________________
'दिनैकघटादिमात्रविषयकैतदेशवृत्तित्वाद्यन्वयबोधो न सम्भवतीति न तादृशयोधतात्पर्येण तादृशप्रयोगापत्तिरिति वाच्यम् । योग्यताभ्रमेणाकाशावः स्त इत्यादिवाक्याद्वित्वादिनैकव्यक्तिमात्रविषयकपदार्थान्तरान्वयबोधात्ताशव्युत्पत्तेस्तनिर्वाहककार्यकारणभा - वग्य च कल्पना सम्भवात् ।
मनुः द्वित्याद्यवच्छिन्नोद्देश्यताकबुद्धावुद्देश्यतावच्छेदकव्यापकता नियमतो विधेयसंसर्गे भासते इति व्युत्पत्तिः यत्र चोद्देश्यतावच्छेदकपिशिष्टाधिकरणाप्रसिद्ध्या तद्वयापकत्वमप्रसिद्ध तत्रापि खण्डशः प्रसिद्धानां तत्तघटकपदार्थानां विशेष्यविशेषण भावापन्नानां भा नसम्भवान्न पीतशङ्खावत्रेत्यादौ तादृशव्युत्पत्तिभङ्गः। एवं चैकघटादिव्यक्तिमात्राधिकरणपरस्यात्र घटौ स्त इत्यादिवाक्यस्याप्रामाण्यं सुघटमेवोदेश्यतावच्छेदकीभूतघटमात्रवृत्तिद्वित्वव्यापकतायास्तादृश वाक्यप्रतिपाद्याया विधेयसंसर्गे बाधादिति । तदपि तुच्छम 'अत्र घटौ रत इत्यादौ द्वित्वसमानाधिकरणाभावप्रतियोगित नवच्छेदकत्वस्य द्वित्ववद्धटनिष्ठाभावप्रतियोगितानवच्छेदकत्व य च तदधिकरणावृत्तिघटादिनिष्ठाभावप्रतियोगितावच्छेदकीभूते तत्तद्विधेयसंसर्गतावच्छेदके बाधाद्घटद्वयाधिकररणपरतादृशवाक्यस्याप्रामाण्यापत्तेः । तत्तद्वित्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकत्वस्य तत्तद्विधेयसंसर्गाशे भानोपगमस्तु न सम्भवति। तत्तद्वित्वत्वेनानुपस्थितेः। न च तदवच्छिन्नस्य। संसर्गतया माने तेन रूपेणोपस्थिति पेक्ष्येति वाच्यम्। तत्संसर्गा
'अत्रेति । नु विधेयसंसर्गे यत्किञ्चित् द्वित्वव्यापकत्वं घनिष्ठद्वित्वव्यापकत्वम्वा विवक्षिामिति विकल्प्य यत्त्वितिमतं दूषयति--- अत्र घटौ स्त इतमादिना ।