________________
प्रथमा ] जयाऽलङ्कृतः
३७ सत्त्वे तु कारणस्यापि सत्त्वेनादोषादिति चेत्-न । स्त्र प्रथमक्षणे भाविज्ञानमप्रमेति ज्ञानं, द्वितीयक्षणे नीलो घट इत्याकाङ्क्षाज्ञानं, तृतीयक्षणे आद्यस्य भाविज्ञानमप्रमेत्यप्रामाण्यज्ञानस्य नाशेनाप्रमाण्यज्ञानानास्कन्दितस्य नीलो घट इत्याकाङ्क्षाज्ञानस्य सद्भावात्, चतुर्थक्षणे नीलो घट इति बोधो भवति । कार्योत्पत्तिप्राक्क्षणे कारणस्य सत्त्वात् तृतीयक्षणे च बोधो न भवति। तत्प्राक् द्वितीयक्षणेप्रामाण्यज्ञानास्कन्दितस्यैवाकाङ्क्षाज्ञानस्य सत्त्वेन तदनास्कन्दितस्य तस्यासत्त्वात् । अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशाभावे द्वितीयक्षणे आकाङ्क्षाज्ञानस्य सत्वात् स्वविशिष्टः शाब्दबोधः। स एव चतुर्थक्षणस्थस्तस्य तृतीयक्षणे आपत्तिप्रसङ्गादप्रमाण्यज्ञानानास्कन्दितत्वनिवेश इति बोध्यम् । न च बोधे शाब्दत्वविशेषणं व्यर्थमिति वाच्यम् । नीलो घट इत्याकाङ्क्षाज्ञाने अप्रामाण्यज्ञानास्कन्दिते अनुमितिसामग्र्याञ्च सत्यां नीलो घट इत्यनुमितिर्जायते। तत्राप्रमाण्यज्ञानानास्कन्दिताकाङ्क्षाज्ञानरूपकारणाभावे प्रथमान्तनीलपदसमभिव्याहतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तराभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकबोधस्य सत्त्वे न व्यभिचारापत्तेः । शाब्दत्वनिवेशे च शाब्दबोधाभावेनादोषात् । न च कार्य्यदलेऽप्याकाङ्क्षाज्ञानेऽप्रामाण्यज्ञानानास्कन्दितत्वनिवेशेनैवौक्तस्थलद्वये व्यभिचाराप्रसक्त्या विषयताविशेषस्य शाब्दत्वस्य च निवेशो व्यर्थ एव। किं च विषयत्वादिनिवेशेऽपि अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशः कार्यदले आवश्यकः । अन्यथा नीलो घट: श्यामो घट: इति समूहालम्बनात्मकाकाङ्क्षाज्ञानं नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितं यत्र तत्र बोधो भवति कार्य्यतावच्छेदकाक्रान्तोऽप्रामाण्यज्ञानानास्कन्दितं नीलो घट इत्याकाङ्क्षाज्ञानञ्च नास्तीति व्यभिचारः स्यात् । अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशे च कार्यकारणयोरभावेनादोष इति वाच्यम् । अप्रामाण्यज्ञानेऽप्यप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्यान्तत्राप्यप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्यम् । एवं तत्र तत्रत्यविश्रामः । एवं नीलपदासमभिव्याहृते घटे नीलपदसमभिव्याहृतत्वज्ञानरूपाप्रामाण्यज्ञान नीलत्वाभाववति नीलत्वज्ञानरूपमप्रामाण्यज्ञानमित्या