________________
प्रथमा ]
३६
बुद्धीनाञ्च नानात्वेन विनिगमनाविरहेण सर्वबुद्धिविषयत्वरूपाणां समुदायत्वानां प्रवेशेन कारणताबाहुल्यम् । अवच्छेदकगौरवञ्च तदवस्थमेव । न च तावदाकाङ्क्षाज्ञाननिष्ठ मेकमखण्डोपाधिरूपं जातिरूपम्वाऽन्यतमत्वं मत्वा तदवच्छेदेन कारणत्वकल्पने एकमेव कारणत्वं लघुधर्म्मावच्छिन्नञ्चेति वाच्यं यतः समानविषयकशाब्दबोधं प्रति प्रत्यक्षसामग्रयाः प्रतिबन्धकतया तदभावोऽप्याकाङ्क्षाज्ञानजन्यशाब्दबोधे सहकारीति तादृशप्रत्यक्षसामग्रयां सत्यामाकाङ्क्षाज्ञानादिकरणकलापान्न शाब्दबोधः । तत्रैव शाब्दबोधो जायतामितीच्छायां सत्यामिष्टस्य शाब्दबोधस्योपपत्तये प्रत्यक्षसामग्रयां शाब्दे - च्छाविरहविशिष्टत्वमपि देयम् । तथा च शाब्देच्छाविरहविशिष्टा प्रत्यक्षसामग्री नास्ति । विशेषणाभावप्रत्युक्तस्य विशिष्टाभावस्य सत्त्वादुपपन्नः शाब्दबोधः । तथा यत्र नीलो घट इत्याकाङ्क्षाज्ञानं समानविषयकप्रत्यक्षसामग्री द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानजन्यः शाब्दबोधो जायतामितीच्छा तत्र शाब्दबोधो न जायते । शाब्दबोधेनोत्पन्नेन यस्या इच्छाया विषयसिद्धिस्तस्या एव ह्युतेजकत्वात् । तत्र तत्तद्रूपेणाकाङ्क्षाज्ञानस्य कारणत्वे प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघट
,
जयाऽलङ्कृतः
पदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानजन्यशाब्दे
च्छाविरहविशिष्टाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्न प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकप्रत्यक्ष सामग्रीविरहविशिष्टं प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमिति कार्य्यकारणभावशरीरे निष्पन्नेऽन्यादृशाकाङ्क्षाज्ञाने अन्यादृशाकाङ्क्षाज्ञानाधीनशाब्देच्छायाः सत्त्वेऽपि प्रतिबन्धिकायां समानविषयकप्रत्यक्षसामग्रयां सत्यां न बोधः । अन्यतमत्वेन प्रवेशे तु अन्यतमाकाङ्क्षाज्ञानमन्यतमाकाङ्क्षाज्ञानाधीनशाब्देच्छाविरहविशिष्टसमानविषयकप्रत्यक्ष सामग्रीविरहविशिष्टमभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्दबोधं प्रति