________________
चतुर्थी ] जयाऽलङ्कृतः
२८७ व्रजतीत्यत्र तुमुन्नन्तेन ब्रजने पाकविषयेच्छाधीनेच्छाविषयत्वं बोध्यते। तुमुनगवुलावितिसूत्रेण समभिव्याहृतक्रियायां प्रकृतक्रियासमानकर्तकत्वसहिततदिच्छाधीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोविधानात् । एतत्सूत्रस्यापि स्वर्माय पुरायमित्यादिन विषय इति सोऽसाधुरेव । एधानाहतुं व्रजतीत्यर्थे एधेभ्यो बजतीत्यत्र एधस्य न बजनप्रयोजनत्वं सिद्धत्वात् । ब्रजनस्य तदनुकूलव्यापारानाश्रयत्वाच्चेति न तादर्थ्य इति सूत्रस्य प्रवृत्तिर्नापि तुम
र्थादित्यादेरेधपदस्य क्रियारूपभाववचनत्वाभावादिति तत्रनिवार्थोपपदस्थेति चतुर्थी । तसर्थव क्रियापिपलस्तुमुन्नन्लो यो धातुरप्रयुक्तस्तस्य यकर्म लत्प्रयोग विना तदर्थकर्मतया यद्विवक्षितं तद्वाचकाच्चनुर्थीति । तत्र चाहर्तुमिति तुमुन्नन्तार्थः समभिव्याहृतक्रियान्वयिस्वार्थकत्वान्वय्यहरणं, तादृशार्थकर्मतया एधस्य विवक्षितत्वात्तत्र चतुर्थी । चतुर्थ्या एवार्थस्तत्कर्मकाहरणप्रयोजनकत्वम् । पाकाय व्रजतीत्यादौ पाकं कर्तुमित्यर्थविवक्षायामनेनैव सूत्रेण चतुथ्र्युपपत्तावपि यदा पाककृतीच्छाधीनेच्छाविषयत्वरूपं पाककर्मककृतिप्रयोजनकत्वं न व्रजनस्य विवक्षितमपि तु पाकेच्छाधीनेच्छाविपयत्वरूपं पाकार्थकत्वमेव तत्रापि चतुर्युपपत्तये तुमर्थादिति सूत्रम् । अश्वाय घास इत्यादावश्वपदस्याश्वभोजनपरतया तादर्थ्यचतुर्येव । आहियत इत्यस्याध्याहारेणाश्व भोजयितुमाहियत इत्यर्थविवक्षया क्रियार्थोपपदेत्यादिसूत्रेण चतुर्युपपत्त्या अश्वपदस्य मुख्यार्थपरत्वोपपादनेऽपि अश्वघास इत्यत्राश्वपदस्य तद्भोजनपरतायास्तादर्थ्यचतुर्थ्याश्चावश्यकता। अन्यथाऽऽहृतपदसापेक्षतया चतुर्थीसमासानुपपत्तः। न च तथापि समासानुपपत्तिः, रन्धनाय स्थालीत्यादौ तद्वारणाय चतुर्थी तदर्थेतिसूत्रेण समासे प्रकृतिविकारभावस्य नियामकत्वानुसरणादिति वाच्यम् । आरामगृहाश्वघासादौ चतुर्थीतियोगविभागेन शाब्दिकैः समासोपपादानात् । ममास्वरस्था