SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ जन्यते। तादृशवाक्यजन्यबोधस्य समूहालम्बनानात्मकतया विशेष्यताभेदेन प्रकारताभेदाभावात् । यथा हि समूहालम्बनानात्मके खड्गी चैत्रः कुण्डलीत्याकारकनानाविशेषणकैकविशेष्यकज्ञाने नानाप्रकारतानिरूपितैका विशेष्यता तथा तथाविधे धवखदिरावित्याद्याकारके नानाविशेष्यकैकविशेषणकज्ञाने विशेष्यताभेदेऽप्यभिन्नैव द्वित्वादिप्रकारता अन्यथा समूहालम्बनतस्तद्वैलक्षण्यानुपपत्तेः । साँसघटकधवखदिरादिपदानामेकवाक्यतानुपपत्तंश्च । तत्प्रयोज्ष्-' विषयतया साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोजकत्वस्यैव तदेकवाक्यतापदार्थत्वात्। न चैतादृशैकवाक्यताविरहेऽपि क्षतिविरहः। तथा सति समासस्यैवानुपपत्तेः । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राजपुरुषपदादीनां समासवारणाय समर्थपदानामेव समासानुशासनात् । सामर्थ्यस्य च निरुक्तैकवाक्यतारूपत्वात् । अलपृथिव्योः स्नेहगन्धावित्यादितोऽपि न जले स्नेहः पृथिव्यां गन्ध इत्याकारकसमूहालम्बनबोधः। किन्तु तद्वित्नक्षणो द्वित्वादिनिष्ठैकप्रकारतानिरूपितजलत्वपृथिवीत्वाद्यवच्छिन्न व्याप्तिः, यत्र नानाधर्मेष्वनुयोगितावच्छेदकता तत्र तद्वदन्यावृत्तित्वरूपैवेति। उच्यते--केवलान्वयिशब्दस्य तु न केनापि शब्देन द्वन्द्वसम्भवः, सर्वत्र कर्मधारययोग्यत्वात् । इति न क्वाप्यव्याप्त्यतिव्याप्तीत्यतमति विस्तरेण । __ अपरे तु पर्याप्तिविशिष्टायाः पर्याप्तेस्सम्बन्धता। वैशिष्ट्यं स्वतादात्म्यस्वविशिष्टाभावाधिकरणवृत्तित्वोभयसम्बन्धेन । अभावे वैशिष्ट्यञ्च स्वानुयोगितावच्छेदकत्वेन तात्पर्य विषयीभूतधर्मप्रतियोगिकत्वप्रदर्शितधर्मासामानाधिकरण्योभयसम्बन्धेनाव्याप्त्यतिव्याप्तीति प्राहुः । अत्र सर्वतो लघुवचनरचनाबलम्बिनः स्वविशिष्टप्रतियोगितानवच्छेदक धर्मवत्सामानाधिकरण्यविशिष्टपर्याप्तरेव संसर्गताम्वदन्ति । स्वस्य वैशिष्ट्यञ्च स्वसमा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy