________________
३८
व्युत्पत्तिवादः
[ कारके दिसर्वेषां ज्ञानाचामनास्कन्दितत्वनिवेशापेक्षया विषयत्वादिनिवेशे - एव लाघवम् । एवमप्रामाण्यज्ञानानां तत्तद्रूपेणैच नीवेशनीयतयोक्तसमूहालम्बनस्थलीयाप्रामाण्यज्ञानव्यक्तेरनास्कन्दितत्वस्य कारणतावच्छेदके अनिवेशेनैव दोषवारणसम्भवात्। किञ्च प्रवृत्तिं प्रतीष्टसाधतत्वज्ञानं कारणम् । इष्टच्च अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वावच्छिन्नन्तदवच्छिन्नसाधनत्वस्य नीलो घट इति वाक्येऽग्रहे नीलो घट इति वाक्ये प्रवृत्तिर्न स्यादतो विषयतादेः साध्यतावच्छेदके प्रवेश आवश्यक इत्यपि बोध्यम् ।
— ननु कार्य्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशेन नानाकार्यकारणभावकल्पनापेक्षयाऽन्यतमत्वेनैवाकाङ्क्षाज्ञानानां कारणत्वं परिकल्प्यक एव कार्यकारणभावोऽस्त्विति चेत् अत्रोच्यते । अन्यतमत्वं प्रकृते प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगिकभेदविशिष्टद्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाक्षाज्ञानप्रतियोगिकभेदरित्येवं क्रमेण सकलाकाङ्क्षाज्ञानभेदं निवेश्य तद्वद्भिनत्वमेव । तत्र विनिगमनाविरहेणैतदाकाङ्क्षाज्ञानभेदविशिष्टत्वेनापराका
ङ्क्षाज्ञानभेदस्यापराकाङ्क्षाज्ञानभेदविशिष्टत्वेनैतदाकाङ्क्षाज्ञानभेदस्येत्येवंक्रमेण प्रवेशे कारणताबाहुल्यम् । गुरुधर्मस्य कारणतावच्छेदकता चेति मूलोक्तप्रकारत्यागे बीजभावः। एवं भेदविशिष्टस्य जगतो भेदप्रतियोगितया प्रवेशेनातितरां गौरवम् । न च भेदविशिष्टस्य जगतो भेदविशिष्टत्वेनैकरूपेणैव प्रवेशो न तु तत्तद्रूणेति न गौरवं जगत्प्रवेशप्रयुक्तमिति वाच्यम् । जगति सर्वत्र भेदविशिष्टत्वावच्छिन्नायाः कारणतावच्छेदकतायाः सम्बन्धकल्पनेन गौरवस्य स्पष्टत्वात् नान्यतमत्वेन कारणत्वम् । न च तत्तदाकाङ्क्षाज्ञानानां यावन्तो भेदास्तद्गतसमुदायत्वावच्छिन्नप्रतियोगिताकाभावस्यैवान्यतमत्वरूपतया वैशिष्ट्यस्याप्रवेशेन न कारणतावच्छेदकस्य नानात्वं विनिगमनाविरहप्रयुक्तम् । न वा जगत्प्रवेशप्रयुक्तं गौरवं जगतोऽप्रवेशादिति वाच्यम् । यतो भेदगतसमुदायत्वस्यापेक्षाबुद्धिविशेषविषयत्वरूपतयाऽपेक्षा