SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६२ व्युत्पत्तिवादः [ कारके प्रत्याय्यते । अथैवमपि कारकविभक्तेः साक्षाद्धात्वर्थान्वयित्वनियमभङ्ग इति चेन्न। तादृशनियमे निपातातिरिक्तार्थमन्तराऽकृत्वेत्यस्यैव साक्षादर्थत्वात् । अन्यथा घटो दण्डाजायते न पारिमाण्डल्यादित्यादौ कारकपञ्चम्या जन्याद्यन्वयिनि नञर्थाभावे प्रतियोगितया स्वार्थप्रयोज्यत्वादिबोधनासंभवात् । पारिमाण्डल्यादिनिरूपितमपि प्रयोज्यत्वं विषयितया तदवच्छिन्नजनकताकज्ञानादौ प्रसिद्धम् । प्रयोज्यत्वविशिष्टोत्पत्तिरेव वा तत्र धात्वर्थः । तत्र पञ्चम्यन्तार्थंपारिमाण्डल्यनिरूपितत्वस्याभावो नया बोध्यते। उक्तरीत्या क्रियायोगे नमस्कार्यस्य कर्मत्वेऽपि स्वयंभुवे नमस्कृत्येत्यादौ चतुर्थी अपकर्षावधित्वमात्रविवक्षया। ____ केचित्तु नारायणं नमस्कृत्येत्यादौ नमःपदं नतिकर्मपरम् । तथा च नारायणं नतिकर्मीकृत्येत्यर्थविवक्षया घटं शुक्ल करोति शुक्लीकरोतीत्यादौ घटादेरिव नारायणादेः कृतिकर्मता। शिखण्डिनं पुरस्कृत्येत्यादौ पुरःपदमप्रस्थितपरम् । एवं घटं साक्षात्करोतीत्यादौ साक्षात्पदं प्रत्यक्षविषयपरम् । एवं दुःखमाविष्करोतीत्यादावप्याविःपदं ज्ञानगोचरार्थकमिति सर्वत्र पूर्ववद्वितीयानिर्वाह इत्याहुः । नम:पदस्य धर्मिबोधकत्वे हरिराविर्भवतीत्यादिवनमो भवतीति प्रयोगप्रसङ्गात् । तस्मान्नमस्करोतीत्याविष्करोति पुरस्करोति अलंकरोतीत्यादौ नमःप्रभृतयो निपाता धर्मवाचका एव, लाघवात् । तत्तद्धर्माश्रयस्य दर्शितरीत्यैव कर्मतोपपत्तेः। आविर्भवतीत्यादिप्रयोगानुरोधेन चाविरादिशब्दानां प्रकटताश्रये धर्मिणि लक्षणोपेयते । शुक्ल: पट इत्यादौ शुक्लादिशब्दानामिव । अस्तु वा तत्रापि प्रकटतादिरूपो धर्म एव तदर्थस्तस्यैव धात्वर्थभावे धर्मरूपेऽभेदान्वयः। क्रियायां स्वार्थाभेदान्वये आविरादेरेवाकाङ्क्षा स्वीक्रियते न तु नमःपदादेरिति न नारायणो नमो भवतीत्यादेः प्रसङ्गः । शुक्लीकरोतीत्यादौ च्चिप्रत्ययान्तस्यापि शौ
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy