________________
२९६ व्युत्पत्तिवादः
[ कारके फलोपधायकत्वस्य सामानाधिकरण्यगर्भवान्नोक्तानुपपत्तिः । वृक्षाद्विभजते इत्यादावपि वृक्षावधिकत्वं विभागे प्रतीयते । तत्रापादानतायाः अवधितारूपत्वाद् वृक्षाद्यवधिकत्वविशिष्टविभागनिरूपितमेवाश्रयत्वमाख्यातेन बोध्यतेऽतो वृक्षः स्वस्माद्विभजत इति न प्रयोगः । यथा हि-स्वप्रतियोगिकत्वविशिष्टसंयोगः स्वस्मिन्न वर्तते तथा स्वावधिकविभागस्य स्ववृत्तित्वेऽपि स्वस्य न विशिष्टविभागाधिकरणत्वमित्यविवादमेव। अवधित्वादिकं च स्वरूपसंबन्धविशेषः । यद्वा विभागोऽवधिकरणता । प्रयोजकत्वं च वृक्षात्पततीत्यादौ पञ्चम्यर्थः । विभागेऽवधित्वसम्बन्धेन प्रकृत्यर्थान्वयः तद्विशिष्टविभागस्य निरूपितत्व विशेषसंवन्धेनाधिकरणतायामन्वयः । पत्रादिकर्मणि च न तदवधिकत्वविशिष्टविभागनिरूपितान्यमात्रनिष्ठाधिकरणताप्रयोजकत्वम् । कारणस्यापि स्वाश्रयनिष्ठकार्याधिकरणतामात्रप्रयोजकत्वादिति सामञ्जस्यात् । अथ वृक्षात्पतति, वृक्षाद्विभजत इतिवत् वृक्षात्त्यजतीत्यादिर्न कथं प्रयोगः । पञ्चम्यर्थस्य विभागजनकत्वस्य विभागावच्छिन्नक्रियारूपत्यागेऽवधिमत्त्वरूपपञ्चम्यर्थस्य च विभागपधात्वर्थतावच्छेदकफलेऽन्वये बाधकाभावात् । न च विभागावच्छिन्नक्रियायां विभागान्वयोऽव्युत्पन्नः। उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम् । जनकतासंबन्धेन विभागावच्छिन्ने प्रकृत्यर्थविशेषितविभागजनकत्वान्वये व्युत्पत्तिविरोधविरहात् । न च पञ्चम्यर्थविभागजनकत्वावधिमत्त्वयोरन्वयबोधे धातुविशेषाधीनव्यापारविभागोपस्थितेहेतुत्वोपगमात्तदभावेन त्यजधातूपस्थिततत्तदर्थे न पञ्चम्यान्वय इति वाच्यम् । त्यजिपत्योस्त्यजिविभज्योश्च पर्यायताभ्रमदशायां त्यजत्यर्थव्यापारविभागयोः पञ्चम्यान्वयात् ल्यजधातुजन्यतत्तदर्थोपस्थितेरपि पञ्चम्यान्वयहेतुताया अवश्यं वाच्यत्वात् । न च पञ्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानव