________________
प्रथमा ]
जयाऽलङ्कृतः स्तथात्वं तत्र केवला पर्याप्तिः समवाय एव वा संसर्ग इत्युपगमात् विनैव साहित्यस्यान्वयितावच्छेदकतां एकैकतात्पर्येण धवखदिरा
बोधः। एवं कालाकाशा इत्यादावपि बोध्यम् । धवखदिरावित्यादौ तु धर्मद्वयावच्छिन्नाप्युद्देश्यता एकैवेति शक्तिवादे स्पष्टीकृतत्वात् धवत्वखदिरत्वनिष्ठा या निरुक्तावच्छेदकता तन्निरूपकोद्देश्यता चोभयवृत्तिरेकैव तदवच्छेदकताश्रयवदन्यो न धवो न खदिरः किन्त्वेतदन्य एव । तवृत्तित्वाभावेन पर्याप्तेः केवलाया एव सम्बन्धतया नापत्तिः । उद्देश्यतावच्छेदकभेदादुद्देश्यता भिद्यत एवेत्याग्रहे तु स्वनिरूपकोद्देश्यतानिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदकताश्रयवदन्यवृत्तित्वसम्बन्धेनावच्छेदकतायाः पर्याप्तौ वृत्तित्वं ज्ञेयम् । एवञ्च विधेयताया ऐक्येन धवो न खदिरत्ववृत्त्यवच्छेदकतानिरूपकोद्देश्यतानिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदकताश्रयवानित्यादिप्रतीतेरभावानापत्तिलेश इत्याहुः ।
केचित् केवलपर्याप्तेरेव संसर्गता। आस्ताम् आकाशावित्यादेर्न प्रमात्वम् । तच्च तत्प्रकारकज्ञाने तदधिकरणतावच्छेदकव्यापिका या तन्निष्ठप्रकारतानिरूपिताविशेष्यता तच्छालित्वमेव । आकाशावित्यादौ द्वित्वनिष्ठप्रकारतानिरूपिता या आकाशनिष्ठा विशेष्यता सा च स्वाधिकरणतावच्छेदकं यद्वित्वं तत्समानाधिकरणो यो घटवृत्तितादृशविशेष्यताभावस्तत्प्रतियोगितावच्छेदकधर्मवत्वेन न तद्व्यापिका इति तदवगाहिनो ज्ञानस्य न तत्त्वम् । द्वित्वादेरपेक्षाबुद्धिजन्यत्वेन अपेक्षाबुद्धेर्व्यक्तिभेदेन भेदात् पदार्थद्वयेऽपि द्वित्वन्नानाविधमिति द्वित्वाधिकरणतावच्छेदकत्वं द्वित्वे नानुपपन्नम् । एवं कालाकाशा इत्यादेरपि। धवखदिरावित्यादौ तु द्वित्वस्य धवखदिरोभयातिरिक्तावृत्तित्वेन तत्समानाधिकरणाभावो न विशेष्यताप्रतियोगिक इति तादृशाभावप्रतियोगितावच्छेदकताशून्यत्वेन विशेष्यताया व्यापकत्वेन तदवगाहिनः प्रमात्वम । विशेष्यताभेदेन धववृत्तिविशेष्यताभावः खदिरवृत्तिः