________________
चतुर्थी ] जयाऽलङ्कृतः
२६३ क्लयादिधर्म एवार्थः। अभूततद्भावे तदननुशासनात् । अभूतस्य पूर्वकालावच्छेदेन शुक्लादिभावरहितस्य तद्भावः शौक्लयादिः । अथ वा अभूतः पूर्वकालावच्छेदेन धर्मिण्यविद्यमानस्तद्भावः शौक्लयादिः, शुक्लीभवतीत्यादौ तु दर्शिता गतिः । न चाभूततद्भावपर्यन्तस्य विप्रत्ययवाच्यत्वे गौरवाच्छुल्लादिपदोपस्थाप्यपदार्थतावच्छेदकशौक्लयाद्यन्वयि अभूतत्वं च्चिप्रत्ययार्थोऽस्तु। शुक्लतर इत्यादौ तरबाद्यर्थोत्कर्षस्येव च्व्यर्थस्यापि व्युत्पत्तिवैचित्र्येण पदाथतावच्छेदकेऽन्धयसंभवादिति वाच्यम् । मन्मतेऽपि शौलयादिभावस्यैव विप्रत्ययार्थतोपगमेन गौरवानवकाशात् । पूर्वकालावच्छिन्नस्वनिष्ठाभावप्रतियोगित्वसहितस्याधेयत्वस्य प्रत्ययार्थे प्रकृत्यर्थस्य संबन्धतया भानोपगमात् । शौक्लयादावभूतत्वलाभेनैव जलपरमाणुः शुक्लीभवतीति प्रयोगाप्रसङ्गात् । शौक्लथादेर्धर्मत्वेनैव वाच्यता न तु ताद्रूप्येणेति न शक्त्यानन्त्यम्। प्रकृत्यर्थतावच्छेदकतत्तद्धर्मनिष्ठाधेयताविशेषाणामेव संवन्धतया भानोपगमाद्धर्मान्तरस्याभूतत्वमादाय न जलपरमाणुः शुक्लीभवतीत्यादिप्रसङ्गः । प्रकृत्यर्थतावच्छेद कगतप्रागविद्यमानत्वस्य च्चिप्रत्ययार्थत्वमते तु शुक्लीभवतीत्यादौ प्रकृत्यर्थतावच्छेदकशौक्लयाद्यभावस्य प्रागपि कचिद्विद्यमानतया तदभावान्वये योग्यतानुपपत्तिः । तत्तद्धर्मिण्यविद्यमानत्वस्य व्यर्थत्वे शक्त्यानन्त्यमितिपूर्वकालावच्छिन्नोऽभाव एबाविद्यमानत्वम् । तस्य च प्रकृत्यर्थतावच्छेदके सामानाधिकरण्यसहितप्रतियोगित्वसंबन्धेनान्वयो वाच्यः। प्रकृत्यर्थे च तादृशसंबन्धेनाभावविशिष्टस्य वैशिष्टयभानमुपयेम् । अन्यथाऽन्यत्र स्वाभावसमानाधिकरणस्याशौक्लयादेः सर्वदाऽशुक्लकाकादावपि सत्त्वेन काकोऽशुक्लीभवतीति प्रयोगः स्यात् । अत्राभावरूपपदार्थान्तरविशिष्टप्रकृत्यर्थतावच्छेदकवैशिष्टयभानं च प्रकृत्यर्थे न संभवति । प्रकृत्या स्ववृत्तिसहकारेण स्वार्थे यादृशविशेषणावच्छि