SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७१ तृतीया ] जयाऽलङ्कृतः नविषयत्वं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्त्वं तृतीयार्थः। हेतुशब्दो यद्यपि कारणपर्यायो न तु ज्ञापकपर्यायस्तथापि हेतावितिसूत्रस्थहेतुपदं न समभिव्याहृतनिरूपितहेतुतामात्रपरमपितु समभिव्याहृततज्ज्ञानान्यतरनिरूपितहेतुतापरमेवेति समभिव्याहृतवह्नयादिज्ञानहेतुज्ञानविषयधूमादिपदादपि तृतीया तत्सूत्रेणानुशिष्यते । गुणहेतौ पञ्चम्या विकल्पेन विधायकसूत्रान्तरमप्यन्यतरनिरूपितहेतुताविषयकमेवातो जाड्याबद्धो जाड्येन वेत्यत्र जाड्यहेतुतावद्धूमावह्निमान् धूमेन वेत्यादौ धूमादेवह्नयादिज्ञानहेतुता प्रतीयते । हेतुत्वं च पूर्वोक्तं प्रयोजकत्वमेव । गुणपदं च न रूपादिचतुर्विंशतिपरम्। धूमादिहेतौ तत्त्वासम्भवात्। न तत्र धूमादिपदं तज्ज्ञानपरमेवेति तादृशगुणत्वमेव वह्नयादिहेतोरिति वाच्यम् । तत्र धूमादिज्ञानलाक्षणिकत्वेऽप्यज्ञानाबद्ध इत्यादावभावरूपबन्धादिहेतोस्तथात्वासंभवात् । नापि धर्ममात्रपरम् । गगनादेरपि कालिकसंबन्धेन धर्मतयाऽव्यावर्तकत्वात् । समवायादिना धमत्वं चाभावाद्यसंग्राहकम् । नापि द्रव्याश्रितत्वम् । सत्तावान् गुणत्वादित्यादौ पञ्चम्यन्तस्यालाक्षणिकत्वपक्षे पञ्चम्यनुपपत्तेः । किन्तु कार्यस्य ज्ञाप्यस्य वाश्रये आश्रितत्वम् । जाड्यादेः स्वप्रयोज्यबन्धाश्रये धूमादेश्व स्वज्ञाप्यवह्नयाद्याश्रय आश्रितत्वाद्गुणत्वम्। हेतौ तद्विशेषणप्रयोजनं च पितुः पाण्डित्येन पुत्र आहूतो धूमस्य स्वस्मिन्सत्त्वेन पर्वतो वह्निमानित्यादौ पञ्चमीवारणम् । ज्ञापकत्वं च तज्ज्ञानजनकप्रमाविषयत्वं ज्ञाप्यत्वमपि प्रमाजन्यज्ञानविषयत्वम् । अतो वह्नयादेाप्यताभ्रमेण धूमादिज्ञापकत्वसत्त्वेऽपि वह्निना वह्वेर्वा धूमवानयमित्यादयो न प्रयोगाः । प्रमात्वं च यावद्भ्रमभिनत्वरूपं विवक्षणीयम् । तेन धूमव्याप्यो वह्निरित्यादिज्ञानस्य वह्नित्वाद्यंशे प्रमात्वमादाय नोक्तातिप्रसङ्गः। द्रव्यत्वादेः प्रमेयत्वावच्छिन्नवह्नयादिज्ञापकत्वेऽपि विशिष्टद्रव्यत्वादिना वह्नित्वाद्यव
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy