________________
वाझदिलनि
नस्य पुंसो घटावानयतीति वाक्याच्छाब्दबोधानुपातिः । तस्य . कर्मतात्वावच्छेदेनाधेयतासंसर्गावच्छिन्नप्रतियोगिताकस्य द्वित्वाद्यवच्छिन्नघटाद्यभावस्य निश्चयसम्भवात् । तस्य द्वित्युदिना ताहशसंसर्गकघटादिविशिष्टधीविरोधित्वादिति चेत् न । उभयत्वाद्यव च्छिन्नाभाववत्ताज्ञानमुभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहिज्ञानमेव प्रतिबध्नाति न तु केवलं विशेष्ये विशेषणमिति रीत्या जायमानमुभयत्वादिविशिष्टज्ञानम् । अतो विशेपदशिनां तादृशवाक्यादोषायत्तमाधेयत्वांशे उभयत्वाद्यवच्छिन्ननिरूपि तत्वावगाहिभ्रमात्मकज्ञानं न भवत्वेव । अपि तु तदंशे तनवगाहिग्रमात्मकं. ज्ञानमित्युभयत्वावच्छिन्ननिरूपिताधेयत्वं चोभयादिवृत्ताकस्मिन्धर्मे एव न तु प्रत्येकमात्रवृत्ताविति कर्मत्वांशे तदिशाधयत्वावगाहिज्ञानस्य भ्रमत्वमित्यवधेयम् ।
संख्याश्च... प्रकृत्यर्थतात्वच्छेदकगताः कचित्प्रती पन्ते। यथा संपन्नौ व्रीहियवावित्यादौ । एतत्तत्वं प्रागेवाभिहित । विरुद्धसंख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्य संख्या प्रकृत्यर्थतावच्छेदकसंख्यायामेवान्वेति । यथा शतमेकं हूँ शो त्रीणि शतानीत्यत्र शतत्वादौ एकत्वद्वित्ववहुत्वानामन्धयः। अत्त एक-च एकशतद्विशतादितात्पर्येण न शतानीति प्रयोगः। तत्र प्रकृत्यर्थस्य शतस्य बहुत्वाद्यन्वययोग्यत्वेऽपि प्रकृत्यर्थतावच्छेदकशतत्वांशे बहुत्वाद्यन्वय एव बहुवचनस्य साकांक्षत्वात्। तत्र योग्यताविरहात् । न चैकशतेऽपि नानापुरुपीयापेक्षाबुद्धिजन्यन नाशतत्वसम्भवादेकशतनिष्ठशतत्वेऽपि बहुत्वान्वययोग्यताऽक्षतैवेति वाच्यम्। परस्परसमानाधिकरणद्वयावृत्तिबहुत्यस्यैव शतादिपत्तिरबहुवचनार्थत्वात् । तादृशबहुत्वस्य चैकशतानिवृत्तिनानाशतत्यादौ वाधात् । अथ वा तत्रापि बहुत्वमेव बहुवचनार्थः। परस्परसमानाधिकरणद्वयावृत्तिपर्याप्तिरेवाकाक्षानिरूपकः सम्बन्धः ।