________________
प्रथमा ]
जयाऽलङ्कृतः
१६३
शुद्धायाः पर्याप्तेः समवायस्य वा संसर्गतया भानात् । धवौ खदिरावित्यादिनानावाक्यजन्यसमूहालम्बनशाब्दबोधे विशेष्यताभेदेन
त्वादिनिष्ठैकाप्रकारता यत्रास्ति तत्र द्वित्वादिपर्याप्तेः शुद्धाया एव संसर्गता । यत्र च द्वित्वादिनिष्ठेकप्रकारतानिरूपितविशेष्यतावच्छेदकता एकस्मिन् धर्मे तिष्ठति तत्रोद्देश्यतावच्छेदकव्याप्यत्वविशिष्टद्वित्वादिपर्याप्तेः संसर्गतेति व्यवस्थाप्य धवखदिरावाकाशावित्यादीनां प्रामाण्याप्रामाण्ये उपपादितकान् । तनाथमायाकाशघटादिगतबहुत्वपर्याप्तेः कालाकाशेऽपि भवदुक्तयुक्त्या सत्त्वात् तत्र च नानान्वयितावच्छेदकस्य सत्त्वेन शुद्धपर्याप्तेरेव संसर्गतया धवखदिरावित्यादिवत् कालाकाशा इति प्रयोगस्यापि प्रामाण्यापत्तिः। एवं धवखदिरपलाशार्कप्रत्येकगतप्रत्येकद्वित्वबोधेन तात्पर्याण धवखदिरपलाशार्काविति प्रयोग प्रापद्यतेति तन्न। अस्तु उद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्तेरेव संसर्गताऽविशेषेण व्याप्यत्वं च व्यापकसामानाधिकरण्यमेव व्यापकत्वं च व्याप्यसामानाधिकरण्यात्यन्ताभावप्रतियोगितानवच्छेदकत्वम् । एवञ्च प्रकृते द्वित्वादिपर्याप्तिसमानाधिकरणो योऽभावः स च स्वान्वयितावच्छेदकत्वेन तात्पर्य्याश्रयविशेष्यताश्रयव्यधिकरणो विवक्षित इति प्रकृते कालाकाशगतबहुत्वपर्याप्तिसमानाधिकरणो यो घंटवृत्तिः कालत्वाभावः स च बहुत्वपर्याप्त्यनुयोगितावच्छेदकत्वेन तात्पर्य्यविशेष्यीभूतं यत् कालत्वमाकाशत्वञ्च तद्व्यधिकरण इति तत्प्रतियोगितावच्छेदकधर्मवत्वमेव कालत्वादीनामिति न तस्य व्यापकत्वमिति कृत्वा पर्याप्तेर्व्यापकसामानाधिकरण्याभावेनादोषात् । धवखदिरावित्यादावपि द्वित्वपर्याप्तिसमानाधिकरणो योऽभावस्स च न धवत्वखदिरत्वाद्यभावोऽपि तु घटत्वाद्यभाव इति तत्प्रतियोगितावच्छेदकधर्मवद्धवत्वादिसामानाधिकरण्यस्य पर्याप्तेः सत्त्वेनाव्याप्तिविरहात् । ननु धवखदिरगतद्वित्वपर्याप्तिसमानाधिकरणो यः स्वान्वयितावच्छेदकत्वेन तात्पीयविशेष्यधवत्वादिव्यधिकरणोऽभावस्त