SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ चतुर्थी ] जयाऽलङ्कृतः '२६१ चानुकूलत्वमेव व्यापारांशे विशेषणमित्यपकर्षावधित्वबोद्धः पुरुषान्तरस्य न कर्मतेत्युच्यते तदापि नारायणं प्रणम्येत्यादावेव कर्मत्वमुपपद्यते न तु नारायणं नमस्कृत्येत्यादौ, नमःपदार्थघटकज्ञानस्य धात्वर्थताविरहेण तद्विषयतायाः कर्मतानात्मकत्वात् । कृतिविषयतायाश्च नमःपदार्थव्यापार एव सत्त्वात् ।मैनम् । नमस्करोतीत्यादौ कृधातुनैव व्यापारबोधात् । अत्र च स्वापकर्षावधित्वप्रकारकबोधविषयतामात्रं निपातार्थः। अत्र स्वं समभिव्याहृतः कर्ता। तथा च तादशबोधविषयताप्रयोजकव्यापारानुकूलकृतिमानिति समुदायाधीनो बोधः । तादृशविषयताश्रयतया नारायणादेः कर्मत्वम् । यतो धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यत्र धात्वर्थतावच्छेदकत्वं न धातुशक्यतावच्छेदकत्वमपि तु व्यापाररूपार्थेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यत्वम् । प्रकृते निपातार्थे धात्वर्थस्य साक्षादन्वये तादृशबोधविषयत्वरूपस्य तदवच्छेदकत्वमक्षतमेव । न चैवं पूर्वदेशादेर्गम्यादिकर्मत्वं दुर्वारं विभागादौ क्रियाजन्यत्वसत्त्वेऽपि निरुक्तधात्वर्थतावच्छेदकत्वाभावात् । न हि विभागादिर्गम्याद्यर्थे कथमपि विशेषणतया भासते । एवं च नारायणादेः करोतिकर्मत्वेऽपि नमःपदादिकं विना न तद्योगे नारायणादिपदोत्तरं द्वितीया। तदर्थान्वयिफलोपस्थापकाभावेन तदर्थानन्वयात्। नापि नारायणं फलं करोतीति प्रयोगापत्तिः । फलस्यात्र धात्वर्थव्यापारे साक्षादविशेषणत्वात् । निपातातिरिक्तनामार्थस्य धात्वर्थे भेदेनान्वयस्याव्युत्पन्नत्वात् । धात्वर्थे साक्षाद्विशेषणीभवत्येव' फले द्वितीयार्थाधेयत्वान्वयात् । अत एव 'पुरस्कृत्य शिखण्डिन'मित्यादावपि शिखण्ड्यादेः कृतिकर्मता धात्वर्थव्यापारविशेषणपुरःपदरूपनिपातार्थायदेशावस्थानरूपफलाश्रयत्वात् । नारायणो नमस्क्रियते, ज्यायान् पुरस्क्रियत इत्यादौ निपातार्थफलं धात्वर्थव्यापारविशेष्यतयैव भासते। तदन्वितमाश्रयत्वं कर्माख्यातादिना
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy