________________
ताबराकरकमी
वित्यादिप्रयोगोपपत्तेः। न चैवमेकैकधवखदिर दितात्पर्येण धवौ खदिरावित्यादिप्रयोगापत्तिः । तादृशवाक्यूद्वयविषयकसमूहानम्बनजन्यसमूहालम्बनशाब्दबाँधस्य नानाधविच्छिन्नावश्यताकतया शुद्धपर्याप्तेरपि संसर्गतयाऽवगाहनसंभवादिति वाच्यम् । यत्र नानाधर्मावच्छिन्नविशेष्यता निरूपिता एकद्वित्वादिप्रकारता तत्रैव
खदिरगतविशेष्यताभावो धववृत्तिरिति न व्यापकत्वमि ते तु नाशङ्कनीयम् । द्वित्वनिष्ठव्याप्यतानिरूपिता व्यापकता च द्वित्वनि ठप्रकारतानिरूपितविशेष्यतात्वावच्छिन्नाया विवक्षितत्वात् । न द्वित्वनि ठप्रकारतानिरूपितविशेष्यतात्वावच्छिन्नप्रतियोगिताकाभावो धववृत्तिः सदिरवृत्तिर्वेत्याहुः ।
उच्छृङ्खलास्तु उद्देश्यतावदन्यावृत्तित्ववत् पर्याप्लेरेव सर्वत्र संसर्गतां स्वीकृत्याव्याप्त्यतिव्याप्ती परिहरन्ति । उद्देश्यतावच्छेदकत्वावच्छिन्नत्वोपलक्षितनिष्ठव्यापकतानिरूपितव्याप्यतावत्त्याः पर्याप्तेर संसर्गतेत्यपि केचित् ।
कालाकाशा इति प्रयोगवारणाय स्वविशिष्टापाप्तिः स्वसंसर्गतया भासते सर्वत्रैकरूपेणैवोच्यते । वैशिष्ट्यं च स्वप्रतियोगिकत्वस्वविशिष्टधर्मसामानाधिकरण्योभयसम्बन्धेन । धर्मे वैशिष्ट्य च स्वीयोद्देश्यतावच्छेदकत्वेन तात्पर्य्यविषयत्वस्वाभाववत्वोभयसम्बन्धेन । अभावीयप्रतियोगितावच्छेदकश्च स्वविशिष्टाभावप्रतियोगित्वरूपर सम्बन्धः । अभावे वैशिष्ट्यञ्च स्वाधिकरणवृत्तित्वस्वीयोद्देश्यतावच्छेदकत्वावच्छिन्नप्रतियोगिताकत्वोभयसम्बन्धेन समन्वयः स्वयं ऊहनीयः । ___ यद्वा स्वविशिष्टा या पर्याप्तिः सा उद्देश्यतावच्छे कव्याप्यत्वविशिष्टा सती संसर्गतया भासते । अन्या तु शुद्धव । वैशिष्टयःच स्वतादात्म्यस्वीयोद्देश्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यन् योगितावच्छेदकीभूतसंख्याधिकसंख्याप्रतियोगिकत्वोभयसम्बन्धेन समन्वय ऊहनीय इति दिक् ।
प्रर्याप्तिविचारेऽन्ततो गत्वा नानाधविच्छिन्नटिशेष्यतानिरूपितद्वि- .