________________
पञ्चमी ] जयाऽलङ्कृतः
२६५ भेदप्रतियोगितावच्छेदकत्वे विभागे पञ्चम्याः शक्तिद्वयम् । भेदे विभागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। प्रतियोगितावच्छेदकत्वमाश्रयत्वसंबन्धेन विभागश्च जनकतासंबन्धेन क्रियायामन्वेति । जनकतासंबन्धस्य प्रतियोगितानवच्छेदकतया नया तत्संबन्धावच्छिन्नविभागाभावः क्रियायां बोधयितुं न शक्य इति चेत्तर्हि विभागजनकखमेव पञ्चम्यर्थोऽस्तु प्रतियोगितावच्छेदकत्वस्येव तस्याप्याश्रयतासंबन्धेन क्रियायामन्वयः । एवं च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयः पर्णमित्याद्याकारक उक्तस्थले बोधः। अथ पञ्चमीसमभिव्याहृतनञोक्तयोः पञ्चम्यर्थयोर्द्वयोरेवाभावद्वयं बोध्यते, यथायोगमेकतरस्य वा । नाद्यः पक्षः । पर्ण वृक्षात्पतति न स्वस्मादित्यत्र स्वनिष्ठपतने स्वनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावासत्त्वेऽपि स्वनिष्ठविभागजनकत्वाभावासत्त्वेन वृक्षात्पतति न भूतलादित्यत्र पतने भूतलादिनिष्ठविभागादिजनकत्वाभावसत्त्वेऽपि तनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावासत्त्वेनायोग्यतापत्तेः । नापि द्वितीयः । वृक्षात्पर्ण पतति न पर्णादित्यत्र पत्रनिष्ठपतने पत्रनिष्ठविभागाजनकत्वस्येव पत्रान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया पत्रनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्यापि बाधाद्योग्यताया निर्वाहयितुमशक्यत्वादिति। ____ अत्राहुः। विभागो जनकत्वं च पञ्चम्यर्थः । विभागे प्रकृत्यर्थस्यावधिकत्वं संबन्धस्तेन संबन्धेन प्रकृत्यर्थविशिष्टस्य विभागस्य निरूपितत्वविशेषसंबन्धेन जनकत्वेऽन्वयः। जनकत्वं च फलोपधानरूपं विशिष्टनिरूपिततादृशजनकत्वस्य क्रियायां नसमभिव्याहारस्थले च क्रियान्वयिन्यभावे प्रतियोगित्वेनान्वयः । वृक्षपत्रादिविभागजनकपत्रादिकर्म च न पत्राद्यवधिकत्वविशिष्टविभागोपधायकम् । पत्रादेः स्वावधिकत्वविशिष्टविभागानधिकरणत्वेन तत्कर्मणि विशिष्टविभागसामानाधिकरण्याभावात् ।