________________
मल्कादिरूपान्यायित्ता चच्छेदकावच्छिन्न एवान्वेताति व्युत्पत्तिः । तेनोक्तप्रयोगदर्शनात् क्रियापदस्य विशेष्यवाचकपदसमानवचनकत्वानियमेऽपि घटद्वयादितात्पर्येण घटस्ति यत इत्यादयो न प्रयोगाः। एकवचनान्तक्रियापदं च तादृशविशेष्यवाचकपदप्रयोग एव साधुः । अतो घटास्तिष्ठतीत्यादयो न प्रयोगाः। अवैकघटादिव्यक्तरेतदेशवृत्तितादशायामत्र घटौ स्त: घटाः सन्तीति कथं न प्रयोगाः। घटादौ घटत्वादिव्याप्तिविशिष्टपर्याप्तिसम्बन्धन द्वित्वादेः स्वरूपादिसम्बन्धेन तद्देशवृत्तित्वाश्रयत्वादेश्च सत्त्वात् । न-च-द्वित्वेनोपस्थितयोर्द्वयोरेव व्यक्तयोरेवं बहुत्वेनोपस्थितासु बहुपु व्यक्तिषु विधेयान्वयात् व्यक्त्यन्तरेष्वेत्तद्देशवृत्तित्वाश्रयत्व डिबाधान्न तादृशप्रयोग इति वाच्यम्। ठयक्त्यन्तरेऽयोग्यतया तादृशविधेयानवगाहिन एकघटे तदवगाहिनो बोधस्योत्पत्तौ बाधकाभावात्। तथा तात्पर्येण तथा प्रयोगस्य दुर्वारत्वात् । मच व्यासज्यवृत्तिधर्मो यत्रान्वयितावच्छेदकस्तत्र यावत्सु अन्वयितावच्छेदकस्य पर्याप्तिस्तावतामेव पदार्थान्तरेणान्वय इति व्युत्पतिस्तन्निर्वाहाय च तादृशधर्मावच्छिन्ने इतरान्वयबोधजनकसामग्य उभयादिविषयकपदार्थान्तरान्वयबुद्धित्वमेव जन्यतावच्छेदकं वृक्तव्यमिति द्वित्वा
निष्ठनानाप्रकारतादशायामुद्देश्यतावच्छेदकव्याप्यपर्याप रेव संसर्गतोक्त्या अत्रापि शुद्धपर्याप्तिभानन्न स्यादिति भावः ।
चैत्रो मैत्रश्चेत्यादौ चार्थोभयत्वावच्छिन्ने एव द्वित्ान्वयं इति भावः । २ द्वित्वादिविशिष्ट विशेष्यतानिरूपितैतद्देशवृत्तित्व नष्ठप्रकारताकबोधं प्रत्येव अत्र पदसमभिव्याहृतद्वितीयान्तादिपदत्वरूपाक ङ्क्षाज्ञानस्य कारणत्वमिति भावः ।