________________
२६४ व्युत्पत्तिवादः
[ कारके नप्रकृत्यर्थतावच्छेदकीयसंबन्धो न प्रत्याय्यते पदान्तरसमभिव्याहाररूपाकाङ्क्षयापि प्रकृत्यर्थतावच्छेदकीयतादृशविशेषणसंबन्धावच्छिन्नसंबन्धाप्रत्यायनेन प्रकृत्यर्थतावच्छेदकीयसंवन्धे विप्रत्ययार्थाभावविशिष्टप्रतियोगित्वरूपविशेषणस्य प्रकृतिवृत्त्याऽभासमानस्य भानासंभवादित्यनुपपत्तिः। ___अस्मन्मते तु भवत्यर्थे भावे विप्रत्ययान्तार्थस्याधेयतासंबन्धन पूर्वकालावच्छिन्नस्वाभावाधिकरणविशिष्टस्य शौक्ल्यादेः सामानाधिकरण्यसंबन्धेनैवान्वयस्योपगन्तव्यतयातेन संबन्धेन चाधिकरणविशिष्टाशौक्ल्यादिना विशिष्टस्य भवत्यर्थस्यैवाख्याताद्यर्थे आश्रयत्वे निरूपितत्वसंबन्धभानात् । तादृशविशिष्टनिरूपिताश्रयत्वस्य च पूर्वकालावच्छेदेनाशौक्ल्याद्यभावाधिकरण एव सत्त्वेन नोक्तातिप्रसङ्गः। अन्यत्स्वयमूह्यम् । सरितभक्त इत्यादावाशीः स्वस्त्यर्थः। सा च परहितविषयकस्वेच्छा । स्वमुच्चारयिता, हितान्वयी संबन्धश्चतुर्थ्यर्थः । एवं च भवदीयहितविपषिणी-मदीयेच्छेति बोधः। कल्याणाद्यर्थकोऽपि स्वस्तिशब्दः, 'स्वस्त्यस्तु मह्य' मित्यादौ । तत्रापि चतुर्थ्यर्थः संबन्धः स्वस्त्यर्थान्वयीत्यलम् ।।
इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते
व्युत्पत्तिबादे चतुर्थीविवरणम् ।
अथ पञ्चमीविवरणम् पृपावलं पत्ततीत्पादौ पञ्चम्या प्रकृत्यर्थस्य वृक्षादेः पतनादिक्रियापादानत्वं प्रत्याय्यते । अपादानलंच स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्यविभागाश्रयत्वम् । पर्णादेः स्वनिष्ठवृक्षादिविभागजनकस्वपतनाद्यपादानत्ववारणाय भूतान्तं क्रियाविशेषणम् ।