SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ विशेष्यतात्मकप्रकारतोंद्वयनिरुपितधियत्वप्रंकारतानिरूपितं यद्धमिंतावच्छेदकद्वित्वादिनिष्ठकप्रकारतानिरूपकं स्नेहत्वगन्धत्वाद्यवच्छिन्नविशेष्यताद्वयं तद्वानिति । अतो न कुत्राप्येकवाक्यताभङ्गः। चैत्रो मैत्रश्च गच्छत इत्यादावाख्यातार्थद्वित्वादिप्रकारेण भासमाने चैत्रमैत्रोभयादौ गमनाश्रयत्वाद्यन्वयेन निरुक्तैकवाक्यतासंभवेऽपि समासविधेविभाषाधिकारीयत्वादसमासः। तत्र विशेष्यताभेदभिन्नद्वित्वनिष्ठप्रकारताद्वयप्रतियोगी समूहालम्बनात्मकबोध इति तु न सम्यक् । तथा सत्युक्तरीक्त्या एकैकचैत्रमैत्रादितात्पर्येण तथाप्रयोगानुपपत्तेः । आख्यातोपस्थापितत्विादिकं चोभ नाधिकरणात्यन्ताभावीयविवक्षितस्वानुयोगितावच्छेदकतात्वावच्छिन्नत्वोभयसंसर्गेणेति ऊहनीयम् । द्वित्वन्तु स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकमेव गृह्यते । साजात्यं च पूर्ववत् इति न द्वितीयशङ्काया अवकाशः । तत्र हि धवो द्वित्ववत्खदिनो नेतिभेदीयप्रतियोगितावच्छेदकमेव खदिरगतं द्वित्वमेव क्रमेण किमपि द्वित्वन्न तद्रूपम् । धवखदिरावित्यादौ द्वित्वस्यैक्येन भेदस्य प्रतियोगितावच्छेदकेन विरोधात् । न खदिरे तद्वित्ववद्धवभेदो नापि धवे तभेद इति नाव्याप्तिः । न चैवं खदिरो न धवखदिरोभयमिति प्रतीतेर्मूर्द्धाभिषिक्ततया तत्रापि भेदीयप्रतियोगितावच्छेदकमेव द्वित्वमिति वाच्यम् । भेदे प्रतियोग्यवृत्तित्वस्य निवेशनीयत्वात् । यदि च प्रतियोग्यवृत्तित्वमप्रसिद्धं प्रतियोग्यवृत्तित्वस्य वृत्तिमदवृत्तित्वादित्युच्यते तदा स्वसजातीयविशिष्टभेदप्रतियोगितानवच्छेदकमेव द्वित्वं द्विवचनार्थमिति बोध्यम् । साजात्यं पूर्ववत्। भेदे वैशिष्टयं च स्ववृत्तित्वस्ववृत्तिधर्मावच्छिन्नप्रतियोगिताकत्वाभावत्वोभयसम्बन्धेन । तथा चोभयभेदस्य स्ववृत्तित्वेऽपि स्ववृत्तियद्वित्वं तदवच्छिन्न प्रतियोगिताकत्वेन तस्याग्रहणान्न दोषः।। उक्तरीत्येति (उक्तयुक्त्येति वा पाठः) । एकैकधवखदिरादितात्पर्येण धवौ खदिरावितिप्रयोगवारणाय नानाधर्मावच्छिन्नविशेष्यतानिरूपितद्वित्व
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy