________________
चतुर्थी ] जयाऽलङ्कृतः
२८९ पातार्थस्यापि मुख्यविशेष्यतया भानात् । शिवायोत्सृजतीत्यादाविव नात्रानिराकर्तृसंप्रदानतास्य नमःपदार्थक्रियात्वाभावात् । नमःपदेन च स्वप्रयोक्तपुरुषकर्तृकत्वोपरागेणैव त्यागोऽभिधीयते । अन्योच्चरितनमःपदेनान्यदीयत्यागाबोधनात् । तत्पुरुषोच्चरितनमःपदात् त्यागबोधे सति त्यागे त्यज्यमाने द्रव्ये चान्यदीयत्वसंशयानुदयात् । अत एव त्यागे तदीयत्ववोधनायाहं दद इत्यादिवदहन्नम इति न प्रयुज्यते । न वा परकीयत्ववोधनाय चैत्रो नम इत्यादि । ऋत्विजा च यजमानरूपपुरुषान्तरीयतत्तद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते । स चारोपस्तस्य विशेषदर्शनदशायामप्याहर्यतयोपपद्यत इति प्रतिनिधिप्रयुक्तस्य दानवाक्यस्यैव पूजायां तादृशनमापदघटितवाक्यस्य वाधितार्थत्वेऽप्यदृष्टजनकत्वं न विरुद्धम् । अस्मच्छब्दादिवत्स्वोच्चारणकर्तृत्वोपलक्षितपुरुषविशेषवाचकानमःपदाद्विशेषरूपेण पुरुषभानम् । अशक्यस्य चैत्रत्वादेर्भानासंभवे तस्यापि वाच्येऽन्तर्भावः स्वीकरणीयः। तदनुगमकं चोपलक्षणीभूतमेककालीनोभयावृत्तिस्वोच्चारयितृशरीरवृत्तिजातित्वम् । स्वत्वाननुगमेऽपि शक्त्यैक्यं कथंचिदुपपादनीयं, सर्वनामशक्त्यैक्यवत् । उपलक्षणरूपप्रविष्ठमुच्चारणं वेदीयत्वेन विशेषणमत: पूजाभिन्नयाहच्छिकान्नत्यागबोधनायान्नं दीयत इतिवदन्नं नम इति न प्रयोगः । योग्यतासत्त्वेऽपि तत्र नमःपदप्रयोगस्य वेदाबोधितत्वेन तद्धटिततत्पदशक्यपुरुषोपलक्षणरूपाप्रसिद्धयाऽवाचकत्वात् । अत एव यथा नीचप्रीतिहेतुक्रियास्थले पूजयतीत्यादिवारणाय पूजयतीत्यादिवाच्यप्रीतौ गौरवितवृत्तिवं, स्वसमभिव्याहृतपदार्थकर्तृपुरुषावधिकोत्कपवद्वृत्तित्वरूपमुपलक्षणमुपेयते । उक्तस्थले च योग्यतासत्त्वेऽपि नीचवृत्तिप्रीतेस्तत्त्वाभावेन तत्तात्पर्येण पूजयत्यादेर्न प्रयोगः। तथा नीचोदेश्यकत्यागतात्पर्येरा नम:पदाप्रयोगात्तदतिप्रसङ्गवारणाय गौरवितोद्देश्यकत्याग एव नमःपदशक्तिरित्यनादेयम्। गौरवितोदेश्यकत्वस्य