SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ चैकैकधवखदिरादितात्पर्येण तथा प्रयोगानुपपनिरिति द्वित्वान्वयितावच्छेदकमपेक्षाबुद्धिविशेषविषयत्वादिरूपमुभयादिनिष्ठं साहित्यं द्वन्द्वसमासार्थो वाच्यः। तथा च मीमांसकमतप्रवेश इति चेव--- । यत्रैकधर्मस्य द्वित्वाद्युद्देश्यतावच्छेदकता' तत्रैवोद्देश्यतावच्छेदकव्याप्तिविशिष्ट पर्याप्तेः संसर्गतानियमः। यत्र धर्मद्वयादे 'यत्रैकधर्मस्य द्वित्वाद्युद्देश्यतावच्छदकतेति । आकाशाविल्यादेरप्रामा., ण्याय उद्देश्यतावच्छेदकव्याप्यपर्याप्तेःसंसर्गताधवखदिरावित्यादेः प्रामाण्याय नानाधर्मावच्छिन्नोद्देश्यताकद्वित्वाद्यन्वयबोधे शुद्धपर्याप्तेः संसर्गता उक्ता। एवं सति कालाकाशसमवायगतबहुत्वपर्याप्तेः कालाक शेऽपि सत्त्वात्तत्र नानाधर्मस्यानुयोगितावच्छेदकत्वेन शुद्धपर्याप्तेः संसर्गतोपगमात् कालाकाश इत्यस्यापि प्रामाण्यं स्यात् । उभयधविच्छिन्नोद्देश्यताकबहुत्वान्वयबोधेऽपि उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः सम्बन्धतोपगमे घटाश्च पटाश्च घटपटा इत्यादेरप्रामाण्यापत्तेः । न च तद्वारणायोभयावृत्तिधर्मद्वयावच्छिन्नोद्देश्यताकेत्यादि युज्यते वक्तुम् । कालाकाशसमवाया इत्यादावपि उभयावृत्तिकालत्वाकाशत्वधर्मद्वयावच्छिन्नत्वं धर्मत्रयावच्छिन्नोद्देश्यताया अक्षतमेवेति प्रामाण्यापत्तेरनिस्तारात् । उभयधर्ममात्रावच्छिन्नत्वनिवेशे निरुक्तस्थले दोषलेशाभावेऽपि घटपटमठगतबहुत्वपर्याप्तेः घटपटे सत्त्वेन तस्मिन् बहुत्वान्वयतात्पर्येण घटपटा इत्यादीनां प्रामाण्यापत्तेरनिवार्यत्वात् अत्र-मैथिलाः उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः संसर्गता यत्रोद्देश्यतावच्छेदकता पर्याप्तिवृत्तिस्तत्रैव । यत्र च न पर्याप्तेरुद्देश्यतावच्छेदकताधिकरणत्वं तत्र केवलपर्याप्तेरेव संसर्गता । वृत्तित्वं च स्वनिरूपकोद्देश्यतावच्छेदकताक्षयवदन्यवृत्तित्वसम्बन्धेन । एवञ्चाकाशावित्यत्र द्वित्वपर्याप्तेरुद्देश्यतावच्छेदकतानिरूपकोद्देश्यता आकाशवृत्तिस्तदवच्छेद-ताश्रयवदन्यो घटादिस्तवृत्तित्वेन विशेषपर्याप्तेस्संसर्गतया नाभ्रान्तस्य ताक्याद्वित्वान्वय
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy