SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २८६ व्युत्पत्तिवादः [ कारके शोधनस्य तन्नाशकताया आवश्यकतयाऽस्माकं तत्कल्पनाधिक्यविरहात् । परिशोधनोत्तरकालं परिशोधनाभावसत्त्वेन तद्वलात्तदुत्तरमदृष्टवारणाय परिशोधनध्वंसस्य प्रतिबन्धकतायाः कल्पनीयतया भवन्मते गौरवाच्च । न च परिशोधनानुत्तरमरणमेव पापजनकं वाच्यं, तथा च नोक्तातिप्रसङ्ग इति वाच्यम् । गृहीतद्रव्यमपरिशोध्यमरणस्थले तद्रव्यपरिशोधनाप्रसिध्या तदनुत्तरत्वादिघटितरूपेण हेतुतायाः कल्पयितुमशक्यत्वादित्यनम् । यूपाय दारु इत्यादौ न संप्रदानचतुर्थी, अपि तु तादर्थ्यर्थ सूत्रान्तरेण। तादर्थ्य च स एवार्थः प्रयोजनमस्य तत्त्वम् । समभिव्याहृतपदार्थे तादर्थ्यविवक्षायां तद्वाचकाच्चतुर्थीति तदर्थः । प्रयोजनत्वं चात्र न जन्यत्वं, दुःखादेः पापादिजन्यतया दु:खाय पापमित्याद्यापत्तेः । नापि जन्यतयेच्छाविषयत्वम् , स्वर्गादेः पुण्यादिजन्यत्वेनेच्छाविषयत्वात् स्वर्गाय पुण्यमित्याद्यापत्तेः। तथा सति पक्तुं व्रजतीत्यर्थे पाकाय व्रजतीति निर्वाहाय तुमतिसूत्रप्रणयनयात् । पाकादेनिरुक्तबजनाद्यर्थतयैव तद्वाचकपदाच्चतुर्युपपत्तेः। अपि तु समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छाविपयत्वं तत्प्रयोजनकत्वरूपतादयं च तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वं दारुणो यूपेच्छाधीनेच्छाविषयलक्षणादिरूपव्यापारवत्तया यूपार्थत्वमिति तद्विवक्षया यूपपदाचतुर्थी । इच्छाधीनेच्छाविषयव्यापाराश्रयत्वं चतुर्थ्यर्थः । प्रममेच्छायां यूपादेः प्रकृत्यर्थस्य विषयतयाऽन्वयः । एवं रन्धनाय स्थालीत्यादावूह्यम्। तत्र तादृशव्यापारस्तण्डुलधारणादिः। पुण्यादेः स्वर्गेच्छाधीनेच्छाविषयव्यापारानाश्रयतया न स्वर्गाय पुण्यमित्यादिप्रयोगो ब्रजनादेः पाकानुकूलव्यापारानाश्रयतया न पाकाय व्रजतीत्यादावनेन चतुर्थीति तुमर्थाच्चेत्यादिसूत्रम् । तदर्थश्च तुमुन्नन्तयद्धातुना यादृशोऽर्थः प्रत्याय्यते समभिव्याहृतक्रियाऽन्विततदर्थपरात्तद्धातुघटितभावकृदन्ताच ति पक्तुं
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy