________________
२६०
व्युत्पत्तिवादः
[ कारके नमःपदार्थशरीरे निवेशेऽपि गौरवितोद्देश्यकपूजातिरिक्तद्रव्यत्यागबोधनाय नमःपदप्रयोगवारणायोक्तविशेषणस्योच्चारणेऽप्यवश्यं निवेशनीयतया तत एव तदतिप्रसङ्गवारणात् । इन्द्रय स्वाहा तुभ्यं स्वधेत्यादौ अग्निप्रक्षेपोपहितदेवोद्देश्यकत्यागबोधकस्वाहापदेपित्रुद्देश्यकत्यागबोधकस्वधापदयोरपि नमःपदवदेशनादेशितोच्चारणकर्तृत्वोपलक्षितपुरुषीयत्यागवाचकता। अन्यथा पूर्ववदेवातिप्रसङ्गः। एवं च देवोद्देश्यकत्वादेरपि न वाच्यान्तर्भावः । प्रतादृशत्यागतात्पर्येण स्वाहादिप्रयोगस्य देशनादेशितत्वविरहेणैवानतिप्रसङ्गात् । अत एव तान्त्रिकपूजायामाचमनीयादिदानेऽग्नेप्रक्षेपोपहिनपित्रुद्देश्यकत्वविरहेऽपिस्वाहास्वधाप्रयोगस्य नासमवेतार्थता। एवं च सति नमःस्वाहास्वधाशब्दानामेकस्थलेऽन्यप्रयोगस्य वेदबोधितत्वाभावेनैव नातिप्रसङ्गः। ननिम्मो नमःपदार्थश्च स्वापकर्षबोधनानुकूलः स्वीयव्यापारः। चतुर्थ्याचापकर्षान्वय्यवधित्वमवधिमत्त्वं वाप्रत्याय्यते। स्वमुच्चारयिता। तथा चचैत्रायुच्चारितान्नमो हरय इत्यादिशब्दादयवधिकलापकर्मबोधानुकूलश्चैत्रीयव्यापार इत्याकारको बोधः। नारायणं नमस्कृत्येत्यादौ नमःशब्दयोगेऽपि न धतुर्थी। द्वितीयया कारकविभक्तित्वेन बलीयस्या बाधात्। अमाननारायणादेनमस्कारघटकापकर्षावधित्वमेव तच्च नकर्मत्वम् । कर्मत्वं च क्रियाजन्यफलशालित्वादिरूपमेव । तच्च न तस्येति द्वितीयाया नायं विषयः । न चापकर्षबोधरूपफलाश्रयत्वरूपकर्मत्वं तत्रावाधितमेवेति वाच्यम् । एवंसति नारायणावधिकापकर्षबोधकदण्डवत्प्रणिपातादिजन्यतादृशापकर्षबोधाश्रयतायाः पुरुषान्तरसाधारणतया नारायणप्रणामदशायां मनुष्यं नमस्करोतीत्यादिप्रयोगापत्तिः। यदि चापकर्षावधित्वप्रकारकबोधानुकूलव्यापारो नमस्कारस्तद्घट कबोधविशेष्यतया नारायणादेः कर्मत्वम् । क्रियाजन्यफलशालित्वरूपे कर्मत्वे च व्यापारांशेऽनुकूलतासंबन्धेन विशेषणीभूतं फलमेव विवक्षणीयम् । अत्र