________________
२७२ व्युत्पत्तिवादः
[ कारके च्छिन्नज्ञापकत्वेऽपि च पर्वतो वह्निमान द्रव्यत्वाद् द्रव्यत्वेन वेत्यादिर्न प्रयोगः। अन्वयितावच्छेदकवह्नित्वद्रव्यत्वत्वादिना ज्ञाप्यज्ञापकभावस्य तृतीयादिना बोधनात् । तत्र तेन रूपेण ज्ञाप्यज्ञापकभावविरहात् । एवं ज्ञाप्यवह्नयादिमत्त्वान्वयितावच्छेदकपर्वतत्वावच्छिन्नांशे ज्ञापकत्वं ज्ञाप्यत्वं वा प्रतीयत इत्यपि नियमः। तेन पर्वतो वह्निमान महानसत्वान्महानसेन वेत्यादयो न प्रयोगाः । ___अत्रेदमवधेयम् । पर्वतो बह्निमान धूमान्न द्रव्यत्वान्नापि महानसत्वादित्यादौ नञा वह्नयादौ द्रव्यत्वमहानसत्वादिज्ञाप्यत्वाभावबोधने बाधः । तत्र प्रमेयत्वादिना द्रव्यत्वादिज्ञाप्यत्वस्य महानसादौ महानसत्वादिज्ञानज्ञाप्यत्वस्य च सत्त्वात् वह्नित्वादिना द्रव्यत्वादिज्ञाप्यत्वस्य पर्वतादौ महानसत्वज्ञाप्यत्वस्य चाप्रसिद्धथा नाभावप्रत्यायनसंभव इति ज्ञानप्रयोज्यत्वं ज्ञानजन्यतावच्छेदकत्वरूपं समभिव्याहृतपर्वतादिविशेष्यतानिरूपितं विधेयत्वञ्च विशकलितं पञ्चम्यर्थः विशिष्टलाभोऽन्वयबलात् । एवं चोक्तस्थले नया विधेयतायां द्रव्यत्वमहानसत्वादिज्ञानप्रयोज्यत्वाभावः प्रत्याय्यते । तत्प्रयोज्यत्वं च प्रमेयत्वाद्यवच्छिन्नविधेयतायां प्रसिद्धम् । न चैवं पर्वतो वह्निमान न धूमादित्यादेरपि प्रसङ्गः । धूमत्वाद्यवच्छिन्नविषयकज्ञानाप्रयोज्यतत्तद्वह्नित्वाद्यवच्छिन्नविधेयताया वह्नयादावबाधितस्वादिति वाच्यम् । पर्वतादिविशेष्यतानिरूपितवह्नित्वावच्छिन्नविधेयतात्वावच्छेदेन विधेयतायां नाऽभावान्वयबोधोपगमात् । यत्र वह्नित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं तत्रैव तदवच्छेदेनेतरान्वयः संभवति । अत्र च वह्नित्वावच्छिन्नत्वाविशेषितं विधेयतात्वमेव तथेति कथं तदवच्छेदेनाभावान्वय इति तु न शङ्कयम् । पञ्चम्याद्यर्थविधेयताया वह्नयादौ वह्नित्वाद्यवच्छेदेनान्वयोपगमात्तदवच्छेदेन तदन्वये चावच्छेदकतद्रूपस्य तद्विशेषणांशे धर्मिपारतन्त्र्येण प्रकारत्वात् । प्रकृते स्वरूपसंबन्धरूपवह्नित्वाद्यवच्छि