SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रथमा ] जयाऽलङ्कृतः ३५ काङ्क्षाया विरहानापत्तिः। कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशान्नोक्ताकाङ्क्षाज्ञानयोः परस्परबोधे व्यभिचारः। ज्ञानान्नीलं घटमित्यादिवाक्याज्जायमानेऽभेदान्वयबोधे च प्रथमान्तनीलेत्यादिरूपाकाङ्क्षाया अभावात् 'तत्सत्त्वे तत्सत्ता तदभावे तदभाव' इत्यन्वयव्यतिरेकनिबन्धनकार्यकारणभावासम्भव .... इत्यत आह-कार्यतावच्छेदककोटावित्यादि। तथाच प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिनप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणं, द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्यादिक्रमेण यावदाकाङ्क्षाज्ञानं कार्यकारणभावः । तथा च व्यभिचाराभावः। एकस्मिन्नेव हि कार्ये नानाकारणसद्भावे तदुदय इति भावः । ननु यत्र देवदत्तस्य प्रथमान्तनीलपदसमभिव्याहृतेत्याद्याकाङ्क्षाज्ञानं जातन्तदव्यवहितोत्तरक्षणे एव यज्ञदत्तस्य पूर्वक्षणोत्पन्नद्वितीयान्तनीलपदसमभिव्याहृतेत्याद्याकाङ्क्षाज्ञानात्तादृशाभेदान्वयबोधस्तत्र तादृशबोधे प्रथमान्तनीलेत्याद्याकाङ्क्षाज्ञानकार्य्यतावच्छेदकाक्रान्तिसत्त्वेन तादृशबोधाधिकरणे यज्ञदत्ते तदाकाङ्क्षाज्ञानाभावेन व्यभिचारोऽस्त्येवेति चेत्-मैवम् । अव्यवहितोत्तरत्वं विहाय स्वाव्यवहितोत्तरत्वस्वाधिकरणदेशवृत्तित्वोभयसम्बन्धेन ज्ञानस्य वैशिष्ट यं बोधे निवेश्य तादृशबोधे द्वितीयसम्बन्धविरहेण तत्कार्य्यतावच्छेदकाना क्रान्ततयाऽऽपत्तेर्वारणसम्भवात् । न चोक्तोभयसम्बन्धेन स्वविशिष्टत्वमेव कार्य्यतावच्छेदकमस्तु । तथा सति कार्य्यतावच्छेदक
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy