________________
१६४
प्रकारताभेदेन
चोद्देश्यतावच्छेदकघवत्वादिव्याप्तिविशिष्टपर्याप्तेः संसर्गतानियमेन एकैकधवखदिरादितात्पर्येण तथा प्रयोगासम्भ
व्युत्पत्तिवादः
[ कारके
1
स्याप्रसिद्धतयाऽव्याप्तिर्दुर्बारेति चेन्न । समानाधिकरणो पोऽभावः स च स्ववि'शिष्ट ग्राह्य इत्यदोषात् । तत्र वैशिष्ट्यं स्वतादात्म्यस्वाभाववत्वोभयाभ्याम् । तत्राभावीयप्रतियोगितावच्छेदकः सम्बन्धः स्वप्रतियोगिद्वित्वान्वयितावच्छेदकत्वेन तात्पर्य्यविषयीभूतधर्म्मवद्वृत्तित्वरूपः । तथा च द्वित्वपर्य्याप्तिसमानाधिकरणो यः धवखदिरादिवृत्तिघटत्वाद्यभावस्तस्य स्वतादात्म्यमस्ति स्वप्रतियोगिघटत्वादि तस्य निरुक्ततात्पर्य्यविशेष्यत्वाभावः यच्च तादृशविशेष्यतावत् न स प्रतियोगि इति तद्वद्वृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावस्य सत्त्वेन स्वविशिष्टतत्प्रतियोगितानवच्छेदकवत्वं धवत्वादावव्याहतम्। तादृशसम्बन्धस्यान्यत्र प्रसिद्धत्वान्नाप्रसिद्धत्वशङ्का कालाकाशा इत्यादयोऽपि न घटे निरुक्ताभावस्तत्प्रतियोगितावच्छेदकमेव कालत्वादेर्य्यतः न चैवं सति पुनरपि धवखदिरावित्यादावव्याप्तिः । तथा हि खदिरवृत्तिर्य्यो धवत्वाभावस्तस्य द्वित्वसामानाधिकरण्यमस्ति स्ववैशिष्ट्यं चास्ति स्वप्रतियोगिनिरुक्तविशेष्यताशयधवत्ववद्वृत्तित्वसम्बन्धावच्छिन्नप्रतियोगि - ताकस्वाभावस्य स्वतादात्म्यस्यापि सत्त्वात् तत्प्रतियोगितावच्छेदकवद्धवत्ववत्वसामानाधिकरण्यमेव पर्याप्तरिति वाच्यम् । स्वाभाववन्निरुक्तविशेष्यताश्रयधवत्वादिसमानाधिकरणपय्र्याप्तेरेव संसर्गतयाभिमतत्वात् । प्रभावीयप्रतियोगितावच्छेदकसंसर्गश्च स्वविशिष्टाभावप्रतियोगितावच्छेदकवत्वरूपः । प्रभावे वैशिष्ट्यञ्च स्वसामानाधिकरण्यस्वान्वयितावच्छेदकत्वेन तात्पर्य्यविशेष्यीभूतधर्म्मसामानाधिकरण्यसम्बन्धाभ्याम् । एवञ्च धवादिवृत्तिरभावो न स्वविशिष्टः धवत्वादेस्सत्त्वात् न वा घटादिवृत्तिरभावः स्वसामानाधिकरण्यस्यासत्त्वात् इति न स्वविशिष्टाभावप्रतियोगितावच्छेदकत्ववत्वं धवत्वादेरिति तेन सम्बन्धेन स्वाभावस्य तत्र सत्त्वाल्लक्षणसमन्वयः