SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः १७१ सम्बन्धावच्छिन्नं तद्वत्वं च घटादौ बाधितमिति न तादृशवाक्यस्य प्रामाण्यम् । अधिकरणस्य घटद्वयादिमत्वे च घटत्वादिव्याप्यं द्वित्वमेव तथेति घटत्वादिव्याप्यपर्याप्तिसम्बन्धेन तद्वत्त्वं घटादावबाधितमिति तादृशवाक्यस्य प्रामाण्यं निर्वहति । केवलान्वयि' विधेयकस्थले च द्वित्वत्वाद्यवच्छिन्नव्यापकत्वमेव संसर्गघटकम् । केवलान्वयिनि तादृशव्यापकताया अक्षतत्वात् । न तु तत्तद्वित्वत्वावच्छिन्नव्यापकत्यमिति न पूर्वोक्त दोपावकाशः । घटवानयति चैत्र इत्यादौ चैत्रकर्तकानयनकर्मत्वादिव्याप्यद्वित्वादिमन्निष्ठनिरूपकताकाधेयत्वादिसम्बन्धेन कर्मत्वादौ घटादेरन्वयो व्युत्पन्नः । तेन चैत्रादेः एकघटादिव्यक्तिमात्रानयनकर्तृत्वे न तादृशप्रयोगः । द्वित्यादिमत्त्वं च प्रकारतावच्छेदकीभूतघटत्वादिव्याप्यपर्याप्तिसम्बन्धेन बोध्यम् । तेन चैत्रस्य पटादि - सहितैकघटादिव्यक्त्यानयनकर्तृत्वेऽपि न तादृशप्रयोगः । एवंमन्यत्राप्यूह्नीयम् । यत्राने वृत्तिधर्मो द्वित्वान्वयितावच्छेदकतया भासते तत्रोपदर्शितरीत्योभयादिनैव समं पदार्थान्तरस्यान्वयः । यत्र त्वेकमात्र - वृत्तिधर्मस्तथा तत्रैकेनापि व्युत्पत्तिभेदावलम्बनात्कार्यकारणभाववैचित्र्योपगमाच्च सर्वं समञ्जसमित्यपि वदन्ति । अथ घटादिव्यक्तिभेदेनानयनकर्मता भिन्नैवेति प्रतिसन्धा १ ' केवलान्वयोति । इदन्तु काकदन्तविचारवत् केवलान्वयिनः सर्वत्र वृत्तित्वात् । २ घटावानयतीत्यत्रैव प्रकारान्तरमाह — यत्रेति । अत्रानेकवृत्तिघटत्या - दिद्वित्वान्वयितावच्छेदकतया भासते । एकमात्रेति । श्राकाशावत्र स्त इत्यादावाकाशादिरूपो धर्मः । ३
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy