________________
व्युत्पत्तिवादः
[ कारके कोटावित्युक्तिसूचितस्याभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वे कार्य्यतावच्छेदकत्वस्य वैयर्थ्यमिति वाच्यम् । चैत्रे प्रथमक्षणे प्रथमान्तेत्यादिकिमप्याकाङ्क्षाज्ञानं जातम् । तदुत्तरक्षणे चैत्रमैत्रोभयत्र यज्ञदत्तीयापेक्षाबुद्धया द्वित्वसंख्योत्पन्ना । तत्र संख्यायां निरुक्ताकाङ्क्षाज्ञानवैशिष्ट्यरूपकार्य्यतावच्छेदकाक्रान्तिसत्त्वेन तस्याश्च तादशाकाङ्क्षाज्ञानशून्ये मैत्रेऽप्युत्पत्त्या व्यभिचारप्रसक्तेर्वारणायाभेदसम्बन्धावच्छिन्नेत्यादिप्रवेशावश्यकत्वात् । न च तावताऽपि स्वविशिष्टशाब्दबुद्धित्वमेव कार्य्यतावच्छेदकमस्तु। विषयताविशेषनिवेशो व्यर्थ एव । तदाकाङ्क्षाज्ञानोत्तरे अन्यादृशेऽपि जायमाने शाब्दबोधे तदाकाङ्क्षाज्ञानस्य कारणत्वे इष्टापत्तेरिति वाच्यम् । यत्र नीलो घट: घटवद्भूतलमिति समूहालम्बनमाकाङ्क्षाज्ञानं नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितं तत्र घटवद्भूतलमिति बोधो जायते न तु नीलाभिन्नो घट इति बोधः । तत्र प्रथमान्तनीलपदोत्तरप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानोत्तरत्वविशिष्टशाब्दबोधरूपं कायं घटवदिति बोधः । कारणञ्चाप्रामाण्यज्ञानानास्कन्दितप्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदरूपाकाङ्क्षाज्ञानं नास्तीति व्यभिचारप्रसक्त्या तद्वारणायाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकत्वं शाब्दबोधे विशेषणं देयम् । तथा च तत्र कार्य'कारणयोर्द्वयोरप्यभावान्न दोषः। न च कारणतावच्छेदककोटावप्रामाण्यज्ञानानास्कन्दितत्वनिवेशाभावमात्रेण व्यभिचारवारणसम्भवान्न विषयप्रवेशो युक्त इति वाच्यम् । अप्रामाण्यज्ञानास्कन्दितात् नीलो घट इत्याकाङ्क्षाज्ञानादभेदान्वयवारणाय कारणकोटावप्रामाण्यज्ञानानास्कन्दितत्वनिवेशस्यावश्यकत्वात्।
ननु क्व एतस्योपयोगः । न तावत् प्रथमक्षणे नीलो घट इत्याकाङ्क्षाज्ञानं तत इदं ज्ञानमप्रमाणमितिज्ञानं ततः शाब्दबोधो मा भूदित्यर्थमन्यथा आका
ङ्क्षाज्ञानस्य सत्त्वाच्छाब्दबोधापत्तिरिति युक्तम् । तत्र बोधस्याभावे स्वविशिष्टशाब्दबुद्धित्वावच्छिन्नरूपकार्य्यस्याप्यभावेनादोषात् । तत्र बोधस्य