________________
व्युत्पत्तिवादः
[ कारके
दिशब्दयोगेऽपि तदर्थविशेषणवाचक पदान्नमः स्वस्तीत्यनेन चतुर्थ्यनुशिष्यते । नमान्दार्थस्त्यागो नमस्कारश्च एपोऽर्घः शिवाय नम इत्यादौ त्यागार्थकः । चतुर्ष्या च तत्र प्रकृत्यर्थस्य शिवादेरुद्देश्यत्वं प्रत्याय्यते । त्यागश्च यदि शिवस्यायं भवत्वित्यादिफलेच्छाधीनस्वस्वत्वाभावेच्छारूपस्तदा त्यागोद्देश्यत्वं त्यागजनकेच्छायाः स्वत्वभागितया विषयत्वम् । यदि च त्यागरूपेच्छैव स्वस्वत्वाभावमिवान्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि तत्र विषयीकरोति न तु तज्जनकेच्छा तदा स्वत्यभागितया त्यागविषयत्वमेव तदुद्देश्यत्वम् । शिवादेर्विग्रहवतोऽपि स्वीकाराभावात् तदाकारतया ध्यातमंन्त्रस्य त्यागोद्देश्यतामते सुतरां तदभावाच्च । त्यज्यमानोपचारादौ स्वत्वाभावेऽपि तदीयत्वेन द्रव्ये स्वत्वावगाहिनीच्छा विसंवादरूपैव । द्रव्यनिष्ठेऽन्यदीयस्वत्वे वाधितं शिवादिनिरूपितत्वं शिवादिनिरूपितप्रसिद्धस्वत्वान्तरे वा बाधितं तत्तद्रव्यसंबन्धमवगाहते। न च स्वत्वान्तररूपफलेच्छां विना स्वस्वत्वाभावगोचरेच्छेव न संभवतीतिशिवादिस्वत्वं त्यागस्यैव विषय इति पक्षोऽसंभवदुक्तिक इति वाच्यम् । स्वस्वत्वाभावविषयकेच्छायाः पुण्यादिरूपफलजनकत्वात्तद्विषयस्य पुण्यादिजनकतावच्छेदकस्यापि पुण्यादिफलकत्वात् । अन्यथा तत्स्वत्वस्यापीष्टाजनकतया स्वतोsyरुषार्थतया च प्रथममपि तदिच्छाया असंभवेन प्रथमकल्पस्यापि हेयत्वापातात् । तत्र च प्रथमकल्पे स्वस्वत्वप्रकारकेच्छाजन्यत्वं, जन्यतासंबन्धेन तादृशेच्छावत्त्वं वा चतुर्थ्यर्थः । तत्र प्रकृत्यर्थस्य शिवादेर्विषयताविशेषसंबन्धेनान्वयः । द्वितीयकल्पे व विपयिताविशेष एव चतुर्थ्यर्थः। तत्र च निरूपितत्वसंबन्धेन शिवादेरन्वयः । नमः पदार्थत्यागस्य च विषयताविशेषसंबन्धेन द्रव्येऽन्वयः द्रव्यस्यैव वा विशेष्यतया भासमानत्यागे विषयिताविशेषसम्बन्धेनान्वयः । न च प्रथमान्तपदार्थस्य मुख्यविशेष्यतानियमः । भूतले न घट इत्यादौ नि
२८८