________________
प्रथमा ] जयाऽलङ्कृतः
१६५ वात्। धक्खदिरावित्यादिसमासोत्तरद्विवचनेन धवत्वखदिरत्वाद्यवच्छिन्ननानाविशेष्यतानिरूपितैकद्वित्वादिप्रकारताशालिज्ञानमेव
संबन्धस्य तु आकाशत्वादौ प्रसिद्धिः। कालाकाशा इत्यादीनां तु न साधुता। तत्र स्वविशिष्टाभावकालत्वप्रतियोगिको घटवृत्तिस्तत्प्रतियोगितावच्छेदकवत्वस्यैव कालत्वादौ सत्त्वात् । अथवा स्वविशिष्टा या विशेष्यता तद्वत्सामानाधिकरण्यमेव पर्याप्तेस्संसर्गता नियामकतयाभिमताम् । विशेष्यतायां स्वान्वयितावच्छेदकत्वप्रकारकतात्पर्य्यनिरूपितत्वस्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकताकत्वसम्बन्धाभ्याम् । वैशिष्ट्यं द्वित्वपर्याप्त्यनुयोगितावच्छेदकत्वप्रकारकतात्पर्य्यविशेष्यन्नास्तीत्याकारकाभावो न धवे खदिरे वा सम्भवति तादृशविशेष्यधवत्वादेस्सत्त्वात् । घटादौ सम्भवत्यपि न प्रकृतार्थोपयोगी पर्याप्तिसामानाधिकरण्यस्यासत्त्वादिति न स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकतावती विशेष्यतेति तद्वत्सामानाधिकरण्यस्य पर्याप्तौ सत्त्वाल्लक्षणसमन्वयः। कालाकाशा इत्यादयो न साधवः। तादृशाभावस्य घटे सत्त्वेन तादृशाभावप्रतियोगितावच्छेदिकैव तादृशी विशेष्यता इति तद्वत्सामानाधिकरण्येन लक्षणसमन्वयाभावात् । अथ वा नोद्देश्यतावच्छेदकव्याप्यत्वमपेक्षितमपि तु उद्देश्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकसंख्याव्याप्यत्वं तत्र व्यापकतावच्छेदकसंसर्गश्च स्वाश्रयधर्मवत्वरूपः। धवखदिरावित्यादावुद्देश्यतावच्छेदकतापर्याप्तिर्द्धवत्वखदिरत्वोभयस्मिन् तदनुयोगितावच्छेदिका संख्या द्वित्वं तद्व्याप्यत्वस्य पर्याप्तौ सत्त्वाल्लक्षणसमन्वयः । कालाकाशाश्च न प्रयोगः। तत्रोद्देश्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदिका संख्या द्वित्वं तद्व्याप्यत्वं न बहुत्वपर्याप्तेः स्वाश्रयवत्वसम्बन्धेन तद्वतोऽन्यघटवृत्तित्वादिति सुगमः पन्थाः। अथ वा यथा भवद्भिः कुत्रचिच्छुद्धपर्याप्तेः संसर्गता कुत्रचित् विशेषपर्याप्तेः संसर्गता इत्युच्यते तद्वदस्माभिर्यत्रान्वयितावच्छेदकमेकं तत्र व्यापकसामानाधिकरण्यमेव