SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ "पसमा १ वस्तुतस्तु पुष्पं (जिघ्रतीत्यादावाधेयत्वीयसांसर्गिकविषयिता - निरूपितप्रकारि नैव) द्वितीयार्थस्तस्याश्च गन्धनिरूपितलौकिकवि-- पयिताशालिप्रत्यक्षात्मकधात्वर्थैकदेशे विपयितायां निरूपितत्व-' संवन्धेनान्वयः तेन इदानीन्तनपुष्पे गन्ध इत्यादिप्रत्ययस्याधेयतासंसर्गेण कालादिप्रकारकत्वेऽपि तादृशप्रत्यक्षदशायां न कालं जिघ्रतीत्यादिप्रयोगः । तादृशज्ञानीयगन्धादिविषयितायां कालादिप्रकारितानिरूपि तत्वविरहात् । अत एव "तदाननं मृत्सुरभि क्षितीश्वगे रहः समा ब्राय न तृप्तिमाययो"। "अावातवान् गन्धवहं सुगन्धमि” त्या ो च उपाधुिनिष्टगन्धग्रहतात्पर्येणैव जिघ्रतेः प्रयोगान् । तादृशगन्धं च आननगन्धवहादिवृत्तित्वस्य बाधेऽपि न क्षतिः+ताशगन्धस्याननाद्यवृत्तित्वेऽपि आनने गन्ध इत्याकारकबोधीयगन्धविष यताया अाननादिप्रकारितानिरूपितत्वेन वाक्या बाधात ।"माय्वानीतचम्पकगन्धस्य यत्र वाय्वादिवृत्तित्वेनैव ग्रहः तत्र चम्पर्क जिप्रतीत्यादिप्रयोगो नेष्यत एव । यत्तु प्राधेयतामात्रं द्वितीयार्थः न तु समवायावच्छिन्नत्वविशेपितमाधेयत्वं तथा च मुखादिसंमृ मृत्तिकादिगन्धे परंपरासंबन्धेन मुखादिवृत्तित्वस्य सत्त्वान्न तादृशस्थलेऽनुपपत्तिरिति-तदसत् । तथा सति कालं जिव्रतीति प्रयोगस्य दुर्वारत्वात् । पुष्पमाघायते इत्यादौ च निरुक्तप्रकारत्वम ख्यातार्थः। आश्रयतासंवन्धेन पुष्पाद्यन्विते तस्मिन धात्वर्थप्रयक्षस्य निरूपितत्वसंवन्धेन तद्विशेषणतापन्नरामयिापपानयोगसमनामस्मायिन्लस खेनजरबन्देभावमा यदि सरसा विषयितेति यादृशप्रकारताविशेष्यतयोनिरूप्यनिरूपकभावस्तन्निरूपितविशेप्यिताप्रकारेतयोरपीति भावः । " तदाननं से तमृत्तिकालवं नृपः समानाय न तृप्तिमाययावित्यस्मत्पितृचरणहस्तलिखितपुस्तकधृतः पाठोऽत्र दृश्यते । . मम Tाननिस्पका
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy