SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७० व्युत्पत्तिवादः [ कारके वच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिशाब्दबोधपरमित्याकारकतात्पर्यज्ञाने संसर्गस्य विशेषणतया तद्भाननिहाय संसर्गघटकोपस्थितेरपि शाब्दबोधात्प्रागावश्यकत्वात् प्रकृतसंसर्गेण एकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य' प्रकृतवाक्यार्थविषयकतया प्रागसम्भवेनोपदर्शिततात्पर्यज्ञानस्यैव शाब्दधीहेतुत्वोपगमात् । एवं वाक्यार्थघटकसंसर्गस्याननुगमेनात्र घटौ स्त इत्यादौ वाक्यभेदप्रसंगाच्च । __ अत्रोच्यते। व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यताकशाब्दबुद्धौ स्वव्याप्यतादृशधर्मवत्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः । व्याप्यत्वं च तद्वदन्यावृत्तित्वम् । व्यतिरेकिविधेयस्थले तादृशधर्मवत्वं चोद्देश्यतावच्छेदकताघटकसम्बन्धेन बोध्यम्। अत्र घटौ स्त इत्यादौ एतद्देशवर्त्तमानत्वादिरूपविधेयस्य तद्वदन्यावृत्तित्वरूपव्याप्तिमच्चैतद्देशस्यैकघटादिव्यक्तिमात्राधिकरणत्वे घटपटादिनिष्ठद्वित्वमेव घटत्वव्याप्तपर्याप्तिरूपोद्देश्यतावच्छेदकताघटक 'प्रकृतसंसर्गेणैकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्याथेत्यादि। वस्तुत इदन्न सम्यक् । विशिष्टवाक्यार्थस्य विशिष्टवाक्यप्रतिपाद्यत्वेन शाब्दबोधात् प्राक् ज्ञानासंभवेऽपि तद्वित्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकस्वरूपादिसम्बन्धेनैतद्देशवृत्तित्वविशिष्टबोधपरमेतत् वाक्यम् । एवं घटविषयकबोधपरमित्यादेविशिष्टवाक्याप्रतिपाद्यत्वेन ततः प्रागपि सम्भवात् । ननु कथन्न तदा तस्य संसर्गतोपेयेति चेन्न । प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाविति स्मरणात्। संसर्गभेदेन तत्तदभावा एव भासेरन्। तथा सति अभेदान्वयप्रकरणोक्तरीत्याऽत्र घटौ न स्त इति वाक्यजन्यप्रमात्मकबोधदशायामपि अत्र घटौ स्त इत्यतोऽभ्रान्तस्यापि बोधापत्तेरिति । घटपटादीति । एतद्देशस्य एकघटव्यक्ति--एक्पटव्यक्तिमात्राधिकरणत्वे ।
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy