहात् । ___ इदं तु तत्त्वम् । निर्धारणविभक्तेया॑वृत्तत्वमेवार्थः । व्यावृत्तत्वं चाभेदान्वयिविधेयसमभिव्याहारस्थलेऽन्योन्याभावप्रतियोगित्वम् । भेदान्वयिस्थले चात्यन्ताभावप्रतियोगित्वम् । तस्य च विधेयतावच्छेदकावच्छेदेनान्वयः। अतो न द्वित्वाद्यवच्छिन्नाभावमादायातिप्रसङ्गः । अभावे च प्रकृत्यर्थस्य नरादेः क्षत्रियत्वादिरूपोद्देश्यतावच्छेदकावच्छिन्नभेदविशिष्टप्रकृत्यर्थतावच्छेदकनरत्वादिव्यापकाधिकरणतानिरूपिताधेयतासंबन्धनान्वयः । एतावतैव जात्यादिरूपविशेषणशून्यप्रकृत्यर्थनरादिसामान्यव्यावृत्तेविधेयधर्मे लाभः । द्रव्याणां क्षितिपाथसी रसवती इत्यादौ भेदद्वयादिविशिष्टद्रव्यत्वादिव्यापकतैव संबन्धः। विधेयस्य शूरतमादेर्निर्धारणविभक्तिप्रकृत्यर्थतावच्छेदकनरत्वादिविशिष्टतादात्म्यादिरेव संबन्धतया भासते। अतो नराणां राक्षसः शूर इत्यादे पत्तिः । अन्यत्स्वयमूह्यम्। इति महामहोपाध्यायश्रोगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे षष्ठोविवरणम् । Page #319 -------------------------------------------------------------------------- ________________ सप्तमी ] जयाऽलङ्कृतः ३११ अथ सप्तमीविवरणम् आधारसप्तम्या आधेयत्वमर्थः । तस्य क्रियायामन्वयः। आधाराधेयभावश्च न संयोगादिरूपसंबन्धात्मकः । कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् । अपि तु पदार्थान्तरमेव । स च संबन्धविशेषावच्छिन्नः संयोगेनाधिकरणं समवायेनाधिकरणमित्यादिव्यवहारात् । अथ वोक्ताऽतिप्रसङ्गभिया संयोगेनाधारत्वमेवातिरिक्तम् । समवायसंबन्धावच्छिन्नं च समवायादिरूपमेव। न च समवायस्य संबन्धत्वेन द्विष्ठतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः। तथा सति तुल्ययुक्तयाधिकरणत्वस्यापि द्विष्ठतया तादृशातिप्रसङ्गस्य दुर्वारत्वात् । यदि चाधारताया आधारेऽनुयोगित्वं संबन्धः अाधेये च प्रतियोगित्वमिति संबन्धवैलक्षण्यानातिप्रसङ्गः, आधारतानुयोगिताया एवाधारव्यवहारप्रयोजकत्वादित्युच्यते, तदा समवायस्यापि तद्वैलक्षण्येनातिप्रसङ्गवारणादतिरिक्ताधारतायां मानाभावात्। स्पोद्याधारवाय्वादेः रूपाद्याधारतावारणायाधेयभेदेनाधारत्वमतिरिक्तमिति न सत् । प्राधेयभेद भिन्नाधिकरणतानामतिरिक्तसमवायस्य च कल्पनामपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगन्तुमुचितत्वात् । अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु । कुण्डबदरादिसंयोगानां कुण्डादिकमनुयोगि न तु बदरादिकमिति नातिप्रसङ्गः। न चैवमपि कुण्डादेः कुण्डादिनिष्ठसंयोगानुयोगितायाः कुण्डाधारतापत्तिः। तादृशसंयोगस्य कुण्डादिनिष्ठत्वेऽपि तत्प्रतियोगिकत्वानुपगमात्तत्प्रतियोगिकसंवन्धानुयोगिताया एव तदाधारव्यवहारप्रयोजकत्वात्। न चासौ संयोगो बदरादौ कुण्डविशिष्टबुद्धिप्रयोजकतयोभयानुयोगिक एक एवमुभयप्रतियोगिकोऽपीति वाच्यम् । आधेये संयोगेनाधिकरणविशिष्टबुद्धेरप्रामाणिकत्वात् , कुण्डे वदरमित्यादिविशिष्टबुद्धौ संयोगप्रतियोगिताया एव संबन्ध Page #320 -------------------------------------------------------------------------- ________________ ३१२ व्युत्पत्तिवादः [ कारके त्वात् । पटे रूपमित्यादौ समवायप्रतियोगितावत् । अन्यथा तादृशविशिष्टबुद्धिबलाद्रपादावपि घटादिसमवायानुयोगिताप्रङ्गादिति चेन्माभूत्तत्संबन्धावच्छिन्नाधारत्वमप्यतिरिक्तम् । ___ यत्तु तत्पतनप्रतिवन्धकसंयोगवत्त्वं तदाधारत्वं कुण्डादिपतनप्रतिबन्धकसंयोगवत्त्वं च न बदरादौ, तत्संयोगसत्त्वेऽपि तस्य पतनादिति तदसत्। यस्य पतनमप्रसिद्धं तदाधारत्वासंग्रहात् । स्वस्मिन्स्वपतनप्रतिबन्धकसंयोगसत्त्वेन स्वस्यापि स्वाधारताप्रसगाच । स्वान्यत्वे सति स्वनिष्ठपंतनानुत्पादकप्रयोजकसंयोगवत्त्वं तदिति चेन्न । एतदनुपस्थितावप्यधिकरणव्यवहारादित्यलम् । अथाधारसप्तम्या आधेयतार्थकत्वे भूतले वर्तते घट इत्यादौ धात्वर्थस्य वृत्तेराधेयतारूपत्वेन तत्र भूतलाद्याधेयत्वाभावेनायोग्यताप्रसङ्ग इति चेन्न । तत्र . निरूपकत्वस्यैवाधारतारूपत्वेन निरूप्यत्वस्यैव सप्तम्यर्थत्वात् । भूतलादिनिरूप्यत्वस्य च घटादिनिष्ठवृत्तावबाधात् । अत एव 'इतिहेतुस्तदुद्भव'इत्यादौ हेतौ हेतुतायां चोद्भवपदार्थोत्पत्तिवृत्तित्वाभावेऽपि हेतुतायामुत्पत्तिनिरूपितत्वसत्त्वेन सप्तम्युपपत्तिः । अथ वा वृद्धातोरपि आधारत्वमेवार्थस्तन्निरूपकत्वमेव घटादेस्तत्कतत्वम् । एवं च तादृशधात्वर्थे भूतलाद्यधिकरणकत्वमेव सप्तम्यन्तेन बोध्यते। तत्र तदबाधात् । अथाधारसप्तम्या क्रियायां प्रकृत्यर्थाधिकरणकत्वं यदि बोध्यते तदा चैत्रे चैत्रो गच्छतीत्यादि प्रयोगापत्तिः। तत्र धात्वर्थस्य स्पन्दादेः कादिवृत्तित्वात् । भुवि गच्छतीत्यादिश्च न स्यात् । चैत्रनिष्ठक्रियाया भुवि बाधादिति चेन्न। तत्र कर्तघटितपरम्परासंबन्धावच्छिन्नाधारताया एव सप्तम्यर्थत्वेन सर्वसामञ्जस्यात् । परम्परासंबन्धस्यापि प्रतीतिबलेन कचिदाधारतानियामकत्वोपगमात्। ___अवच्छेद्यताविशेषोऽप्याधारसप्तम्यर्थः । यथा वीणायां शब्दः, कर्णे शब्दः, वृक्षाग्रे कपिसंयोग इत्यादौ । एषु कारकतानिहाय Page #321 -------------------------------------------------------------------------- ________________ सप्तमी ] जयाऽलङ्कृतः ३१३ भवतीत्यध्याहारः । अथ वा सप्तम्यधिकरणे चेति चकारेणाकारकाधारवाचिनोऽपि सप्तमी। अत एव साध्यवद्भिन्नसाध्याभाववदवृत्तित्वमित्यत्र साध्यवद्भिन्ने यः साध्याभाव इति सप्तमीतत्पुरुषेण व्याख्यानं संगच्छते तत्र क्रियाध्याहारे सापेक्षतयाऽसामर्थ्येन समासानुपपत्तेः। ___ चर्मणि द्वीपिनमित्यादौ निमित्तात्कर्मयोग इत्यनेन सप्तमीप्रकृत्यर्थचर्मादेहननादिक्रियानिमित्तत्वं बोधयति । निमित्तत्वं च न कारणत्वम् । चर्मादेहननादिक्रियाकारणत्वे मानाभावात् । पूर्ववर्तित्वेऽपि इच्छाकृत्यादिना अन्यथासिद्धत्वात्। अपि तु क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषयत्वं स्वविषयकतादृशेच्छाधीनत्वमेव । तत्र क्रियान्वयी सप्तम्यर्थः। तदेकदेशविषयितायां निरूपकत्वेन प्रकृत्यर्थान्वयः । चर्मादेर्घात्यव्याघ्रादेः संबन्धश्च न सप्तम्यर्थः । अपि तु सप्तम्याः साधुत्वे स्वरूपसन्नपेक्षितः।। गोषु दुह्यमानासु गत इत्यादौ यस्य च भावेनेत्यनेन गवादिपदात्सप्तमी तत्समानाधिकरणदुह्यमानादिपदाच्च नीलं घटमानयेत्यादौ नीलादिपदाद्वितीयावद्विशेषणपदस्य विशेष्यपदसमानविभक्तिकत्वनियमात् । सप्तमीविधायकसूत्र च भावपदं क्रियापरम् । तथा च यद्विशेषणकृदन्तार्थविशेषणतापन्नक्रियया क्रियान्तरस्य लक्षणं व्यावर्त्तनं तद्वाचकपदात्सप्तमीति तदर्थः। उक्तस्थले गमनादिक्रियादोहनादिसमानकालीनत्वादिपुरस्कारेण बोध्यतयाभिप्रेता। अतो व्यावर्त्तकविशेषणप्रविष्टतादृशक्रियाया अपि व्यावर्त्तकतया तत्कर्माद्यभेदान्वयविशेष्यगवादिपदात्सप्तमी। अतस्तादृशसप्तम्याः समानकालीनत्वादिकमात्रमर्थः। तत्र दुह्याद्युपस्थापितदोहनादेनिरूपकत्वेनान्वयादोहनसमानकालीनत्वादिकं गमनादौ लभ्यत इति न युक्तम् । दुह्याद्युपस्थापितक्रियायाः कृदर्थविशेषणतयोपस्थितायाः समानकालीनत्वादिविशेषणत्वासंभवात्, प्रकृत्यर्थगवादिनान Page #322 -------------------------------------------------------------------------- ________________ ३१४ व्युत्पत्तिवादः [ सम्बोधने न्वितस्य सप्तम्या बोधनासंभवाच्च । किन्तु समभिव्याहृतदोहनादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वादिकं क्रियान्तरे 'संबन्धः । तत्र वर्त्तमानार्थककृत्समभिव्याहारस्थले समानकालीनत्वं दोग्धव्यासु गत इत्यादि भविष्यदर्थकृत्स्थले प्राक्कालीनत्वं दुग्धा गत इत्यादावतीतार्थकृत्स्थले उत्तरकालीनत्वं संबन्धतया भासते । पाथसि पीते तृषा शाम्यतीत्यादावतीतार्थककृत्समभिव्याहारात्कार्यकारणभावोऽपि संबन्धतया भासत इत्यादिकमूहनीम् । गुणान्यत्वे सति सत्त्वादित्यादौ सतीत्यनन्तरं सत इत्यध्याहार्यमन्यथा लक्षणीयक्रियाभावेनोक्तसूत्राविषयतया सप्तम्यनुपपत्तेः । तत्र चास्धातोरर्थ श्राधारता गुणाम्यत्वाद्याधारतायाश्च सत्ताधार तायां तद्वन्निष्ठत्वं संबन्धतया भासत इति चिन्तामणिकारोक्तसामानाधिकरण्यलाभनिर्वाहः । शयानेन चैत्रेण भुक्तमित्यादौ शयनभोजनादिक्रिययोः समानकालीनत्वभानेऽपि तत्र लट्प्रत्ययेनैव समभिव्याहाराद्भोजनादिसमानकालीनत्वं शयनादिक्रियायां बोध्यतेऽतो न सप्तमी अन्यतस्तदनभिधान एव सप्तमीविधानात् । इति महामहोपाध्यायगदाधर भट्टाचार्यविरचिते व्युत्पत्तिवादे सप्तमीविवरणम् । er सम्बोधनविवरणम् चैत्र त्वया भुज्यतामित्यादौ संबोधने चेति प्रथमा संबोधन मे - वाह । तच्च वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा । प्रथमार्थतादृशेच्छाया विषयतासंबन्धेन प्रकृित्यर्थविशेषणतया भानम् । अथ संबोध्यत्वज्ञानं विनापि त्वया भुज्यतामित्यादिवाक्याधीनस्य चैत्रा Page #323 -------------------------------------------------------------------------- ________________ प्रथमा ] देवक्यार्थबोधस्य भोजनादिप्रवृत्तेश्च निर्वाहात् चैत्रेत्यादिप्रथमान्तपदप्रयोगोऽनर्थक इति चेन्न | संबोध्यतानुमापकासाधारणाभिमुख्यादिविरहे विशिष्य चैत्रत्वाद्यवच्छिन्ने युष्मत्पदशक्तिग्रहनिर्वाहस्यैव तत्प्रयोजनत्वात् । चैत्रत्वाद्यवच्छिन्ने बोध्यत्वग्रहं विना संवोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नवाचकयुष्मत्पदस्य विशिष्यचैत्रत्वाद्यवच्छिन्ने शक्तेर्निश्वेतुमशक्यत्वात् । न चैवमपि यत्रानन्तरवाक्यं न युष्मच्छन्द घटितं चैत्रात्र घटोऽस्तीत्यादौ तत्र संबोधनपदसार्थक्यं दुरुपपादमेवेति वाच्यम् । तत्रापि तत्तद्वाक्ये स्वीयवाक्यार्थबोधार्थोच्चरितत्वरूपतात्पर्यनिश्चयार्थमेव तत्पदप्रयोगात् । तादृशतात्पर्यनिश्चयं विना श्रुतादपि तत्तद्वाक्याश्चैत्रादेः शाब्दबोधासंभवात् । चैत्रस्याश्वानयनादिबोधाय मैत्रस्य च लवणानयादिबोधायोच्चरितात्सैन्धवमानयेति वाक्याद्वैपरीत्येन चैत्रमैत्रयोस्तत्तद्वाक्यार्थबोधवारणाय तदीयतदर्थबोधे तदीयतद्बोधार्थोच्चरितत्वरूपतात्पर्यनिश्चयस्य हेतुताया श्रावश्यकत्वात् । संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासत इति नियमे संख्याभेदवत्संबोधनभेदोऽपि निवेशनीयः । अतः संबोधनस्य प्रकृत्यर्थविशेषणतया भानेऽपिन क्षतिः । संबोधनस्य प्रकृत्यर्थविशेष्यतयैव वा भानमुपेयम् । वस्तुतो नामार्थस्य प्रकृतिप्रत्ययार्थमन्तरा कृत्वैव क्रियान्वय इत्यनुरोधात्सुवर्थ कर्मत्वादेः प्रकृत्यर्थविशेष्यतयैव भानमुपेयते न तूक्तनियमानुरोधेन । तथा नियमे मानाभावात् । संबोधनविभक्तयन्तप्रकृत्यर्थस्यान्यत्र विशेषणतयाऽन्वयात्संबोधनस्य विशेष्यतया भानं नियुक्तिकमिति कृतं विस्तरेण । जयाऽलङ्कृतः इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे सम्बोधनविवरणम् । ३१५ Page #324 -------------------------------------------------------------------------- ________________ ३१६ व्युत्पत्तिवादः [ लिङ्गार्थे अथ लिङ्गार्थविवरणम् प्रातिपदिकप्रकृतिकाः स्त्रियामित्यनेन विहिताष्टाबादयः कचिस्त्रीत्वं प्रकृत्यर्थविशेषणतया बोधयन्ति । अजा अश्वा शूद्रा श्यामा चपला ब्राह्मणी गौरी सुकेशी गर्भिणीत्यादौ । स्त्रीत्वं च योनिमत्वम्। न च स्त्रीपरपदात्सातुत्वार्थष्टाबादिप्रत्ययो न तु स्त्रीत्वं तस्यार्थः । कचित् स्त्रीत्वबोधश्च स्त्रीप्रत्ययप्रकृतितात्पर्यविषयत्वरूपलिङ्गज एवेति वाच्यम् । खट्वादौ व्यभिचारेण तादृशहेतोः स्त्रीत्वासाधकत्वात् । प्राणित्वेन विशेषणेऽपि देवतादौ व्यभिचारात्। . वस्तुतस्त्वजवत्यपि अजा नास्तीत्यादिप्रयोगात्स्त्रीत्वस्य नार्थान्वयितावच्छेदकतया भानमावश्यकम् । अन्यथा पुंसाधारणजातिविशेषावच्छिन्नाभावस्य बाधेन तादृशप्रोगस्य प्रामाण्यानुपपत्तेः । न च प्रातिपदिकार्थ एव स्त्रीत्वं तस्य च तदर्थ एव जात्यादिमति विशेषणत्वेनान्वयः । स्त्रीप्रत्ययास्तु द्योतका एव । अत एव ___ "स्वार्थो द्रव्यं च लिङ्गं च संख्या कर्मादिरेव च । अमी पञ्चैव नामास्त्रियः केषांचिदग्रिमा" इति शाब्दिकानां कारिकापि सङ्गच्छते। तत्र स्वार्थो जात्यादिरूपो गवादिपदमुख्यार्थः । द्रव्यं गवादिरूपस्तद्धर्मी तन्मते औपचारिको गवादिपदार्थः। लिङ्गस्य प्रातिपदिकार्थत्वमावश्यकमेव। नात्र ब्राह्मणोऽपि तु ब्राह्मणीत्यादौ पुंस्त्वबोधकपदान्तराभावेन तद्बोधानुपपत्तेः । ब्राह्मणादिपदाच्च जात्यादेद्रव्यस्य च भानं नियतमेव । लिङ्गभानं तात्पर्ययोग्यताधीनं काचित्कम् । ब्राह्मणीत्यादौ पुंस्त्वाद्यबोधादिति वाच्यम् । उक्तयुक्त्या पुंस्त्वस्य प्रातिपदिकार्थत्वेऽप्यनन्तानां प्रातिपदिकपदानां स्त्रीत्वार्थकत्वे गौरवात् । लाघवेनाल्पीयसां स्त्रीप्रत्ययानां तदर्थकत्वकल्पनौचित्यात्। अत एव स्त्रीत्वसंग्रहाय प्रातिपदिकार्थत्यादिसूत्रे लिङ्गग्रहणम् । अन्यथा प्रातिपदिकार्थ एव Page #325 -------------------------------------------------------------------------- ________________ स्त्रीप्रत्ययाः ] जयाऽलङ्कृतः ३१७ तदन्तर्भावेन पृथक् तदुपादानानुपपत्तेः। कचित्स्त्रीप्रत्ययः स्त्रियं भार्यात्वेन प्रकृत्यर्थविशेष्यतया बोधयति आचार्याणी मानवी शूद्रीत्यादौ। भार्यात्वं संबन्धविशेषः। तत्रैव च निरूपकत्वेन प्राकृत्यर्थान्वयः । खट्वाटवीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः । तत्र प्रकृत्यर्थे योनिमत्त्वरूपस्त्रीत्वस्यायोग्यतयाऽनन्वयात् । ___ न च शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव तत्र परम्परासंबन्धेनार्थगततया भासत इति श्रीपतिदत्तोक्तं युक्तम् । तद्भाने मानाभावात्। यूस्ख्याख्यावित्यत्र स्व्याख्यपदं स्त्रीलिङ्गशब्दपरं न तु स्त्रीत्वविशिष्टार्थकशब्दपरम् । तेनाटव्यादिशब्दानां स्त्रीत्वविशिष्टाबोधकत्वेऽपि न नदीसंज्ञानुपपत्तिः । अत एव स्त्रीभूप्रभृतीनां स्त्रीप्रत्ययान्तत्वाभावेन स्त्रीत्वविशिष्टबोधकत्वेऽपि नदीसंज्ञाप्रसक्त्या नेयवस्थानाविति निषेधसंगतिः। न चैवं सेनान्ये स्त्रियै इत्यादावपि नदीसंज्ञा स्यात् । सेनान्यादिशब्दस्य तत्र विशेष्यनिघ्नतया स्त्रीलिङ्गत्वादिति वाच्यम् । प्रयोगानुसारेण विशेष्यसमभिव्याहारानधीनायाः स्त्रीलिङ्गताया विवक्षणीयत्वादिति संक्षेपः। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे लिङ्गार्थविवरणम्। अथ तद्धितार्थविवरणम् तद्धितप्रत्यया अपि नामप्रकृतिकाः क्वचित्प्रकृत्यर्थेन स्वार्थंकदेशस्य कचिच्च तेन स्वार्थस्यान्वयबोधं जनयन्ति । तत्र गार्गिरित्यत्रापत्यार्थविहिततद्धितार्थस्यापत्यस्यैकदेशेजन्यत्वे निरूपकतयाप्रकृत्यर्थगर्गाद्यन्वयः । गार्ग्य इत्यादौ तद्धितार्थस्य गोत्रापत्यैकदेशपुत्रघटकजन्यत्वे तथा तदन्वयः। गाायण इत्यादौ तद्धितार्थस्य युवाप Page #326 -------------------------------------------------------------------------- ________________ ३१८ व्युत्पत्तिवादः [ तद्धिते त्यस्यैकदेशे जन्यत्वे गाय॑स्य जीवति तु वंश्ये युवेतिपरिभाषितयुवार्थघटकजीवने च गर्गादेरन्वयस्तेन गर्गादिजीवनकालीनो गर्गगोत्रापत्यस्यापत्यमयमिति बोधः । माञ्जिष्ठं वास इत्यत्र तेन रक्तमित्यथे तद्धितो विहितः। तत्संवन्धाधीनतदीयरूपारोपविषयत्वं तेन रक्तत्वम् । शङ्खः पीत इत्यारोपमादाय शङ्खादेरारोप्य पीतिमाद्याश्रयहरितालादिरक्तत्वस्य वारणायाधीनान्तमारोपे विशेषणम् । पटादेश्चक्षुरादिना रक्तत्वस्य वारणाय तदीयत्वं रूपविशेषणम् । अत्र च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थैकदेशसंवन्धे प्रतियोगितया रूपे चाश्रयतयाऽन्वयः। शूल्यमुख्यमित्यादौ तद्धितार्थसंस्कृतैकदेशे पाकादिरूपसंस्कारे शूलोखादेः प्रकृत्यर्थस्याधिकरणत्वेनान्वयः । पौषी रात्रिरित्यादौ नक्षत्रयुक्तकालार्थे तद्धितः । कालस्य नक्षत्रयुक्तत्वं च तनक्षत्रशशिभोगाश्रयत्वं, तदेकदेशे शशिभोगे च कर्मतया तन्नक्षत्रान्वयः। पौषो मासः पौषो वर्ष इत्यादौ सास्मिन्नित्यनेन विहितस्य तद्धितस्य पौर्णमासीघटितत्वावच्छिन्नोऽर्थः पौर्णमास्यां प्रकृत्यर्थपौष्यादेरभेदेनान्वयः। पौषादिपदं च न केवलं यौगिकम् । पौषः पक्ष इत्यादिव्यवहारविरहात अतो रूढमपि । अत एव सूत्रे संज्ञाग्रहणं रूढिनिरूपकतावच्छेदकं च मासनिष्ठशुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वं न तु त्रिंशत्तिथिरूपमासत्वमात्रम् । यत्किंचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारेऽपि चान्द्रसौरपौषादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात् । अथैवमपि सौरे पौषादिव्यवहारस्य निर्विवादतया धनुःस्थरविविशिष्टत्वमेव न कथं पौषादिपदशक्यतावच्छेदकमुपेयत इति चेन्न । सौरे पौषादौ पौष्यादिपूर्णिमाया अलाभे योगरूढिलभ्यपौषपदार्थविलोपापत्तेः । न च तत्र रूढिमात्रमवलम्ब्येव पौषादिव्यवहारः सौरपौषादौ मुख्य इति वाच्यम् । तथा सति योगार्थव्युत्पादनवैयर्थ्यात् । अथ विलुप्यतां वर्षविशेषे पौषादिपद Page #327 -------------------------------------------------------------------------- ________________ पौषादिपदार्थ० ] जयाऽलकृतः ३१६ मुख्यार्थः का क्षतिः । तत्र लक्षणया सौरमासे पौषव्यवहारस्योपगन्तव्यत्वात् । स्थलपद्मादौ पङ्कजव्यवहारवदिति चेत्तर्हि तत्र पौषादिपदमुख्यार्थमासनिमित्तकाब्दिकश्राद्धादिविलोपप्रसङ्गः। यथाश्रुतशूलपाणिग्रन्थानुसारिणस्तु धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्तेषु धनुरादिस्थरविसमाप्यमकरादिस्थरविसंक्रान्तिमन्मासाभिन्नधनुरादिस्थरव्यधिकरणशुक्ल प्रतिपदादिदर्शान्तेषु वा पौषादिपदस्य रूढत्वमेव स्वीकुर्वन्ति, न तु यौगिकत्वम् । “अन्त्योपान्त्यौ त्रिभौ ज्ञेया" विति वचनात् । पौषादिमासीयपौर्णमास्यां पुष्यादियोगस्यानियमात् । न च योगानादरे लाघवात्तत्तद्राशिस्थरविविशिष्टकालरूपसौरादिमास एव पौषादिपदशक्तिरुचितेति वाच्यम् । सा वैशाखस्यामावास्या या रोहिण्या संम्बध्यते इत्यादिश्रुतिबलाचान्द्र एव वैशाखादिपदशक्तिसिद्धेः । वस्तुतो नक्षत्रेण युक्तः काल इत्यत्र नक्षत्रयोगयोग्यत्वमेव विवक्षितम् । पुष्याद्ययुक्तायामपि पौषादिपूर्णिमायां पौष्यादिव्यवहारात् । अन्यथा माध्यां यदि मघा नास्तीत्यादेरसंगत्यापत्तेः पुष्यादियोगयोग्यता च धनुरादिस्थरव्यारब्धपक्षीयत्वं तद्रपाक्रान्तपौणमासीघटितत्वरूपयोगलभ्यतावच्छेदकं नियतमेव पौषादेरिति नोक्तानुपपत्त्या यौगिकत्वनिराकरणसंभवस्तत्पदानाम् । अथैवं निरुक्तरूपस्य पुष्याद्यघटिततया तेन रूपेण पूर्णिमाबोधकपौष्यादिशब्दानां यौगिकत्वप्रसक्तिरेव नास्ति पौषी रात्रिरित्यादौ पुष्यादियोग एव प्रतीयते न तु निरुक्तं योग्यत्वम् । मकरादिस्थरव्यारब्धकृष्णपक्षीयरात्र्यादावपि तथा व्यवहारादिति नक्षत्रेण युक्तः काल इत्यत्र योग एव विवक्षणीयो न तु योगयोग्यत्वमिति पौर्णमास्यां पौष्यादिपदस्य न यौगिकत्वसंभवश्वेद्भवतु पौष्यादिपदं निरुक्तरूपावच्छिन्नपूर्णिमारूढमेव पौषादिपदानां तद्योगपुरस्कारेण मासवाचकत्वे बाधकाभावाद्यौगिकत्वं कथं प्रत्याख्येयम् । न च सास्मिन्पौर्णमासीति सूत्रस्यास्मिन् पौष्या Page #328 -------------------------------------------------------------------------- ________________ ३२० व्युत्पत्तिवादः [ तद्धिते दिपूर्णिमायोग्यतेत्यर्थविवक्षया धनुरादिराशिस्थरव्यारब्धशुक्ल प्रतिपदादिदर्शान्ते तद्धितान्तसमुदायरूढिग्राहकतयोपपत्तौ योगरूढिस्वीकारोऽनुचित इति वाच्यम् । केवलरूढिपक्षे समुदायशक्यतावच्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात् । पौषतैषमाघादिनानापदानां गुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य सास्मिन्नित्यर्थेऽणः प्रत्ययस्यैकशक्तिकल्पनाधिक्यस्योचितत्वात्। न च योगरूढिपक्षे पौषादिपदानां योगार्थरुढ्यर्थाभेदान्वयबोधजनकत्वकल्पनाधिक्येन गौरवमिति वाच्यम्। भवन्मतेऽपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सति च तत्तदर्थाभेदान्वयपरत्वग्रहे तथान्वयबोधस्य दुरपह्नवतया तत्र तादृशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक्। वैष्णवी ऋक् ऐन्द्रं हविरित्यादौ देवतार्थविहिततद्धितस्य तद्देवताकत्वमर्थः। मन्त्रस्य तद्देवताकत्वं तदुद्देश्यकत्यागकरणत्वेन वेदबोधितत्वम् । अथ मन्त्रस्य त्यागकरणत्वं बाधितमेव। विनापि मन्त्रमिच्छाविशेषरूपस्य तस्योत्पत्त्या व्यभिचारात्। इष्टसाधनताज्ञानघटितक्लप्तसामग्र्या अन्यथासिद्धत्वाञ्चेति मन्त्रस्य करणतां कथं वेदो बोधयेद् बोधयन्वा प्रमाणं भवेत्। सत्यम्। मन्त्रस्य त्यागकरणत्वं त्यागाङ्गोच्चारणकत्वं न तु तज्जनकत्वमतो न दोषः । हविषस्तदेवताकत्वं च तदुद्देश्यकत्यागकर्मत्वम्। तत्त्यागोद्देश्यताया एव तद्देवतापदार्थत्वात् । न चैवं घृतादिसंप्रदानब्राह्मणस्य घृतादिदेवतात्वापत्तिः । उद्देश्यपदेन वेदबोधितद्रव्यस्वामित्वप्रकारेण विषयताया एव विवक्षितत्वात् । संप्रदाने च स्वामित्वस्याबाधितत्वात् । न च त्यागोद्देश्यतायाश्चतुर्थ्यापि बोधनात्तद्धितचतुर्योर्देवतात्वबोधकतायामविशेषात्। "तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गन वा पुनः। देवतासङ्गतिस्तत्र दुर्बलं तु परं परम्" इत्यनेन विरोध इति वाच्यम्। त्यागोद्देश्यतायां वेदमेयत्व Page #329 -------------------------------------------------------------------------- ________________ तद्धित चतुर्योर्बला ल० ] जयाऽलङ्कृतः ३२१ स्याधिकस्य निवेशनीयतया चतुर्थ्या तदंशाबोधनेन तस्योपायान्तरबोध्यतया चतुर्थ्यधीनदेवतात्वबोधस्य विलम्बिततया तद्धितापेक्षया चतुर्थ्या जघन्यतोपपत्तेः। देवतार्थविहिततद्धितेनैव देवतात्वघटकतदंशस्यापि बोधनात्। अथ चतुर्थ्या वेदमेयत्वांशस्य साक्षादबोधनेऽपि त्यागोद्देश्यत्वस्य साक्षाद्वोधनेन पित्रादीनां साहित्यावच्छिन्नानां पितृभ्यो दद्यादिति चतुर्थ्यधीनत्यागोद्देश्यताबोधस्य पितरो देवता इति तद्धितसमानार्थकदेवतापदाधीननिरपेक्षत्यागोद्देश्यत्वबोधापेक्षयाऽविलम्बितत्वेन साहित्यावच्छिनानां निरपेक्षाणां वा श्राद्धोद्देश्यत्वमित्यत्र चतुर्थ्यपेक्षया देवतापदस्य बलवत्त रूपं शूलपाणिपर्यालोचितं विनिगमकं न संगच्छत इति चेन्न । पितृभ्यो दद्यादिति चतुर्थ्या साहित्यावच्छिन्नस्य त्यागोद्देश्यताबोधे तत्र वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहे सत्येवाप्रामाण्यशङ्कान दयः। तादृशग्रहश्च विलम्बितः। देवतापदात्त्यागोद्देश्यताबोधश्च तदद्देश्यतांशे वेदबोधितत्वावगाही स्वस्मिन्नप्रामाण्यशङ्काव्युदासार' न ज्ञानान्तरमपेक्षते । स्वस्यैव स्वात्मकोद्देश्यताबोधांशे व्यावत्तक वेदजन्यत्वावगाहनात्। अप्रामाण्यशङ्काकलंकितश्च बोधो जातोऽप्यकिंचित्कर इति देवतापदस्य झटिति निश्चीयमानप्रामाण्यकबोधजनकतया बलवत्त्वेन विनिगमनाया उपपत्तः । एवं श्राद्धार्थावाहन्प्रकाशकात् पितर इत्यादिमन्त्रबहुवचनोपस्थापितसाहित्यावच्छिन्नावाहनबोधेन साहित्यावच्छिन्नानां श्राद्धदेवतात्वलाभेऽपि मा नङ्गस्य विपक्षबाधकतर्कादिसापेक्षव्याप्तिनिश्चयाधीनतया सुतरां पितरो देवता इत्यतो दुर्बलतेति बोध्यम् । कापोतं राजतं जनते यादौ समूहार्थविहितस्य पर्याप्तसमुदायत्वावच्छिनोऽर्थः पर्याप्तौ प्रत्यर्थकपोतत्वाद्यनवच्छिन्नस्यान्वयः । कपोतशुकसारिकादिपर्याप्त समुदायत्वस्य पर्याप्तिश्च न न्यूनवृत्तिकपोतत्वादिनाऽवच्छिद्यते। अतो न तादृशसमुदाये कापोतादिव्यवहारः । १ Page #330 -------------------------------------------------------------------------- ________________ [ आख्याते ३२२ व्युत्पत्तिवादः पर्याप्त्यवच्छेदकत्वे चान्यूनवृत्तित्वमेव च तन्त्रं न त्वनतिरिक्तवृत्तित्वमपि । अन्यथा आकाशत्वादेरिव घटत्वादेरपि द्वित्वादिपर्याप्त्यवच्छेदकता न स्यात् । आकाशावितिवत् घटावित्यपि न स्यात्। इत्थं च कपोतमात्रवृत्तिशतत्वादिपर्याप्तावपि अतिरिक्तवृत्तिकपोतत्वादेरवच्छेदकतानिर्वाहात् । कपोतशतादावपि कापोतादिव्यवहारोपपत्तिः। पर्याप्त्यतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यन्तरं चिन्तनीयम्। । इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे तद्धितार्थविवरणम् । अथाख्यातविवरणम् धातुप्रकृतिकाश्च लकारकृत्सन्यपिच्प्रभृतयः प्रत्ययाः केचिद्धात्वान्वितसाधकतमत्वं ब्रुवते । अर्थान्तरमनभिदधानाश्च केचिदाकाङ्क्षानिर्वाहकतया प्रकृतिभिः स्वीयार्थबोधन एवोपकुर्वते। तत्र लडादिदशलकाराणां लः कर्मणि च भावे चाकर्मकेभ्य इति सूत्रेण कर्तृकर्मभावेष्वनुशिष्टानां कर्तृत्वसामान्यमर्थः। तावन्मात्राभिधानेनैव प्रथमान्तपदोपस्थाप्यविशेषणतया तदन्वयेन कृतिविशिष्टस्य कर्तुर्बोधनिर्वाहात्। लकारस्य तद्बोधकतया न लःकर्मणीतिसूत्रविरोधः,बोधकताया एव तत्र सप्तम्यर्थत्वात् , न तु वाचकतायाः। गौरवेण विशिष्टधर्मिणि शक्तेर्वाधात् । मैत्रः पचतीत्यादौ लकारे प्रथमान्तपदसामानाधिकरण्यप्रवादस्याभेदेन तदर्थान्वितस्वार्थबोधपरत्वाभावेऽपि कथंचिदुपपादनसंभवात् । तृतीयायाः साधुतानियामकं लकारादिना कर्तुरनभिधानमपि कर्तृत्वविशिष्टाबोधनमेव, न तु विशिष्टशक्त्याऽबोधनपर्यन्तमतो विशिष्टस्य लकारावाच्यत्वेऽ Page #331 -------------------------------------------------------------------------- ________________ कर्तृत्वानभिधान० ] जयाऽलङ्कृतः ३२३ पि चैत्रः पचतीत्यादौ न तृतीयापत्तिः । अन्वयबलेन विशिष्टबोधात् । चैत्रः पक्तेत्यादौ कृत्प्रत्ययस्य धर्मिणि शक्तावपि न क्षतिः । शक्त्यधीनविशिष्टबोधसाधारण बोधस्यैवानभिधानपदार्थप्रतियोगित्वात् । अथानभिहिते कुत्र्त्तरि तृतीयेत्यनुशासनेऽपि सप्तम्यर्थो बोधकत्वमेव । तथा च चैत्रेण पच्यत इत्यादौ तृतीयार्थकर्तृत्वस्य प्रकृत्यर्थविशेष्यतयैव भानान्न कर्तृत्वविशिष्ट धर्मिबोधकत्वमिति सूत्रविरोधः । यदि च तत्र कर्त्रादिपदं धर्मपरम् । तथा च समभिव्याहृतलकाराद्यनभिहितं कर्तृत्वं तृतीयार्थ इति सूत्रार्थ : चैत्रेण पच्यत इत्यादौ कर्तुत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमित्युच्यते तदा तत्रानभिधानशब्दार्थो भवतैव वक्तव्यः । न तावदवाचकत्वं तदर्थः । लकारसामान्यस्यैव कर्तृत्वशक्तत्वेनानुक्तिसंभवात् । कर्त्तरि यकोऽसाधुत्वादेव चैत्रः पच्यते इत्यादिप्रयोगवारणात्। यगाधनुत्तरत्वस्य कर्तृत्वशक्ततावच्छेदककोटावनिवेशात् । तत्र तन्निवेशे पच्यन्ते माषाः, भिद्यते कुसूलः, लूयते केदार इत्यादौ कर्मकर्त्तुः मापकुसूलकेदारादेः कर्तृत्वबोधानुपपत्तिः । न च तत्र स्वयमेवेत्यस्या - ध्याहारेणाव्ययस्वयंपदोत्तर तृतीयया कर्तृत्वं बोध्यते न तु लकारेणेति वाच्यम् । स्वयमित्याद्यध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात् । तत्र लकारेण कर्तृत्वाबोधने कर्मकर्त्तुः 'कर्मवत्कर्मरणा तुल्यक्रिय' इत्यतिदेशवैयर्थ्यापातात् । लकारस्य कर्मत्वबोधकतयैव यगात्मनेपदचिचिण्वद्भावरूपातिदेशफलनिर्वाहात् । न च कर्मकर्त्तरि लकाराधीन कर्मत्वबोधस्याप्यावश्यकता । वस्तुगत्या कर्मकर्त्तुः कर्मत्वातिदेशे चैत्रः स्वं पश्यति स्वं हन्तीत्यादावपि यगात्मनेपदादिप्रसङ्गात् । लकारेण कर्मत्वविवक्षायामेव कर्मत्वातिदेशस्य स्वीकरणीयत्वात्। तथा च त्वन्मतेऽपि कर्मत्वातिदेशासंगतिरिति वाच्यम् । कर्मत्वविवक्षायामपि कर्तृत्वविवक्षरणे कर्तृकर्मादिसंज्ञासमावेशविरोधेन परत्वात्कर्तृसंज्ञया कर्मसंज्ञाया बाधेनात्मनेपदचिण्वद्भावाद्यनु Page #332 -------------------------------------------------------------------------- ________________ ३२४ व्युत्पत्तिवादः । पाख्याते पपत्तेः । कर्तरि शबित्याद्यपवादविषयतया यकोऽप्यनिर्वाहादिति सार्थकत्वात् । न च कर्मत्वकर्तृत्वयोरुभयोस्तत्र बोधस्वीकारे तदेकतरस्याख्यातार्थतयोद्देश्यतावच्छेदकतया भानासंभवात्समूहालम्बनबोध एव स्वीकरणीय इति वाक्यभेदापत्तिरिति वाच्यम् । एकत्र द्वयमिति रीत्या तदुभयबोधस्य समूहालम्बनविलक्षणस्य स्वीकारात्। यदि च विधेयद्वयत्वज्ञानं समूहालम्बनात्मकमेव । अत एव विधेयभेदे वाक्यभेद इतिमीमांसकसिद्धान्तोऽपीत्युच्यते, तदास्तुधातोरेव स्वकर्मकक्रियायां लक्षणा। कर्तृत्वसंबन्धमध्य एव वा स्वनिरूपकक्रियाकर्मत्वस्याप्यन्तर्भाव इत्यलम्। ___ एवमकर्मकत्वेऽपि प्रसूते गौःप्रासोष्ट गौः, नमते दण्डमूलमनस्त दण्ड इत्यादौ ण्यर्थान्तर्भावेणैव कर्मकर्तृतानिर्वाहे "न दुहस्नुनमां यचिणा” विति यचिनिषेधोपपत्तिः। एवं चैत्रेण पक्ष्यत इत्यादौ कर्तृत्ववाचकताया दुरपह्नवत्वात् तृतीया नुपपत्तिः। चैत्रः पक्ष्यत इत्यादी लकारेण कर्तृत्वबोधनात्स्याल्लकारसाधारणरूपस्य तद्वाचकतावच्छेदकताध्रौव्याच्च । नापि तदवोधकत्वं तदनभिधानं चैत्रेण पच्यत इति वाक्यजबोधे कर्तृत्वविषयके तादृशवाक्यघटकसकलपदानामेव जनकतया तघटकलकारस्यापि कर्तृत्वबोधकताया वाङ्मात्रेणाप्रत्याख्येयत्वात् । कर्तत्वविषयत्वाप्रयोजकत्वं लादीनां तदनभिधायकत्वं चैत्रेण पच्यत इत्यादौ धात्वर्थविशेषणतया कर्तृत्वविषयता तृतीयाप्रयोज्यैव न त्वाख्यातप्रयोज्या । आख्यातस्याश्रयतासंबन्धावच्छिन्नकर्तृत्वप्रकारताया एव कार्यतावच्छेदकत्वादित्यपि न सम्यक् । पचतीत्यवान्तरवाक्यार्थबोधासंग्राहकतया प्रकारताया एवाख्यातजन्यतावच्छेदकत्वासंभवात् । प्रथमान्तसमभिव्याहारज्ञानस्य योग्यताज्ञानादेर्वा जन्यतायामुक्तप्रकारताया अवच्छेदकत्वात्। यदि च 'प्रथमान्तपदसमभिव्याहृताख्यातपदजन्यतावच्छेदकतयैव धर्मिविषयतानिरूपितकर्तृत्वविषय Page #333 -------------------------------------------------------------------------- ________________ कर्तृत्वानभिधान० ] जयाऽलङ्कृतः ३२५ ताया आख्यातप्रयोज्यत्वम् । कर्तत्वविषयतासामान्यं च नाख्यातपदज्ञानसामान्यजन्यतावच्छेदकं तादृशसामान्यकार्यकारणभावे मानाभावादित्युच्यते, तदापि चैत्रेण पच्यते तण्डुल इत्यादिवाक्यार्थबोधस्य परस्परसमभिव्याहृतपदसमूहरूपवाक्यज्ञानहेतुकतया तद्वा क्यार्थविषयतान्तःपातिकर्तृत्वविषयताया वाक्यघटकाख्यातप्रयोज्यत्वं दुर्वारमेवेति । मैवम् । अनभिहितेति कर्त्तरि तृतीयेत्यस्य कर्तृत्वविशेष्यतया प्रातिपदिकार्थेऽविवक्षिते तृतीयेत्यर्थः । प्रातिपदिकार्थविशेषणतयैव कर्तुत्वेऽविवक्षिते इति यावत् । अवधारणपरतया प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तदुत्तरं तृतीयेति पर्यवसितम् । अतश्चैत्रः पचतीत्यादावाख्यातेन कर्तृत्व बोधनादुक्तार्थानामप्रयोग इति न्यायात्ततीयापत्तिविरहात् । प्रातिपदिकार्थान्वयितया कर्तृत्वविवक्षायामित्येव सम्यक्किं विशेष्यतयान्वयित्वपर्यन्तनिवेशनेनेति नाशङ्कयम् । संख्यातिरिक्तसुबर्थस्य प्रकृत्यर्थविशेष्यतयैवान्वय इति व्युत्पत्तिसूचकत्वेन विशेष्यतयान्वयित्वपर्यन्तस्यावश्यं विवक्षणीयत्वाद्यथाश्रतसूत्रार्थानुरोधेन कर्त्तरि लकारविभक्त्योः शक्तित्वादिभिर्वैयाकरणैरपि प्रातिपदिकार्थविशेष्यतया कर्त्तरि विवक्षिते तृतीयेत्येव सूत्रार्थो वाच्यः । अन्यथा चैत्रेण पच्यत इत्यादौ कर्त्तुरनभिधानस्योक्तक्रमेण दुर्वचतापत्तेरित्यलमधिकेन । अथानभिहिते कर्त्तरि तृतीयेत्यस्योक्तार्थकत्वे चैत्रादिकर्तकत्वविशेषितपाकादिविवक्षया चैत्रेण पचतीत्यादिप्रयोगापत्तिः । न च परस्मैपदार्थ कर्तृत्वान्वयिविशेष्यविरहान्न तथा प्रयोगः । विशेष्यतयापि कर्तृत्वबोधसम्भवात् । चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तकपाककर्त्ता मैत्र इत्यन्वयतात्पर्येण चैत्रेण पचति मैत्र इति प्रयोगस्य दुर्वारत्वाच्च । न च कर्तत्वातिरिक्ते विशेषणतापन्नायां कर्तुत्वे वा विशेषणतानापन्नायां क्रियायामेव तृतीयार्थकर्तृत्वान्वयो व्युत्पन्न इति वाच्यम् । चैत्रेण पाचयति मैत्र इत्यादौ एयर्थकर्तृत्वविशेषणतापने पाकादौ चैत्रादि Page #334 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः [ ाख्याते कर्तृकत्वान्वयेन तादृशव्युत्पत्तेरसिद्धेः । न च लकारार्थकतत्वविशेषणतानापन्नक्रियाविशेषणतया कर्तृत्वबोधकत्वं मुपां व्युत्पन्नमिति न कश्चिद्दोष इति वाच्यम् । उक्तस्थले चैत्रेण पकवान मैत्र इति प्रयोगापत्तेः । मैवम् । आश्रयातिरिक्ताविशेषणतापन्नकर्तृत्वविशेषणतानापन्नक्रियायां तृतीयार्थकर्तृत्वान्वयव्युत्पत्तौ न किंचिद्बाधकम् । मैत्रेण पाचयतीत्यादौ कर्तृत्वनिर्वाहकव्यापारो णिजर्थः । तत्राश्रयातिरिक्त व्यापारे विशेषणं कर्तत्वमिति तद्विशेषणतापन्नक्रियायां तृतीयार्थकतत्वविशेषणत्वे न किंचिबाधकम् । चैत्रेण पचति मैत्र इत्यादयश्च न प्रयोगाः । तत्राश्रय एव कृतविशेषणतया तद्विशेषणतानापन्नक्रियायां तृतीयया कर्तृत्वबोधना संभवात् । कृतिविशेष्यकबोधाभिप्रायेण चैत्रेण पचतीति वारणायाश्रयविशेषणत्वमुपेक्ष्याश्रयातिरिक्ताविशेषणत्वं निवेशितम् । अनभिहिते कर्त्तरि तृतीयेत्यस्यापि निरुक्तक्रियाविशेषणतया प्रातिपदिकार्थान्वयिकर्तृत्वविवक्षायां तदुत्तरं तृतीया भवतीत्येवार्थ इति दिक् । कर्तृत्वं च चैत्रः पचतीत्यादौ क्रियानुकूला कृतिरेव । तस्या एवानुकूलकृतित्वेन कृतित्वेन वाऽऽख्यातवाच्यता । रथो गच्छति, काष्ठं पचतीत्यादौ च क्रियानुकूलव्यापाररूपे कर्तृत्वे निरूढलक्षणा कृतित्वजाते: प्रवृत्तिनिमित्तत्वे लाघवात् । मीमांसकास्तु व्यापारत्वेनैव शक्तिः । पचतीत्यादावपि तेनैव रूपेण बोधोपगमात् । एवं चाचेतनेऽपि प्रयोगो मुख्य एव । कृतित्वस्य लाघवं चाकिंचित्करम् । यत्र लघुगुरुरूपाभ्यां बोधो निर्विवादस्तत्रैव लघुरूपावच्छिन्ने शक्त्युपगमात् । प्रकृते च कृतित्वेन बोधस्य सविवादत्वात् , तथापि तदवच्छिन्ने शक्त्युपगमे तत्रामुख्यार्थेऽनादितात्पर्यकल्प नायां गौरवात् । एवं बीजादिनाङ्करः कृत इत्यादौ विनापि यत्नं कृत्रः प्रयोगात् , तस्यापि व्यापारसामान्यार्थकता । अतः करोतिविवरणीयार्थकत्वेऽपि नाख्यातस्य यत्नत्वावच्छिन्नवाचकता न वा किं करोति पचतीति Page #335 -------------------------------------------------------------------------- ________________ नैयायिकमतम् ] जयाऽलङ्कृतः ३२७ प्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् । __अत्र केचित् । पचतीतिवाक्यजन्यबोधे सति यत्नत्वावच्छिन्ने वर्तमानत्वसंशयानुदयात्तत्र यत्नत्वावच्छिन्ने वर्तमानत्वबोधकत्वसिद्धौ तदवच्छिन्ने शक्तिर्लाघवासिध्यति। न हि यत्नाविनाभूतक्रियाविशेषलिङ्गकानुमानलभ्येन यत्नत्वावच्छिन्नेन समं वर्तमानत्वान्वयबोधकत्वमाख्यातस्यार्थाध्याहारमतेऽपि संभवति, लडादिकृतवर्तमानत्वान्वयबोधे लडादिसमभिव्याहृतधात्वन्यतरजन्यविशेष्योपस्थिते: कारणताया आवश्यकत्वात् । अन्यथा निराकाङ्क्षयत्नादिपदमात्राद्यत्नाद्युपस्थितावपि तत्र वर्तमानत्वादेर्लडादितो बोधप्रसङ्गात् । न चार्थाध्याहारवादिनां द्वारं पिधानं कृतिरित्यादितो द्वारकर्मककृतेरिव पचति यत्न इत्यादितः पाकयत्नो वर्तमान इत्याद्याकारको वर्तमानत्वादेर्बोध इष्ट एवेति वाच्यम् । परस्परसाकाङ्क्षपदार्थद्वयान्वयाबोध एवाध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्याथस्य विषयतायास्तैरुपगमात् । तत्रान्वयानुभावकसाकाङ्क्षपदसत्त्वात् । प्रकृते चान्वयबोधस्याऽऽकाङ्क्षानुपयोगिपदार्थान्वयविषयकत्वेन तेषामप्यसंमतत्वात। तत्स्वीकारे निराकाङ्क्षस्याप्यनुभावकत्वस्वीकारापत्तेः । शाब्दबोधे आकाङ्क्षानुपयोगप्रसङ्गाच्चेति तन्न। तात्पर्यलिङ्गन यत्नत्वावच्छिन्ने वर्तमानत्वानुमितेरेवोपगमात् । ताशवर्तमानत्वप्रतीतौ शाब्दत्वप्रतीते: सविवादत्वादित्याहुः। - अत्र नैयायिकाः। रथो गच्छतीत्यादावाश्रयत्वमेवाख्यातार्थो न तु व्यापारः। अन्यदीयगमनानुकूलनोदनादिविलक्षणव्यापारवति गच्छतीत्यप्रयोगात । एवं च काष्ठं पचतीत्यादिप्रयोग एव व्यापारशक्तिमाख्यातस्य साधयेद् यदि स्वारसिकः स्यात् । तदेव न । न हि चैत्रः पचतीत्यादिप्रयोगेण काष्ठं पचतीत्यादिप्रयोगस्याविशेषः । एवमचेतने स्वरसतः कर्तपदाप्रयोगात् कृतोऽपि यत्नत्वविशिष्टोऽर्थः । एवं चैत्र एव पचति पाककर्ता न त्वचेतनं काष्ठादीत्यादिप्रयोगाल्लका Page #336 -------------------------------------------------------------------------- ________________ ३२८ व्युत्पत्तिवादः [ पाख्याते रस्य यत्नत्वविशिष्टार्थकताया आवश्यकत्वात् । लाघवात्तत्रैव शक्ति ापारे लक्षणेति। न च यत्नत्वस्याख्यातावाच्यनिवृत्तिजीवनयोनियत्नसाधारणतया लकारशक्यतावच्छेदकत्वासंभव इति वाच्यम् । निवृत्त्यादियत्नस्याख्यातवाच्यतोपगमे क्षतिविरहात् । निवृत्त्यादेः पाकानुकूलताविरहेण तत्काले पचतीतिप्रयोगापत्तिविरहात्, इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेवाख्यातप्रवृत्तिनिमित्तत्वोपगमाद्वा । अत एवेश्वरकृतेर्जन्यमात्रजनकत्वेऽपीश्वरः पचति ईश्वरो भुङ्क्त इत्यादयो न प्रयोगाः । न चैवमीश्वरो वेदं वक्ति मथुरायां कृष्णो विहरतीत्यादिप्रयोगानुपपत्तिः। अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात् । ईश्वरकृतिसाधारणधर्मस्याख्यातप्रवृत्तिनिमित्तत्वेऽपि तत्र व्यापारलक्षणाया आवश्यकत्वात् । तथा हि । आत्मा पचति शरीरं पचतीत्यादिस्वारसिकप्रयोगविरहादाख्यातार्थकृतेरुद्देश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनान्वयनियमः स्वीकरणीयः । चैत्रादिपदस्य शरीरविशेषविशिष्टात्मपरतया चैत्रः पचतीत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदेकावच्छेदेनात्मनि समवायेनान्वयसंभवात् । गौरः पचतीत्यादावपि गौरादिपदस्य गौरशरीराद्यवच्छिन्नात्मनि आख्यातस्यैव वा व्यापारे लक्षणोपगमात् । एवं चेश्वरकृतेः शरीरानवच्छिन्नत्वादुक्तस्थले कृतस्तथान्वयासंभव इति व्यापारलक्षणा आवश्यकी । ईश्वरकृतिसाधारणयत्नत्वावच्छिन्न एवाख्यातार्थः । असाधारणानुकूलत्वं यत्ने क्रियायाः संबन्धतया भासते न त्वनुकूलतामात्रम् । असाधारणानुकूलताया एवाकाङ्क्षानिरूपकत्वोपगमादतोऽस्मदादिकतकपाकादिक्रियानुकूलकृतिमादाय नेश्वरः पचतीतिप्रयोगः । वेदवचनादौ च ईश्वरकृतेरेवासाधारणकारणत्वात् ईश्वरो वेदं वक्तीत्यादयः प्रयोगा इत्यपि केचित्। अथ कृतेराख्यातस्य कृत्रश्च वाच्यत्वे करोतीत्यादौ कृतेर्द्विधा Page #337 -------------------------------------------------------------------------- ________________ आख्यातार्थ० ] जयाऽलङ्कृतः ३२६ भानं स्यात्। धातुप्रत्यययोर्द्वयोः कृतिबोधकत्वादिति चेन्न । एको द्वावित्यादौ एकत्वद्वित्वादिबोधकप्रकृतिप्रत्ययोभयसत्त्वेऽप्येकधैवैकत्वादिधीवत्प्रकृतेऽपि बाधकाभावात् । तत्र विभक्तेः साधुत्वार्थकत्वेऽत्रापि तथात्वात् । अथ तर्हि करोति चैत्र इत्यादौ प्रातिपदिकार्थे साक्षादेव कृत्यन्वयः स्यात् । स च नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्याव्युपन्नत्वात् तथा न संभवतीति नामार्थधात्वर्थयोः साक्षादन्वयोपगमे कर्मतादिबोधकविभक्तरसत्त्वेऽपि तण्डुलः पचतीत्यादौ कर्मतादिसंबन्धेन तण्डुलादेः पाकादावन्वयसंभवेन तादृशवाक्यात्तण्डुलकर्मकपाकादिबोधापत्तेः । न च प्रातिपदिकार्थप्रकारकक्रियान्वयबोध एवाव्युत्पन्नो न तु क्रियाप्रकारकप्रातिपदिकार्थविशेष्यकबोधोऽपीति वाच्यम् । घट: करोतीत्यादितः कर्मतासंबन्धेन कृत्यादेः घटादावन्वयाभावात् क्रियाप्रकारकनामार्थविषयकबोधस्याव्युत्पन्नत्वादिति चेन्न । उक्तातिप्रसङ्गवारणाय धातोः कर्मतादिसंबन्धेन क्रियान्वयाबोधकत्वव्युत्पत्तेरुपगमान्न त्वाश्रयतासंबन्धेन कृत्यादिरूपक्रियान्वयाबोधकत्वव्युत्पत्तेरित्यदोषात् । न च तादृशातिप्रसङ्गवारणाय धातुजन्यकृत्यादिप्रकारकान्वयबोधे प्रत्ययजन्यविशेष्योपस्थितेर्हेतुता वाच्या। तादृशकारणाभावात् प्रातिपदिकार्थविशेष्यकबोधोपि न संभवतीति वाच्यम्। कर्मत्वादिसंबन्धेन कृत्यादिप्रकारकबोधस्याप्रसिद्वया सामग्रयकल्पनेनापादकाभावात् तादृशकारणताया अकल्पनात् । न च क्रियते चैत्र इत्यादौ कृतिप्रकारकबोधवारणायैव उक्तकारणताकल्पनमावश्यकमिति वाच्यम् । सति तात्पर्ये इष्टत्वात् । कर्तविशेष्यकान्वयबोधपरधातूत्तरयकोऽ साधुत्वाच्च प्रामाणिकानां न तथा प्रयोगः। करणं चैत्र इत्यादौ चैत्रादौ धात्वर्थकृतेराश्रयतासंबन्धेनान्वयबोधवारणाय तादृशकार्यकारणभावकल्पनमित्यपि न । तादृशबोधे आख्यातान्तधातुना समभिव्याहारज्ञानहेतुतयैवोक्तस्थले तादृशवोधवारणसंभवात्। Page #338 -------------------------------------------------------------------------- ________________ ३३० व्युत्पत्तिवादः [ पाख्याते दीधितिकृतस्तु गच्छति जानाति करोतीत्यादौ आख्यातस्याश्रयत्वे निरूढलक्षणायाः स्वीकारान्न नामार्थे क्रियायाः साक्षादन्वय इत्याहुः। तन्मते यद्यप्याश्रयत्वसंबन्धस्याधिकस्य जानाति चैत्र इत्यादिवाक्यजन्यबोधविषयताकल्पनेन गौरवं तथापि यत्र धातोर्ज्ञानाश्रयत्वे लक्षणाग्रहः शक्तिभ्रमो वा तत्र चैत्रादिविशेष्यको ज्ञानाश्रयत्वादिप्रकारको बोध प्राश्रयतायाः संसर्गतावादिनामप्यनुमतः । चैत्रादिविशेष्यकाश्रयतासंसर्गज्ञानादिप्रकारकशाब्दबोधस्तु दीधितिकारमते क्वचिदपि न प्रसिध्यतीति तादृशशाब्दबोधे योग्यताज्ञानादेहेतुताकल्पनं तथाविधशाब्दबोधाङ्गीकर्तुमणिकारस्य मते आवश्यकमिति गौरवम्।। वस्तुतस्तु चैत्रेण ज्ञायते घट इत्यादौ कर्मप्रत्ययस्थले यावतां पदार्थानां प्रकारता तावतां चैत्रो जानाति घटमित्यादि कर्तृप्रत्ययस्थले तथात्वं, परंतु विशेष्यविशेषणभाववैपरीत्यम्। एवं कर्मप्रत्ययस्थले यस्य ससंबन्धिकपदार्थस्य यदंशे विशेष्यता कर्तप्रत्ययस्थले तन्निरूपकतायास्तदंशे प्रकारता इत्यनुभवस्य दुरपह्नवत्वाभिप्रायेणाश्रयत्वस्याख्यातार्थतां दीधितिकार उररीचकार । चैत्रेण ज्ञायते इत्यत्राधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात् । चैत्रो जानातीत्यत्राधेयतानिरूपकत्वरूपाधारतायाश्चैत्रांशेऽप्रकारत्वे तादृशानुभवविरोधात् । न च चैत्रेण ज्ञायत इत्यत्राप्याधेयत्वं संसर्ग एव न तु विशेष्यमिति वाच्यम् । तथा सति आत्मना ज्ञायते न घटेनेत्यादौ घटादिवृत्तित्वाभावबोधानुपपत्तेः। आधेयत्वस्य तृतीयार्थताविरहेण तृतीयान्ताद्घटादिवृत्तित्वरूपप्रतियोग्यनुपस्थितेः । आधेयत्वसम्बन्धस्याभावप्रतियोगितानवच्छेदकतया च तत्सम्बन्धावच्छिन्नघटाभावबोधस्य तत्रोपगमासंभवात् । ताहशसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वे ज्ञाने न घट इत्यादि. वाक्यजन्यप्रत्यये ज्ञानाद्यधिकरणकतादृशसंबन्धावच्छिन्नघटाद्य Page #339 -------------------------------------------------------------------------- ________________ ३३१ कर्तृ वशक्ततावच्छटेक० ] जयाऽलङ्कृतः भावस्याप्यवगाहनसंभवाद्घटे ज्ञानं न वेत्यादिसंशयनिरासाय कदाचिज्ज्ञाने न घट इत्यादिकमपि प्रयुज्येत । अत एवानुकूलकृतिमत्त्वादिरूपकर्तत्वादेरपि चैत्रः पचतीत्यादौ प्रकारता मणिकृतापि स्वीक्रियते न तु संसर्गता । न पचतीत्यादावन्वयबोधानिर्वाहात् । ताशसंबन्धस्य वृत्त्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नक्रियाविरहप्रत्ययस्य तत्रोपगमासंभवात् । एवं चैत्रेण ज्ञायत इत्यादावाधेयत्वस्य तृतीयया अविवक्षणे प्रातिपदिकार्थमात्रविवक्षया तद्विषयानुशिष्टप्रथमैव स्यात् । जानाति चैत्र इत्यादौ चाख्यान कर्तत्वाविवक्षणे धात्वर्थरूपभावमात्रपरतया परस्मैपदस्य नादिविकरणस्य वा साधुतापत्तिः। भावकमणोरित्यात्मनेपदविधायकानुशासनविषयत्वात् कर्तरीत्यधिकारीयत्र्यादिभ्यः भा इत्यनुशासनाविषयत्वाञ्चेति। तत्राख्यातस्य कतत्वाबोधकतायुक्तिस्तु न साधीयसी इतराविशेषणतया क्रियाबोधपरत्वरूपभावविवक्षायामात्मनेपदानुशासनविषयतोपगमादुक्तस्थले परस्मैपदसाधुतायास्तादृशभावविवक्षादिविरहस्य भाद्यनुशासनविषयत्वोपगमेन भादिविकरणस्य साधुतायाश्च निर्वाहसंभवात् । पचन् पचतीत्यादाविवोद्देश्यतावच्छेदकविधेयाभेदेन जानन् जानातीत्यादेनिराकाङ्क्षतानिहायापि जानातीत्यादावाख्यातस्याश्रयतार्थकतोपगम आवश्यकः । अन्यथा कृदन्तप्रतिपाद्यतावच्छेदकस्य ज्ञानादिरूपविधेयभिन्नतया निराकाङ्क्षताविरहेण तथा प्रयोगापत्तेः। एतेन तत्राश्रयतायाः प्रकारतोपगमे जानाति चैत्र इत्यादिवाक्यज्ञानघटितशाव्दसामग्रया भिन्नविषयप्रत्यक्षादिप्रतिबन्धकतायामाख्यातजन्याश्रयत्वोपस्थित्यादिरूपाधिककारणानां निवेशे गौरवेणाश्रयतायाः संसर्गत्वमेवोचितमित्यादिकमनुपादेयम्। नश्यतीत्यादौ प्रतियोगित्वरूपकर्तत्वमाख्यातार्थस्तादृशसंबन्धस्याभावप्रतियोगितानव च्छेदकत्वेन नश्यतीत्यादौ नाशप्रतियोगित्वाभा Page #340 -------------------------------------------------------------------------- ________________ ३३२ व्युत्पत्तिवादः [पाख्याते वबोधस्यैव स्वीकरणीयतया न संसर्गतासंभवः । अथाख्यातस्य कर्तत्वशक्ततावच्छेदकं रूपं दुर्वचम् । न च तिङ्त्वं तथा तसादिसाधारणस्य तिङ्त्वस्य दुर्वचत्वात्। न च पाणिनीयसङ्केतसंबन्धेन तिङ्पदवत्त्वमेव तित्वं तिबाद्यष्टादशसु तत्पदसंकेतग्राहकं च आदिरन्त्येनेति सूत्रमेव तत्संकेतमविदुषामनधीतपाणिनीयतन्त्राणांतिप्त्वादिना शक्तिभ्रमादेव शाब्दबोध इति वाच्यम् । एवं सति घटादिवाचकघटादिपदेष्वपि कस्य चिच्छब्दस्य पुरुषविशेषीयसंकेतसंभवेन तुल्ययुक्तया तत्रापि तच्छब्दस्यैव शक्ततावच्छेदकतापत्त्या तिबादिषु पाणिनेस्तिपदसंकेतवत्तत्र शब्दान्तरसंकेतस्यापि अन्यपुरुषीयस्य संभवात् । तत्तच्छब्दानामपि प्रवृत्तिनिमित्ततायाः सुवचत्वाद्विनिगमनानुपपत्तेः। अत्र केचित् । तिबादिस्थानिनो लकारम्य लत्वजातिपुरस्कारेण कृतिवाचकता। पचतीत्यादौ लकाराश्रवणेऽप्यादेशेन तिबादिना स्थानिनः स्मरणात्तत एवार्थोपस्थितिः। आदेशादेशिभावमविदुषां तु तिप्त्वादिना शक्तिभ्रमादेवार्थोपस्थितिः। यत्र तिवादेलादेशत्वज्ञानं नास्ति श्रुतलकाराचार्थोपस्थितिस्तत्र पचतीत्यादिवाक्याच्छाब्दबोधवारणाय पचतीत्याद्यानुपूर्वीज्ञानजन्यबोधे तिबादेर्लादेशत्वज्ञानमपि हेतुः। न चोक्तस्थले धातुसाकाङ्क्षत्वज्ञाने भवत्येव शाब्दबोधस्तदसत्त्वे च कारणाभावादेव नापत्तिरिति वाच्यम् । पचतीत्यादौ तिबादिना लकारस्योपस्थापनेऽपि तत्तद्धातुसाकाङ्क्षतया तत्स्मारकाभावेन शाब्दबोधानुपपत्तेः लकारे धातुसाकाङ्क्षत्वग्रहस्य शाब्दबोधहेतुत्वासंभवात् । न हि तत्तद्धातुसाकाङ्क्षत्वेन लस्तिबादिस्थानीयेन तद्रूपावच्छिन्नमेव तिबादिः स्मारयेत् अपि तु लत्वेनैव तथात्वमिति। एवं तत्तद्धातुपदाव्यवहितोत्तरत्वरूपतत्साकाङ्क्षत्वेन येन पुंसा न लकारः श्रुतस्तस्य तेन रूपेण तत्तत्स्मरणासंभव इति। Page #341 -------------------------------------------------------------------------- ________________ आत्मनेपद० ] जयाऽलङ्कृतः ३३३ अत्रेदं चिन्त्यते। लकारतिवाद्योरनतिप्रसक्तस्थान्यादेशभावस्य दुर्वचत्वात् । तिबादिस्मारितलकारस्य वाचकत्वं न विचारसहम्। तिबादेरेव यत्र वाचकताग्रहस्तदनुरोधेन पचतीत्याद्यानुपूर्वीज्ञानस्य तिबादिजन्योपस्थितिसहकारेण शाब्दबोधोपधायकताकल्पनस्यावश्यकतया लकारजन्योपस्थितिसहकृततादृशानुपूर्वीज्ञानतिबादिधर्मिकलादेशत्वज्ञानघटितसामग्र यन्तरकल्पने गौरवेण लाघवात्तिबादेरेव तादूप्येण शक्तिकल्पनाया उचितत्वं चेत्याख्यातसामान्यस्य कर्तृत्व इव तद्विशेषस्यात्मनेपदस्य कर्मत्वे शक्तिर्न तु यथाश्रुताग्राहिवैयाकरणमत इव कर्मरूपधर्मिवाचकत्वं गौरवात् । प्रथमान्तपदार्थे कर्मत्वान्वयवलादेव कर्मता विशिष्टधर्मिलाभसंभवात् । न चात्मनेपदस्य शानच्प्रत्ययस्य धर्मिणि शक्तेः पच्यमानमानयेत्यादौ पच्यमानादिनिष्ठानयनकर्मत्वाद्यनुरोधेनावश्यकत्वात्तत एवोपपत्तौ आख्यातरूपात्मनेपदस्य धर्मवाचकत्वं नियुक्तिकमिति वाच्यम् । तशानच्साधारणस्यात्मनेपदत्वस्य शक्ततावच्छेदकत्व एव तथोक्तिसंभवात् । तादृशात्मनेपदत्वस्य चागुरोनिर्वचनासंभवात् । पाणिन्यादिसंकेतसंबन्धेनात्मनेपदवत्त्वस्य शक्ततावच्छेदकताया उक्तरीत्याऽनवकाशात् । अतस्तादीनां तत्तद्रूपण शक्तिकल्पनस्यावश्यकतया लाघवात्कर्मत्व एव तत्कल्पनात् । कर्मत्वं च त्यज्यते ग्रामो, गम्यते ग्राम, इत्यादौ धात्वर्थतावच्छेदकीभूतसंयोगविभागादिरेव विशेष्यतया तिङ्वाच्यः । चैत्रेण गम्यते ग्रामः इत्यत्र तृतीयार्थस्तत्कर्तकत्वरूपमाधेयत्वं तस्य धात्वर्थे संयोगात्मकफलावच्छिन्ने स्पन्दलक्षणे व्यापारे तस्य च जन्यतासंबन्धेनात्मनेपदार्थसंयोगरूपफले तस्य चाश्रयतासंबन्धेन प्रथमान्तपदोपस्थाप्यग्रामेऽन्वय इति चैत्रवृत्तिर्यः संयोगावच्छिन्नस्पन्दस्तजन्यसंयोगवान् ग्राम इत्याकारकः शाब्दबोधः। चैत्रेण त्यज्यते ग्राम इत्यत्र संयोगस्थाने विभागमन्तर्भाव्य बोध उपपाद Page #342 -------------------------------------------------------------------------- ________________ ३३४ व्युत्पत्तिवादः [ श्राख्याते नीयः । अथ चैत्रनिष्ठक्रियाजन्यसंयोगविभागादेर्ग्रामादाविव चैत्रादावपि सत्त्वात् चैत्रेण त्यज्यते गम्यते चैत्र इत्यपि स्यात् । न स्याच्च चैत्रेण न गम्यते, न त्यज्यते चैत्र, इत्यादीति चेत् । अत्र दीधितिकारप्रभृतयः फलमिव तत्र क्रियान्वयिपरसमवे - तत्वमपि कर्माख्यातार्थः । परत्वे च भेदरूपे प्रतियोगितया फले आश्रयतयान्वयिनः प्रथमान्तपदोपस्थाप्यस्यान्वयः । चैत्रे चैत्रान्यसमवेतक्रियाजन्यसंयोगादिमत्त्वस्यान्वयायोग्यत्वात् । तादृशसंयोगाद्यभावस्य च तत्रान्वययोग्यत्वान्न तत्रापत्त्यनुपपत्त्योरवकाश इत्याहुः 1 तत्रेदं चिन्तयन्ति । प्रथमान्तपदोपस्थाप्यकर्मणोऽन्वयितावच्छेदकावच्छिन्नत्वाविशेषितप्रतियोगितया भेदांशेऽन्वयोपगमेऽपि चैत्रेऽपि चैत्रस्य द्वित्वादिनाभेदसंभवेन तत्समवेतक्रियायां परसमवेतत्वाक्षतेरुक्तदोषोद्धारासंभवः । अन्वयितावच्छेदकावच्छिन्नप्रतियोगितया तत्र तद्भानस्वीकारे चैत्रेण द्रव्यं गम्यते इत्यादावनुपपत्तिः, द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वादेः क्रियादौ बाधात् । न च तत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरमिति वाच्यम्, मन्देन गम्यते मन्द इत्यादौ मन्दस्य मन्दान्यमन्दपरत्वासंभवात् मन्दान्यसमवेतमन्दवृत्तिक्रियाया अपसिद्ध्यानुपपत्तितादवस्थ्यात् । अननुगतमन्दगततत्तद्वयक्तित्वोपस्थित्यनैयत्वात् । कर्तृव्यक्तिभिन्नमन्दत्वेन लक्षणाग्रहस्य तादृशवाक्यजन्यधीपूर्वत्वस्य नियमतोऽसंभवात् । न च फलविशेष्यव्यक्तीनां तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगितासंबन्धेन परत्वेऽन्वयात्संबन्धोपस्थितेश्वानपेक्षणान्नानुपपत्तिरिति वाच्यम् । संसर्ग तात्पर्यज्ञानानुरोधेन तदुपस्थितेरपि शाब्दबुद्धावपेक्षणीयत्वात्। तद्वचतया तद्वचक्तिर्न गम्यते इत्यादावभावप्रतियोगिकोटिप्रविष्टतद्वयक्तित्वावच्छिन्नभिन्नसमवेततद्वयक्तिसम वेतक्रियाया प्रसिद्धेः । Page #343 -------------------------------------------------------------------------- ________________ कर्माख्यातार्थः ] जयाऽलङ्कृतः ये तु फलं भेदश्च कर्मप्रत्ययार्थः, फले जन्यतासंबन्धेन भेदे च स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन क्रियाया अन्वयः भेदफलयोश्च कर्मण्याश्रयतासंबन्धेनान्वयः, चैत्रसमवेतक्रियावच्छिन्नभेदस्य चैत्रो नाश्रय इति तादृशक्रियाजन्यफलाश्रयत्वेऽपि तस्य चैत्रेण चैत्रोगम्यत इति न प्रयोगः, मन्दो मन्देन गम्यते इत्यादेरेकमन्दादिनिष्ठक्रियावच्छिन्नभेदसहितस्य तज्जन्यफलस्य मन्दान्तरे सत्त्वाम्नानुपत्तिरिति ब्रुवते तन्मतेऽपि चैत्रेण चैत्रो न गम्यते इत्यादेरनुपपत्तिर्दु रैव । चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावसत्त्वेऽपि तादृशक्रियाजन्यफलाभावम्य बाधात् । न च फलाभावो नया न तत्र प्रत्याय्योऽपि तु भेदाभाव एव कर्मणीति वाच्यम् । यदा चैत्रेण ग्रामो न गम्यते तदापि तादृशप्रयोगानुपपत्तेः। तादृशभेदाभावस्य ग्रामे बाधात् । न च भेदस्य सामानाधिकरण्यसंबन्धेन फलेऽन्वयः। तादृशसम्बन्धेन क्रियावच्छिन्नभेदविशिष्टस्य क्रियाजन्यफलस्यैव चाभावो नया कर्मणि प्रत्यास्यत इति न दोषः। विशिष्टाभावस्योभयत्र सत्त्वादिति वाच्यम् । एवमपि मन्देन यत्रापरमन्दो न गम्यतेऽपि तु ग्रामादिरेव तत्र प्रामादिगन्तरि मन्द मन्दान्तरनिष्ठक्रियावच्छिन्नभेदसहितस्य स्वात्मकमन्दनिष्ठक्रियाजन्यग्रामादिसंयोगस्य सत्त्वेन विशिष्टाभावबाधान्मन्देन मन्दो न गम्यते इत्यादेरनुपपत्तिः । यदि फलमेव कर्माख्यातार्थस्तस्याश्रयत्वस्वानुकूलक्रियावच्छिन्नभेदवत्त्वोभयसंबन्धेन कर्मण्यन्वयः। नसमभिव्याहारे च तदुभयसंबन्धावच्छिन्नक्रियाजन्यफलाभाव एव तत्रान्वयीत्युच्यते, तदापि यत्र चैत्रमैत्रयोरुभयकर्मजसंयोगस्तत्र चैत्रनिष्ठतादृशसंयोगस्य चैत्रे आश्रयत्वस्वानुकलक्रियावच्छिन्नभेदवत्त्वोभयसंबन्धेन सत्त्वाच्चैत्रेण चैत्रो न गम्यते इत्यस्यानुपपत्तेः । चैत्रेण चैत्रो गम्यते इत्यापत्तेश्च । अत्रोच्यते। भेदः फलं च कर्माख्यातार्थः। स्वावच्छिन्नप्रति Page #344 -------------------------------------------------------------------------- ________________ ३३६ व्युत्पत्तिवादः [ आख्याते योगिताकत्वसंबन्धेन चैत्रादिनिष्ठक्रियाविशेषितभेदस्य स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वोभयसंबन्धेन फलेऽन्वयः। विशिष्टफलस्य नसमभिव्याहारे विशिष्टफलाभावस्य नसमभिव्याहारे च कर्मण्यन्वयः । चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रवृत्तिक्रियावच्छिन्नभेदस्य चैत्रेऽसत्त्वेन विशिष्टफलाभावोऽक्षतः। यत्र मन्देन ग्रामो गम्यते न तु मन्दान्तरं तत्र मन्दनिष्ठग्रामसंयोगे मन्दान्तरनिष्ठक्रियावच्छिन्नभेदसामानाधिकरण्यस्य तन्मन्दान्तर्भावेण सत्त्वेऽपि तादृशभेदप्रतियोगितावच्छेदकमन्दान्तरनिष्ठक्रियाजन्यत्वस्यासत्वानद्घटितोभयसंबन्धेन मन्दनिष्ठक्रियावच्छिन्नभेदविशिष्टस्य फलस्याभावो मन्देऽक्षत एवेति न कश्चिद्दोषः । कर्तृप्रत्ययस्थले चाधेयतया प्रकृत्यान्वितस्य फलस्य भेदरूपापरार्थे सामानाधिकरण्यस्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वोभयसंबन्धेनान्वयः तादृशभेदस्य च स्वप्रतियोगितावच्छेदकत्वसंबन्धेन क्रियायाम् । यत्र चैत्रक्रियया ग्रामे न संयोगोऽपि त्वन्यत्र तत्र ग्रामं गच्छति चैत्र इति प्रयोगवारणाय स्वजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्य चैत्रो ग्रामंगच्छतीत्यादौ चैत्रश्चैत्रं गच्छतीति प्रयोगवारणाय सामानाधिकरण्यस्य संबन्धमध्ये निवेशः । चरमस्थले चैत्रग्रामसंयोगस्य ग्रामनिष्ठचैत्रक्रियावच्छिन्नभेदे संबन्धद्वयसत्त्वेपि चैत्रवृत्तित्वविशिष्टस्य तत्संयोगस्य तादृशभेदे सामानाधिकरण्यविरहाच्चैत्रक्रियायां तद्भेदप्रतियोगितावच्छेदकत्वसत्त्वेपि नातिप्रसङ्गः । चैत्रश्चैत्रं न गच्छतीत्यादौ च तादृशभेदान्वितक्रियाकर्तृत्वाभाव एव चैत्रे प्रतीयते, न तु क्रियायां द्वितीयार्थविशिष्टभेदस्य प्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नाभावः । तादृशसंवन्धस्य वृत्यनियामकत्वात् । यदि तात्पर्यविशेषवशात् क्रियानुयोगिकोऽप्यभावः कचित्प्रतीयते इत्यनुभवसिद्धं तदा प्रतियोगितावच्छेदकत्वेऽपि द्वितीयाद्यर्थत्वमुपगम्यविशिष्टभेदप्रतियोगितावच्छेदकत्वाभावान्वय Page #345 -------------------------------------------------------------------------- ________________ सकर्मकार्थ० ] जयाऽलङ्कृतः एव तत्रोपगन्तव्य इति दिक् । फलावच्छिन्नव्यापारबोधकधातूनां फले व्यापारे च शक्तिद्वयम् । काख्यातस्थले फलं धात्वर्थव्यापारविशेषणतया भासते तत्र द्वितीयार्थाधेयत्वान्वयः । कर्माख्यातस्थले फलं धात्वर्थव्यापारस्य विशेष्यतया भासते तस्य विशेष्यतया आख्यातार्थ आश्रयत्वे तद्विशेष्यतया कर्मेति दीधिधिकृतः। .. . केचित्तु संयोगादिरूपफलावच्छिन्नव्यापारबोधकानां गमिप्रभृतीनां कर्मप्रत्ययापेक्षया बहूनां फले शक्तिकल्पनामपेक्ष्य कर्मप्रत्ययानां फले शक्तिकल्पनमेव लघीयः, धातूनांच व्यापारमात्रवाचिता। धातोः फलबोधकतामते नामार्थधात्वर्थयोराधाराधेयभावसंबन्धेन साक्षादन्वयासंभवात्फलाश्रयत्वस्य कर्मणि प्रकारतया भानस्योपगन्तव्यतया तत्संसर्गस्याधिकस्य भानकल्पनेनापि गौरवं फलस्य प्रत्ययार्थत्वे च तदाश्रयत्वं संबन्ध एवेति लाघवम् । न च धातूनां व्यापारमात्रवाचित्वे ग्रामं त्यजतीत्यादितोऽपि ग्रामं गच्छतीत्यादित इव संयोगादिरूपफलावच्छिन्नस्पन्दबोधापत्तिः। ग्रामस्त्यज्यते इत्यादितोऽपि ग्रामो गम्यत इत्यत इव स्पन्दजन्यसंयोगादिमत्त्वेन भानप्रसङ्ग इति वाच्यम् । कर्मप्रत्ययस्य संयोगविभागादिरूपनानाफलवाचित्वेऽपि तत्तत्फलबोधे धातुविशेषसमभिव्याहारज्ञानस्यापेक्षयातिप्रसङ्गविरहात् । त्यजति गच्छति स्पन्दते इत्यादौ कर्मासमभिव्याहृते बोधवैलक्षण्यं च तत्तद्धातूनां फलविशेषावच्छिन्नव्यापारलक्षणोपगमेनोपपादनीयम् । फलान्वितस्वार्थव्यापारबोधकत्वं गम्यादेः स्वभावाधीनं तदभावात्स्यन्दिप्रभृतिष्वकर्मकत्वव्यवहार इत्याहुः–तन्न । यागमिप्रभृतीनामिव त्यजिगमिप्रभृतीनामपि पर्यायतेति भ्रमदशायां याति गच्छतीत्यादाविव त्यजति गच्छतीत्यादितोऽप्यविलक्षणबोधोत्पत्त्या धातुविशेषसमभिव्याहारस्य फलविशेषबोधनियामकताकल्पनासंभवात् । न च ग्रामं त्यजतीत्यादितः संयोगावच्छिन्नव्यापारबोधस्तात्पर्यसत्त्वे इष्यत एव । त्वन्मतेऽपि तात्पर्यानुरोधेन लक्ष २२ Page #346 -------------------------------------------------------------------------- ________________ ३३८ व्युत्पत्तिवादः [ आख्याते णया तद्बोधोत्पत्तेरावश्यकत्वात् । परंतु तत्र विभागादिरूपफल एव फलप्रत्ययतात्पर्यस्यानादितया संयोगादिरूपफल प्रत्यायनेच्छया स्वरसतो न तादृशप्रयोग इति वाच्यम् । विना शक्तिभ्रमं लक्षणाग्रह च ग्रामं त्यजतीत्यादितः सत्यपि तात्पर्ये संयोगावच्छिन्नव्यापाराप्रतीतेरानुभविकतया धातोः फलविशेषवाचिताया आवश्यकत्वात् । ज्ञायते इष्यते क्रियते घट इत्यादौ विषयत्वरूपं कर्ममत्वं तङर्थः । न च कृतिविषयतायाः फलतत्साधनतदुपादानसाधारणतया यत्र घटः क्रियते इत्यादिप्रयुज्यते तत्र जलाहरणं कपालं क्रियत इत्यादिप्रयोगस्यापत्तिरिति चेत् । कृत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययस्य चिकीर्षाप्रयोज्यसाध्यताख्यविलक्षणविषयत्वमेवार्थः । उक्तस्थले च कपालादौ कृतेस्तादृशविषयत्वाभावान्नोक्तप्रयोगप्रसङ्गः । काशाः कटं क्रियन्ते इत्यादौ साध्यताख्यविषयताश्रयकर्मान्तरसमभिव्याहृतकर्मप्रत्ययेन व्यापार्यतारूपविषयतापि प्रत्याय्यते तदुपादानतया कृतिविषयकाशादौ साध्यतारूपकृतिविषयताविरहेऽपि न तादृशप्रयोगानुपपत्तिः। तादृशकर्मसमभिव्याहाररूपतत्प्रयोजकविरहात् काशाः क्रियन्ते इत्यादौ काशादौ व्यापार्यताबोधानुपपत्तेर्न तादृशप्रयोग इति काशाः कटाः क्रियन्ते इत्यादावपि विशेष्यभेदेन वाक्यार्थभेदाकर्मद्वयवाचकपदयोः समभिव्याहारे व्यापार्यताबोधानुपपत्तिश्च । क्रियते इत्यत्र विषयतायाः कर्मप्रत्ययार्थत्वे पाकानुनधायककृतिमादाय पाकोऽकारीत्यादिप्रयोगापत्तिरित्यादिकन्तु दूषणनिराकृतमधस्तात्कर्तृकर्मत्ववत्कालविशेषेऽनुशिष्टा लडादयः कालविशेषमपि बोधयन्ति । तत्र लद्प्रत्ययस्य वर्तमानकाले शक्तिः । पचतीत्यादौ कृत्यादिरूपव्यापारबोधकप्रत्ययोपस्थाप्यकालस्तादृशव्यापार एवान्वेति न तु क्रियायाम् । यदा पुरुषो व्यापारशून्यस्तदधीनाग्निसंयोगादिरूपः पच्यादेरर्थो विद्यते तदायं न पचतीति प्रयोगादयं पचतीत्युक्ते इदानीमयं पाकयत्नवान्न वेति संशयनिवृत्तः पूर्वपरीभावापन्नस्था Page #347 -------------------------------------------------------------------------- ________________ लट्प्रत्ययः ] जयाऽलङ्कृतः ३३६ ल्यारोपणादिव्यापाराणां विशिष्य पच्याद्यर्थघटकत्वेन प्रत्येकतद्वयापारेषु कालान्वयबोधापेक्षया कृत्यादिरूपैकार्थे तदन्वयस्यैव लाघवेनोचितत्वाच्च । वर्तमानकालश्च तत्तच्छब्दप्रयोगाधिकरणकालरूपस्तत्तच्छब्दार्थः । अतो नैककालप्रयुक्तलडादितोऽपरलडादिप्रयोगाधिकरणकालीनत्वन कृत्यादावन्वयः। स्वप्रयोगाधिकरणकालत्वेन स्ववाच्यत्वे स्वत्वाननुगमात् शक्तयानन्त्यम् । सामान्यतो व्युत्पत्तेर्दुघटतया पूर्वव्यक्तिबोधानुपपत्तिः सर्वनामविचारदर्शितरीत्या समाधास्यते। विशिष्य तत्तत्कालत्वावच्छिन्नबोधस्यानुभवसिद्धतया सर्वनामशक्तौ बुद्धिस्थत्लादिवच्छब्दप्रयोगाधिकरणत्वमुपलक्षणविधया व्यावर्तकं वाच्यम्। न च तत्कालस्यैवं सत्यवाच्यत्वे तज्ज्ञानानुपपत्तिरसमाधेयैवेति वाच्यम्। शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेन तत्तत्कालत्वानामेवोपलक्षणीयत्वात् । अथ शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मो वर्षत्वादिकमपि कालद्वयावृत्तिधर्मत्वनिवेशेपि एतद्रपमासत्वादिव्यावर्तनमशक्यम् । क्षणद्वयावृत्तिक्षणवृत्तिधर्मत्वेन तद्वयावर्तने चाध्ययनाद्यनधिकरणेऽप्यध्ययनाद्यधिकरणस्थूलकालान्तर्गतक्ष्णेऽसमाप्तारब्धाध्ययने पुंसि चिन्तामणिमयमधीत इत्यादिप्रयोगानुपपत्तिः। यदि च स्वप्रागभावानधिकरणस्वाश्रयकर्तृकप्रकृतक्रियाप्रागभावाधिकरणशब्दप्रयोगाधिकरणकाल एव वतमानकाल आधेयत संबन्धेन कृतावन्वेत्यतोनोक्तस्थले चिन्तामणिमयमधीत इत्यादिप्रयोगानुपपत्तिः। प्रारम्भावधिसमाप्तिपर्यन्तस्य म्थूलकालस्यापि तथा त्वेन शब्दप्रयोगाधिकरणक्षणादिरूपान्तरालकालेऽध्ययनाद्यनुकूल् कृतिविच्छेदेऽपि शब्दप्रयोगाधिकरणत्वोपलक्षितताशस्थूलकालवृत्तित्वस्यापि तादृशक्रियानुकूलकृतावबाधेन योग्यतानिर्वाह इत्युच्यते, तदा येन समग्रचिन्तामणिमधीत्य किंचित्कालोत्तरं पुनश्चिन्तामरिसमध्येष्यते तत्रान्तरालदशायामप्ययं चिन्तामणिमधीत इति प्रयोगपत्तिः। यदि स्तुतिपाठादिविच्छेददशायामपि Page #348 -------------------------------------------------------------------------- ________________ ३४० व्युत्पत्तिवादः [ पाख्याते प्रत्यहमयं स्तुतिं पठतीत्यादिवदुक्तस्थलेऽपि दर्शितप्रयोग इष्ट एवेत्युच्यते तदापि स्वपदेन विशिष्य तत्तत्कृतीनामुपादानेनाननुगमो दुरुद्धर एवेति चेन्न। शब्दप्रयोगाधिकरणवृत्तिकालत्यव्याप्यधर्मत्वेनोपलक्षणेनानुगतीकृततत्क्षणदिनमासवर्षत्वाद्यवच्छिन्न एव काले लट: शक्ति.। क्रियारम्भात्पूर्वं कर्मसमाप्त्युत्तरं चाधीते पचतीत्यादिप्रयोगवारणाय कृत्यादिरूपव्यापारे तादृशकालस्य स्ववृत्तिप्रागभावाप्रतियोगित्वस्ववृत्तिध्वंसाप्रतियोगिप्रकृतक्रियाकर्तृनिष्टत्वाभ्यां विशेषितेनाधेयतासंबन्धेनान्वयनियम उपगन्तव्यः। तत्तक्रियारम्भपूर्वमपि तत्समाप्त्युत्तरमपि वा वत्तेते यस्तत्तक्रियानुकूलकृत्यधिकरणकालस्तस्य दर्शितविशिष्टाधेयतासंबन्धस्तादृशकृतौ बाधितोऽप्रसिद्धो वेति न शब्दप्रयोगाधिकरणतादृशकालमादाय दर्शितप्रयोगापत्तिः । सम्बन्धे स्वपदार्थस्य विशिष्य निवेशेऽप्युपपत्तिश्चिन्त्या । न च क्रियानुकूलकृतिशून्यान्तरालदशायां स्थूलकालमादाय पचति अधीते इत्यादिवत्तादृशकृत्यधिकरणक्षणेऽपि स्थूलकालावच्छिन्नाभावमादाय न पचति नाधीते इत्यादिप्रयोगः । तत्र नञो वर्तमानक्षणमात्रान्विततादृशक्रियानुकूलकृत्यभावबोधकतानियमात्। उक्तरीत्या विशिष्यशब्दप्रयोगाधिकरणक्षणादिरूपकालस्यापि लट्प्रत्ययेन बोधनसंभवात्। नसमभिव्याहारस्थलेऽपि प्रतियोगिन्येव कालान्वय इति तु न सत्। तत्तक्षणवृत्तिपाकादिकृतेरभावस्यान्यक्षणावच्छेदेन तदानींतनस्थूलकालावच्छेदेन तादृशकृतिमति सत्त्वेनोक्तातिप्रसङ्गस्य दुर्वारत्वात् । न च कालानवच्छिन्नाधारतासंबन्धेन नगर्थस्य पुरुषेऽन्वयान्नोक्तातिप्रसङ्ग इति वाच्यम् । तादृशस्थूलकाले यत्रात्मनि पाकादिकृतिस्तादृशकालान्तर्गततादृशकृत्यनधिकरणक्षणे न पचतीत्यादिप्रयोगोपपत्तये तत्क्षणावच्छिन्नपाकादिकृत्यभावबोधस्यैव तत्र तत्र स्वीकरणीयतया क्वचित्प्रतियोग्यप्रसिद्धेदुर्वारत्वात् । व्यापाराबोधकेन च लडादिप्रत्ययेन क्रियायामेव वर्तमानत्वान्वयो बंध्यते जानातीत्या Page #349 -------------------------------------------------------------------------- ________________ ३४१ लुट्प्रत्ययः ] जयाऽलङ्कृतः दौ न तु लडाश्रयत्वादौ ज्ञानाद्यसत्त्वेऽपि तदाश्रयत्वादिसंबन्धे सति जानातीत्यादिप्रयोगापत्तेः । ज्ञानादिविशिष्टे आश्रयत्वादी कालान्वयमुपगम्यातिप्रसंगवारणे विशेषणे ज्ञानादावपि तदन्वयस्यावश्यकत्वे तस्यैव स्वीकारौचित्यात् । नश्यतीत्यादौ क्रियायां कालान्वयस्वीकारे विनष्टादावपि नश्यतीत्यादिप्रयोगः स्यादिति तत्रोत्पत्तेरपि लडाद्यर्थत्वमुपगम्य तत्रैव कालान्वयं दीधितिकृदुपजगाम । वस्तुतस्तु नाशत्वमुत्पत्तिमदभावत्वम्। तथा च धातुप्रतिपाद्यतावच्छेदकोत्पत्तावेव कालान्वय इत्येव साधीयः। वर्तमानकालस्योत्पत्तिसंबन्धेन धात्वर्थेऽन्वय इत्यपि वदन्ति । ___ लुट्प्रत्ययेन पक्ष्यतीत्यादौ प्रत्ययार्थकृतौ ज्ञास्यतीत्यादौ क्रियायां भविष्यत्त्वं प्रत्याय्यते । यद्यपि भुव उत्पत्त्यर्थकतया अनागतकालोत्पत्तिकत्वं भविष्यच्छब्दार्थस्तथापि पक्ष्यतीत्यादौ कृत्यादावनागतत्वमात्रस्य प्रतीतिरुपेयते उत्पत्तिप्रतीतेर्निष्फलत्वाद्भविष्यत्युत्पस्यत इत्यादौ धातुनैव तादृशोत्पत्तिः प्रत्याय्यते, नश्यतीत्यादौ च दर्शिता गतिः। तथा च वर्त्तमानप्रागभावाप्रतियोगित्वं प्रतियोगितासंबन्धेनान्वयो वर्तमानप्रागभावो वा लुट्प्रत्ययार्थः। प्रागभावानङ्गीकारे वर्तमानकालध्वंस एव तदर्थः। ध्वंसस्य कालोपाधित्वेन स्वसमानकालपदार्थाधारतया अनागतकृतेर्वर्तमानकालध्वंसोत्पत्तिमत्तया उत्पत्तिसंबन्धेन कृत्यादावन्वयः । अथ पचमानेऽप्युदीच्यपाकानुकूलकृतिमादाय पक्ष्यतीत्यादिप्रयोगापत्तिः । पाकानुकूलकृतित्वावच्छेदेन चानागतत्वबोधस्वीकारो न संभवति । पूर्वपूर्वपाकानुकूलकृतौ तबाधात्पक्ष्यमाणेऽपि पक्ष्यतीति प्रयोगानुपपत्तेः । तत्तत्पाकानुकूलकृतित्वावच्छेदेनापि तदन्वयासंभवः तत्तत्पाकत्वेन पदादनुपस्थितेः । नापि यत्किंचित्पाकानुकूलाद्यकृतित्वावच्छेदेन तदन्वयः । आद्यत्वोपस्थापकपदाभावात्। तत्तद्वयक्तिमनन्तर्भाव्य दुर्वचत्वाच्चेति Page #350 -------------------------------------------------------------------------- ________________ ३४२ व्युत्पत्तिवादः [ प्राख्याते चेत्-न ।प्रागभावस्य वर्त्तमानत्वं शब्दप्रयोगाधिकरणक्षणवृत्तित्वम् , वर्तमानप्रागभावस्य प्रत्ययार्थत्वे तस्य स्वविशिष्टकालवृत्तिकृतिजन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन वर्तमानकालध्वंसस्य तदर्थत्वे च स्वपूर्वकालीनकृतिजन्यपाकाननुकूलत्वविशिष्टाधेयत्वसंबन्धेन कृत्यंशेऽन्वयोपगमे उदीच्यकृतौ वर्तमानप्रागभावादेर्दशितविशिष्टसंबन्धासत्त्वेनातिप्रसङ्गविरहात् । ध्वंसपूर्वत्वं च तदनधिकरणत्वमेव। न चान्तरालिककृतिजन्यस्य पच्यर्थव्यापारस्य पूर्वव्यापारानुकूलकृत्यजन्यतया आन्तरालिककृते: पूर्वकृतिजन्यपाकाननुकूलत्वमक्षतमेवेति तस्या अपि निरुक्तविशिष्टसंबन्धेन वर्तमानप्रागभावादिमत्त्वमक्षतमेवेति वाच्यम् । कृतिजन्यपाकेत्यत्र कृतिजन्यव्यापाराधीनफलानुकूलव्यापारस्य विवक्षितत्वात् । पक्तत्यादौ लुटोऽनद्यतनभविष्यत्त्वमर्थः । अनद्यतनभविष्यत्त्वं च शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्दप्रयोगकालीनप्रागभावप्रतियोगित्वम् । शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं वा। ___केचित्तु भविष्यत्त्वमेव तस्यार्थः । क्रियायाः कृतेर्वा स्वरूपसदनद्यतनत्वमेव तत्साधुतानियामकम् । असाधुत्वादेवाद्य पक्ष्यतीत्यादौ पक्तेति न प्रयोग इत्याहुः-तन्न। तथा सति भविष्यत्त्वादिकमपि नाख्यातार्थ: स्यात् । स्वरूपसद्भविष्यत्त्वादिकमेव लुडादिप्रत्ययस्य साधुतानियामकम् । असाधुत्वादेव पक्ष्यति पक्तेतिवत्पचतीत्यादौ पक्ष्यतीत्यादिप्रयोगविरह इत्यस्यापि वक्तुं शक्यत्वात् । पचति पक्ष्यतीत्यादेरविलक्षणबोधजनकत्वमनुभवविरुद्धमिति कालविशेषवोध आवश्यक इति चेत् तदा पक्ता पक्ष्यतीत्यादेरपि विलक्षणबोधजनकत्वस्यानुभविकतया अनद्यतनवान्वयबोधोऽपि दुर्वारः। यदि च पक्ष्यतीत्यादिवाक्यजन्यबोधे सति भविष्यत्त्वादिसंशयानुदयाद्भविष्यत्त्वादेः शाब्दधीविषयत्वमावश्यकमित्युच्यतं तदानद्यतनत्वबोधेऽपि ईदृशीमेव युक्तिं गृहाण । एवं न पक्ष्यतीत्यादावभावे अनागत Page #351 -------------------------------------------------------------------------- ________________ लुट्प्रत्ययः ] जयाऽलङ्कृतः ३४३ कालावच्छिन्नत्वभानमावश्यकम् । अन्यथा पक्ष्यत्यपि वर्तमानत्तपाककृत्यभावमादाय न पक्ष्यतीत्यादिप्रयोगप्रसङ्गात्। न च पक्ष्यत्यप्यनागतयत्किंचित्कालावच्छेदेन वर्तमानमभावमादाय न पक्ष्यतीति प्रयोगो दुर्वार एवेति वाच्यम्। अनागतकालावच्छिन्नत्वं हि तत्र वर्तमानंक्षणध्वंसावच्छिन्नत्वम् । तादृशध्वंसनिष्ठा अवच्छेदकताऽनवच्छिन्ना ग्राह्या, अनागतकृतिमति च पंसि तदभाववृत्तौ वतमानक्षणध्वंसरूपः कालः प्रतियोगी वृत्तावप्यवच्छेदक इति विरोधभञ्जनाय ताशकृत्यनवच्छेदकावान्तरकालावच्छिन्न एवावच्छेदक उपेय इति नोक्तातिप्रसङ्ग इत्युक्तयुक्त्या अनागतत्वस्य यथा लुडाद्यर्थत्वं तथाऽद्य पक्ष्यति न पक्तत्यत्रानद्यतनकालावच्छिन्नत्वस्याभावेऽभाने श्वः पक्ष्यत्यप्यद्यतनानागतकालावच्छिन्नपाककृत्यभावमादाय न पक्तेति प्रयोगप्रसङ्गेन लुटोऽनद्यतनार्थत्वमावश्यकम्। अनागतानद्यतनकालावच्छिन्नत्वमपि उक्तरीत्यातिप्रसङ्गवारणाय प्रकृतशब्दप्रयोगाधिकरणदिनध्वंसनिष्ठानवच्छिन्नावच्छेदकताकत्वरूपं ग्राह्यम् । अवच्छेद्यावच्छेदकभावश्च संबन्धविधया भासते ध्वंस एव पदार्थ इत्यवधेयम् । अथ नञ्समभिव्याहारस्थलेऽपि कृतावेव कालान्वयोऽस्तु । अनागतकृतिश्च महाप्रलयस्याप्रामाणिकतया सर्वत्रैव प्रसिद्धयतीति न प्रतियोग्यप्रसिद्धिः। अभावान्वयश्चात्मनि कालानवच्छिन्नाश्रयतासंबन्धेनोपगम्यतामिति चेत्-न । यदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीं चैत्र श्रोदनं न पक्ष्यतीति प्रयोगानुपपत्तेः। अनागतचैत्रीयौदनकर्मकपाकानुकूलकृत्यप्रसिद्धया तदभावप्रत्यायनासंभवात्। न चाभावे कालान्वयोपगमेपि यत्तण्डुलव्यक्त्यादिकर्मकपाक एवाप्रसिद्धस्तद्वयक्त्यादिपरस्यैतत्तण्डुलं न पक्ष्यतीत्यादिवाक्यस्याप्रमाणत्वापत्तिः । प्रतियोग्यप्रसिद्धेर्दुर्वारत्वादिति तत्र पाके तद्वयक्तिकर्मकत्वाभाव एव ना बोध्यत इति Page #352 -------------------------------------------------------------------------- ________________ ३४४ व्युत्पत्तिवादः [ पाख्याते उपगन्तव्यम् । तथा चोक्तस्थलेपि तत्तत्पाके चैत्रीयौदनकर्मकत्वाभावबोधोपगमेनोपपत्तिरिति वाच्यम् । पाके तत्कर्मकत्वाभावबोधोपगमे तादृशपाकानुकूलानागतकृतेः कर्तरि भानस्योपगन्तव्यतया तदुत्तरं कदाचिदपि येन न पक्ष्यते तादृशकर्तृसमभिव्याहृतदर्शितवाक्यस्य प्रामाण्योपपादनासंभवात् । अगत्या तु यत्कर्मको यत्कर्तृक: पाकोऽप्रसिद्धस्तादृशकर्मकर्तृघटितार्थकनञ्पदवद्वाक्यस्यायोग्यतोपगम्यते। केचित्तु तत्रापि पाके तत्कर्मकत्वाभावस्य तादृशे च कर्तरि पाककृत्यभावस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति । तात्पर्यसत्त्वे एकेनापि नञाऽभावद्वयबोधनसंभवात् । न चैवं तण्डुलमानं पचति पक्ष्यति वा चैत्रेऽपि तण्डुलमयं न पचति न पक्ष्यतीति प्रयोग: स्यात् । तत्तण्डुलाकर्मकपाकानुकूलवर्तमानादिकृत्यभावाबाधादिति वाच्यम् । यतः सुबर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकतत्वाभावबोधकत्वं नञः आकाशं न पचति घट इत्यादावपि न स्वीक्रियते तादृशबोधजनकताया अव्युत्पन्नत्वात् येनोक्तातिप्रसंगः स्यात् । किन्तु पाक आकाशाकर्मकः पाककृत्यभाववान् घट इत्यादिसमूहालम्बनबोध एवोक्तस्थले च चैत्रे पाककर्तत्वाभावबोधान्न प्रामाण्यप्रसंगः । अस्तु वा तत्राभावान्वितक्रियाकर्तृत्वाभावविषयकोऽसमूहालम्बनरूप एव बोधस्तथापि न दर्शितातिप्रसंगः । तादृशबोधेन्वयितावच्छेदकावच्छेदेन प्रथमाभावभाननियमात् । पाकत्वावच्छेदेन च तण्डुलादिकर्मकत्वाभावान्वये योग्यताविरहात् । अन्ध आकाशं न पश्यतीत्यादावपीदृशी गतिः । अथ यत्तण्डुलादिकर्मको यत्पुरुषकर्तृकः पाकोऽप्रसिद्धस्तत्पुरुषेऽन्यकर्मकपाककर्तृत्वस्य तण्डुलादौ चान्यपुरुषपच्यमानत्वादेर्धमदशायां तण्डुलमयं न पक्ष्यतीत्यादिवाक्यस्यबोधकताया अनुभवसिद्धत्वेनापाकर्तुमशक्यत्वानोक्तप्रकारः साधीयान् । विरोधिनिश्चयसत्त्वेन तत्पुरुषे पाककर्तृत्वसामा Page #353 -------------------------------------------------------------------------- ________________ लिट्प्रत्ययः ] जयाऽलङ्कृतः ३४५ न्याभावस्य पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावस्य च प्रतीत्यसंभवादिति चेन्न । तत्र तादृशवाक्यस्य एकाभावावगाहिभ्रमजनकत्वोपगमात् । न च सर्वत्रैव तदुपगमौचित्येन प्रयासवैफल्यमिति वाच्यम् । विशेषदर्शिभिरप्रतारकैरपि तथाविधवाक्यप्रयोगात् तस्य प्रसिद्धार्थकतासंपादनस्यावश्यकत्वात् । न च तत्तण्डुलादिकर्मकत्वं तनिष्ठविक्लित्तिजनकत्वं तदपि वा प्रसिद्धमिति कथं पाके तदभावप्रत्यय इति वाच्यम् । विक्लित्त्यादावेव तत्तद्वृत्तित्वाभावबोधोपगमात् । ___अपाक्षीदित्यादौ लुङोऽतीतकालोर्थः । तस्याप्याख्यातसामान्यार्थकृत्यादावन्वयः । तस्य च सम्बन्ध आधेयत्वम् । अथवा कालविशेषणतयैवातीतत्वं लुङोथः । आश्रयतासम्बन्धेन च तस्य कृत्यादावन्वयः कालान्तर्भावस्य व्यर्थत्वात् । अतीतत्वं वर्तमानध्वंसप्रतियोगित्वम् । वस्तुतो वर्तमानध्वंस एव लुङाद्यर्थः । तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः । मध्यदशायामपाक्षीदित्यादिप्रयोगवारणमुक्तरीत्या बोध्यम्। लङ्प्रत्ययस्यातीतत्ववदनद्यतनत्वमप्यर्थः । अद्य पचत्यपचदित्यप्रयोगात् । 'अभून्नप' इत्यादावनद्यतनत्वसत्त्वेपि तदविवक्षया न लप्रत्ययेन लुङबाधः। अतोप्यनद्यतनत्वबोधकत्वं लङ्प्रत्ययस्यावश्यकम् । स्वरूपसदनद्यतनत्वस्य लङसाधुतानियामकत्वेऽनद्यतनत्वस्य वस्तुसतोऽविवक्षामात्रेणोक्तस्थले लङ्वारणानुपपत्तेः । इदमप्यनद्यतनत्वं प्रकृतशब्दप्रयोगाधिकरणदिनावृत्तित्वम् । अथ वा स्वातन्त्र्येणानद्यतनत्वं न लर्थः किंतु तादृशदिनाद्यक्षणवृत्तिध्वंसप्रतियोगित्वरूपमनद्यतनातीतत्वं विशिष्टमेव ।। अतीतत्वमनद्यतनत्वं परोक्षत्वं च लिटोर्थः । 'अध्यास्त सर्वतुसुखामयोध्या'मित्यादौ परोक्षत्वसत्त्वेपि परोक्षत्वाविवक्षया न लिट् । परोक्षत्वं वक्तुः साक्षात्काराविषयत्वम् । Page #354 -------------------------------------------------------------------------- ________________ ३४६ व्युत्पत्तिवादः [पाख्याते केचित्तु स्वभिन्नकर्तृकत्वमेव परोक्षत्वमत एव लिडुत्तमपुरुषासंभवेनापरोक्षतायामपि लिटः साधुत्वे 'णलुत्तमो वे'त्यादेझपकत्वमुपायकारोक्तं संगच्छते । अन्यथा निद्रादिदशायां स्वकर्तृकगमनादिक्रियायाः स्वपरोक्षत्वसंभवेन ज्ञापकत्वासंगतेरित्याहुः। __'कलिङ्ग दृष्टोसि', 'नाहं कलिङ्गान् जगामे'त्यादावत्यन्तापह्नवस्थले सूत्रान्तरेण क्रियाया अपरोक्षत्वेपि लिड्विधानात् तादृशज्ञापकबलेन 'व्यातेने किरणावली'मित्यत्र लिट: साधुत्वोपपादनमुपायकृतामयुक्तमेवेति बोध्यम् । अत्यन्तापह्नवश्चाबाधितपरोक्तविपरीतबोधनाय तदुपपादकाभावप्रतिपादनेच्छा कलिङ्गाधिकरणकदर्शनादेरुपपादकं कलिङ्गगमनादिकं तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपसन्नेव लिट्साधुतानियामकः । लिङलोटोविधिरर्थः। परप्रवृत्त्यर्थं तत्प्रयोगात्। विधिः प्रवर्त्तकज्ञानविषयो धर्मः। स च धर्मो न्यायनये कृतिसाध्यत्वं बलवदनिष्टाननुबन्धित्वसहितमिष्टसाधनत्वं च । 'प्रोदनकामः पचेत्स्वर्गकामो यजेते'त्यादावोदनस्वर्गादिरूपं यत्फलं तत्साधनत्वं पाकयागादिक्रियायां प्रतीयते। तादृशफलानां च तत्तद्रूपेण लिङादिशक्यतावच्छेदककोटिप्रवेशे शक्त्यानन्त्यं सर्वसाधारण्येन व्युत्पत्त्यनुदयेनापूर्वफलसाधनबोधानिर्वाहश्चेतीष्टत्वेन तेषामनुगमः । इष्टत्वं समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । अत: 'स्वर्गकामः पचेते'त्यादौ शक्तिभ्रमशून्यस्य नौदनादिसाधनत्वधीन वा तत्तात्पर्येण तथा प्रयोगः प्रामाणिकानाम्। इष्टत्वज्ञानस्याप्रवर्तकत्वेपि शक्यफलानुगमार्थं तस्य शक्यता । वस्तुतस्तु अशक्यस्यैव तस्य शक्यानुगमकता सर्वनामस्थले बुद्धिस्थत्ववत्तेन रूपेण फलानां संकेतविषयतां विनाशक्यैक्यासंभवात् । तस्य संकेतविषयत्वोपगमेपि यथा न तस्य वाच्यता तथा प्रपञ्चितमन्यत्र । अत्र चेष्टत्वस्य शाब्दबोधेऽभानाद्विशिष्टेष्टता Page #355 -------------------------------------------------------------------------- ________________ विधिप्रत्ययः ] जयाऽलङ्कृतः ३४७ वच्छेदकस्वर्गवादिप्रकारेण शाब्दबोधोत्पत्त्या विधिवाक्यात्प्रवर्तकज्ञाननिर्वाहः। यत्तु इष्टत्वेन फलभानेपि स्वर्गकामादिपदैकदेशोपस्थितस्वर्गत्वावच्छिन्नस्य विध्यर्थंकदेशे इष्टेऽभेदान्वयात्प्रवर्तकज्ञाननिर्वाह इति-तदपि न सत् । वृत्तिशब्दैकदेशे इतरानन्वयनियमात् । स्वर्गत्वादिप्रकारेण कामनाधीनप्रवृत्तौ स्वर्गत्वादिविशेषितफलसाधनताज्ञानस्य हेतुतया अभेदेन स्वर्गादिविशेषितफलसाधनताज्ञानस्यानुपयोगित्वाच्च । अभेदेन स्वर्गादिप्रकारकस्वर्गादीष्टसाधनताज्ञानमपि स्वर्गत्वादिप्रकारकप्रवृत्तौ हेतुः। अत एव 'स्वर्गकामो यजेते'त्यादित: प्रवृत्तिरिति तु न युक्तम् । स्वर्गत्वप्रकारककामनाया अधिकारत्वानुपपत्तेः । अथेष्टत्वस्य शक्योपलक्षणत्वे तदंशाभाननिर्वाहेपि स्वर्गत्वादेरशक्यस्य भानं न संभवति । अशक्यस्य भानोपगमेतिप्रसङ्गादिति चेत् । स्वर्गवाद्यवच्छिन्ने समभिव्याहृतकामनाविषयत्वज्ञानसहकृतस्य तादृशकामनाविषयतावच्छिन्नशक्तिज्ञानस्य स्वर्गत्वादिप्रकारकशाब्दधीहेतुत्वोपगमेतिप्रसङ्गानवकाशात् । वस्तुतस्तादृशकामनाविषयतावच्छेदकत्वोपलक्षितस्वगत्वादिविशिष्टसाधनत्वे शक्तिस्वीकारात्सर्वसामञ्जस्यम् । न च स्वर्गत्वादिविशिष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्वं न संभवति । स्वर्गत्वादेर्गङ्गास्नानादिजन्यस्वर्गादिसाधारण्येन यागादिजन्यतानवच्छेदकतया यागादौ स्वर्गत्वादिविशिष्टसाधनत्वबाधात् न हि जन्यतानवच्छेदकधर्मो जनकत्वनिरूपके विशेषणमिति वाच्यम् । स्वर्गत्वादेः शक्यविशेषणत्वेपि तदुपलक्षितवैजात्यावच्छिन्ननिरूपितजनकताया यागादावबाधितायाः स्वर्गादिजनकतात्वेन विधिप्रत्ययतो भानसंभवात् । घटत्वादिविशिष्टवाचकपदघटिताद् घटं द्रव्यत्वेनैव जानातीत्यादिवाक्यात् घटत्वाद्युपलक्षितघटादिविशेष्यकत्वभानवत् । न च तद्धर्मावच्छिन्ननिरूपिततत्साधनत्वज्ञानं विना तद्धर्मप्र Page #356 -------------------------------------------------------------------------- ________________ ३४८ व्युत्पत्तिवादः [ पाख्याते कारकफलेच्छाधीनप्रवृत्त्यनिर्वाह इति शङ्कयम् । वह्नित्वादिप्रकारकेच्छातोपि तृणादिसमवधानेऽभ्रान्तप्रवृत्तेरानुभविकत्वात् । भूयः सुखार्थिनामपि भ्रमं विना क्रियाविशेषे प्रवृत्तेश्च तद्धर्मावच्छिन्नफलार्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनताज्ञानस्यैव प्रवर्तकत्वात् । स च धर्मः कार्यतावच्छेदकतया भासतां कार्याशे उपलक्षणतयैव वेत्यन्यदेतत् । न हि वह्नित्वादिकं तृणादिजन्यतावच्छेदकं व्यभिचारिसाधारणत्वात् । न वा भूयस्त्वादिकं कस्यचिजन्यतावच्छेदकमर्थवशसंपन्नत्वात् । एवं सति घटत्वावच्छिन्नफलार्थी तन्त्वादौ कथं न प्रवर्तते ? तन्त्वादेरपि घटत्वाग्रुपलक्षितजन्यसत्त्वादिविशिष्टनिरूपितद्रव्यत्वावच्छिन्नसाधनतावत्त्वादिति चेत्फलानुपधाननिश्चयात्तस्य स्वातन्त्र्येण प्रवृत्तिप्रतिबन्धकत्वात्। फलोपधायकसाधनत्वस्य वा विधिप्रत्ययार्थतया घटकामस्तन्तुमुपाददीतेत्यादिर्न प्रयोगः । न च तथापि स्वर्गवादेर्यागादिनिष्ठकारणताघटकव्यापकतानिरूपकतानवच्छेदकतया स्वर्गत्वावच्छिन्ननिरूपितव्यापकताघटितकारणताया बाधः स्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य च कारणताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननिरूपितव्यापकताबोधासंभव इति स्वर्गकाम इत्यादौ विध्यर्थबोधानुपपत्तिदुर्वारैवेति वाच्यम्। स्वरूपसंबन्धरूपाया एव कारणताया विध्यर्थत्वोपगमात् । अन्यथा सिद्धिनिरूपकतानवच्छेदकनियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वमेव स्वर्गकारणत्वम् । नियतोत्तरवर्तितावच्छेदकश्च धर्मो विशिष्य उत्तरकालकल्प्यो जातिविशेष एव नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौ भासते । नियतोत्तरवर्त्तितावच्छेदकत्वं च कारणतावच्छेदकत्वाभिमतधर्मावच्छिन्नतद्वयापाराभावाधिकरणताविशिष्टोत्पत्तिक्षणावच्छिन्नाधिकरणतानिरूपकतानवच्छेदकत्वम् । अधिकरणतावैशिष्टयं च स्वाव Page #357 -------------------------------------------------------------------------- ________________ ३४६ स्वर्गकारणत्वम् ] जयाऽलङ्कृतः च्छेदकक्षणाव्यवहितोत्तरक्षणावच्छिन्नस्वाश्रयनिष्ठत्वसंबन्धेन। वस्तुतः स्वर्गनिष्ठधर्मावच्छिन्ननिरूपितनियतपूर्ववर्तितावच्छेदकधर्मवत्त्वमेव स्वर्गकारणत्वम् । नियतपूर्ववर्तितावच्छेदकत्वं चाव्यवहितपूर्वकालावच्छिन्नवृत्तिकाभावघटितदैशिकव्यापकतायाः स्वाश्रयत्वस्वाश्रयनिरूपितव्यापारवत्त्वान्यतरसम्बन्धेनावच्छेदकत्वमेव । व्यापकत्वनिरूपकतावच्छेदकवैजात्यस्य विशिष्यानुपस्थितावपि स्वर्गधर्मत्वेन ज्ञानं संभवत्येव । व्यापकताघटकाभावप्रतियोगितायां स्वरूपतोवच्छेदककोटिप्रविष्टाया अपि जातेापकताभाने स्वर्गधर्मत्वादिना भाने न बाधकम् । स्वर्गधर्मत्वादेरुपलक्षणतया भानात् । प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञान एवं प्रतियोगिकोटावुपलक्षणप्रकाराभाननियमात्।। . प्रकृते च कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेण भाननियमात् । अत एव स्वरूपतो वह्नित्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वाद्यवच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता। __ इत्थमेव चेष्टतावच्छेदकधर्माणामुपलक्षणीभूतेनेष्टतावच्छेदकत्वेन व्यापकताघटकाभावप्रतियोगितावच्छेदककोट्यप्रविष्टेनापीटतावच्छेदकधर्माणां सर्वसाधारणशक्तिग्रह भानमुपपद्यत इति । __एतेन नियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्य विध्यर्थतामते यागादिधर्मिकतादृशकारणताग्रहस्य प्रवृत्तिहेतुता वाच्या । तदपेक्षया च स्वर्गादिधर्मिकनियतोत्तरवर्त्तितावच्छेदकधर्मरूपयागादिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वे तादृशसाध्यताविशिष्टमात्रस्य विध्यर्थत्वे च लाघवम् । तादृशसाध्यताया निरुक्तसाधनान्तर्गतत्वादितीष्टसाधनत्वस्य विध्यर्थत्वं प्रवर्तकत्वं च व्याहन्येत । एवं यत्र कारणतावच्छेदकधर्मोप्यनुपस्थितोतिप्रसक्तेन न्यूनवृत्तिना वा धर्मेण कारणमुपलक्षितं तत्र शब्दात्कारणताग्रहानुपपत्तिश्चेति Page #358 -------------------------------------------------------------------------- ________________ व्युत्पत्तिवादः ३५० [ आख्याते निरस्तम् । व्यापकताघटितकारणतायाः साध्यतामपेक्ष्या गरीयस्या एवोक्तरीत्या प्रवर्त्तकत्वादिसंभवात् । तादृशसाधनताशरीरे व्यापकतावच्छेदकत्वेनैव कारणतावच्छेदकप्रवेशात्तद्ग्रहे विशिष्य तदुप - स्थित्यनुपस्थित्यनुपयोगाच्चेति । केचित्तु विजातीय स्वर्गनिरूपितसमवाय एव स्वर्गादिनिष्ठयागादिजन्यतावच्छेदकसम्बधः । तथा च वैजात्यस्य सम्बन्धघटकतयैव व्यापकताशरीरे निवेशान्नोपस्थित्यपेक्षा । न वा कारणताविघटकव्यभिचारावकाश इत्याहुः । तदसत्। विजातीयस्वर्गनिरूपितसमवायत्वेन संबन्धतायां मानाभावात् । तादृशसंबन्धघटितत्र्यापकताया विधिप्रत्ययार्थत्वे तस्य स्वर्गादिनिष्ठवैजात्यभेदेन शक्तिबाहुल्यप्रसङ्गात् । तादृशकार्यसंबन्धघटितेष्टकारणतायाश्च प्रमाणान्तरेणाप्रत्यायितत्वात् । तत्र शक्तिग्रहानुपपत्त्या शाब्दबुद्धौ तद्भानानुपपत्तेश्च । न चेष्टतावच्छेदकत्वोपलक्षितस्वर्गत्वावच्छिन्ने कारणताघटकाधिकरणादिपदार्थे च खण्डशः शक्तिरुपेया । आकाङ्क्षावशाच्चाधिकरणरूपविध्यर्थे विजातीयस्वर्गनिरूपितसमवायस्य संबन्धतया भानात्तादृशकार्य संबन्धघटितकारणताया: शाब्दबोधे भानमुपगन्तव्यं न तु तादृशसंबन्धान्तर्भावेण शक्तिरिति न काचिदनुपपत्तिरिति वाच्यम् । एवं सति संसर्ग तात्पर्यज्ञानानुरोधेन तादृशसंसर्गोपस्थित्यपेक्षाया दुर्वारत्वात् । न च तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव संसर्गभाननियामकम् । तत्रापि च संसर्गः संसर्ग एव न तु विशेषणमिति न ज्ञानापेक्षेति वाच्यम् । विशेषणविशिष्टविशेष्यस्य वाक्यार्थत्वेन पूर्वमनिश्चिततया तत्परवग्रहस्य शाब्दबोधात्पूर्वमसंभवात् । तत्तत्संबन्धविषयतानिरूपितविशेषरणादिविषयताशालिबोधपरत्वज्ञानस्यैव हेतुतया तत्र संबन्धस्य विशेषणतया तदुपस्थितेरावश्यकत्वात् । एवं विजातीयस्वर्गनि Page #359 -------------------------------------------------------------------------- ________________ यागसाध्यताः ] जयाऽलङ्कृतः ३५१ रूपितसमवायसंबन्धेन स्वर्गत्वावच्छेदेन जन्यतोपगमे 'स्वर्गत्वस्या - श्वमेधजन्यत्वसामानाधिकरण्यमात्रमेव हि शब्देनापि प्रतीयते न तु स्वर्गत्वस्य जन्यतावच्छेदकत्वमसामर्थ्यादसंभवाच्चे 'त्यादिमिश्र 'ग्रन्थविरोधः । यत्तु वैजात्यमेव कार्यतावच्छेदकं तच्च संबन्धविधयैव कारणताघटक कार्यतावच्छेदकधर्मविशिष्टनिरूपितकार्यतावच्छेदकसंबन्धेन कार्य निष्ठाभावाप्रतियोगित्वस्य कारणताशरीरे निवेश्यत्वादिति - तदप्यसत् । कार्यस्य कार्यतावच्छेदकरूपेणैव निवेशनीयतया तदुपस्थित्यपेक्षा धौव्यात् । न च संबन्धसंकोचे प्रमेयत्वेनैव कार्यप्रवेशः संभवतीति वाच्यम् । विजातीयस्वर्गवन्निष्ठाभावप्रतियोगितात्वस्यागुरोरवच्छेदकत्वसंभवे विजातीयस्वर्गीयसमवायसंबन्धेन प्रमेयवन्निष्ठाभावप्रतियोगितात्वरूपगुरुधर्मावच्छिन्नाभावाप्रसिद्धेः । एतेन स्वर्गत्वमेव यागजन्यतावच्छेदकमवच्छेदकताघटकसमवायसंबन्धसंकोचे न व्यभिचार इत्यपि निरस्तम् । तादृशसंबन्धविशेषणेष्टतावच्छेदकविशिष्टस्य प्रमाणान्तरावेद्यतया तत्र शक्तिनिवयासंभवात् । न हि समभिव्याहृतफलबोधक पदोपस्थाप्यतावच्छेदकत्वरूपोपलक्षणधर्मेण यथा स्वर्गत्वादीनां शक्तिग्रहे भानं तथोपलक्षणीभूततादृशपदोपस्थाप्यतावच्छेदकसंबन्धत्वेन विजातीयस्व निष्ठसमवायादेरपि तत्र भानसंभवः । स्वर्गपदाच्छुद्धसमवायेनैव स्वर्गत्वविशिष्टस्योपस्थितौ विशिष्टसमवायेन स्वर्गत्वविशिष्टस्य स्वर्गपदार्थत्वोपगमे लक्षणाप्रसङ्गात् । शुद्धसमवायेन स्वर्गत्वविशिष्टविषयक कामनावतोऽनधिकारप्रसङ्गात् । मीमांसकास्तु 'अहरहः संध्यामुपासीतेत्यादौ नित्यतया नि 'मिश्रेति । मुरारिमिश्रेति यावत् । Page #360 -------------------------------------------------------------------------- ________________ ३५२ व्युत्पत्तिवादः [ आख्याते ष्फले संध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनान्वयासंभवान्नेष्टसाधनत्वं लिङर्थः। अथ संध्यावन्दनादेरप्यर्थवादोपस्थापितब्रह्मलोकावाप्त्यादिफलसाधनत्वमव्याहतम् । यत्र नित्येऽर्थवादादपि न फलोपस्थितिस्तत्रापि फलाभावनिश्चायकप्रमाणाभावाद्योग्यतासंशयसंभवेन फलसाधनत्वप्रत्ययो लिङादितः संभवत्येव । न च तद्बोधो नोपयोगी। निष्फलतया ज्ञाते चैत्यवन्दनादौ प्रवृत्तिवारणायेष्टसाधनताज्ञानस्य प्रवृत्तिहेतुतावश्यकत्वेन नित्यविधेः प्रवृत्तिनिर्वाहाय तस्य फलसाधनताबोधकताया आवश्यकत्वादिति चेत्-न। “संध्यामुपासते ये च सततं संशितव्रता” इति श्रुतौ सततमिति श्रुतेः कदाचिद्यस्य संध्यावन्दनादिबाधस्तेन स्वीयसंध्यावन्दने ब्रह्मलोकावाप्तिफलानुपधानस्य निश्चिततया अहरहः संध्यावन्दने ब्रह्मलोकावाप्तिसाधनताबोधनेऽपि तस्य संध्यावन्दने प्रवृत्त्यनिर्वाहात्। यत्र च नित्ये विशिष्यफलबोधकोऽर्थवादादिर्नास्ति तत्र विधिप्रत्ययेन इष्टत्वेन फलसाधनताबोधस्य जननेऽपि इच्छाविषयताऽवच्छेदकस्वर्गवादिरूपविशेषधर्मप्रकारेण फलविषयकतत्साधनताबोधस्यानिर्वाहेण प्रवृत्त्यनिर्वाहात् । इष्टसाधनताज्ञानाघटितकारणस्तोमात्मिकायाः संध्यावन्दनाद्यभावगोचरनरकादिसाधनताज्ञानाधीनतद्गोचरद्वेषघटितसामग्र्या एव संध्यावन्दनादौ प्रवर्तकताया उपगन्तव्यतया नित्यस्थले इष्टसाधनताबोधस्यानुपयोगिताया दुर्वारत्वात्। न च 'विश्वजिता यजेते'त्यत्र विशिष्टफलाश्रवणेऽपि यथा स्वर्गकामपदस्याध्याहारेण तत्समभिव्याहाराद् विशेषरूपावच्छिन्नस्वर्गसाधनताबोधस्तथा नित्यस्थलेऽपि विशेषधर्मप्रकारकस्वर्गसाधनबोधसंभवात् उक्तप्रवृत्तिसामग्र्यन्तरकल्पनमयुक्तमिति वाच्यम् । बहुवित्तव्ययायाससाध्यविश्वजिद्यागेन तत्तग्रामपश्वादिफलोद्देशेन प्रवृत्त्यनुपपत्तेः । तद्विधेः स्वर्गफलतात्पर्यनिश्चयात्संध्यावन्दनादौ चाल्पायाससाध्ये Page #361 -------------------------------------------------------------------------- ________________ नित्यकर्म० ] जयाऽलङ्कृतः ३५३ ग्रामादिफलोद्देशेनापि प्रवृत्त्युपपत्तेः । तद्विधेः स्वर्गपरत्वनिश्चयायोगात् । स्वर्गादिफलकामनारहितैर्मुमुक्षुभिरपि संध्यावन्दनाद्याचरणादुक्तप्रवृत्तिसामग्रीकल्पनस्यावश्यकत्वाच्च। तादृशसामग्री विना प्रायश्चित्तादाविष्टासाधने प्रवृत्त्यनिर्वाहाच्च। न च तत्रापि पापध्वंसेष्टसाधनताज्ञानात्प्रवृत्तिनिर्वहति। सुखदुःखाभावेतरगोचरेच्छायां इष्टसाधनताज्ञानस्य नियमतोऽपेक्षायां निष्फलपापध्वंसस्येष्टत्वासंभवात् । नरकसाधनगोचरद्वेषस्य तध्वंसगोचरेच्छाजनकत्वोपगमेऽस्मत्समीहितायामिष्टसाधनत्वज्ञानाघटितप्रवृत्तिसामग्र्यामविवादात् । कृतिसाध्यताज्ञानसहितेच्छासामान्यसामग्रीतश्चिकीर्षोत्पत्तनिष्फलेऽपि संध्यावन्दनादौ निर्वाहेण प्रवृत्त्युपपत्तेः । न च नरकानुत्पाद एव प्रायश्चित्तस्य संध्यावन्दनादेश्च फलमितीष्टसाधनताज्ञानघटितैव प्रवृत्तिसामग्री। नरकद्वेषवतां च तदनुत्पादे नियमत एवेच्छेति तेषां नित्यसंध्यावन्दनाद्यनुष्ठानमुपपद्यते । अन्यैश्च तत्रानुष्ठीयते इति वाच्यम्। नरकानुत्पादस्य तत्प्रागभावात्मकस्य प्रतियोगिविकल्पग्रासेन फलत्वासंभवात् । अत्यन्ताभावस्य प्रतियोगिविरोधितया कदाचित्पापान्तरेण यस्य नरकदुःखं जनितं जनिष्यते वा तदात्मन्यसत्त्वाग्नित्यत्वेन चोभयोः फलत्वासंभवात् । योगक्षेमसाधारणसाधनतायाश्च गुरुशरीरत्वेन प्रवृत्यनुपयोगित्वात्। __ यदपि 'मण्डली कुर्या'दित्यादिवाक्यप्रामाण्यवारणायेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकमिति तदपि न । मण्डलीकरणादिजन्यतद्ध्वंसादिरूपफलेऽपि कदाचित्कस्यचिदिष्टसाधनताभ्रमेणेच्छोत्पत्त्या मण्डलीकरणादावपीष्टसाधनत्वाबाधेनेष्टसाधनत्वविध्यर्थतामतेऽपि तद्वाक्यप्रामाण्यस्यावश्यकतया इष्टापत्तेः। 'स्वर्गकामो मण्डली कुर्यादि'ति वाक्यजन्यबोधे च स्वर्गकामनाया मण्डलीकरणादिनिष्ठकर्तव्यत्वप्रयोजकत्वभानेन तदर्थबाधेन तद्वा Page #362 -------------------------------------------------------------------------- ________________ ३५४ व्युत्पत्तिवादः [ आख्याते क्याप्रामाण्योपपत्तेः । न चेष्टसाधनत्वस्य विधिप्रत्ययार्थत्वानुपगमे 'स्वर्गकामो यजेते'त्यादिवाक्याद्यागादौ प्रवृत्त्यनुपपत्तिः । तत्राभावगोचरद्वेषघटितसामाग्र्यसंभवात् यागाद्यभावस्य नरकादिरूपद्विष्ठसाधनत्वाभावात् इष्टसाधनत्वबोधकमानाभावेन तज्ज्ञानघटितसामय्या अपि भवन्मते दुर्घटत्वादिति वाच्यम्। इष्टसाधनत्वस्य विध्यर्थताविरहेऽपि 'स्वर्गासाधनं न स्वर्गकामनाधीनकृतिसाध्य'मितीतरबाधबलात्स्वर्गकामकृतिसाध्यतान्वयितावच्छेदकतया स्वर्गसाधनत्वस्योक्तविधिजन्यबोधे भानाद्यागादाविष्टसाधनताज्ञानादेव प्रवृत्तिनिर्वाहात् । इत्थं च सन्ध्यावन्दनादौ तत्कालावच्छिन्नशौचादिकमेवाधिकारो न तु फलकामनापि । अत: फलकामनाशून्यस्यापि शौचादिमतः सन्ध्यावन्दनाकरणं प्रत्यवायजनकम् । फलकामनायास्तत्राधिकारत्वे तच्छून्यस्यानधिकारितया तदकरणं न प्रत्यवायमावहेत् । न च मुमुक्षापवादेन स्वर्गादिरूपफलकामनायाः कदाचिदसंभवेऽपि नरकाभावरूपफले नियमत एवेच्छा संभवतीति न शौचादिमतः सन्ध्यावन्दनाद्यकरणस्य प्रत्यवायजनकत्वानुपपत्तिरिति वाच्यम् । नरकाद्यनुपस्थित्यैव तदभावाज्ञानेन तदिच्छाविरहोपपत्तेरित्याहुः। तदसत् । ध्वंसादेरत्यन्ताभावविरोधिताया निष्प्रमाणकतया नरकात्यन्ताभावस्यैव प्रायश्चित्तसन्ध्यावन्दनादिफलत्वसंभवादिष्टसाधनताज्ञानाद्यघटितप्रवृत्तिसामय्या असिद्धेः। करणान्तरकल्पनापेक्षया गुरुशरीरक्षेमसाधनताज्ञानस्यैव सर्वत्र प्रवृत्तिहेतुतेति । दण्डाद्धट इत्यादिप्रतीतिबलात्स्वरूपसंबन्धविशेषरूपस्य क्षेमसाधारणसाधनत्वस्योपगमे तच्छरीरगौरवस्याप्यभावाचेति। नित्यस्थले शौचादिफलकामनयोरुभयोरधिकारत्वेऽपि प्रत्येकमेव तयोरधिकारिता न तु मिलितयोरिति फलकामनाशून्यस्यापि शौचादिमतोऽधिकारितया तस्यापि नित्याकरणं प्रत्यवायजनकम् । . Page #363 -------------------------------------------------------------------------- ________________ . ३५५ इष्टसाधत्वम् ] जयाऽलङ्कृतः अथ वा सन्ध्यावन्दनाकरणेन प्रत्यवायजननेऽधिकारैकदेशशौचादिमत्त्वमेव सहकार न तु फलकामनापि तदसत्त्वेपि प्रत्यवायोत्पत्तेः सर्वसिद्धत्वात् । एतेन संवलितांधिकारानुपगमे शौचादिशून्यफलकामनावतो दैवान्नित्याकरणं प्रत्यवायं जनयेदिति निरस्तम् । अत एव नित्यकाम्यजयन्तीव्रतादौ फलकामनाया अधिकारत्वस्य सर्वसिद्धतया शौचादिमत: फलकामनारहितस्य तदकरणं प्रत्यवायं जनयतीति । ___अपरे 'तु चैत्यं न वन्देते'ति वाक्यप्रामाण्यानुरोधेनेष्टसाधनत्वस्य विध्यर्थत्वमावश्यकम् । कृतिसाध्यत्वादिमति चैत्यवन्दनादौ कृतिसाध्यत्वाद्यभावस्य नया बोधने तद्वाक्यस्याप्रामाण्यापत्तेः । कृतिसाध्यतायाश्च विधित्वं नियुक्तिकम् । तदनङ्गीकारेऽपि कृतेराख्यातसामान्यार्थतया विधिप्रत्ययस्यापि तदर्थकतया पचेतेत्यादौ कृते: पाकानुकूलत्वभानस्यावश्यकतयार्थापाकादावपि कृतिसाध्यताभानात् । कृतिसाध्यताया विधित्वेऽपि तत्तत्कालतत्तत्पुरुषविशेषितकृतिसाध्यताविषयकस्य प्रवर्तकज्ञानस्य शाब्दबोधोत्तरमेव स्वीकरणीयतया विधिवाक्यजशाब्दबोधतः साक्षात्प्रवृत्त्यनिवाहात् । अस्तु वा साध्यतासंबन्धेनैवाख्यातसामान्यार्थकृतेः क्रियायां विधिप्रत्ययजन्यबोधे भानम् । प्रवर्तिका चिकीर्षापि साध्यतासंबन्धेन कृतिप्रकारिका क्रियेच्छैव । न च लडादिस्थले पाख्यातार्थकृतेः क्रियाविशेष्यतयैव भानमिति व्युत्पत्तेः क्लप्तत्वात्पचेतेत्यादौ न तस्याः क्रियाविशेषणतया भानसंभव इति वाच्यम् । व्युत्पत्तिवैचित्र्येण तदुपपत्तेः । शक्त्यभेदेपि व्युत्पत्तिभेदे बाधकाभावात् । अत एव प्राचीनैराख्यातार्थस्यैव कृतेः कर्मप्रत्ययस्थले क्रियाविशेषणतया भानमुपेयते । एवं कचित्पाकादाविव सर्वत्रैव यागपाकादेः लौकिकप्रमाणादेव कृतिसाध्यताबोधो निर्वहतीति वदन्ति । Page #364 -------------------------------------------------------------------------- ________________ ३५६ . व्युत्पत्तिवादः [ प्राख्याते __'न कलङ्गं भक्षये दित्यादिनिषेधविधेः प्रामाण्यानुरोधतः बलवदनिष्टाननुबन्धित्वस्य विध्यर्थे प्रवेशः। निषिद्धेऽपि कलञ्जभक्षणादौ तृप्त्यादिरूपेष्टसाधनत्वसत्त्वेन तदभावस्य नबा बोधने प्रामाण्यानुपपत्तेः। बलवदनिष्टाननुबन्धित्वस्य विधित्वे तस्यैवाभावो बलवदनिष्टनरकानुबन्धिनि तत्तत्कर्मण्यबाधितो बोध्यत इति तत्प्रामाण्योपपत्तिः। बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानम्। सोऽपि विशेषणाभावो यतोऽबाधितः कलञ्जभक्षणादौ विशिष्टाभावबोधानन्तरमेव तल्लिङ्गकानुमानगम्यो बलवदनिष्टानुबन्धित्वरूपस्तदननुबन्धित्वाभावः प्रवर्तकमिव निवर्त्तकमपि ज्ञानं श्रुतिवाक्यात्परम्परयैव न तु साक्षात्। . एतन्मते च न तादृशाभावस्य शाब्दबोधे भानं पदार्थंकदेशतया इतरविशेषणतयोपस्थितत्वेन नबर्थविशेषणतयाऽनिष्टाननुबन्धित्वान्वयासंभवात् । वस्तुतो विशिष्टशक्तौ विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेव बलवदनिष्टाननुबन्धिताया वाच्यत्वम् । न च बलवदनिष्टाननुबन्धित्वे इष्टसाधनत्वस्य विशेष्यत्वे विधिवाक्यतः क्रियाविशेष्यकेष्टसाधनताज्ञानासंभवात् क्रियागोचरचिकीर्षाद्यर्थं विधिवाक्यजशाब्दबोधोत्तरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टाननुबन्धित्वस्य विशेषणत्वे विनिगमकमिति वाच्यम् । क्रियायां बलवदनिष्टासाधानत्वज्ञानस्यापि तद्गोचरेच्छाहेतुतया बलवदनिष्टासाधनत्वस्येष्टसाधनत्वविशेषणत्वमते क्रियाविशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया मतद्वये कल्पनासाम्यात् । यदि च बलवदनिष्टसाधनत्वज्ञानमेव द्वेषसामग्रीत्वेनेच्छाप्रतिबन्धक न तु तदसाधनत्वज्ञानमिच्छाहेतुस्तदोक्तस्य विशेष्यविशेषणभावे विनिगमकस्य संभवेऽपि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थवाच्येन Page #365 -------------------------------------------------------------------------- ________________ ३५७ श्येनवाक्यार्थ ] जयाऽलङ्कृतः तद्विधायकश्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येने केवलेष्टसाधनताबोधस्य चोपगम आवश्यकः । ___ मणिकृतापि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थबाधेन तत्र बलवदनिष्टासाधनत्वस्याभानं लिखितम् । तदभानं विशिष्टशक्तिपक्षे न , संभवति । विशिष्टशक्तविशेषणविनिर्मोकेण विशेष्यांशाभासकत्वात्। तत्तद्धर्मप्रकारेण पदार्थविषयकशाब्दबोधे तत्तद्धर्माशे शक्यतावच्छेदकत्वपर्याप्त्यवगाहिज्ञानस्य हेतुत्वात् । अन्यथा विशिष्टस्वर्गादिवाचकस्वर्गादिपदाद्विना लक्षणां केवलं सुखत्वादिप्रकारकशाब्दबोधापत्तेः। यदि च केवलसुखत्वादिना स्वर्गादिरूपसुखबोधो लक्षणामन्तरेण स्वर्गादिपदादिष्यत एव । नेष्यते परं सुखान्तरबोधस्तत्र शक्तिविरहादिति शक्यतावच्छेदकतापयाप्त्यवगाहित्वमनुपयोगीत्युच्यते तदापि बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य शक्यतायां श्येननिष्ठवैरिवधसाधनत्वस्य बलवदनिष्टसाधन- . त्वनियतत्वेन तदसाधनत्वविशिष्टत्वेन विधिप्रत्ययावाच्यतया सुतरां तत्र विध्यर्थत्वानिर्वाह एव । ____यत्तु श्येनस्यादृष्टाद्वारकत्वघटितहिंसालक्षणानाक्रान्ततया बलवदुःखाजनकत्वमिति मतान्तरम् तदसत्। तथा सति श्येने तात्त्विकप्रवृत्तिवारणाय बलवहुःखाप्रयोजकत्वज्ञानस्यैव प्रवृत्तिहेतुताया उपगन्तव्यतया तस्यैव विध्यर्थताया आवश्यकत्वेन श्येने तबाधाच्छ्रतेरप्रामाण्यप्रसङ्गतादवस्थ्यात्। श्येनस्य हिंसात्वविरहेऽपि अभिचारतया नरकजनकत्वस्य दुर्वारत्वाच्च । यत्तु 'अभिचरन्नि'त्यस्य वैरिवधगोचरप्रबलकामनाविशिष्टार्थतया तादृशकामनाविशिष्टस्यैव पुरुषस्य बलवद्वेषविषयाजनकत्वरूपबलवदनिष्टाननुबन्धित्वघटकद्वेषानुदयात् तादृशकामनाविशिष्टवृत्तिवलवद्वेषविषयाजनकत्वं श्रुतिवाक्यात् प्रत्येतव्यं, तच्च Page #366 -------------------------------------------------------------------------- ________________ ३५८ व्युत्पत्तिवादः [ आख्याते श्येनेऽबाधितमेव वैरिवधे उत्कटरागवतस्तजन्यनरके बलवद्वेषानुत्पत्त्या तादृशनरकस्य वैरिवधोत्कटकामनाविशिष्टवृत्तिद्वेषाविषयत्वात्। न ह्येकदा एकत्रावर्त्तमानयोरेकतरमपरविशिष्टवृत्तीति मिश्राणां मूलाभिप्रायवर्णनं-तदपि न, बलवद्वेषविषयदुःखजनकत्वप्रतियोगिकाभावस्यातिप्रसक्ततया बलवद्वेषविषयदुःखजनकत्वत्वावच्छिन्नाभावस्य वाच्यतास्वीकारे पुरुषविशेषीयबलवद्वेषविषयदुःखजनकत्वाभावस्य प्रत्ययासंभवात् तादृशदुःखजनकत्वे अभावे च खण्डशक्तिस्वीकारे विशिष्टशक्तिस्वीकारपरित्यागात् । एवं यत्रोत्कटरागो यदा तत्रैव नोत्कटद्वेषस्तदा नजन्ये फले उत्कटरागदशायां च तज्जन्यदुःखरूपफलान्तरे उत्कटद्वेष न किंचिद्बाधकमिति वैरिवधे उत्कटरागदशायां च श्येनजन्यनरके बलवद्वेषो दुरपवाद एव । अस्तु वा फलविशेषोत्कटरागघटिता उपायगोचरोकटरागसामग्री। तत्रैव तज्जन्यतया ज्ञाते सति फलान्तरेप्युत्कटद्वेषविरोधिनी तथापि नरकवैरिवधयोरेकतरं प्रति श्येनस्य हेतुत्वाग्रहदशायां तयोर्बलवद्वेषरागयोयुगपत्संभव एव । ___ यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया मा हिंस्यादि'त्यत्रावैधहिंसैव विवक्षितेति श्येनस्य नरकासाधनत्वोपपादनं, तदपि न। तावतापि अभिचारविधया तथात्वस्य दुर्वारत्वात् । अथ खण्डशक्तिमवलम्ब्यानिष्टासाधनत्वविनिर्मोकेण क्वचिद्विधिबोधोपगमे 'श्वेतं छागमालभेते'त्यादावपि तत्परित्यागसंभवात् अविरोधेन 'मा हिंस्या'दित्यत्र श्रुत्यर्थसंकोचो न स्यादिति सांख्यमतमेव साधीय इति चेत्-स्यादेव अविरोधेऽपि 'ब्राह्मणेभ्यो दधि दीयतां तर्क कोण्डिन्याये'त्यत्रेव सामान्यविधेर्विशेषेतरपरत्वं व्युत्पत्तिसिद्धमिति 'मा हिंस्या'दित्यत्र संकोचः। अथ वा कथंचिद्वाधकापनयसंभवेनौत्सर्गिकार्थपरित्याग इति हिंसानिषेधसंकोचेनैवोपपत्तौ न Page #367 -------------------------------------------------------------------------- ________________ विध्यर्थनिष्कर्षः ] जयाऽलङ्कृतः 'श्वेतं छागमालभेते' त्यादौ विधिप्रत्ययस्य बलवदनिष्टसाधनत्वापरित्याग इत्यर्थः । अथ यागपाकादिजन्यश्रमादावपि कदाचित्कस्यचिद्बलवद्वेषोदयात् यजेत पचेतेत्यादौ प्रामाण्यप्रसङ्गो दुर्वारः । यत्तु बलवदनिष्टासाधनत्वं न लौकिक विध्यर्थः किं तु न कलअमित्यादिश्रुतेः प्रामाण्योपपत्तये वैदिकलिङ्ग एव तदर्थकता तत्रापि बलवदनिष्टं नरकमेव ताद्रप्येणार्थः । श्रत इष्टोत्पत्तिनान्तरीयकश्रमादेः कदाचित् द्वेषविषयतया न यागादौ विध्यर्थबाध इति तदपि न, 'शाकं न भुञ्जीते' त्यादिवैद्यकवाक्ये वलवदनिष्टाजनकत्वनिषेधपरत्वं विना प्रामाण्यानुपपत्तेः । तत्रापि रोगाजनकत्वं विध्यर्थस्तदभावो नया बोध्यत इति चेद् 'रिक्तायां न गच्छेत्', 'पुष्ये नोहे' दित्यादिज्योतिःशास्त्रवचनस्य 'नैकः पर्वतमारोहे 'दित्यादिवाक्यस्य च का गतिः । तत्रापि विशिष्य तत्तदनिष्टासाधनत्वस्य विधिप्रत्ययार्थत्वे शक्त्यानन्त्यप्रसङ्गो व्युत्पत्त्यनुपपत्तिश्च । अत्र वदन्ति — द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्याश्रयसाधनतात्वावच्छिन्नप्रतियोगिताकाभावकूटे तादृशाभावत्वेना गते एकैव विधिप्रत्ययस्य शक्तिः । उपलक्षणीभूतद्वेषविषयतावच्छेदकत्वं परित्यज्य नरकाद्यसाधनत्वं प्रतीयते । कुत्रचिन्नरकासाधनत्वं कुत्रचिद्रोगासाधनत्वं प्रतीयत इत्यत्र तात्पर्यमेव नियामकम् । प्रतीयोगितायाः प्रकारतया भानात् प्रतियोगितावच्छेदकघटकन - रकत्वाद द्वेषविषयतावच्छेदकत्वस्योपलक्षरणतया शक्तिग्रहे भानमविरुद्धम् । ३५६ न च प्रमेयत्वादेरपि उपलक्षणतया भानमविरुद्धमिति प्रमेयत्वादेरुपलक्षणतया नरकत्वाद्यनुगमकत्वं कथं न स्वीक्रियते विनिगमकाभावादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थता विरहेण Page #368 -------------------------------------------------------------------------- ________________ 360 व्युत्पत्तिवादः [ आख्याते प्रमेयत्वादेः सुखत्वादिसाधारण्यं नोक्तरूपस्येत्यस्यैव विनिगमकत्वात् / न च तात्पर्याभावात् सुखाद्यसाधनत्वबोधकत्वोपपत्तौ विध्यर्थत्वेऽपि क्षतिविरह इति वाच्यम् / तस्य विध्यर्थवेन तत्तात्पर्येणाधुनिकानां न भुञ्जीतेत्यादिप्रयोगापत्तेः॥ इति महामहोपाध्यायगदाधरभट्टाचार्यकृते व्युत्पत्तिवादे प्राख्यातविवरणं समाप्तम्। समाप्तश्चायं ग्रन्थः